diff --git "a/DharmicData/Mahabharata/Chapters/MBH1.txt" "b/DharmicData/Mahabharata/Chapters/MBH1.txt" new file mode 100644--- /dev/null +++ "b/DharmicData/Mahabharata/Chapters/MBH1.txt" @@ -0,0 +1,8279 @@ +नारायणं नमस्कृत्य नरं चैव नरोत्तमम् +देवीं सरस्वतीं चैव ततो जयमुदीरयेत् +लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे +समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् +विनयावनतो भूत्वा कदाचित्सूतनन्दनः +तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः +चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः +अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः +अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः +अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु +निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः +सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च +अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः +कुत आगम्यते सौते क्व चायं विहृतस्त्वया +कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम +सूत उवाच +जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः +समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च +कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः +कथिताश्चापि विधिवद्या वैशंपायनेन वै +श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः +बहूनि संपरिक्रम्य तीर्थान्यायतनानि च +समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् +गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा +पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् +दिदृक्षुरागतस्तस्मात्समीपं भवतामिह +आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः +अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः +कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः +भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः +पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः +इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् +ऋषय ऊचुः +द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा +सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् +तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः +सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च +भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् +संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् +जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् +यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया +वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः +संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् +सूत उवाच +आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् +ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् +असच्च सच्चैव च यद्विश्वं सदसतः परम् +परावराणां स्रष्टारं पुराणं परमव्ययम् +मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् +नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् +महर्षेः पूजितस्येह सर्वलोके महात्मनः +प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः +आचख्युः कवयः केचित्संप्रत्याचक्षते परे +आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि +इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् +विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः +अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः +छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् +निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते +बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् +युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते +यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् +अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् +अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् +यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः +ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ +प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये +ततः प्रजानां पतयः प्राभवन्नेकविंशतिः +पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः +विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि +यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा +ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः +राजर्षयश्च बहवः सर्वैः समुदिता गुणैः +आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा +संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् +यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् +यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् +पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये +यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये +दृश्यन्ते तानि तान्येव तथा भावा युगादिषु +एवमेतदनाद्यन्तं भूतसंहारकारकम् +अनादिनिधनं लोके चक्रं संपरिवर्तते +त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च +त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा +दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः +सविता च ऋचीकोऽर्को भानुराशावहो रविः +पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः +देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः +सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः +दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् +दश पुत्रसहस्राणि दशज्योतेर्महात्मनः +ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः +भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः +तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च +ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः +संभूता बहवो वंशा भूतसर्गाः सविस्तराः +भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् +वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च +धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च +लोकयात्राविधानं च संभूतं दृष्टवानृषिः +इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च +इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् +विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् +इष्टं हि विदुषां लोके समासव्यासधारणम् +मन्वादि भारतं केचिदास्तीकादि तथापरे +तथोपरिचराद्यन्ये विप्राः सम्यगधीयते +विविधं संहिताज्ञानं दीपयन्ति मनीषिणः +व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे +तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् +इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः +पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः +मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः +क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा +त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् +उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च +जगाम तपसे धीमान्पुनरेवाश्रमं प्रति +तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् +अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः +जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः +शशास शिष्यमासीनं वैशंपायनमन्तिके +स सदस्यैः सहासीनः श्रावयामास भारतम् +कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः +विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् +क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् +वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् +दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः +चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् +उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः +ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः +अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् +इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् +ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः +नारदोऽश्रावयद्देवानसितो देवलः पितॄन् +गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः +दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः +दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी +युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः +माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च +पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च +अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा +मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् +जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः +मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति +धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः +तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः +मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च +ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् +शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः +पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः +पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः +तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा +शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् +आहुः केचिन्न तस्यैते तस्यैत इति चापरे +यदा चिरमृतः पाण्डुः कथं तस्येति चापरे +स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् +उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः +तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् +अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् +पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः +आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् +तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः +शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः +तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च +न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः +युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् +धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च +गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च +तुतोष लोकः सकलस्तेषां शौर्यगुणेन च +समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् +प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् +ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् +आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् +स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् +आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् +अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः +युधिष्ठिरेण सं���्राप्तो राजसूयो महाक्रतुः +सुनयाद्वासुदेवस्य भीमार्जुनबलेन च +घातयित्वा जरासंधं चैद्यं च बलगर्वितम् +दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः +मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च +समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् +ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत +विमानप्रतिमां चापि मयेन सुकृतां सभाम् +पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत +यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् +प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् +स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च +कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः +अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः +तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् +नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत +द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत +निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् +विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् +जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् +दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा +धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् +शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि +श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः +न विग्रहे मम मतिर्न च प्रीये कुरुक्षये +न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च +वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः +अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् +मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् +राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः +तच्चावहसनं प्राप्य सभारोहणदर्शने +अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे +निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा +गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् +तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु +श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः +ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत +यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् +कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन +इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय +यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन +अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय +यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् +अन्वागतं भ्रातृभिरप्रमेयै;स्तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् +रजस्वलां नाथवतीमनाथव;त्तदा नाशंसे विजयाय संजय +यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय +ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय +यदाश्रौषं स्नातकानां सहस्रै;रन्वागतं धर्मराजं वनस्थम् +भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय +यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे +अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय +यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् +अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय +यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् +तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय संजय +यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन +स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय +यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत +प्रश्नानुक्तान्विब्रुवन्तं च सम्य;क्तदा नाशंसे विजयाय संजय +यदाश्रौषं मामकानां वरिष्ठा;न्धनंजयेनैकरथेन भग्नान् +विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय +यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय +तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय संजय +यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य +अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय +यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य +अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय +यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् +यस्येमां गां विक्रममेकमाहु;स्तदा नाशंसे विजयाय संजय +यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य +तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय +यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् +आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय +यदाश्रौषं मन्त्रिणं वास���देवं; तथा भीष्मं शांतनवं च तेषाम् +भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय +यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति +हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय संजय +यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् +त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय +यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै +कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय +यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् +नैषां कश्चिद्वध्यते दृश्यरूप;स्तदा नाशंसे विजयाय संजय +यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् +शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय +यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः +भीष्मं कृत्वा सोमकानल्पशेषां;स्तदा नाशंसे विजयाय संजय +यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन +भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय +यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय +नित्यं चास्माञ्श्वापदा व्याभषन्त;स्तदा नाशंसे विजयाय संजय +यदा द्रोणो विविधानस्त्रमार्गा;न्विदर्शयन्समरे चित्रयोधी +न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय संजय +यदाश्रौषं चास्मदीयान्महारथा;न्व्यवस्थितानर्जुनस्यान्तकाय +संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय संजय +यदाश्रौषं व्यूहमभेद्यमन्यै;र्भारद्वाजेनात्तशस्त्रेण गुप्तम् +भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय संजय +यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः +महारथाः पार्थमशक्नुवन्त;स्तदा नाशंसे विजयाय संजय +यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् +क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय +यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन +सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय +यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान्पाययित्वोपवृत्तान् +पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय +यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन +सर्वान्योधान्वारित��नर्जुनेन; तदा नाशंसे विजयाय संजय +यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य +यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय +यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः +धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय +यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः +अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय +यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन +घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय +यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् +यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् +रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये +समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय +यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् +नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय संजय +यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् +तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् +युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय संजय +यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत +सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय +यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन +हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय +यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः +दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय +यदाश्रौषं पाण्डवांस्तिष्ठमाना;न्गङ्गाह्रदे वासुदेवेन सार्धम् +अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय +यदाश्रौषं विविधांस्तात मार्गा;न्गदायुद्धे मण्डलं संचरन्तम् +मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रोणपुत्रादिभिस्तै;र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् +कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय संजय +यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्���ं प्रयुक्तम् +क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय संजय +यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् +अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय +यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे +द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप +शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च +कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः +कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त +द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् +तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् +संज्ञां नोपलभे सूत मनो विह्वलतीव मे +इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः +मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् +संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् +स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे +तं तथावादिनं दीनं विलपन्तं महीपतिम् +गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् +श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् +द्वैपायनस्य वदतो नारदस्य च धीमतः +महत्सु राजवंशेषु गुणैः समुदितेषु च +जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः +धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः +अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः +वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् +सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् +बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् +विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् +मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च +रामं दाशरथिं चैव शशबिन्दुं भगीरथम् +ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् +चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा +इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा +पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः +तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः +महारथा महात्मानः सर्वैः समुदिता गुणैः +पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः +अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः +विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः +उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः +दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः +अजेयः परशुः पुण्ड्रः शंभुर्दे���ावृधोऽनघः +देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः +महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः +सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः +जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः +बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः +धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः +अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः +महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः +एते चान्ये च बहवः शतशोऽथ सहस्रशः +श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः +हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः +राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः +येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च +माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् +विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः +सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः +तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना +लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि +श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः +येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत +निग्रहानुग्रहौ चापि विदितौ ते नराधिप +नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे +भवितव्यं तथा तच्च नातः शोचितुमर्हसि +दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति +विधातृविहितं मार्गं न कश्चिदतिवर्तते +कालमूलमिदं सर्वं भावाभावौ सुखासुखे +कालः पचति भूतानि कालः संहरति प्रजाः +निर्दहन्तं प्रजाः कालं कालः शमयते पुनः +कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् +कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः +कालः सर्वेषु भूतेषु चरत्यविधृतः समः +अतीतानागता भावा ये च वर्तन्ति सांप्रतम् +तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि +सूत उवाच +अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् +भारताध्ययनात्पुण्यादपि पादमधीयतः +श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः +देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा +कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः +भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः +स हि सत्यमृतं चैव पवित्रं पुण्यमेव च +शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् +यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः +असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते +संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः +अध्���ात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् +अव्यक्तादि परं यच्च स एव परिगीयते +यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः +प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् +श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः +आसेवन्निममध्यायं नरः पापात्प्रमुच्यते +अनुक्रमणिमध्यायं भारतस्येममादितः +आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति +उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् +अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् +भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च +नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा +ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् +यथैतानि वरिष्ठानि तथा भारतमुच्यते +यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः +अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति +इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् +बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति +कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते +भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः +य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि +अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः +यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः +स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः +चत्वार एकतो वेदा भारतं चैकमेकतः +समागतैः सुरर्षिभिस्तुलामारोपितं पुरा +महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् +महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते +निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते +तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः +प्रसह्य वित्ताहरणं न कल्क;स्तान्येव भावोपहतानि कल्कः +ऋषय ऊचुः +समन्तपञ्चकमिति यदुक्तं सूतनन्दन +एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् +सूत उवाच +शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः +समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः +त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः +असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः +स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः +समन्तपञ्चके पञ्च चकार रुधिरह्रदान् +स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः +पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् +अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् +तं क्षमस्वेति सिषिधुस्ततः स विरराम ह +तेषां समीपे यो देशो ह्रदानां रुधि��ाम्भसाम् +समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् +येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते +तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः +अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् +समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः +तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते +अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया +एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः +पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः +तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः +यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः +ऋषय ऊचुः +अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन +एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् +अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् +यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव +सूत उवाच +एको रथो गजश्चैको नराः पञ्च पदातयः +त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते +पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः +त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते +त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः +स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः +चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी +अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः +अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः +संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः +शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः +गजानां तु परीमाणमेतदेवात्र निर्दिशेत् +ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव +नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः +पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च +दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया +एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः +यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः +एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः +अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः +समेतास्तत्र वै देशे तत्रैव निधनं गताः +कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा +अहानि युयुधे भीष्मो दशैव परमास्त्रवित् +अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् +अहनी युयुधे द्वे तु कर्णः परबलार्दनः +शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् +तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः +प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् +यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् +आख्यास्ये तत्र पौलो���माख्यानं चादितः परम् +विचित्रार्थपदाख्यानमनेकसमयान्वितम् +अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः +आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् +इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् +इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा +स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् +अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः +भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः +पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः +पौष्यं पौलोममास्तीकमादिवंशावतारणम् +ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम् +दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते +ततो बकवधः पर्व पर्व चैत्ररथं ततः +ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते +क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् +विदुरागमनं पर्व राज्यलम्भस्तथैव च +अर्जुनस्य वने वासः सुभद्राहरणं ततः +सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् +ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् +सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् +जरासंधवधः पर्व पर्व दिग्विजयस्तथा +पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते +ततश्चार्घाभिहरणं शिशुपालवधस्ततः +द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् +तत आरण्यकं पर्व किर्मीरवध एव च +ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् +इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् +तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः +जटासुरवधः पर्व यक्षयुद्धमतः परम् +तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् +मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् +संवादश्च ततः पर्व द्रौपदीसत्यभामयोः +घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः +व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते +द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः +कुण्डलाहरणं पर्व ततः परमिहोच्यते +आरणेयं ततः पर्व वैराटं तदनन्तरम् +कीचकानां वधः पर्व पर्व गोग्रहणं ततः +अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् +उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् +ततः संजययानाख्यं पर्व ज्ञेयमतः परम् +प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया +पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् +यानसंधिस्ततः पर्व भगवद्यानमेव च +ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः +निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः +रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् +उलू���दूतागमनं पर्वामर्षविवर्धनम् +अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् +भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् +जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् +भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् +पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः +द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः +अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते +जयद्रथवधः पर्व घटोत्कचवधस्ततः +ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् +मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते +कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् +ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् +सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् +अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते +ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् +जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् +श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् +आभिषेचनिकं पर्व धर्मराजस्य धीमतः +चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः +प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् +शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् +आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् +ततः पर्व परिज्ञेयमानुशासनिकं परम् +स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः +ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् +अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् +पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च +नारदागमनं पर्व ततः परमिहोच्यते +मौसलं पर्व च ततो घोरं समनुवर्ण्यते +महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः +हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् +भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् +एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना +यथावत्सूतपुत्रेण लोमहर्षणिना पुनः +कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु +समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः +पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् +पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः +आस्तीके सर्वनागानां गरुडस्य च संभवः +क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा +यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च +कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् +विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि +अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च +अंशावतरणं चात्र देवानां परिकीर्तितम् +दैत्यानां दानवानां च यक्षाणां च महौजसाम् +नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् +अन्येषां चैव भूतानां विविधानां समुद्भवः +वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् +शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि +तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः +राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः +प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च +हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः +विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् +धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा +कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा +धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः +वारणावतयात्रा च मन्त्रो दुर्योधनस्य च +विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया +पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् +घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता +अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि +बकस्य निधनं चैव नागराणां च विस्मयः +अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा +भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ +तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् +पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते +पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च +द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः +विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च +खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् +नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया +सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् +पार्थस्य वनवासश्च उलूप्या पथि संगमः +पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च +द्वारकायां सुभद्रा च कामयानेन कामिनी +वासुदेवस्यानुमते प्राप्ता चैव किरीटिना +हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने +संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् +अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः +मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् +महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः +इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् +अध्यायानां शते द्वे तु संख्याते परमर्षिणा +अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा +सप्त श्लोकसहस्राणि तथा नव शतानि च +श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना +द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते +सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् +लोकपालसभाख्यानं नारदाद्देवदर्शनात् +राजसूयस्य चारम्भ�� जरासंधवधस्तथा +गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् +राजसूयेऽर्घसंवादे शिशुपालवधस्तथा +यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च +दुर्योधनस्यावहासो भीमेन च सभातले +यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् +यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् +यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् +तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः +पुनरेव ततो द्यूते समाह्वयत पाण्डवान् +एतत्सर्वं सभापर्व समाख्यातं महात्मना +अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया +श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च +श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः +अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् +पौरानुगमनं चैव धर्मपुत्रस्य धीमतः +वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः +यत्र सौभवधाख्यानं किर्मीरवध एव च +अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः +महादेवेन युद्धं च किरातवपुषा सह +दर्शनं लोकपालानां स्वर्गारोहणमेव च +दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः +युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् +नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् +दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे +वनवासगतानां च पाण्डवानां महात्मनाम् +स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै +तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् +जटासुरस्य तत्रैव वधः समुपवर्ण्यते +नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने +यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् +यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः +यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा +आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् +लोपामुद्राभिगमनमपत्यार्थमृषेरपि +ततः श्येनकपोतीयमुपाख्यानमनन्तरम् +इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् +ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः +जामदग्न्यस्य रामस्य चरितं भूरितेजसः +कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते +सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः +शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ +ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः +जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः +पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः +अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् +विजित्य सागरं प्राप्��ं पितरं लब्धवानृषिः +अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना +निवातकवचैर्युद्धं हिरण्यपुरवासिभिः +समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने +घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः +पुनरागमनं चैव तेषां द्वैतवनं सरः +जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् +यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे +मार्कण्डेयसमस्यायामुपाख्यानानि भागशः +संदर्शनं च कृष्णस्य संवादश्चैव सत्यया +व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च +सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च +रामायणमुपाख्यानमत्रैव बहुविस्तरम् +कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् +आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् +जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् +एतदारण्यकं पर्व तृतीयं परिकीर्तितम् +अत्राध्यायशते द्वे तु संख्याते परमर्षिणा +एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः +एकादश सहस्राणि श्लोकानां षट्शतानि च +चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् +अतः परं निबोधेदं वैराटं पर्वविस्तरम् +विराटनगरं गत्वा श्मशाने विपुलां शमीम् +दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत +यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते +दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् +गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि +गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः +विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः +अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् +चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् +अत्रापि परिसंख्यातमध्यायानां महात्मना +सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु +श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु +पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा +उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् +उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया +दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ +साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति +इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः +अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ +अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् +वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः +अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः +संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति +यत्र दूतं महाराजो धृतराष्ट्रः प्���तापवान् +श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् +प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया +विदुरो यत्र वाक्यानि विचित्राणि हितानि च +श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् +तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् +मनस्तापान्वितो राजा श्रावितः शोकलालसः +प्रभाते राजसमितौ संजयो यत्र चाभिभोः +ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च +यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः +स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् +प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै +शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् +कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् +योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् +रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः +उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः +ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् +नगराद्धास्तिनपुराद्बलसंख्यानमेव च +यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति +श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना +रथातिरथसंख्यानमम्बोपाख्यानमेव च +एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते +उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् +अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् +श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च +श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना +व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः +अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते +जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह +यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् +यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् +कश्मलं यत्र पार्थस्य वासुदेवो महामतिः +मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः +शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः +विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् +षष्ठमेतन्महापर्व भारते परिकीर्तितम् +अध्यायानां शतं प्रोक्तं सप्तदश तथापरे +पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च +श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः +व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि +द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते +यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् +भगदत्तो महाराजो यत्र शक्रसमो युधि +सुप्रतीकेन नागेन सह शस्तः किरीटिना +यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः +जयद्रथमुखा बालं शूरमप्राप्तयौवनम् +हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे +अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः +संशप्तकावशेषं च कृतं निःशेषमाहवे +अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान् +सौमदत्तिर्विराटश्च द्रुपदश्च महारथः +घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि +अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते +अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः +सप्तमं भारते पर्व महदेतदुदाहृतम् +अत्र ते पृथिवीपालाः प्रायशो निधनं गताः +द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः +अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा +अष्टौ श्लोकसहस्राणि तथा नव शतानि च +श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना +पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि +अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् +सारथ्ये विनियोगश्च मद्रराजस्य धीमतः +आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् +प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः +हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् +अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः +द्वैरथे यत्र पार्थेन हतः कर्णो महारथः +अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः +एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि +चत्वार्येव सहस्राणि नव श्लोकशतानि च +अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् +हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् +वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः +विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते +शल्यस्य निधनं चात्र धर्मराजान्महारथात् +गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् +सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता +नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् +एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः +संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते +त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा +मुनिना संप्रणीतानि कौरवाणां यशोभृताम् +अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् +भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् +व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः +कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः +प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः +अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् +पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् +प्रसु���्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः +पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः +यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् +सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः +द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता +कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् +द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः +अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् +भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः +अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् +मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः +यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः +द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः +तोयकर्मणि सर्वेषां राज्ञामुदकदानिके +गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः +सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् +अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना +श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च +श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया +सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना +अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् +विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः +क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः +यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः +पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे +यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः +राज्ञां तानि शरीराणि दाहयामास शास्त्रतः +एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् +सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः +श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते +संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना +प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् +अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् +यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः +घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान् +शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः +राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः +आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः +यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् +मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः +द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् +पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् +त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः +श्लोकानां तु ��हस्राणि कीर्तितानि चतुर्दश +पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया +अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् +यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् +भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः +व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः +विविधानां च दानानां फलयोगाः पृथग्विधाः +तथा पात्रविशेषाश्च दानानां च परो विधिः +आचारविधियोगश्च सत्यस्य च परा गतिः +एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् +भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता +एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् +अध्यायानां शतं चात्र षट्चत्वारिंशदेव च +श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च +ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् +तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् +सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः +दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः +चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः +तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः +चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः +संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः +अश्वमेधे महायज्ञे नकुलाख्यानमेव च +इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् +अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः +त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च +विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना +तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् +यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः +धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह +यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा +पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता +यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् +लोकान्तरगतान्वीरानपश्यत्पुनरागतान् +ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् +त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः +यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः +संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी +ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः +नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् +एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् +द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया +सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च +षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना +अतः परं नि��ोधेदं मौसलं पर्व दारुणम् +यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि +ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः +आपाने पानगलिता दैवेनाभिप्रचोदिताः +एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् +यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ +नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् +यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् +दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः +स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः +ददर्श यदुवीराणामापाने वैशसं महत् +शरीरं वासुदेवस्य रामस्य च महात्मनः +संस्कारं लम्भयामास वृष्णीनां च प्रधानतः +स वृद्धबालमादाय द्वारवत्यास्ततो जनम् +ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् +सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् +नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् +दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः +धर्मराजं समासाद्य संन्यासं समरोचयेत् +इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् +अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् +महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् +यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः +द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः +अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा +विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना +स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् +अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया +श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः +अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः +खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् +एतदखिलमाख्यातं भारतं पर्वसंग्रहात् +अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया +तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् +यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः +न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः +श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते +पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव +इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः +पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः +अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः +अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः +क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः +इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः +अनाश्रित्यैतदाख्यान��� कथा भुवि न विद्यते +आहारमनपाश्रित्य शरीरस्येव धारणम् +इदं सर्वैः कविवरैराख्यानमुपजीव्यते +उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः +द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च +यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन +आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेण +श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन +सूत उवाच +जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते +तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति +तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः +स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् +तं माता रोरूयमाणमुवाच +किं रोदिषि +केनास्यभिहत इति +स एवमुक्तो मातरं प्रत्युवाच +जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति +तं माता प्रत्युवाच +व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति +स तां पुनरुवाच +नापराध्यामि किंचित् +नावेक्षे हवींषि नावलिह इति +तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते +स तया क्रुद्धया तत्रोक्तः +अयं मे पुत्रो न किंचिदपराध्यति +किमर्थमभिहत इति +यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति +स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत् +स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति +स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् +तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम +तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम +तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे +स नमस्कृत्य तमृषिमुवाच +भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति +स एवमुक्तः प्रत्युवाच +भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः +महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः +समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् +अस्य त्वेकमुपांशुव्रतम् +यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् +यद्य���तदुत्सहसे ततो नयस्वैनमिति +तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच +भगवंस्तथा भविष्यतीति +स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच +मयायं वृत उपाध्यायः +यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति +तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः +स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे +तं च देशं वशे स्थापयामास +एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः +तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति +स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास +गच्छ केदारखण्डं बधानेति +स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् +स क्लिश्यमानोऽपश्यदुपायम् +भवत्वेवं करिष्यामीति +स तत्र संविवेश केदारखण्डे +शयाने तस्मिंस्तदुदकं तस्थौ +ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् +क्व आरुणिः पाञ्चाल्यो गत इति +ते प्रत्यूचुः +भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति +स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच +तस्मात्सर्वे तत्र गच्छामो यत्र स इति +स तत्र गत्वा तस्याह्वानाय शब्दं चकार +भो आरुणे पाञ्चाल्य क्वासि +वत्सैहीति +स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे +प्रोवाच चैनम् +अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः +तदभिवादये भगवन्तम् +आज्ञापयतु भवान् +किं करवाणीति +तमुपाध्यायोऽब्रवीत् +यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति +स उपाध्यायेनानुगृहीतः +यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति +सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति +स एवमुक्त उपाध्यायेनेष्टं देशं जगाम +अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम +तमुपाध्यायः प्रेषयामास +वत्सोपमन्यो गा रक्षस्वेति +स उपाध्यायवचनादरक्षद्गाः +स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे +तमुपाध्यायः पीवानमपश्यत् +उवाच चैनम् +वत्सोपमन्यो केन वृत्तिं कल्पयसि +पीवानसि दृढमिति +स उपाध्यायं प्रत्युवाच +भैक्षेण वृत्तिं कल्पयामीति +तमुपाध्यायः प्रत्युवाच +ममानिवेद्य भैक्षं नोपयोक्तव्यमिति +स तथेत्युक्त्वा पुनररक्षद्गाः +रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे +तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच +वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि +केनेदानीं वृत्तिं कल्पयसीति +स एवमुक्त उपाध्यायेन प्रत्युवाच +भगवते निवेद्य पूर्वमपरं चरामि +तेन वृत्तिं कल्पयामीति +तमुपाध्यायः प्रत्युवाच +नैषा न्याय्या गुरुवृत्तिः +अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः +लुब्धोऽसीति +स तथेत्युक्त्वा गा अरक्षत् +रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे +तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच +अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि +पीवानसि +केन वृत्तिं कल्पयसीति +स उपाध्यायं प्रत्युवाच +भो एतासां गवां पयसा वृत्तिं कल्पयामीति +तमुपाध्यायः प्रत्युवाच +नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति +स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे +तमुपाध्यायः पीवानमेवापश्यत् +उवाच चैनम् +भैक्षं नाश्नासि न चान्यच्चरसि +पयो न पिबसि +पीवानसि +केन वृत्तिं कल्पयसीति +स एवमुक्त उपाध्यायं प्रत्युवाच +भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति +तमुपाध्यायः प्रत्युवाच +एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति +तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः +फेनमपि भवान्न पातुमर्हतीति +स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् +तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति +पयो न पिबति +फेनं नोपयुङ्क्ते +स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् +स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् +सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् +अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् +मयोपमन्युः सर्वतः प्रतिषिद्धः +स नियतं कुपितः +ततो नागच्छति चिरगतश्चेति +स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे +भो उपमन्यो क्वासि +वत्सैहीति +स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः +अयमस्मि भो उपाध्याय कूपे पतित इति +तमुपाध्यायः प्रत्युवाच +कथमसि कूपे पतित इति +स तं प्रत्यु��ाच +अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि +अतः कूपे पतित इति +तमुपाध्यायः प्रत्युवाच +अश्विनौ स्तुहि +तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति +स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः +प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ +दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा +हिरण्मयौ शकुनी सांपरायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ +शुक्रं वयन्तौ तरसा सुवेमा;वभि व्ययन्तावसितं विवस्वत् +ग्रस्तां सुपर्णस्य बलेन वर्तिका;ममुञ्चतामश्विनौ सौभगाय +तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् +षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति +नानागोष्ठा विहिता एकदोहना;स्तावश्विनौ दुहतो घर्ममुक्थ्यम् +एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः +अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी +एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिमेकाक्षममृतस्य धारणम् +यस्मिन्देवा अधि विश्वे विषक्ता;स्तावश्विनौ मुञ्चतो मा विषीदतम् +अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी +भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य +युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति +तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति +युवां वर्णान्विकुरुथो विश्वरूपां;स्तेऽधिक्षियन्ति भुवनानि विश्वा +ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति +तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य +तौ नासत्यावमृतावृतावृधा;वृते देवास्तत्प्रपदेन सूते +मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते +सद्यो जातो मातरमत्ति गर्भ;स्तावश्विनौ मुञ्चथो जीवसे गाः +एवं तेनाभिष्टुतावश्विनावाजग्मतुः +आहतुश्चैनम् +प्रीतौ स्वः +एष तेऽपूपः +अशानैनमिति +स एवमुक्तः प्रत्युवाच +नानृतमूचतुर्भवन्तौ +न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति +ततस्तमश्विनावूचतुः +आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः +उपयुक्तश्च स तेनानिवेद्य गुरवे +त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति +स एवमुक्तः पुनरेव प्रत्युवाचैतौ +प्र���्यनुनये भवन्तावश्विनौ +नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति +तमश्विनावाहतुः +प्रीतौ स्वस्तवानया गुरुवृत्त्या +उपाध्यायस्य ते कार्ष्णायसा दन्ताः +भवतो हिरण्मया भविष्यन्ति +चक्षुष्मांश्च भविष्यसि +श्रेयश्चावाप्स्यसीति +स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे +स चास्य प्रीतिमानभूत् +आह चैनम् +यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति +सर्वे च ते वेदाः प्रतिभास्यन्तीति +एषा तस्यापि परीक्षोपमन्योः +अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम +तमुपाध्यायः संदिदेश +वत्स वेद इहास्यताम् +भवता मद्गृहे कंचित्कालं शुश्रूषमाणेन भवितव्यम् +श्रेयस्ते भविष्यतीति +स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् +गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः +तस्य महता कालेन गुरुः परितोषं जगाम +तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप +एषा तस्यापि परीक्षा वेदस्य +स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत +तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः +स शिष्यान्न किंचिदुवाच +कर्म वा क्रियतां गुरुशुश्रूषा वेति +दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष +अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः +स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास +भो उत्तङ्क यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति +स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम +अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म +स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः +उपाध्यायिनी ते ऋतुमती +उपाध्यायश्च प्रोषितः +अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् +एतद्विषीदतीति +स एवमुक्तस्ताः स्त्रियः प्रत्युवाच +न मया स्त्रीणां वचनादिदमकार्यं कार्यम् +न ह्यहमुपाध्यायेन संदिष्टः +अकार्यमपि त्वया कार्यमिति +तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् +स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् +उवाच चैनम् +वत्सोत��तङ्क किं ते प्रियं करवाणीति +धर्मतो हि शुश्रूषितोऽस्मि भवता +तेन प्रीतिः परस्परेण नौ संवृद्धा +तदनुजाने भवन्तम् +सर्वामेव सिद्धिं प्राप्स्यसि +गम्यतामिति +स एवमुक्तः प्रत्युवाच +किं ते प्रियं करवाणीति +एवं ह्याहुः +यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति +तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति +सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति +तेनैवमुक्त उपाध्यायः प्रत्युवाच +वत्सोत्तङ्क उष्यतां तावदिति +स कदाचित्तमुपाध्यायमाहोत्तङ्कः +आज्ञापयतु भवान् +किं ते प्रियमुपहरामि गुर्वर्थमिति +तमुपाध्यायः प्रत्युवाच +वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति +तद्गच्छ +एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति +एषा यद्ब्रवीति तदुपहरस्वेति +स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् +भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् +तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् +तदाज्ञापयतु भवती +किमुपहरामि गुर्वर्थमिति +सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच +गच्छ पौष्यं राजानम् +भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले +ते आनयस्व +इतश्चतुर्थेऽहनि पुण्यकं भविता +ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि +शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि संपादयस्व +श्रेयो हि ते स्यात्क्षणं कुर्वत इति +स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः +स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव +स पुरुष उत्तङ्कमभ्यभाषत +उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति +स एवमुक्तो नैच्छत् +तमाह पुरुषो भूयः +भक्षयस्वोत्तङ्क +मा विचारय +उपाध्यायेनापि ते भक्षितं पूर्वमिति +स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः +तमुपेत्यापश्यदुत्तङ्क आसीनम् +स तमुपेत्याशीर्भिरभिनन्द्योवाच +अर्थी भवन्तमुपगतोऽस्मीति +स एनमभिवाद्योवाच +भगवन्पौष्यः खल्वहम् +किं करवाणीति +तमुवाचोत्तङ्कः +गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति +तं पौष्यः प्रत्युवाच +प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति +स तेनैवमुक्तः प्रविश्यान्तःपुरं ���्षत्रियां नापश्यत् +स पौष्यं पुनरुवाच +न युक्तं भवता वयमनृतेनोपचरितुम् +न हि ते क्षत्रियान्तःपुरे संनिहिता +नैनां पश्यामीति +स एवमुक्तः पौष्यस्तं प्रत्युवाच +संप्रति भवानुच्छिष्टः +स्मर तावत् +न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् +पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति +अथैवमुक्त उत्तङ्कः स्मृत्वोवाच +अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति +तं पौष्यः प्रत्युवाच +एतत्तदेवं हि +न गच्छतोपस्पृष्टं भवति न स्थितेनेति +अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयंगमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् +सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच +स्वागतं ते भगवन् +आज्ञापय किं करवाणीति +स तामुवाच +एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति +सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् +आह चैनम् +एते कुण्डले तक्षको नागराजः प्रार्थयति +अप्रमत्तो नेतुमर्हसीति +स एवमुक्तस्तां क्षत्रियां प्रत्युवाच +भवति सुनिर्वृता भव +न मां शक्तस्तक्षको नागराजो धर्षयितुमिति +स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् +स तं दृष्ट्वोवाच +भोः पौष्य प्रीतोऽस्मीति +तं पौष्यः प्रत्युवाच +भगवंश्चिरस्य पात्रमासाद्यते +भवांश्च गुणवानतिथिः +तत्करिष्ये श्राद्धम् +क्षणः क्रियतामिति +तमुत्तङ्कः प्रत्युवाच +कृतक्षण एवास्मि +शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति +स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास +अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच +यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति +तं पौष्यः प्रत्युवाच +यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति +सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास +अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास +भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च +तत्क्षामये भवन्तम् +न भवेयमन्ध इति +तमुत्तङ्कः प्रत्युवाच +न मृषा ब्रवीमि +भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति +ममापि शापो न भवेद्भवता दत्त इति +तं पौष्यः प्रत्युवाच +नाहं शक्तः शापं प्रत्यादातुम् +न हि मे मन्युरद्याप्युपशमं गच्छति +किं चैतद्भवता न ज्ञायते यथा +नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः +विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् +इति +तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् +गम्यतामिति +तमुत्तङ्कः प्रत्युवाच +भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः +प्राक्च तेऽभिहितम् +यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति +दुष्टे चान्ने नैष मम शापो भविष्यतीति +साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा +सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च +अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे +एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् +तमुत्तङ्कोऽभिसृत्य जग्राह +स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश +प्रविश्य च नागलोकं स्वभवनमगच्छत् +तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन +प्रविश्य च नागानस्तुवदेभिः श्लोकैः +य ऐरावतराजानः सर्पाः समितिशोभनाः +वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः +सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः +आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः +बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे +इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना +शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः +सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति +ये चैनमुपसर्पन्ति ये च दूरं परं गताः +अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः +यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा +तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् +तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ +कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु +जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः +अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् +करवाणि सदा चाहं नमस्तस्मै महात्मने +एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ +तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः +चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् +पुरुषं चापश्यद्दर्शनीयम् +स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः +त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् +चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति +तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ +कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव +वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता +कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके +यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः +नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय +ततः स एनं पुरुषः प्राह +प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण +किं ते प्रियं करवाणीति +स तमुवाच +नागा मे वशमीयुरिति +स एनं पुरुषः पुनरुवाच +एतमश्वमपाने धमस्वेति +स तमश्वमपानेऽधमत् +अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः +ताभिर्नागलोको धूपितः +अथ ससंभ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच +एते कुण्डले प्रतिगृह्णातु भवानिति +स ते प्रतिजग्राहोत्तङ्कः +कुण्डले प्रतिगृह्याचिन्तयत् +अद्य तत्पुण्यकमुपाध्यायिन्याः +दूरं चाहमभ्यागतः +कथं नु खलु संभावयेयमिति +तत एनं चिन्तयानमेव स पुरुष उवाच +उत्तङ्क एनमश्वमधिरोह +एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति +स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् +उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे +अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् +ते चास्यै कुण्डले प्रायच्छत् +सा चैनं प्रत्युवाच +उत्तङ्क देशे कालेऽभ्यागतः +स्वागतं ते वत्स +मनागसि मया न शप्तः +श्रेयस्तवोपस्थितम् +सिद्धिमाप्नुहीति +अथोत्तङ्क उपाध्यायमभ्यवादयत् +तमुपाध्यायः प्रत्युवाच +वत्सोत्तङ्क स्वागतं ते +किं चिरं कृतमिति +तमुत्तङ्क उपाध्यायं प्रत्युवाच +भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि +तेनास्मि नागलोकं नीतः +तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ +तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः +किं तत् +तत्र च मया चक्रं दृष्टं द्वादशारम् +षट्चैनं कुमाराः परिवर्तयन्ति +तदपि किम् +पुरुषश्चापि मया दृष्���ः +स पुनः कः +अश्वश्चातिप्रमाणयुक्तः +स चापि कः +पथि गच्छता मया ऋषभो दृष्टः +तं च पुरुषोऽधिरूढः +तेनास्मि सोपचारमुक्तः +उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय +उपाध्यायेनापि ते भक्षितमिति +ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् +तदिच्छामि भवतोपदिष्टं किं तदिति +तेनैवमुक्त उपाध्यायः प्रत्युवाच +ये ते स्त्रियौ धाता विधाता च +ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी +यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् +यः पुरुषः स पर्जन्यः +योऽश्वः सोऽग्निः +य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः +यश्चैनमधिरूढः स इन्द्रः +यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् +तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने +स चापि मम सखा इन्द्रः +तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि +तत्सौम्य गम्यताम् +अनुजाने भवन्तम् +श्रेयोऽवाप्स्यसीति +स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे +स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः +समागच्छत राजानमुत्तङ्को जनमेजयम् +पुरा तक्षशिलातस्तं निवृत्तमपराजितम् +सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् +तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः +उवाचैनं वचः काले शब्दसंपन्नया गिरा +अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम +बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम +एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह +जनमेजयः प्रसन्नात्मा सम्यक्संपूज्य तं मुनिम् +आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि +प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् +स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः +उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् +तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता +तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने +कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः +तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः +तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना +पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः +बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः +अकार्यं कृतवान्पापो योऽदशत्पितरं तव +राजर्षिवंशगोप्तारममरप्रतिमं नृपम् +जघान काश्यपं ���ैव न्यवर्तयत पापकृत् +दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने +सर्पसत्रे महाराज त्वयि तद्धि विधीयते +एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि +मम प्रियं च सुमहत्कृतं राजन्भविष्यति +कर्मणः पृथिवीपाल मम येन दुरात्मना +विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ +एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह +उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा +अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः +उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति +तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् +यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा +लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे +पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच +किं भवन्तः श्रोतुमिच्छन्ति +किमहं ब्रुवाणीति +तमृषय ऊचुः +परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् +तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते +योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः +मनुष्योरगगन्धर्वकथा वेद च सर्वशः +स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः +दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः +सत्यवादी शमपरस्तपस्वी नियतव्रतः +सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् +तस्मिन्नध्यासति गुरावासनं परमार्चितम् +ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः +सूत उवाच +एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि +तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः +सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् +देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह +यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः +यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः +ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः +उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् +शौनक उवाच +पुराणमखिलं तात पिता तेऽधीतवान्पुरा +कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे +पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् +कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव +तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् +कथयस्व कथामेतां कल्याः स्म श्रवणे तव +सूत उवाच +यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः +वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा +यदधीतं च पित्रा मे सम्यक्चैव ततो मया +तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः +पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन +इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने +निगदामि कथायुक्तं पुराणाश्रयसंयुतम् +भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः +च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः +प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत +रुरोरपि सुतो जज्ञे शुनको वेदपारगः +प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् +तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः +धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः +शौनक उवाच +सूतपुत्र यथा तस्य भार्गवस्य महात्मनः +च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः +सूत उवाच +भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता +तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः +तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह +समये समशीलिन्यां धर्मपत्न्यां यशस्विनः +अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे +आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह +तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् +हृच्छयेन समाविष्टो विचेताः समपद्यत +अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना +न्यमन्त्रयत वन्येन फलमूलादिना तदा +तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् +दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् +अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् +तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा +शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै +सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते +मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी +पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे +सेयं यदि वरारोहा भृगोर्भार्या रहोगता +तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् +मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति +मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् +तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् +शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत +त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा +साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः +मत्पूर्वभार्यापहृता भृगुणानृतकारिणा +सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि +श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् +जातवेदः पश्यतस्ते वद सत्यां गिरं मम +तस्य तद्वचनं श्रुत्वा सप्त��र्चिर्दुःखितो भृशम् +भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः +सूत उवाच +अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् +ब्रह्मन्वराहरूपेण मनोमारुतरंहसा +ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह +रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् +तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् +तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् +सा तमादाय सुश्रोणी ससार भृगुनन्दनम् +च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता +तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः +रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् +सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः +अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी +अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः +तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा +नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः +वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति +स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् +तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् +स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः +केनासि रक्षसे तस्मै कथितेह जिहीर्षवे +न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् +तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा +बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः +पुलोमोवाच +अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता +ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव +साहं तव सुतस्यास्य तेजसा परिमोक्षिता +भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै +सूत उवाच +इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् +शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि +सूत उवाच +शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् +किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम् +धर्मे प्रयतमानस्य सत्यं च वदतः समम् +पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम +पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् +स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् +यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते +सोऽपि तेनैव पापेन लिप्यते नात्र संशयः +शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम +जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् +योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु +अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च +वेदोक्तेन विधानेन मयि यद्धूयते हविः +देवताः पितरश्चैव तेन तृप्ता भवन्ति वै +आपो देवगणाः सर्वे आपः पितृगणास्तथा +दर्शश्च पौर्णमासश्च देवानां पितृभिः सह +देवताः पितरस्तस्मात्पितरश्चापि देवताः +एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु +देवताः पितरश्चैव जुह्वते मयि यत्सदा +त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः +अमावास्यां च पितरः पौर्णमास्यां च देवताः +मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः +सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् +चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः +द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च +निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः +विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः +अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः +अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः +विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा +अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु +अग्नेरावेदयञ्शापं क्रियासंहारमेव च +भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे +कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा +हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति +श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् +उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् +लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च +त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः +स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा +कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः +त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह +न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि +उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् +यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते +तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति +तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् +स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो +देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् +एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् +जगाम शासनं कर्तुं देवस्य परमेष्ठिनः +देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् +ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे +दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः +अग्निश्च परमां प्रीतिमवाप हतकल्मषः +एवमेष पुरावृत्त इतिहासोऽग्निशापजः +पुलोमस्य विनाशश्च च्यवनस्य च संभवः +सूत उवाच +स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् +सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् +प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् +रुरुः प्रमद्वरायां तु शुनकं समजीजनत् +तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः +विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः +ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः +स्थूलकेश इति ख्यातः सर्वभूतहिते रतः +एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् +गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः +अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन +उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति +उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह +कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया +तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः +स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् +स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः +जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च +ववृधे सा वरारोहा तस्याश्रमपदे शुभा +प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता +ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः +तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् +बभूव किल धर्मात्मा मदनानुगतात्मवान् +पितरं सखिभिः सोऽथ वाचयामास भार्गवः +प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् +ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् +विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते +ततः कतिपयाहस्य विवाहे समुपस्थिते +सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी +नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् +पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता +स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा +विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् +सा दष्टा सहसा भूमौ पतिता गतचेतना +व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः +प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता +भूयो मनोहरतरा बभूव तनुमध्यमा +ददर्श तां पिता चैव ते चैवान्ये तपस्विनः +विचेष्टमानां पतितां भूतले पद्मवर्चसम् +ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः +स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः +भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः +प्रमतिः सह पुत्रेण तथान्ये वनवासिनः +तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् +रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ +सूत उवाच +तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः +रुरुश्चुक���रोश गहनं वनं गत्वा सुदुःखितः +शोकेनाभिहतः सोऽथ विलपन्करुणं बहु +अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् +शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी +बान्धवानां च सर्वेषां किं नु दुःखमतः परम् +यदि दत्तं तपस्तप्तं गुरवो वा मया यदि +सम्यगाराधितास्तेन संजीवतु मम प्रिया +यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः +प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी +देवदूत उवाच +अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा +न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः +गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता +तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन +उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः +तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् +रुरुरुवाच +क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर +करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् +देवदूत उवाच +आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन +एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा +रुरुरुवाच +आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम +शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया +सूत उवाच +ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ +धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् +धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा +समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे +धर्मराज उवाच +प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि +उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता +सूत उवाच +एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा +रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी +एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः +आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति +तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा +विवाहं तौ च रेमाते परस्परहितैषिणौ +स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् +व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः +स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः +अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा +स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् +शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् +तत उद्यम्य दण्डं स कालदण्डोपमं तदा +अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः +नापराध्यामि ते किंचिदहमद्य तपोधन +संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः +रुरुरुवाच +मम प्राणसमा भार्या दष्टासीद्भुजगेन ह +तत्र मे समयो घोर आत्मनोरग वै कृतः +हन्यां सदैव भुजगं यं यं पश्येयमित्युत +ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे +डुण्डुभ उवाच +अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् +डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि +एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् +डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि +सूत उवाच +इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा +नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् +उवाच चैनं भगवान्रुरुः संशमयन्निव +कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः +डुण्डुभ उवाच +अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् +सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः +रुरुरुवाच +किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम +कियन्तं चैव कालं ते वपुरेतद्भविष्यति +डुण्डुभ उवाच +सखा बभूव मे पूर्वं खगमो नाम वै द्विजः +भृशं संशितवाक्तात तपोबलसमन्वितः +स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् +अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै +लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः +निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः +यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया +तथावीर्यो भुजंगस्त्वं मम कोपाद्भविष्यसि +तस्याहं तपसो वीर्यं जानमानस्तपोधन +भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् +प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः +सखेति हसतेदं ते नर्मार्थं वै कृतं मया +क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् +सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् +मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः +नानृतं वै मया प्रोक्तं भवितेदं कथंचन +यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत +श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन +उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः +तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव +स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः +स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् +अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः +तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् +ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः +वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः +अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् +ब्राह्मणस्य परो धर्मो वेदानां धरणादपि +क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव +दण्डधारणमुग्रत्वं प्रजानां परिपालनम् +तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो +जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा +परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि +तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् +आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम +रुरुरुवाच +कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः +सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम +किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे +आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः +ऋषिरुवाच +श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् +ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत +सूत उवाच +रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः +तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि +लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा +पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् +शौनक उवाच +किमर्थं राजशार्दूलः स राजा जनमेजयः +सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे +आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः +मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् +कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् +स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे +सूत उवाच +महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज +सर्वमेतदशेषेण शृणु मे वदतां वर +शौनक उवाच +श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् +आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः +सूत उवाच +इतिहासमिमं वृद्धाः पुराणं परिचक्षते +कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः +पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः +शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् +तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् +इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते +आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः +ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा +जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः +यायावराणां धर्मज्ञः प्रवरः संशितव्रतः +अटमानः कदाचित्स स्वान्ददर्श पितामहान् +लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् +तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् +के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः +वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते +मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना +पितर ऊचुः +यायावरा नाम वयमृषयः संशित��्रताः +संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् +अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः +मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः +न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति +तेन लम्बामहे गर्ते संतानप्रक्षयादिह +अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा +कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम +ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः +किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि +जरत्कारुरुवाच +मम पूर्वे भवन्तो वै पितरः सपितामहाः +ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् +पितर ऊचुः +यतस्व यत्नवांस्तात संतानाय कुलस्य नः +आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो +न हि धर्मफलैस्तात न तपोभिः सुसंचितैः +तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह +तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु +पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् +जरत्कारुरुवाच +न दारान्वै करिष्यामि सदा मे भावितं मनः +भवतां तु हितार्थाय करिष्ये दारसंग्रहम् +समयेन च कर्ताहमनेन विधिपूर्वकम् +तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् +सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः +भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः +दरिद्राय हि मे भार्यां को दास्यति विशेषतः +प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति +एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः +अनेन विधिना शश्वन्न करिष्येऽहमन्यथा +तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै +शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम +सूत उवाच +ततो निवेशाय तदा स विप्रः संशितव्रतः +महीं चचार दारार्थी न च दारानविन्दत +स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् +चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव +तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा +न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् +सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि +मनो निविष्टमभवज्जरत्कारोर्महात्मनः +तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः +किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम +वासुकिरुवाच +जरत्कारो जरत्कारुः स्वसेयमनुजा मम +त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम +सूत उवाच +मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर +जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः +तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः +स्वसारमृषये तस्मै सुव्रताय तपस्विने +स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा +आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः +तपस्वी च महात्मा च वेदवेदाङ्गपारगः +समः सर्वस्य लोकस्य पितृमातृभयापहः +अथ कालस्य महतः पाण्डवेयो नराधिपः +आजहार महायज्ञं सर्पसत्रमिति श्रुतिः +तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै +मोचयामास तं शापमास्तीकः सुमहायशाः +नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् +पितॄंश्च तारयामास संतत्या तपसा तथा +व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् +देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः +ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान् +अपहृत्य गुरुं भारं पितॄणां संशितव्रतः +जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः +आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः +जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् +एतदाख्यानमास्तीकं यथावत्कीर्तितं मया +प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति +शौनक उवाच +सौते कथय तामेतां विस्तरेण कथां पुनः +आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः +मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया +प्रीयामहे भृशं तात पितेवेदं प्रभाषसे +अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव +आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद +सूत उवाच +आयुष्यमिदमाख्यानमास्तीकं कथयामि ते +यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया +पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे +आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे +ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह +प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः +कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः +वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते +हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ +वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः +द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले +ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ +तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् +एवमस्त्विति तं चाह कश्यपं विनता तदा +कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ +कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् +धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः +ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् +कालेन महता कद्रूरण्डानां दशत���र्दश +जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा +तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः +सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च +ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः +अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत +ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी +अण्डं बिभेद विनता तत्र पुत्रमदृक्षत +पूर्वार्धकायसंपन्नमितरेणाप्रकाशता +स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः +योऽहमेवं कृतो मातस्त्वया लोभपरीतया +शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि +पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह +एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति +यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् +न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् +प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया +विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः +एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः +अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा +गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः +स जातमात्रो विनतां परित्यज्य खमाविशत् +आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् +विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः +सूत उवाच +एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन +अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् +यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् +मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् +महौघबलमश्वानामुत्तमं जवतां वरम् +श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् +शौनक उवाच +कथं तदमृतं देवैर्मथितं क्व च शंस मे +यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः +सूत उवाच +ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् +आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः +काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् +अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः +व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् +नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् +अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् +नानापतगसंघैश्च नादितं सुमनोहरैः +तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् +अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः +ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः +अमृतार्थे समागम्य तपोनियमसंस्थिताः +तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् +चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः +देवैरसुरसंघैश्च मथ्यतां कलशोदधिः +भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ +सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि +मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः +सूत उवाच +ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् +मन्दरं पर्वतवरं लताजालसमावृतम् +नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् +किंनरैरप्सरोभिश्च देवैरपि च सेवितम् +एकादश सहस्राणि योजनानां समुच्छ्रितम् +अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् +तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा +विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् +भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् +मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः +तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव +ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः +नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् +अथ पर्वतराजानं तमनन्तो महाबलः +उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् +ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे +तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् +अपांपतिरथोवाच ममाप्यंशो भवेत्ततः +सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति +ऊचुश्च कूर्मराजानमकूपारं सुरासुराः +गिरेरधिष्ठानमस्य भवान्भवितुमर्हति +कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् +तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् +मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् +देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् +अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः +एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः +विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः +अनन्तो भगवान्देवो यतो नारायणस्ततः +शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् +वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः +सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् +ते धूमसंघाः संभूता मेघसंघाः सविद्युतः +अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् +तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः +सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् +बभूवात्र महाघोषो महामेघरवोपमः +उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः +तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा +विलयं समुपाजग्मुः शतशो लवणाम्भसि +वारुणानि च भूतानि विविधानि महीधरः +पातालतलवासीनि विलयं समुपानयत् +तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् +न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः +तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः +विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् +ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् +विगतासूनि सर्वाणि सत्त्वानि विविधानि च +तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः +वारिणा मेघजेनेन्द्रः शमयामास सर्वतः +ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि +महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः +तेषाममृतवीर्याणां रसानां पयसैव च +अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् +अथ तस्य समुद्रस्य तज्जातमुदकं पयः +रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् +ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् +श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् +ऋते नारायणं देवं दैत्या नागोत्तमास्तथा +चिरारब्धमिदं चापि सागरस्यापि मन्थनम् +ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् +विधत्स्वैषां बलं विष्णो भवानत्र परायणम् +विष्णुरुवाच +बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः +क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् +सूत उवाच +नारायणवचः श्रुत्वा बलिनस्ते महोदधेः +तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् +ततः शतसहस्रांशुः समान इव सागरात् +प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः +श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी +सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा +कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः +मरीचिविकचः श्रीमान्नारायणउरोगतः +श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः +यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः +धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत +श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति +एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः +अमृतार्थे महान्नादो ममेदमिति जल्पताम् +ततो नारायणो मायामास्थितो मोहिनीं प्रभुः +स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः +ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः +स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः +सूत उवाच +अथावरणमुख्यानि नानाप्रहरणानि च +प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः +ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् +जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः +ततो देवगणाः सर्वे पपुस्तदमृतं तदा +विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति +ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् +राहुर्विबुधरूपेण दानवः प्रापिबत्तदा +तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा +आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया +ततो भगवता तस्य शिरश्छिन्नमलंकृतम् +चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा +तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् +चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् +ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै +शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ +विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः +नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् +ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः +सुराणामसुराणां च सर्वघोरतरो महान् +प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः +तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च +ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु +असिशक्तिगदारुग्णा निपेतुर्धरणीतले +छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे +तप्तकाञ्चनजालानि निपेतुरनिशं तदा +रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः +अद्रीणामिव कूटानि धातुरक्तानि शेरते +हाहाकारः समभवत्तत्र तत्र सहस्रशः +अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति +परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः +निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् +छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च +व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः +एवं सुतुमुले युद्धे वर्तमाने भयावहे +नरनारायणौ देवौ समाजग्मतुराहवम् +तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि +चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् +ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् +विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् +तदागतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुरच्युतः +मुमोच वै चपलमुदग्रवेगव;न्महाप्रभं परनगरावदारणम् +तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा +विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे +दहत्क्वचिज्ज्वलन इवावलेलिह;त्प्रसह्य तानसुरगणान्न्यकृन्तत +प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् +अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा +महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह +अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः +महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः +ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः +परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसंप्रवर्तिते +नरस्ततो वरकनकाग्रभूषणै;र्महेषुभिर्गगनपथं समावृणोत् +विदारयन्गिरिशिखराणि पत्रिभि;र्महाभयेऽसुरगणविग्रहे तदा +ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः +वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च +ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः +विनाद्य खं दिवमपि चैव सर्वश;स्ततो गताः सलिलधरा यथागतम् +ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् +ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह +सूत उवाच +एतत्ते सर्वमाख्यातममृतं मथितं यथा +यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः +यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् +उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् +विनतोवाच +श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे +ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे +कद्रूरुवाच +कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते +एहि सार्धं मया दीव्य दासीभावाय भामिनि +सूत उवाच +एवं ते समयं कृत्वा दासीभावाय वै मिथः +जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह +ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती +आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः +आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा +तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान् +सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति +जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः +शापमेनं तु शुश्राव स्वयमेव पितामहः +अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि +सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत +बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया +तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः +तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै +प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने +सूत उवाच +ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ +कद्रूश्च विनता चैव भगिन्यौ ते तपोधन +अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा +जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् +ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् +तिमिंगिलझषाकीर्णं मकरैरावृतं तथा +सत्त्वैश्च बहुसाहस्रैर्नानारूपैः ���मावृतम् +उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् +आकरं सर्वरत्नानामालयं वरुणस्य च +नागानामालयं रम्यमुत्तमं सरितां पतिम् +पातालज्वलनावासमसुराणां च बन्धनम् +भयंकरं च सत्त्वानां पयसां निधिमर्णवम् +शुभं दिव्यममर्त्यानाममृतस्याकरं परम् +अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् +घोरं जलचरारावरौद्रं भैरवनिस्वनम् +गम्भीरावर्तकलिलं सर्वभूतभयंकरम् +वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् +वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः +चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् +पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् +गां विन्दता भगवता गोविन्देनामितौजसा +वराहरूपिणा चान्तर्विक्षोभितजलाविलम् +ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा +अनासादितगाधं च पातालतलमव्ययम् +अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः +युगादिकालशयनं विष्णोरमिततेजसः +वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् +अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् +महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः +अभिसार्यमाणमनिशं ददृशाते महार्णवम् +गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः +विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् +इत्येवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् +पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् +सूत उवाच +तं समुद्रमतिक्रम्य कद्रूर्विनतया सह +न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा +निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् +विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् +ततः सा विनता तस्मिन्पणितेन पराजिता +अभवद्दुःखसंतप्ता दासीभावं समास्थिता +एतस्मिन्नन्तरे चैव गरुडः काल आगते +विना मात्रा महातेजा विदार्याण्डमजायत +अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः +प्रवृद्धः सहसा पक्षी महाकायो नभोगतः +तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् +प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् +अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि +असौ हि राशिः सुमहान्समिद्धस्तव सर्पति +अग्निरुवाच +नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः +गरुडो बलवानेष मम तुल्यः स्वतेजसा +सूत उवाच +एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् +अदूरादभ्युपेत्यैनं द���वाः सर्षिगणास्तदा +त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः +त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् +बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव +तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् +त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे +समाक्षिपन्भानुमतः प्रभां मुहु;स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् +दिवाकरः परिकुपितो यथा दहे;त्प्रजास्तथा दहसि हुताशनप्रभ +भयंकरः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् +खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् +महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् +एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा +तेजसः प्रतिसंहारमात्मनः स चकार ह +सूत उवाच +ततः कामगमः पक्षी महावीर्यो महाबलः +मातुरन्तिकमागच्छत्परं तीरं महोदधेः +यत्र सा विनता तस्मिन्पणितेन पराजिता +अतीव दुःखसंतप्ता दासीभावमुपागता +ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ +काल आहूय वचनं कद्रूरिदमभाषत +नागानामालयं भद्रे सुरम्यं रमणीयकम् +समुद्रकुक्षावेकान्ते तत्र मां विनते वह +ततः सुपर्णमाता तामवहत्सर्पमातरम् +पन्नगान्गरुडश्चापि मातुर्वचनचोदितः +स सूर्यस्याभितो याति वैनतेयो विहंगमः +सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् +तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् +नमस्ते देवदेवेश नमस्ते बलसूदन +नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते +सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव +त्वमेव परमं त्राणमस्माकममरोत्तम +ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर +त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे +त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् +त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः +स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः +त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः +त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः +त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् +त्वं सर्वममृतं देव त्वं सोमः परमार्चितः +त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः +शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा +संवत्सरर्तवो मासा रजन्यश्च दिनानि च +त्वमुत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरमम्बरं तथा +महोदधिः सतिमितिमिंगिलस्तथा; महोर्मिमान्बहुमकरो झषालयः +महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः +अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये +त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च +त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः +सूत उवाच +एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः +नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत् +ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः +परस्परमिवात्यर्थं गर्जन्तः सततं दिवि +संघातितमिवाकाशं जलदैः सुमहाद्भुतैः +सृजद्भिरतुलं तोयमजस्रं सुमहारवैः +संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः +मेघस्तनितनिर्घोषमम्बरं समपद्यत +नागानामुत्तमो हर्षस्तदा वर्षति वासवे +आपूर्यत मही चापि सलिलेन समन्ततः +सूत उवाच +सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै +सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् +विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् +भवनैरावृतं रम्यैस्तथा पद्माकरैरपि +प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् +दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् +उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि +शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः +किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः +मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् +नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् +तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा +अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् +वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् +त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर +स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा +किं कारणं मया मातः कर्तव्यं सर्पभाषितम् +विनतोवाच +दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम +पणं वितथमास्थाय सर्पैरुपधिना कृतम् +सूत उवाच +तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः +उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः +किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् +दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः +श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा +ततो दास्याद्विप्रमोक्षो भविता तव खेचर +सूत उवाच +इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् +गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्���ामि वेदितुम् +विनतोवाच +समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् +सहस्राणामनेकानां तान्भुक्त्वामृतमानय +न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन +अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः +अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः +भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः +गरुड उवाच +यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः +तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि +विनतोवाच +यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा +दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम् +सूत उवाच +प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः +जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् +पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक +शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु +अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा +अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये +ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात +ततो निषादान्बलवानुपागम;द्बुभुक्षितः काल इवान्तको महान् +स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् +समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् +ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् +ततो निषादास्त्वरिताः प्रवव्रजु;र्यतो मुखं तस्य भुजंगभोजिनः +तदाननं विवृतमतिप्रमाणव;त्समभ्ययुर्गगनमिवार्दिताः खगाः +सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने +ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः +निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा +सूत उवाच +तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया +दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः +द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् +न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा +ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत +निषादी मम भार्येयं निर्गच्छतु मया सह +गरुड उवाच +एतामपि निषादीं त्वं परिगृह्याशु निष्पत +तूर्णं संभावयात्मानमजीर्णं मम तेजसा +सूत उवाच +ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा +वर्धयित्वा च गरुडमिष्टं देशं जगाम ह +सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् +वितत्य पक्षावाकाशमुत्पपात मनोजवः +ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः +अहं हि सर्पैः प्रहितः सोममाहर्त���मुद्यतः +मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै +मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै +न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः +तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे +यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो +कश्यप उवाच +आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् +भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः +स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः +विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः +अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः +विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा +ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः +ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः +विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः +विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ +भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते +तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः +गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् +नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि +यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि +शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् +त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि +एवमन्योन्यशापात्तौ सुप्रतीकविभावसू +गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ +रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि +परस्परद्वेषरतौ प्रमाणबलदर्पितौ +सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ +तयोरेकतरः श्रीमान्समुपैति महागजः +तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः +उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः +तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् +दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् +तं विक्षोभयमाणं तु सरो बहुझषाकुलम् +कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् +षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः +कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः +तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ +उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः +सूत उवाच +स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः +नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् +समुत्पपात चाकाशं तत उच्चैर्विहंगमः +सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् +ते भीताः समकम्पन्त तस्य पक्षानिलाहताः +न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः +प्रचलाङ्गान्स तान्दृष्ट्���ा मनोरथफलाङ्कुरान् +अन्यानतुलरूपाङ्गानुपचक्राम खेचरः +काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः +सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् +तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः +अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् +यैषा मम महाशाखा शतयोजनमायता +एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ +ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् +खगोत्तमो द्रुतमभिपत्य वेगवा;न्बभञ्ज तामविरलपत्रसंवृताम् +सूत उवाच +स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा +अभज्यत तरोः शाखा भग्नां चैनामधारयत् +तां भग्नां स महाशाखां स्मयन्समवलोकयन् +अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् +स तद्विनाशसंत्रासादनुपत्य खगाधिपः +शाखामास्येन जग्राह तेषामेवान्ववेक्षया +शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् +एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः +दयार्थं वालखिल्यानां न च स्थानमविन्दत +स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् +ददर्श कश्यपं तत्र पितरं तपसि स्थितम् +ददर्श तं पिता चापि दिव्यरूपं विहंगमम् +तेजोवीर्यबलोपेतं मनोमारुतरंहसम् +शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् +अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् +मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् +अप्रधृष्यमजेयं च देवदानवराक्षसैः +भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् +लोकसंलोडनं घोरं कृतान्तसमदर्शनम् +तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा +विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् +पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् +मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः +प्रसादयामास स तान्कश्यपः पुत्रकारणात् +वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् +प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः +चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ +एवमुक्ता भगवता मुनयस्ते समभ्ययुः +मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः +ततस्तेष्वपयातेषु पितरं विनतात्मजः +शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् +भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् +वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम +ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् +अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः +तं पर्वतमहाकुक्षिमाविश्य मनसा खगः +जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः +न त��ं वध्रः परिणहेच्छतचर्मा महानणुः +शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः +ततः स शतसाहस्रं योजनान्तरमागतः +कालेन नातिमहता गरुडः पततां वरः +स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः +अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः +पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् +मुमोच पुष्पवर्षं च समागलितपादपः +शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः +मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् +शाखिनो बहवश्चापि शाखयाभिहतास्तया +काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः +ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः +व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः +ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः +भक्षयामास गरुडस्तावुभौ गजकच्छपौ +ततः पर्वतकूटाग्रादुत्पपात मनोजवः +प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः +इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् +सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता +तथा वसूनां रुद्राणामादित्यानां च सर्वशः +साध्यानां मरुतां चैव ये चान्ये देवतागणाः +स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् +अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च +ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः +निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् +देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा +मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि +उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु +रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् +ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः +उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् +किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः +न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् +बृहस्पतिरुवाच +तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो +तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् +कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः +हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् +समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः +सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् +सूत उवाच +श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः +महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः +युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् +अतुलं हि बलं तस्य बृहस्पतिरुवाच मे +तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः +परिवार्यामृतं तस्थुर्व���्री चेन्द्रः शतक्रतुः +धारयन्तो महार्हाणि कवचानि मनस्विनः +काञ्चनानि विचित्राणि वैडूर्यविकृतानि च +विविधानि च शस्त्राणि घोररूपाण्यनेकशः +शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः +सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः +चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् +शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् +स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः +तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः +भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः +अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य +असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः +इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् +विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ +शौनक उवाच +कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज +तपसा वालखिल्यानां संभूतो गरुडः कथम् +कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः +अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् +कथं च कामचारी स कामवीर्यश्च खेचरः +एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते +सूत उवाच +विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि +शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज +यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः +साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल +तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह +मुनयो वालखिल्याश्च ये चान्ये देवतागणाः +शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् +समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः +अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः +पलाशवृन्तिकामेकां सहितान्वहतः पथि +प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् +क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके +तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः +अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च +तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः +आरेभिरे महत्कर्म तदा शक्रभयंकरम् +जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् +मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु +कामवीर्यः कामगमो देवराजभयप्रदः +इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः +इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः +तपसो नः फलेनाद्य दारुणः संभवत्विति +तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः +जगाम शरणं तत्र कश्यपं संशितव्रतम् +तच्छ्रुत्वा देवराजस��य कश्यपोऽथ प्रजापतिः +वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत +एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः +तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः +अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः +इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः +न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः +भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः +भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् +प्रसादः क्रियतां चैव देवराजस्य याचतः +एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः +प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् +इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते +अपत्यार्थं समारम्भो भवतश्चायमीप्सितः +तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् +तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि +एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा +विनता नाम कल्याणी पुत्रकामा यशस्विनी +तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः +उपचक्राम भर्तारं तामुवाचाथ कश्यपः +आरम्भः सफलो देवि भवितायं तवेप्सितः +जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ +तपसा वालखिल्यानां मम संकल्पजौ तथा +भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ +उवाच चैनां भगवान्मारीचः पुनरेव ह +धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः +एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति +लोकसंभावितो वीरः कामवीर्यो विहंगमः +शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः +त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः +नैताभ्यां भविता दोषः सकाशात्ते पुरंदर +व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि +न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः +न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः +एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् +विनता चापि सिद्धार्था बभूव मुदिता तदा +जनयामास पुत्रौ द्वावरुणं गरुडं तथा +अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः +पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत +तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन +सूत उवाच +ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे +गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति +तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः +परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि +तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः +भौवनः सुमहावीर्यः सोमस्य परिरक्षिता +स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः +मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि +रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः +कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् +तेनावकीर्णा रजसा देवा मोहमुपागमन् +न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः +एवं संलोडयामास गरुडस्त्रिदिवालयम् +पक्षतुण्डप्रहारैश्च देवान्स विददार ह +ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् +विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत +अथ वायुरपोवाह तद्रजस्तरसा बली +ततो वितिमिरे जाते देवाः शकुनिमार्दयन् +ननाद चोच्चैर्बलवान्महामेघरवः खगः +वध्यमानः सुरगणैः सर्वभूतानि भीषयन् +उत्पपात महावीर्यः पक्षिराट्परवीरहा +तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् +वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् +पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः +क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः +नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः +कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत +विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् +पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् +ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः +नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु +साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् +प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः +दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् +मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् +अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा +क्रथनेन च शूरेण तपनेन च खेचरः +उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा +प्ररुजेन च संयुद्धं चकार प्रलिहेन च +तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः +युगान्तकाले संक्रुद्धः पिनाकीव महाबलः +महावीर्या महोत्साहास्तेन ते बहुधा क्षताः +रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः +तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् +अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत +आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् +दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् +ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा +नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन +ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः +ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य +सूत उवाच +जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः +प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् +स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके +परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् +ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् +घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् +तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः +अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह +अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती +विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ +चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ +रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ +सदा संरब्धनयनौ सदा चानिमिषेक्षणौ +तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् +तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् +अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् +तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः +आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः +समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली +उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् +अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् +अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः +विष्णुना तु तदाकाशे वैनतेयः समेयिवान् +तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा +तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् +स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः +उवाच चैनं भूयोऽपि नारायणमिदं वचः +अजरश्चामरश्च स्याममृतेन विनाप्यहम् +प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् +भवतेऽपि वरं दद्मि वृणीतां भगवानपि +तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् +ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् +अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् +विहंगमं सुरामित्रं हरन्तममृतं बलात् +तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः +प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः +ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् +वज्रस्य च करिष्यामि तव चैव शतक्रतो +एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे +न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन +तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा +सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति +दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः +खगो महदिदं भूतमिति मत्वाभ्यभाषत +बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् +सख्यं चानन्तमिच्छामि त्वया सह खगोत���तम +गरुड उवाच +सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर +बलं तु मम जानीहि महच्चासह्यमेव च +कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् +गुणसंकीर्तनं चापि स्वयमेव शतक्रतो +सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया +न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः +सपर्वतवनामुर्वीं ससागरवनामिमाम् +पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् +सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् +वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् +सूत उवाच +इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः +आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः +प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् +न कार्यं तव सोमेन मम सोमः प्रदीयताम् +अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् +गरुड उवाच +किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया +न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् +यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् +त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर +शक्र उवाच +वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज +यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम +सूत उवाच +इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् +स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः +ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् +भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः +तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः +हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् +आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् +अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् +इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः +स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः +अदासी चैव मातेयमद्यप्रभृति चास्तु मे +यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् +ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत +शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः +अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा +स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः +तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् +सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा +ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा +अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः +ततः सुपर्णः परमप्रहृष्टवा;न्विहृत्य मात्रा सह तत्र कानने +भुजंगभक्षः परमार्चितः खगै;रहीनकीर्तिर्विनतामनन्दयत् +इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि +असंशयं त्रिदिवमियात्स पुण्यभा;ङ्महात्मनः पतगपतेः प्रकीर्तनात् +शौनक उवाच +भुजंगमानां शापस्य मात्रा चैव सुतेन च +विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन +वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा +नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः +पन्नगानां तु नामानि न कीर्तयसि सूतज +प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् +सूत उवाच +बहुत्वान्नामधेयानि भुजगानां तपोधन +न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु +शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् +ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ +कालियो मणिनागश्च नागश्चापूरणस्तथा +नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः +नीलानीलौ तथा नागौ कल्माषशबलौ तथा +आर्यकश्चादिकश्चैव नागश्च शलपोतकः +सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः +आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा +निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा +बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः +कम्बलाश्वतरौ चापि नागः कालीयकस्तथा +वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ +नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः +क्षेमकश्च महानागो नागः पिण्डारकस्तथा +करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः +मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः +अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा +कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा +विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् +हस्तिभद्रः पिठरको मुखरः कोणवासनः +कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः +कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा +कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ +एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम +बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः +एतेषां प्रसवो यश्च प्रसवस्य च संततिः +असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम +बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च +अशक्यान्येव संख्यातुं भुजगानां तपोधन +शौनक उवाच +जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः +शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् +सूत उवाच +तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः +तपो विपुलमातस्थे वायुभक्षो यतव्रतः +गन्धमादनमासाद्य बदर्यां च तपोरतः +गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे +तेषु तेषु च पुण्येषु तीर्थेष���वायतनेषु च +एकान्तशीली नियतः सततं विजितेन्द्रियः +तप्यमानं तपो घोरं तं ददर्श पितामहः +परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् +तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः +किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु +त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ +ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् +शेष उवाच +सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः +सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् +अभ्यसूयन्ति सततं परस्परममित्रवत् +ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत +न मर्षयन्ति सततं विनतां ससुतां च ते +अस्माकं चापरो भ्राता वैनतेयः पितामह +तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः +वरप्रदानात्स पितुः कश्यपस्य महात्मनः +सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् +कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः +ब्रह्मोवाच +जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् +मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् +कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम +भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि +वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् +दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि +दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम +अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा +शेष उवाच +एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह +धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर +ब्रह्मोवाच +प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च +त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् +इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च +त्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात् +शेष उवाच +यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिः +तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते +ब्रह्मोवाच +अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति +इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति +सूत उवाच +तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः +बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः +ब्रह्मोवाच +शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः +अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा +सूत उवाच +अधो भूमेर्वसत्येवं नागोऽनन्��ः प्रतापवान् +धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः +सुपर्णं च सखायं वै भगवानमरोत्तमः +प्रादादनन्ताय तदा वैनतेयं पितामहः +सूत उवाच +मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः +वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् +ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः +ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः +वासुकिरुवाच +अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः +तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे +सर्वेषामेव शापानां प्रतिघातो हि विद्यते +न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः +अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः +शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः +नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः +न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् +तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् +यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् +अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे +यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् +यथा स यज्ञो न भवेद्यथा वापि पराभवेत् +जनमेजयस्य सर्पाणां विनाशकरणाय हि +सूत उवाच +तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः +समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः +एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः +जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति +अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः +मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः +स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् +तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते +स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः +यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् +दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् +हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः +अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति +सर्पसत्रविधानज्ञो राजकार्यहिते रतः +तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति +तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति +ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः +तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति +तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः +अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना +सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा +अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् +अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् +वर्ष���र्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः +स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः +प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति +यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः +जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति +अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः +स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना +अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे +यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति +वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् +अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् +गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः +अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः +दशामैनं प्रगृह्याशु कृतमेवं भविष्यति +छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति +एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता +यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् +इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् +वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान् +नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः +सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते +किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् +अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ +सूत उवाच +श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च +वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् +न स यज्ञो न भविता न स राजा तथाविधः +जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् +दैवेनोपहतो राजन्यो भवेदिह पूरुषः +स दैवमेवाश्रयते नान्यत्तत्र परायणम् +तदिदं दैवमस्माकं भयं पन्नगसत्तमाः +दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम +अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा +मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः +देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो +पितामहमुपागम्य दुःखार्तानां महाद्युते +देवा ऊचुः +का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह +ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः +तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह +एतदिच्छाम विज्ञातुं कारणं यन्न वारिता +ब्रह्मोवाच +बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः +प्रजानां हितकामोऽहं न निवारितवांस्तदा +ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः +तेषां विनाशो भविता न तु ये धर्मचारिणः +यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् +पन्नगानां निबोधध्वं तस्मिन्काले तथागते +यायावरकुले धीमान्भविष्यति महानृषिः +जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः +तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः +आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा +तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः +देवा ऊचुः +स मुनिप्रवरो देव जरत्कारुर्महातपाः +कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् +ब्रह्मोवाच +सनामायां सनामा स कन्यायां द्विजसत्तमः +अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति +एलापत्र उवाच +एवमस्त्विति तं देवाः पितामहमथाब्रुवन् +उक्त्वा चैवं गता देवाः स च देवः पितामहः +सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव +जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय +भैक्षवद्भिक्षमाणाय नागानां भयशान्तये +ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया +सूत उवाच +एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम +सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् +ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत +जरत्कारुं स्वसारं वै परं हर्षमवाप च +ततो नातिमहान्कालः समतीत इवाभवत् +अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् +तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः +समाप्यैव च तत्कर्म पितामहमुपागमन् +देवा वासुकिना सार्धं पितामहमथाब्रुवन् +भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् +तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि +जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः +हितो ह्ययं सदास्माकं प्रियकारी च नागराट् +कुरु प्रसादं देवेश शमयास्य मनोज्वरम् +ब्रह्मोवाच +मयैवैतद्वितीर्णं वै वचनं मनसामराः +एलापत्रेण नागेन यदस्याभिहितं पुरा +तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा +विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः +उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः +तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु +यदेलापत्रेण वचस्तदोक्तं भुजगेन ह +पन्नगानां हितं देवास्तत्तथा न तदन्यथा +सूत उवाच +एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा +सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् +जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः +शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति +शौनक उवाच +जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन +इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः +किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि +जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि +सूत उवाच +जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् +शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः +क्षपयामास तीव्रेण तपसेत्यत उच्यते +जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा +एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा +उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् +सूत उवाच +अथ कालस्य महतः स मुनिः संशितव्रतः +तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत +स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् +चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् +ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु +परिक्षिदिति विख्यातो राजा कौरववंशभृत् +यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि +बभूव मृगयाशीलः पुरास्य प्रपितामहः +मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा +अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः +स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा +पृष्ठतो धनुरादाय ससार गहने वने +यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि +अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः +न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् +पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति +परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः +दूरं चापहृतस्तेन मृगेण स महीपतिः +परिश्रान्तः पिपासार्त आससाद मुनिं वने +गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् +भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः +तमभिद्रुत्य वेगेन स राजा संशितव्रतम् +अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः +भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः +मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि +स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः +तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् +धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत +न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् +स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् +दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः +तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः +शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः +स देवं परमीशानं सर्वभूतहिते रतम् +ब्रह्माणमुपतस्थे वै काले काले सुसंयतः +स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् +सख्योक्तः क्रीडमानेन स तत्र हसता किल +संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः +ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम +तेजस्विनस्तव पिता तथैव च तपस्विनः +शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव +व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः +अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु +क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः +दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा +सूत उवाच +एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः +मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना +स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् +अपृच्छत कथं तातः स मेऽद्य मृतधारकः +कृश उवाच +राज्ञा परिक्षिता तात मृगयां परिधावता +अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः +शृङ्ग्युवाच +किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः +ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् +कृश उवाच +स राजा मृगयां यातः परिक्षिदभिमन्युजः +ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा +न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने +पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् +तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः +पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव +स च मौनव्रतोपेतो नैव तं प्रत्यभाषत +तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् +शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः +सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् +सूत उवाच +श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः +कोपसंरक्तनयनः प्रज्वलन्निव मन्युना +आविष्टः स तु कोपेन शशाप नृपतिं तदा +वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः +शृङ्ग्युवाच +योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च +स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी +तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः +आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः +सप्तरात्रादितो नेता यमस्य सदनं प्रति +द्विजानामवमन्तारं कुरूणामयशस्करम् +सूत उवाच +इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् +आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् +स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै +शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः +दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् +श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना +राज्ञा परिक्षिता कोपादशपं तमहं नृपम् +यथार्हति स एवोग्रं शापं कुरुकुलाधमः +सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः +वैवस्वतस्य भवनं नेता परमदारुणम् +तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् +न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् +वयं तस्य नरेन्द्रस्य विषये निवसामहे +न्यायतो रक्षितास्तेन तस्य पापं न रोचये +सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा +क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः +यदि राजा न रक्षेत पीडा वै नः परा भवेत् +न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् +रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः +चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः +परिक्षित्तु विशेषेण यथास्य प्रपितामहः +रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा +तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना +अजानता व्रतमिदं कृतमेतदसंशयम् +तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् +न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा +शृङ्ग्युवाच +यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् +प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया +नैवान्यथेदं भविता पितरेष ब्रवीमि ते +नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् +शमीक उवाच +जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा +नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति +पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु +यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः +किं पुनर्बाल एव त्वं तपसा भावितः प्रभो +वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् +सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर +पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् +स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् +चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि +क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् +ततो धर्मविहीनानां गतिरिष्टा न विद्यते +शम एव यतीनां हि क्षमिणां सिद्धिकारकः +क्षमावतामयं लोकः परश्चैव क्षमावताम् +तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः +क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् +मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै +तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै +मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना +ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा +सूत उवाच +एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः +परिक्षिते नृपतये दयापन्नो महातपाः +संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च +शिष्यं गौरमुखं नाम शीलवन्तं सम���हितम् +सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् +विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः +पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः +आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः +शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ +शमीको नाम राजेन्द्र विषये वर्तते तव +ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः +तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः +अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम +क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे +तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै +तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति +तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् +तदन्यथा न शक्यं च कर्तुं केनचिदप्युत +न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् +ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना +इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः +पर्यतप्यत तत्पापं कृत्वा राजा महातपाः +तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा +भूय एवाभवद्राजा शोकसंतप्तमानसः +अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु +पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः +न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत +अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् +ततस्तं प्रेषयामास राजा गौरमुखं तदा +भूयः प्रसादं भगवान्करोत्विति ममेति वै +तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा +मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः +निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् +प्रासादं कारयामास एकस्तम्भं सुरक्षितम् +रक्षां च विदधे तत्र भिषजश्चौषधानि च +ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् +राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः +मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः +प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम +काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् +श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् +तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् +तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् +तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् +तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि +गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः +तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् +क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति +काश्यप उवाच +नृपं कुरुकुलोत्पन्नं परिक��षितमरिंदमम् +तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति +तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा +पाण्डवानां कुलकरं राजानममितौजसम् +गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् +तक्षक उवाच +अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् +निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् +काश्यप उवाच +अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् +करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः +तक्षक उवाच +दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् +ततो वृक्षं मया दष्टमिमं जीवय काश्यप +परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च +न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम +काश्यप उवाच +दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे +अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम +सूत उवाच +एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना +अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः +स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते +आशीविषविषोपेतः प्रजज्वाल समन्ततः +तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् +कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् +भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा +भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् +विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ +अहं संजीवयाम्येनं पश्यतस्ते भुजंगम +ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः +भस्मराशीकृतं वृक्षं विद्यया समजीवयत् +अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् +पलाशिनं शाखिनं च तथा विटपिनं पुनः +तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना +उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि +विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा +कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन +यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् +अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् +विप्रशापाभिभूते च क्षीणायुषि नराधिपे +घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् +ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् +विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् +काश्यप उवाच +धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम +ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम +तक्षक उवाच +यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् +अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम +सूत उवाच +तक्षकस्य वचः श्रुत्वा का���्यपो द्विजसत्तमः +प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् +दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा +क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः +लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् +निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि +जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् +अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् +मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः +स चिन्तयामास तदा मायायोगेन पार्थिवः +मया वञ्चयितव्योऽसौ क उपायो भवेदिति +ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् +फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः +तक्षक उवाच +गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया +फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् +सूत उवाच +ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः +उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च +तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् +कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् +गतेषु तेषु नागेषु तापसच्छद्मरूपिषु +अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः +भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः +तापसैरुपनीतानि फलानि सहिता मया +ततो राजा ससचिवः फलान्यादातुमैच्छत +यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः +ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक +स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् +अस्तमभ्येति सविता विषादद्य न मे भयम् +सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् +तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् +ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः +एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह +कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः +हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः +तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् +सूत उवाच +तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् +विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः +तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः +अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् +सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् +तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः +ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः +भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा +ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः +शुचिर्द्विजो राजपुरोहितस्तद���; तथैव ते तस्य नृपस्य मन्त्रिणः +नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः +नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः +स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा +शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस्तथा +ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः +सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः +ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः +स चापि तां प्राप्य मुदा युतोऽभव;न्न चान्यनारीषु मनो दधे क्वचित् +सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् +तथा स राजन्यवरो विजह्रिवा;न्यथोर्वशीं प्राप्य पुरा पुरूरवाः +वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् +भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी +सूत उवाच +एतस्मिन्नेव काले तु जरत्कारुर्महातपाः +चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः +चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः +तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह +वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः +स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् +एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् +तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् +निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः +उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत +के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः +दुर्बलं खादितैर्मूलैराखुना बिलवासिना +वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् +तदप्ययं शनैराखुरादत्ते दशनैः शितैः +छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव +ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः +ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् +कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः +तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः +अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् +अथ वापि समग्रेण तरन्तु तपसा मम +भवन्तः सर्व एवास्मात्काममेवं विधीयताम् +पितर ऊचुः +ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति +न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् +अस्ति नस्तात तपसः फलं प्रवदतां वर +संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ +लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै +येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् +ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् +शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज +यायावरा नाम वयमृषयः संशितव्रताः +लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो +प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै +अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा +मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले +जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः +नियतात्मा महात्मा च सुव्रतः सुमहातपाः +तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् +न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन +तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् +स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया +पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः +साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो +कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन +यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् +एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः +यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः +एते नस्तन्तवस्तात कालेन परिभक्षिताः +यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् +तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः +यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः +स तं तपोरतं मन्दं शनैः क्षपयते तुदन् +जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् +न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम +छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः +नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा +अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः +छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः +तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् +तत्सर्वं न समं तात संतत्येति सतां मतम् +स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् +यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः +यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा +तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया +सूत उवाच +एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः +उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा +अहमेव जरत्कारुः किल्बिषी भवतां सुतः +तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः +पितर ऊचुः +पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया +किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः +जरत्कारुरुवाच +ममायं पितरो नित्यं हृद्यर्थः प���िवर्तते +ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै +एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः +मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः +करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः +सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन +भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता +प्रतिग्रहीता तामस्मि न भरेयं च यामहम् +एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि +अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः +सूत उवाच +एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः +न च स्म लभते भार्यां वृद्धोऽयमिति शौनक +यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा +तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः +यानि भूतानि सन्तीह स्थावराणि चराणि च +अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः +उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् +निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया +निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः +दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः +यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः +ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् +मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् +भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत +ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः +तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् +तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम् +प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः +तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने +नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत +असनामेति वै मत्वा भरणे चाविचारिते +मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे +ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन +वासुके भरणं चास्या न कुर्यामित्युवाच ह +सूत उवाच +वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा +सनामा तव कन्येयं स्वसा मे तपसान्विता +भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम +रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन +प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति +जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह +तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः +जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् +ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् +जगाम भार्यामादाय स्तूयमानो महर्षिभिः +शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् +तत्र भार्यासहायः स जरत्कारुरुवास ह +स तत्र समयं चक्रे भार्यया सह सत्तमः +विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन +त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे +एतद्गृहाण वचनं मया यत्समुदीरितम् +ततः परमसंविग्ना स्वसा नागपतेस्तु सा +अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति +तथैव सा च भर्तारं दुःखशीलमुपाचरत् +उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी +ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा +भर्तारं तं यथान्यायमुपतस्थे महामुनिम् +तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः +अतीव तपसा युक्तो वैश्वानरसमद्युतिः +शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः +ततः कतिपयाहस्य जरत्कारुर्महातपाः +उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् +तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् +अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा +वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी +किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा +दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् +कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः +धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः +उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति +धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम् +इति निश्चित्य मनसा जरत्कारुर्भुजंगमा +तमृषिं दीप्ततपसं शयानमनलोपमम् +उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी +उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति +संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः +प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः +संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो +एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः +भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् +अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे +समीपे ते न वत्स्यामि गमिष्यामि यथागतम् +न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः +अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते +न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् +किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा +एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् +अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने +नावमानात्कृतवती तवाहं प्रतिबोधनम् +धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया +उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः +ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् +न मे वागनृतं प्रा�� गमिष्येऽहं भुजंगमे +समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः +सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे +इतो मयि गते भीरु गतः स भगवानिति +त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि +इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा +जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा +बाष्पगद्गदया वाचा मुखेन परिशुष्यता +कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः +धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता +न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् +धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् +प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम +तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः +मातृशापाभिभूतानां ज्ञातीनां मम सत्तम +अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते +त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् +संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज +ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये +इममव्यक्तरूपं मे गर्भमाधाय सत्तम +कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् +एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् +यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः +अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः +ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः +एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः +उग्राय तपसे भूयो जगाम कृतनिश्चयः +सूत उवाच +गतमात्रं तु भर्तारं जरत्कारुरवेदयत् +भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन +ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् +उवाच भगिनीं दीनां तदा दीनतरः स्वयम् +जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् +पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि +स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् +एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह +अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् +न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः +कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् +किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् +दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः +नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् +आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् +शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् +जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत +आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम् +पृष्टो मयापत्यहेतोः स म���ात्मा महातपाः +अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः +स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् +उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति +न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे +उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः +इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् +तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् +एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा +एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत +सान्त्वमानार्थदानैश्च पूजया चानुरूपया +सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः +ततः स ववृधे गर्भो महातेजा रविप्रभः +यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि +यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा +कुमारं देवगर्भाभं पितृमातृभयापहम् +ववृधे स च तत्रैव नागराजनिवेशने +वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् +चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः +नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत +अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् +वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् +स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् +गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत +भगवानिव देवेशः शूलपाणिर्हिरण्यदः +विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् +शौनक उवाच +यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः +पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद +सूत उवाच +शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा +आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः +जनमेजय उवाच +जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम +आसीद्यथा च निधनं गतः काले महायशाः +श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः +कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् +सूत उवाच +मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना +सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् +धर्मात्मा च महात्मा च प्रजापालः पिता तव +आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् +चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत +धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव +ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः +द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन +समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् +ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु +स्थिताः सुमनस��� राजंस्तेन राज्ञा स्वनुष्ठिताः +विधवानाथकृपणान्विकलांश्च बभार सः +सुदर्शः सर्वभूतानामासीत्सोम इवापरः +तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः +धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः +गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय +लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः +परिक्षीणेषु कुरुषु उत्तरायामजायत +परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली +राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः +जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः +षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः +प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् +ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् +ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् +इदं वर्षसहस्राय राज्यं कुरुकुलागतम् +बाल एवाभिजातोऽसि सर्वभूतानुपालकः +जनमेजय उवाच +नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च +विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् +कथं निधनमापन्नः पिता मम तथाविधः +आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः +सूत उवाच +एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् +ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः +बभूव मृगयाशीलस्तव राजन्पिता सदा +यथा पाण्डुर्महाभागो धनुर्धरवरो युधि +अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः +स कदाचिद्वनचरो मृगं विव्याध पत्रिणा +विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने +पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् +न चाससाद गहने मृगं नष्टं पिता तव +परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः +क्षुधितः स महारण्ये ददर्श मुनिमन्तिके +स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् +न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन् +ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् +मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ +न बुबोध हि तं राजा मौनव्रतधरं मुनिम् +स तं मन्युसमाविष्टो धर्षयामास ते पिता +मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् +तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम +न चोवाच स मेधावी तमथो साध्वसाधु वा +तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् +मन्त्रिण ऊचुः +ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् +मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ +ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः +शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः +ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह +अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा +सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा +मृतं सर्पं समासक्तं पित्रा ते जनमेजय +वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् +तपस्विनमतीवाथ तं मुनिप्रवरं नृप +जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते +तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा +शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् +अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् +शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव +शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः +ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः +स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह +पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव +अनागसि गुरौ यो मे मृतं सर्पमवासृजत् +तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति +सप्तरात्रादितः पापं पश्य मे तपसो बलम् +इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् +दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् +स चापि मुनिशार्दूलः प्रेषयामास ते पितुः +शप्तोऽसि मम पुत्रेण यत्तो भव महीपते +तक्षकस्त्वां महाराज तेजसा सादयिष्यति +श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय +यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् +ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते +राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत +तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा +तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् +क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति +काश्यप उवाच +यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज +तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै +गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् +मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति +तक्षक उवाच +किमर्थं तं मया दष्टं संजीवयितुमिच्छसि +ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् +मन्त्रिण ऊचुः +धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः +तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा +यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् +गृहाण मत्त एव त्वं संनिवर्तस्व चानघ +स एवमुक्तो नागेन काश्यपो द्विपदां वरः +लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् +तस्मिन्प्रतिगते विप्रे छद्मनोपे��्य तक्षकः +तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव +प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना +ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः +एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम +अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् +श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् +अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् +जनमेजय उवाच +एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने +संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा +केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् +श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् +मन्त्रिण ऊचुः +शृणु राजन्यथास्माकं येनैतत्कथितं पुरा +समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि +तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव +विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् +अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ +स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा +द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः +तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् +यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च +एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् +श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् +सूत उवाच +मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः +पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् +निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः +मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः +उवाच च महीपालो दुःखशोकसमन्वितः +श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति +निश्चितेयं मम मतिर्या वै तां मे निबोधत +अनन्तरमहं मन्ये तक्षकाय दुरात्मने +प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता +ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् +यदि गच्छेदसौ पापो ननु जीवेत्पिता मम +परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः +काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च +स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् +संजिजीवयिषुं प्राप्तं राजानमपराजितम् +महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः +द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति +उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् +भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः +सूत उवाच +एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः +आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः +ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा +पुरोहितमथाहूय ऋत्विजं वसुधाधिपः +अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः +यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् +प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे +अपि तत्कर्म विदितं भवतां येन पन्नगम् +तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् +यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना +तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् +ऋत्विज ऊचुः +अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् +सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप +आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप +इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः +सूत उवाच +एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् +हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम +ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा +आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे +ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम +देशं तं मापयामासुर्यज्ञायतनकारणात् +यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः +ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् +प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् +निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् +राजानं दीक्षयामासुः सर्पसत्राप्तये तदा +इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति +निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा +यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् +स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः +इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा +यस्मिन्देशे च काले च मापनेयं प्रवर्तिता +ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः +एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् +क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति +ततः कर्म प्रववृते सर्पसत्रे विधानतः +पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः +परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः +जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् +कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते +सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा +ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने +विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् +विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे +पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे +श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिश���स्तथा +रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ +एवं शतसहस्राणि प्रयुतान्यर्बुदानि च +अवशानि विनष्टानि पन्नगानां द्विजोत्तम +इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे +मत्ता इव च मातङ्गा महाकाया महाबलाः +उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः +घोराश्च परिघप्रख्या दन्दशूका महाबलाः +प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः +शौनक उवाच +सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः +जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः +के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे +विषादजननेऽत्यर्थं पन्नगानां महाभये +सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति +सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज +सूत उवाच +हन्त ते कथयिष्यामि नामानीह मनीषिणाम् +ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा +तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः +च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः +उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः +ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः +सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् +उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः +असितो देवलश्चैव नारदः पर्वतस्तथा +आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा +वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् +कहोडो देवशर्मा च मौद्गल्यः शमसौभरः +एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः +सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह +जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ +अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः +वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः +ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा +पततां चैव नागानां धिष्ठितानां तथाम्बरे +अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् +तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् +गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् +ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः +अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् +तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक +भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन +प्रसादितो मया पूर्वं तवार्थाय पितामहः +तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः +एवमाश्वासितस्तेन ततः स भुजगोत्तमः +उवास भवने तत्र शक्रस्य मुदितः सुखी +अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः +अल्पशेषपरीवारो वासुकिः पर्यतप्यत +कश���मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् +स घूर्णमानहृदयो भगिनीमिदमब्रवीत् +दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च +सीदामीव च संमोहाद्घूर्णतीव च मे मनः +दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च +पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ +पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया +व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् +अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः +जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् +आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे +प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः +तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् +ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् +सूत उवाच +तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा +वासुकेर्नागराजस्य वचनादिदमब्रवीत् +अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः +कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् +आस्तीक उवाच +किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे +तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा +सूत उवाच +तत आचष्ट सा तस्मै बान्धवानां हितैषिणी +भगिनी नागराजस्य जरत्कारुरविक्लवा +भुजगानामशेषाणां माता कद्रूरिति श्रुतिः +तया शप्ता रुषितया सुता यस्मान्निबोध तत् +उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम +विनतानिमित्तं पणिते दासभावाय पुत्रकाः +जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः +तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ +तां च शप्तवतीमेवं साक्षाल्लोकपितामहः +एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च +वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा +अमृते मथिते तात देवाञ्शरणमीयिवान् +सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् +भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् +ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् +राज्ञा वासुकिना सार्धं स शापो न भवेदिति +वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् +अभिशापः स मात्रास्य भगवन्न भवेदिति +ब्रह्मोवाच +जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति +तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति +जरत्कारुरुवाच +एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः +प्रादान्माममरप्रख्य तव पित्रे महात्मने +प्रागेवानागते काले तत्र त्वं मय्यजायथाः +अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि +भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् +अमोघं नः कृतं तत्स्याद्यदहं तव धीमते +पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे +सूत उवाच +एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा +अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव +अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम +तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते +भव स्वस्थमना नाग न हि ते विद्यते भयम् +प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति +न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा +तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् +वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल +यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम +स संभावय नागेन्द्र मयि सर्वं महामते +न ते मयि मनो जातु मिथ्या भवितुमर्हति +वासुकिरुवाच +आस्तीक परिघूर्णामि हृदयं मे विदीर्यते +दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः +आस्तीक उवाच +न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम +दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् +ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् +नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन +सूत उवाच +ततः स वासुकेर्घोरमपनीय मनोज्वरम् +आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् +जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः +मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः +स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् +वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः +स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः +अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः +आस्तीक उवाच +सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +शक्रस्य यज्ञः शतसंख्य उक्त;स्तथापरस्तुल्यसंख्यः शतं वै +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +नृगस्य यज्ञस्त्वजमीढस्य चासी;द्यथा यज्ञो दाशरथेश्च राज्ञः +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु ���्रियेभ्यः +यज्ञः श्रुतो नो दिवि देवसूनो;र्युधिष्ठिरस्याजमीढस्य राज्ञः +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र +तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः +इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा +नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथंचित् +ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे +एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः +विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा +प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः +नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् +धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा +शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् +मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे +खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः +आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् +वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः +प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति +यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः +श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् +दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च +और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा +सूत उवाच +एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः +तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ +जनमेजय उवाच +बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे +इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः +सदस्या ऊचुः +बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् +सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् +सूत उवाच +व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच +होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् +जनमेजय उवाच +यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् +तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः +ऋत्विज ऊचुः +यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः +इन्द्रस्य भवने राजंस्तक्षको भयपीडितः +सूत उवाच +यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् +स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव +पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् +वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति +एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले +होता च यत्तः स जुहाव मन्त्रै;रथो इन्द्रः स्वयमेवाजगाम +विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः +बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च +तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् +ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् +इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः +तमिन्द्रेणैव सहितं पातयध्वं विभावसौ +ऋत्विज ऊचुः +अयमायाति वै तूर्णं तक्षकस्ते वशं नृप +श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् +नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः +घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः +वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो +अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि +जनमेजय उवाच +बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् +वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् +सूत उवाच +पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि +इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् +वरं ददासि चेन्मह्यं वृणोमि जनमेजय +सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः +एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा +नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् +सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो +तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम +आस्तीक उवाच +सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् +सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः +सूत उवाच +आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा +पुनः पुनरुवाचेदमास्तीकं वदतां वरम् +अन्यं वरय भद्रं ते वरं द्विजवरोत्तम +अयाचत न चाप्यन्यं वरं स भृगुनन्दन +ततो वेदविदस्तत्र सदस्याः सर्व एव तम् +राजानमूचुः सहिता लभतां ब्राह्मणो वरम् +शौनक उवाच +ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने +तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज +सूत उवाच +सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च +न शक्यं परिसंख्यातुं बहुत्वाद्वेदवित्तम +यथास्मृति तु नामानि पन्नगानां निबोध मे +उच्यमानानि मुख्यानां हुतानां जातवेदसि +वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे +नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् +कोटिको मानसः पूर्णः सहः पैलो हलीसकः +पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः +हिरण्यवाहः शरणः कक्षकः कालदन्तकः +एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् +तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् +पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः +उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः +शिलीशलकरो मूकः सुकुमारः प्रवेपनः +मुद्गरः शशरोमा च सुमना वेगवाहनः +एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् +पारावतः पारियात्रः पाण्डरो हरिणः कृशः +विहंगः शरभो मोदः प्रमोदः संहताङ्गदः +ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् +कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम +ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः +बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ +धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् +कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् +शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ +पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः +आमाहठः कोमठकः श्वसनो मानवो वटः +भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः +ऋषभो वेगवान्नाम पिण्डारकमहाहनू +रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ +वराहको वारणकः सुमित्रश्चित्रवेदिकः +पराशरस्तरुणको मणिस्कन्धस्तथारुणिः +इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः +प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः +एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः +न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः +सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे +कालानलविषा घोरा हुताः शतसहस्रशः +महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः +योजनायामविस्तारा द्वियोजनसमायताः +कामरूपाः कामगमा दीप्तानलविषोल्बणाः +दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः +सूत उवाच +इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः +तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह +इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत +ततश्चिन्तापरो राजा बभूव जनमेजयः +हूयमाने भृशं दीप्ते विधिवत्पावके तदा +न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः +शौनक उवाच +किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् +न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः +सूत उवाच +तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम् +आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् +वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता +यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः +ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् +काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् +समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः +प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् +ततो हलहलाशब्दः प्रीतिजः समवर्तत +आस्तीकस्य वरे दत्ते तथैवोपरराम च +स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह +प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः +ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः +तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः +लोहिताक्षाय सूताय तथा स्थपतये विभुः +येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् +निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु +ततश्चकारावभृथं विधिदृष्टेन कर्मणा +आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् +राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् +पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् +भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ +तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः +कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् +स गत्वा परमप्रीतो मातरं मातुलं च तम् +अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् +एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः +तेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व +भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् +प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स +आस्तीक उवाच +सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि +धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात् +सूत उवाच +तैश्चाप्युक्तो भागिनेयः प्रसन्���ै;रेतत्सत्यं काममेवं चरन्तः +प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय +जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः +आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु +असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् +दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् +सूत उवाच +मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः +जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् +इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव +यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् +श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् +आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः +शौनक उवाच +भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् +आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते +प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन +यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे +तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् +कर्मान्तरेषु विधिवत्सदस्यानां महाकवे +या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् +त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः +सूत उवाच +कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः +व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् +शौनक उवाच +महाभारतमाख्यानं पाण्डवानां यशस्करम् +जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा +श्रावयामास विधिवत्तदा कर्मान्तरेषु सः +तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् +मनःसागरसंभूतां महर्षेः पुण्यकर्मणः +कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज +सूत उवाच +हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् +कृष्णद्वैपायनमतं महाभारतमादितः +तज्जुषस्वोत्तममते कथ्यमानं मया द्विज +शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते +सूत उवाच +श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् +अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा +जनयामास यं काली शक्तेः पुत्रात्पराशरात् +कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् +जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् +वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः +यं नातितपसा कश्चिन्न वेदाध्ययनेन च +न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना +विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः +परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः +यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत��� +शंतनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः +जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा +विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः +तत्र राजानमासीनं ददर्श जनमेजयम् +वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् +तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः +ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे +जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् +सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः +काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः +आसनं कल्पयामास यथा शक्रो बृहस्पतेः +तत्रोपविष्टं वरदं देवर्षिगणपूजितम् +पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा +पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः +पितामहाय कृष्णाय तदर्हाय न्यवेदयत् +प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् +गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा +तथा संपूजयित्वा तं यत्नेन प्रपितामहम् +उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् +भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च +सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् +ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः +इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः +कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् +तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज +कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् +तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् +पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् +कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि +तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा +शशास शिष्यमासीनं वैशंपायनमन्तिके +कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा +तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि +गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा +आचचक्षे ततः सर्वमितिहासं पुरातनम् +तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः +भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा +वैशंपायन उवाच +गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः +संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् +महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः +प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः +श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् +गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् +शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् +राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च +यथा च युद्धमभवत्पृथिवीक्षयकारकम् +तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ +मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् +नचिरादिव विद्वांसो वेदे धनुषि चाभवन् +तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान् +नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः +ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः +तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् +ददावथ विषं पापो भीमाय धृतराष्ट्रजः +जरयामास तद्वीरः सहान्नेन वृकोदरः +प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् +तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् +यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् +उदतिष्ठन्महाराज भीमसेनो गतव्यथः +आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् +सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा +तेषां तु विप्रकारेषु तेषु तेषु महामतिः +मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् +स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः +पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः +यदा तु विविधोपायैः संवृतैर्विवृतैरपि +नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् +ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः +धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् +तत्र तान्वासयामास पाण्डवानमितौजसः +अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा +विदुरस्यैव वचनात्खनित्री विहिता ततः +मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् +ततो महावने घोरे हिडिम्बं नाम राक्षसम् +भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः +अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा +ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः +तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् +ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः +ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः +विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः +त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च +भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति +अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः +तस्माज्जनपदोपेतं सुविभक्तमहापथम् +वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः +तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः +नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः +तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् +वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः +एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः +अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा +अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः +उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा +दक्षिणां सहदेवस्तु विजिग्ये परवीरहा +एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम् +पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता +षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः +ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः +वनं प्रस्थापयामास भ्रातरं वै धनंजयम् +स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् +ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन +लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् +अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् +सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता +सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह +अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् +बीभत्सुर्वासुदेवेन सहितो नृपसत्तम +नातिभारो हि पार्थस्य केशवेनाभवत्सह +व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव +पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् +इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् +मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् +स चकार सभां दिव्यां सर्वरत्नसमाचिताम् +तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः +ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् +वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च +अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् +ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु +नालभन्त महाराज ततो युद्धमवर्तत +ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् +राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः +एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् +भेदो राज्यविनाशश्च जयश्च जयतां वर +जनमेजय उवाच +कथितं वै समासेन त्वया सर्वं द्विजोत्तम +महाभारतमाख्यानं कुरूणां चरितं महत् +कथां त्वनघ चित्रार्थामिमां कथयति त्वयि +विस्तरश्रवणे जातं कौतूहलमतीव मे +स भवान्विस्तरेणेमां पुनराख्यातुमर्हति +न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् +न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः +अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः +किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः +प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् +कथं नागायुतप्राणो बाहुशाली वृकोदरः +परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम +���थं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः +शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा +कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा +अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः +कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् +अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः +कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः +अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः +एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन +यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः +वैशंपायन उवाच +महर्षेः सर्वलोकेषु पूजितस्य महात्मनः +प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः +इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् +सत्यवत्यात्मजेनेह व्याख्यातममितौजसा +य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः +ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् +इदं हि वेदैः समितं पवित्रमपि चोत्तमम् +श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् +अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते +इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी +अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् +कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते +भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् +इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः +जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा +महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् +इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् +महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा +अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् +मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना +संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे +पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः +शरीरेण कृतं पापं वाचा च मनसैव च +सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा +भारतानां महज्जन्म शृण्वतामनसूयताम् +नास्ति व्याधिभयं तेषां परलोकभयं कुतः +धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च +कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा +कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् +अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् +यथा समुद्रो भगवान्यथा च हिमवान्गिरिः +ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते +य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु +धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्��ति +यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः +अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि +अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् +तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते +भारतानां महज्जन्म महाभारतमुच्यते +निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते +त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः +महाभारतमाख्यानं कृतवानिदमुत्तमम् +धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ +यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् +वैशंपायन उवाच +राजोपरिचरो नाम धर्मनित्यो महीपतिः +बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः +स चेदिविषयं रम्यं वसुः पौरवनन्दनः +इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः +तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् +देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् +इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै +तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् +इन्द्र उवाच +न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते +तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् +लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः +धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् +दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः +ऊधः पृथिव्या यो देशस्तमावस नराधिप +पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् +स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः +अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः +वसुपूर्णा च वसुधा वस चेदिषु चेदिप +धर्मशीला जनपदाः सुसंतोषाश्च साधवः +न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा +न च पित्रा विभज्यन्ते नरा गुरुहिते रताः +युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च +सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद +न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् +देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् +आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते +त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः +चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव +ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् +धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम् +लक्षणं चैतदेवेह भविता ते नराधिप +इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् +वैशंपायन उवाच +यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः +इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् +तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा +प्रवेशं कारयामास गते संवत्सरे तदा +ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः +प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः +अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः +अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः +माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च +भगवान्पूज्यते चात्र हास्यरूपेण शंकरः +स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः +एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् +वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः +ये पूजयिष्यन्ति नरा राजानश्च महं मम +कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः +तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति +तथा स्फीतो जनपदो मुदितश्च भविष्यति +एवं महात्मना तेन महेन्द्रेण नराधिप +वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः +उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः +भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै +वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते +संपूजितो मघवता वसुश्चेदिपतिस्तदा +पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् +इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः +पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः +नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् +महारथो मगधराड्विश्रुतो यो बृहद्रथः +प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् +मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः +एते तस्य सुता राजन्राजर्षेर्भूरितेजसः +न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च +वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः +वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् +उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् +राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् +पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः +अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल +गिरिं कोलाहलं तं तु पदा वसुरताडयत् +निश्चक्राम नदी तेन प्रहारविवरेण सा +तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् +तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् +यः पुमानभवत्तत्र तं स राजर्षिसत्तमः +वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् +चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः +वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् +ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः +तदहः पितरश्चैनमूचुर्जहि मृगानि��ि +तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् +स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः +चचार मृगयां कामी गिरिकामेव संस्मरन् +अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् +तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने +स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः +प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत +ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः +संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः +अमोघत्वं च विज्ञाय रेतसो राजसत्तमः +शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः +अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् +सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् +मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय +गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै +गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् +जवं परममास्थाय प्रदुद्राव विहंगमः +तमपश्यदथायान्तं श्येनं श्येनस्तथापरः +अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया +तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः +युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि +तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः +मीनभावमनुप्राप्ता बभूव यमुनाचरी +श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् +जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी +कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः +मासे च दशमे प्राप्ते तदा भरतसत्तम +उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् +आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् +काये मत्स्या इमौ राजन्संभूतौ मानुषाविति +तयोः पुमांसं जग्राह राजोपरिचरस्तदा +स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः +साप्सरा मुक्तशापा च क्षणेन समपद्यत +पुरोक्ता या भगवता तिर्यग्योनिगता शुभे +मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि +ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना +संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च +सिद्धर्षिचारणपथं जगामाथ वराप्सराः +या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी +राज्ञा दत्ताथ दाशाय इयं तव भवत्विति +रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः +सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् +आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता +शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले +तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः +अत���व रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् +दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् +विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः +साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् +आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः +एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः +येन देशः स सर्वस्तु तमोभूत इवाभवत् +दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा +विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी +विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् +त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ +कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम +गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे +एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् +एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः +उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि +वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि +वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते +एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् +स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः +ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता +जगाम सह संसर्गमृषिणाद्भुतकर्मणा +तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि +तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि +ततो योजनगन्धेति तस्या नाम परिश्रुतम् +पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् +इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् +पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा +जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् +स मातरमुपस्थाय तपस्येव मनो दधे +स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् +एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् +द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् +पादापसारिणं धर्मं विद्वान्स तु युगे युगे +आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च +ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया +विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः +वेदानध्यापयामास महाभारतपञ्चमान् +सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् +प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च +संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः +तथा भीष्मः शांतनवो गङ्गायाममितद्युतिः +वसुवीर्यात्समभवन्महावीर्यो महायशाः +शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया +अणीमाण्डव्य इति वै विख्यातः सुमहायशाः +स धर्ममाहूय ���ुरा महर्षिरिदमुक्तवान् +इषीकया मया बाल्यादेका विद्धा शकुन्तिका +तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे +तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः +गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः +तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि +तेन शापेन धर्मोऽपि शूद्रयोनावजायत +विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी +संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् +सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः +सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः +अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः +वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः +अनादिनिधनो देवः स कर्ता जगतः प्रभुः +अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् +आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् +पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् +अनन्तमचलं देवं हंसं नारायणं प्रभुम् +धातारमजरं नित्यं तमाहुः परमव्ययम् +पुरुषः स विभुः कर्ता सर्वभूतपितामहः +धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु +अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ +सात्यकिः कृतवर्मा च नारायणमनुव्रतौ +सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ +भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत +महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत +गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः +अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः +अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः +तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः +वैताने कर्मणि तते पावकात्समजायत +वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् +तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा +विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् +प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः +तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् +गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा +दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ +कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः +क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः +पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् +द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः +धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः +इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः +जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ +नकुल�� सहदेवश्च गुरुशुश्रूषणे रतौ +तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः +दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा +अभिमन्युः सुभद्रायामर्जुनादभ्यजायत +स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः +पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे +कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः +प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् +अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः +तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् +हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः +शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता +यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया +कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ +राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे +तेषामपरिमेयानि नामधेयानि सर्वशः +न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि +एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् +जनमेजय उवाच +य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः +सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः +यदर्थमिह संभूता देवकल्पा महारथाः +भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि +वैशंपायन उवाच +रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् +तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे +त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा +जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे +तदा निःक्षत्रिये लोके भार्गवेण कृते सति +ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः +ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः +ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा +तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः +ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् +कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये +एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः +जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् +चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः +अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा +तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि +ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ +ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः +ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः +आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः +अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् +अध्यतिष्ठत्पुनः ���्षत्रं सशैलवनकाननाम् +प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् +ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् +कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः +दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् +तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः +स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः +न बाल एव म्रियते तदा कश्चिन्नराधिप +न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः +एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ +इयं सागरपर्यन्ता समापूर्यत मेदिनी +ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः +साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा +न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप +न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत +कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह +न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् +फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः +न कूटमानैर्वणिजः पण्यं विक्रीणते तदा +कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः +धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः +स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप +एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् +काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ +फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च +एवं कृतयुगे सम्यग्वर्तमाने तदा नृप +आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् +ततः समुदिते लोके मानुषे भरतर्षभ +असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव +आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि +ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह +इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः +जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो +गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च +क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च +जातैरिह महीपाल जायमानैश्च तैर्मही +न शशाकात्मनात्मानमियं धारयितुं धरा +अथ जाता महीपालाः केचिद्बलसमन्विताः +दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः +वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् +इमां सागरपर्यन्तां परीयुररिमर्दनाः +ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् +अन्यानि चैव भूतानि पीडयामासुरोजसा +त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते +विचेरुः सर्वतो राजन्महीं शतसहस्रशः +आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः +अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च +एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः +पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे +न हीमां पवनो राजन्न नागा न नगा महीम् +तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् +ततो मही महीपाल भारार्ता भयपीडिता +जगाम शरणं देवं सर्वभूतपितामहम् +सा संवृतं महाभागैर्देवद्विजमहर्षिभिः +ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् +गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः +वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा +अथ विज्ञापयामास भूमिस्तं शरणार्थिनी +संनिधौ लोकपालानां सर्वेषामेव भारत +तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः +पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः +स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत +सुरासुराणां लोकानामशेषेण मनोगतम् +तामुवाच महाराज भूमिं भूमिपतिर्विभुः +प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः +यदर्थमसि संप्राप्ता मत्सकाशं वसुंधरे +तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः +इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च +आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् +अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् +अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् +तथैव च समानीय गन्धर्वाप्सरसां गणान् +उवाच भगवान्सर्वानिदं वचनमुत्तमम् +स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति +अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः +तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा +अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः +नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः +यः स चक्रगदापाणिः पीतवासासितप्रभः +पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः +तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् +अंशेनावतरस्वेति तथेत्याह च तं हरिः +वैशंपायन उवाच +अथ नारायणेनेन्द्रश्चकार सह संविदम् +अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः +आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः +निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह +तेऽमरारिविनाशाय सर्वलोकहिताय च +अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः +ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च +जज्ञिरे राजशार्दूल यथाकामं दिवौकसः +दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा +पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः +दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा +न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम +जनमेजय उवाच +देवदानवसंघानां गन्धर्वाप्सरसां तथा +मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् +श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः +प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि +वैशंपायन उवाच +हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे +सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् +ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः +मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः +मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः +प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश +अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः +क्रोधा प्रावा अरिष्टा च विनता कपिला तथा +कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत +एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् +अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः +ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत +धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च +भगो विवस्वान्पूषा च सविता दशमस्तथा +एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते +जघन्यजः स सर्वेषामादित्यानां गुणाधिकः +एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः +नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः +प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् +अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ +प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत +विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः +विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् +बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः +चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत +तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः +शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः +असिलोमा च केशी च दुर्जयश्चैव दानवः +अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् +तथा गगनमूर्धा च वेगवान्केतुमांश्च यः +स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा +अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः +इसृपा एकचक्रश्च विरूपाक्षो हराहरौ +निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा +शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा +इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः +अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ +इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः +दनुपुत्रा महाराज दश दानवपुङ्गवाः +एकाक्षो मृतपा वीरः प्रलम्बनरकावपि +वातापिः शत्रुतपनः शठश्चैव महासुरः +गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः +असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत +सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् +सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् +क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् +गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः +अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः +विक्षरो बलवीरौ च वृत्रश्चैव महासुरः +कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः +भुवि ख्याता महावीर्या दानवेषु परंतपाः +विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः +क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः +असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् +ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः +त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ +तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः +इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् +असुराणां सुराणां च पुराणे संश्रुतो मया +एतेषां यदपत्यं तु न शक्यं तदशेषतः +प्रसंख्यातुं महीपाल गुणभूतमनन्तकम् +तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ +आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः +शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः +कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः +भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा +गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः +पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः +भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी +तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः +कलिः पञ्चदशश्चैव नारदश्चैव षोडशः +इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः +अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत +अनवद्यामनुवशामनूनामरुणां प्रियाम् +अनूपां सुभगां भासीमिति प्रावा व्यजायत +सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः +ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः +विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा +इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः +इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् +प्रावासूत महाभागा देवी देवर्षितः पुरा +अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा +अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा +असिता च सुबाहुश्च सुव्रता सुभुजा तथा +सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू +तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः +अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा +अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् +इति ते सर्वभूतानां संभवः कथितो मया +यथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा +भुजगानां सुपर्णानां रुद्राणां मरुतां तथा +गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् +आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः +श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता +इमं तु वंशं नियमेन यः पठे;न्महात्मनां ब्राह्मणदेवसंनिधौ +अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् +वैशंपायन उवाच +ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः +एकादश सुताः स्थाणोः ख्याताः परममानसाः +मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः +अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः +दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः +स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः +मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः +षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः +त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः +बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः +अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप +सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः +राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा +पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा +क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः +विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः +दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः +ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः +वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः +तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः +ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः +पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः +ददौ स दश धर्माय सप्तविंशतिमिन्दवे +दिव्येन विधिना राजन्कश्यपाय त्रयोदश +नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे +कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा +बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश +द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा +सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः +कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः +सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः +पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः +तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् +धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः +प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः +धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा +चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा +रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः +प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ +धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा +ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः +सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते +मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा +अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः +अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः +तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः +कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः +अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः +अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु +प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् +द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ +बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी +योगसिद्धा जगत्सर्वमसक्तं विचरत्युत +प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह +विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः +कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः +भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः +यो दिव्यानि विमानानि देवतानां चकार ह +मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः +पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् +स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः +निःसृतो भगवान्धर्मः सर्वलोकसुखावहः +त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः +शमः कामश्च हर्षश्च तेजसा लोकधारिणः +कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना +नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः +मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः +जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः +त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी +असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ +द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप +तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः +त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव +अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् +रुद्राणामपरः पक्षः साध्यानां मरुतां तथा +वसूनां भार्गवं विद्याद्विश्वेद���वांस्तथैव च +वैनतेयस्तु गरुडो बलवानरुणस्तथा +बृहस्पतिश्च भगवानादित्येष्वेव गण्यते +अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् +एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः +यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते +ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः +भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः +त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये +स्वयंभुवा नियुक्तः सन्भुवनं परिधावति +योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः +सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः +तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे +अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् +च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् +यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत +आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः +और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः +महातपा महातेजा बाल एव गुणैर्युतः +ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् +जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः +रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः +सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी +और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् +तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः +द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् +लोके धाता विधाता च यौ स्थितौ मनुना सह +तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा +तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः +वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत +तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् +प्रजानामन्नकामानामन्योन्यपरिभक्षणात् +अधर्मस्तत्र संजातः सर्वभूतविनाशनः +तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः +घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा +भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा +काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् +ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः +उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत +भासी भासानजनयद्गृध्रांश्चैव जनाधिप +धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः +चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी +शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी +कल्याणगुणसंपन्ना सर्वलक्षणपूजिता +नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाः +मृगीं च ���ृगमन्दां च हरिं भद्रमनामपि +मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च +सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् +अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज +ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि +ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् +ऐरावतः सुतस्तस्या देवनागो महागजः +हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः +गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते +प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत +द्वीपिनश्च महाभाग सर्वानेव न संशयः +मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप +दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् +तथा दुहितरौ राजन्सुरभिर्वै व्यजायत +रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् +रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः +सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् +सप्त पिण्डफलान्वृक्षाननलापि व्यजायत +अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता +अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ +संपातिं जनयामास तथैव च जटायुषम् +द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ +इत्येष सर्वभूतानां महतां मनुजाधिप +प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर +यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः +सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति +जनमेजय उवाच +देवानां दानवानां च यक्षाणामथ रक्षसाम् +अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् +श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् +जन्म कर्म च भूतानामेतेषामनुपूर्वशः +वैशंपायन उवाच +मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः +प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः +विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः +जरासंध इति ख्यातः स आसीन्मनुजर्षभः +दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः +स जज्ञे मानुषे लोके शिशुपालो नरर्षभः +संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः +स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः +अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः +धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः +यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः +द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः +बाष्कलो नाम यस्तेषामासीदसुरसत्तमः +भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः +अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् +तथा गगनमूर्धा च वेगवां��्चात्र पञ्चमः +पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः +केकयेषु महात्मानः पार्थिवर्षभसत्तमाः +केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् +अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः +स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः +उग्रसेन इति ख्यात उग्रकर्मा नराधिपः +यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः +अशोको नाम राजासीन्महावीर्यपराक्रमः +तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः +दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः +वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः +दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः +अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः +स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः +अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः +रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः +सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः +बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः +तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः +सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः +इसृपा नाम यस्तेषामसुराणां बलाधिकः +पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः +एकचक्र इति ख्यात आसीद्यस्तु महासुरः +प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ +विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः +चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः +हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः +सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः +अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः +बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ +निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः +मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः +निकुम्भस्त्वजितः संख्ये महामतिरजायत +भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः +शरभो नाम यस्तेषां दैतेयानां महासुरः +पौरवो नाम राजर्षिः स बभूव नरेष्विह +द्वितीयः शलभस्तेषामसुराणां बभूव यः +प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः +चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः +ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः +मृतपा इति विख्यातो य आसीदसुरोत्तमः +पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम +गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः +द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः +मयूर इति विख्यातः श्रीमान्यस्तु महासुरः +स विश्व इति विख्यातो बभूव प��थिवीपतिः +सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः +कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः +चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः +शुनको नाम राजर्षिः स बभूव नराधिपः +विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः +जानकिर्नाम राजर्षिः स बभूव नराधिपः +दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः +काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः +ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् +क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः +अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः +विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः +द्वितीयो विक्षराद्यस्तु नराधिप महासुरः +पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः +बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः +पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः +वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः +मणिमान्नाम राजर्षिः स बभूव नराधिपः +क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः +दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ +क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः +दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः +कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः +जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः +मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः +अष्टानां प्रवरस्तेषां कालेयानां महासुरः +द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः +अपराजित इत्येव स बभूव नराधिपः +तृतीयस्तु महाराज महाबाहुर्महासुरः +निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः +तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः +श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः +पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः +महौजा इति विख्यातो बभूवेह परंतपः +षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः +अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः +समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् +विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् +बृहन्नामाष्टमस्तेषां कालेयानां परंतपः +बभूव राजन्धर्मात्मा सर्वभूतहिते रतः +गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः +ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः +नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा +सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः +क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः +वीरधामा च कौरव्य भूमिपालश्च नामतः +दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः +रुक्मी च नृपशार्दूलो राजा च जनमेजयः +आषाढो वायुवेगश्च भूरितेजास्तथैव च +एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः +कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च +श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च +क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः +मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः +गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ +जातः पुरा महाराज महाकीर्तिर्महाबलः +यस्त्वासीद्देवको नाम देवराजसमद्युतिः +स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः +बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत +अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् +धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः +बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह +धनुर्वेदे च वेदे च यं तं वेदविदो विदुः +वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् +महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत +एकत्वमुपपन्नानां जज्ञे शूरः परंतपः +अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः +वीरः कमलपत्राक्षः क्षितावासीन्नराधिप +जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः +वसिष्ठस्य च शापेन नियोगाद्वासवस्य च +तेषामवरजो भीष्मः कुरूणामभयंकरः +मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः +जामदग्न्येन रामेण यः स सर्वविदां वरः +अयुध्यत महातेजा भार्गवेण महात्मना +यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ +रुद्राणां तं गणाद्विद्धि संभूतमतिपौरुषम् +शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः +द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् +सात्यकिः सत्यसंधस्तु योऽसौ वृष्णिकुलोद्वहः +पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः +द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् +मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः +ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् +जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् +मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् +विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् +अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः +स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः +धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि +दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः +मातुर्दोषादृषेः कोपादन्ध एव व्यजायत +अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् +विदुरं विद्धि ���ोकेऽस्मिञ्जातं बुद्धिमतां वरम् +कलेरंशात्तु संजज्ञे भुवि दुर्योधनो नृपः +दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः +जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः +यः सर्वां घातयामास पृथिवीं पुरुषाधमः +येन वैरं समुद्दीप्तं भूतान्तकरणं महत् +पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह +शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् +दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः +दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ +धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् +भीमसेनं तु वातस्य देवराजस्य चार्जुनम् +अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि +नकुलः सहदेवश्च सर्वलोकमनोहरौ +यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् +अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् +अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् +शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् +द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ +विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ +आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः +दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् +यस्तु नारायणो नाम देवदेवः सनातनः +तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् +शेषस्यांशस्तु नागस्य बलदेवो महाबलः +सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् +एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् +जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः +गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः +तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च +तानि षोडश देवीनां सहस्राणि नराधिप +बभूवुर्मानुषे लोके नारायणपरिग्रहः +श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले +द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता +नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी +पद्मायताक्षी सुश्रोणी असितायतमूर्धजा +सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा +पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः +सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते +कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा +इति देवासुराणां ते गन्धर्वाप्सरसां तथा +अंशावतरणं राजन्राक्षसानां च कीर्तितम् +ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः +महात्मानो यदूनां च ये जाता विपुले कुले +धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् +इदमंशावतरणं श्रोतव्यमनसूयता +अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् +प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति +जनमेजय उवाच +त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् +अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा +इमं तु भूय इच्छामि कुरूणां वंशमादितः +कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ +वैशंपायन उवाच +पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् +पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम +चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः +समुद्रावरणांश्चापि देशान्स समितिंजयः +आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः +रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् +न वर्णसंकरकरो नाकृष्यकरकृज्जनः +न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति +धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे +तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे +नासीच्चोरभयं तात न क्षुधाभयमण्वपि +नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे +स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः +तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः +कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च +सर्वरत्नसमृद्धा च मही वसुमती तदा +स चाद्भुतमहावीर्यो वज्रसंहननो युवा +उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् +धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च +नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः +बले विष्णुसमश्चासीत्तेजसा भास्करोपमः +अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः +संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् +भूयो धर्मपरैर्भावैर्विदितं जनमावसत् +वैशंपायन उवाच +स कदाचिन्महाबाहुः प्रभूतबलवाहनः +वनं जगाम गहनं हयनागशतैर्वृतः +खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः +प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः +सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः +रथनेमिस्वनैश्चापि सनागवरबृंहितैः +हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः +आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे +प्रासादवरशृङ्गस्थाः परया नृपशोभया +ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् +शक्रोपमममित्रघ्नं परवारणवारणम् +पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे +अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः +यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः +इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् +तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि +तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः +निर्ययौ परया प्रीत्या वनं मृगजिघांसया +सुदूरमनुजग्मुस्तं पौरजानपदास्तदा +न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह +सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः +महीमापूरयामास घोषेण त्रिदिवं तथा +स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् +बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् +विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् +निर्जलं निर्मनुष्यं च बहुयोजनमायतम् +मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः +तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः +लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् +बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् +पातयामास दुःषन्तो निर्बिभेद च सायकैः +दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः +अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत +कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः +गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः +तोमरैरसिभिश्चापि गदामुसलकर्पणैः +चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् +राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः +लोड्यमानं महारण्यं तत्यजुश्च महामृगाः +तत्र विद्रुतसंघानि हतयूथपतीनि च +मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः +शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः +व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः +क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि +केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः +केचिदग्निमथोत्पाद्य समिध्य च वनेचराः +भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा +तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः +संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः +शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु +वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् +तद्वनं बलमेघेन शरधारेण संवृतम् +व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् +वैशंपायन उवाच +ततो मृगसहस्राणि हत्वा विपुलवाहनः +राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह +एक एवोत्तमबलः क्षुत्पिपासासमन्वितः +स वनस्यान्तमासाद्य महदीरिणमासदत् +तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् +मनःप्रह्लादजननं दृष्टिकान्तमतीव च +शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् +पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् +विपुलं मधुरारावैर्नादितं विहगैस्तथा +प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् +षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् +नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी +षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् +विहगैर्नादितं पुष्पैरलंकृतमतीव च +सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् +मनोरमं महेष्वासो विवेश वनमुत्तमम् +मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः +पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः +दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः +विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः +तेषां तत्र प्रवालेषु पुष्पभारावनामिषु +रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु +तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् +लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् +संपश्यन्स महातेजा बभूव मुदितस्तदा +परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः +अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः +सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः +परिक्रामन्वने वृक्षानुपैतीव रिरंसया +एवंगुणसमायुक्तं ददर्श स वनं नृपः +नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् +प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहंगमम् +आश्रमप्रवरं रम्यं ददर्श च मनोरमम् +नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् +यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् +अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् +महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च +मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् +नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् +तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः +तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत +देवलोकप्रतीकाशं सर्वतः सुमनोहरम् +नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः +सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् +सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् +सकिंनरगणावासां वानरर्क्षनिषेविताम् +पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम् +मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् +नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा +चकाराभिप्रवेशाय मतिं स नृपतिस्तदा +अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया +नरनारायणस्थानं गङ्गयेवोपशोभितम् +मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् +तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः +अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा +महर्षिं काश्यपं द्रष्टु��थ कण्वं तपोधनम् +रथिनीमश्वसंबाधां पदातिगणसंकुलाम् +अवस्थाप्य वनद्वारि सेनामिदमुवाच सः +मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् +काश्यपं स्थीयतामत्र यावदागमनं मम +तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः +क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् +सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः +पुरोहितसहायश्च जगामाश्रममुत्तमम् +दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् +ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च +षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् +ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः +शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु +यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि +अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः +अथर्ववेदप्रवराः पूगयाज्ञिक संमताः +संहितामीरयन्ति स्म पदक्रमयुतां तु ते +शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः +नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः +यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः +न्यायतत्त्वार्थविज्ञानसंपन्नैर्वेदपारगैः +नानावाक्यसमाहारसमवायविशारदैः +विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः +स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः +लोकायतिकमुख्यैश्च समन्तादनुनादितम् +तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् +जपहोमपरान्सिद्धान्ददर्श परवीरहा +आसनानि विचित्राणि पुष्पवन्ति महीपतिः +प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् +देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः +ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः +स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् +नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् +स काश्यपस्यायतनं महाव्रतै;र्वृतं समन्तादृषिभिस्तपोधनैः +विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् +वैशंपायन उवाच +ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् +नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् +सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् +उवाच क इहेत्युच्चैर्वनं संनादयन्निव +श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी +निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी +सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा +स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च +आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि +पप्रच���छानामयं राजन्कुशलं च नराधिपम् +यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा +उवाच स्मयमानेव किं कार्यं क्रियतामिति +तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् +दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः +आगतोऽहं महाभागमृषिं कण्वमुपासितुम् +क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने +शकुन्तलोवाच +गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् +मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् +वैशंपायन उवाच +अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः +तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् +विभ्राजमानां वपुषा तपसा च दमेन च +रूपयौवनसंपन्नामित्युवाच महीपतिः +कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् +एवंरूपगुणोपेता कुतस्त्वमसि शोभने +दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः +इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने +एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे +उवाच हसती वाक्यमिदं सुमधुराक्षरम् +कण्वष्याहं भगवतो दुःषन्त दुहिता मता +तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः +दुःषन्त उवाच +ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः +चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः +कथं त्वं तस्य दुहिता संभूता वरवर्णिनी +संशयो मे महानत्र तं मे छेत्तुमिहार्हसि +शकुन्तलोवाच +यथायमागमो मह्यं यथा चेदमभूत्पुरा +शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः +ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् +तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव +तप्यमानः किल पुरा विश्वामित्रो महत्तपः +सुभृशं तापयामास शक्रं सुरगणेश्वरम् +तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति +भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् +गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे +श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु +असावादित्यसंकाशो विश्वामित्रो महातपाः +तप्यमानस्तपो घोरं मम कम्पयते मनः +मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे +संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते +स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय +चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् +रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः +लोभयित्वा वरारोहे तपसः संनिवर्तय +मेनकोवाच +महातेजाः स भगवान्सदैव च महातपाः +कोपनश्च तथा ह्येनं जानाति भगवानपि +तेजसस्तपसश्चैव कोपस्य च महात्मनः +त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् +महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् +क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् +शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः +यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः +बभार यत्रास्य पुरा काले दुर्गे महात्मनः +दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः +अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् +मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः +मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् +त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर +अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा +प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः +एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे +यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो +तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा +संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा +तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् +कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् +हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् +कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् +यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे +एतेऽपि यस्योद्विजन्ते प्रभावा;त्कस्मात्तस्मान्मादृशी नोद्विजेत +त्वयैवमुक्ता च कथं समीप;मृषेर्न गच्छेयमहं सुरेन्द्र +रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् +कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव +भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् +वनाच्च वायुः सुरभिः प्रवाये;त्तस्मिन्काले तमृषिं लोभयन्त्याः +तथेत्युक्त्वा विहिते चैव तस्मिं;स्ततो ययौ साश्रमं कौशिकस्य +शकुन्तलोवाच +एवमुक्तस्तया शक्रः संदिदेश सदागतिम् +प्रातिष्ठत तदा काले मेनका वायुना सह +अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् +विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे +अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ +अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् +सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती +उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी +गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः +अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा +तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा +चकार भावं संसर्गे तया कामवशं गतः +न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता +तौ तत्र सुचिरं कालं वने व्यहरतामुभौ +रममाणौ यथाकामं यथैकदिवसं तथा +जनयामास स मुनिर्मेनकायां शकुन्तलाम् +प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् +जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु +कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् +तं वने विजने गर्भं सिंहव्याघ्रसमाकुले +दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् +नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः +पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् +उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् +निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् +आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् +शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते +क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये +निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता +शकुन्तलेति नामास्याः कृतं चापि ततो मया +एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् +शकुन्तला च पितरं मन्यते मामनिन्दिता +एतदाचष्ट पृष्टः सन्मम जन्म महर्षये +सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप +कण्वं हि पितरं मन्ये पितरं स्वमजानती +इति ते कथितं राजन्यथावृत्तं श्रुतं मया +दुःषन्त उवाच +सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे +भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते +सुवर्णमाला वासांसि कुण्डले परिहाटके +नानापत्तनजे शुभ्रे मणिरत्ने च शोभने +आहरामि तवाद्याहं निष्कादीन्यजिनानि च +सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने +गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि +विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते +शकुन्तलोवाच +फलाहारो गतो राजन्पिता मे इत आश्रमात् +तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति +दुःषन्त उवाच +इच्छामि त्वां वरारोहे भजमानामनिन्दिते +त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम +आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः +आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः +अष्टावेव समासेन विवाहा धर्मतः स्मृताः +ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः +गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः +तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् +प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय +षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते +राज्ञां तु राक्षसोऽप्युक्तो वि��्शूद्रेष्वासुरः स्मृतः +पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह +पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन +अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता +गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः +पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः +सा त्वं मम सकामस्य सकामा वरवर्णिनि +गान्धर्वेण विवाहेन भार्या भवितुमर्हसि +शकुन्तलोवाच +यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम +प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो +सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः +मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् +युवराजो महाराज सत्यमेतद्ब्रवीहि मे +यद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया +वैशंपायन उवाच +एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् +अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते +यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते +एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् +जग्राह विधिवत्पाणावुवास च तया सह +विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः +प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् +तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते +इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय +मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः +भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति +एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् +मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् +शकुन्तला च पितरं ह्रिया नोपजगाम तम् +विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः +उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा +त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः +पुंसा सह समायोगो न स धर्मोपघातकः +क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते +सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः +धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः +अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले +महात्मा जनिता लोके पुत्रस्तव महाबलः +य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् +परं चाभिप्रयातस्य चक्रं तस्य महात्मनः +भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः +ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् +विनिधाय ततो भारं संनिधाय फलानि च +मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः +तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि +कण्व उवाच +प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि +गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् +वैशंपायन उवाच +ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा +शकुन्तला पौरवाणां दुःषन्तहितकाम्यया +वैशंपायन उवाच +प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला +गर्भं सुषाव वामोरुः कुमारममितौजसम् +त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् +रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय +जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः +तस्याथ कारयामास वर्धमानस्य धीमतः +दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा +चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः +कुमारो देवगर्भाभः स तत्राशु व्यवर्धत +षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति +व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा +बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः +आरोहन्दमयंश्चैव क्रीडंश्च परिधावति +ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः +अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् +स सर्वदमनो नाम कुमारः समपद्यत +विक्रमेणौजसा चैव बलेन च समन्वितः +तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् +समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् +तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह +शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् +भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् +नारीणां चिरवासो हि बान्धवेषु न रोचते +कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् +तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः +शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् +गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् +आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् +अभिसृत्य च राजानं विदिता सा प्रवेशिता +सह तेनैव पुत्रेण तरुणादित्यवर्चसा +पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला +अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् +त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः +यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम +यथा समागमे पूर्वं कृतः स समयस्त्वया +तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति +सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि +अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि +धर्मकामार्थसंबन्धं न स्मरामि त्वया सह +गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु +सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी +विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला +संरम्भामर्षताम्राक���षी स्फुरमाणोष्ठसंपुटा +कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत +आकारं गूहमाना च मन्युनाभिसमीरिता +तपसा संभृतं तेजो धारयामास वै तदा +सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता +भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत् +जानन्नपि महाराज कस्मादेवं प्रभाषसे +न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा +अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च +कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः +योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते +किं तेन न कृतं पापं चोरेणात्मापहारिणा +एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् +यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि +मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति +विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः +आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च +अहश्च रात्रिश्च उभे च संध्ये; धर्मश्च जानाति नरस्य वृत्तम् +यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् +हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति +न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः +तं यमः पापकर्माणं निर्यातयति दुष्कृतम् +अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते +देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् +स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् +अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् +किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि +न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे +यदि मे याचमानाया वचनं न करिष्यसि +दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति +भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः +जायाया इति जायात्वं पुराणाः कवयो विदुः +यदागमवतः पुंसस्तदपत्यं प्रजायते +तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् +पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः +तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा +सा भार्या या गृहे दक्षा सा भार्या या प्रजावती +सा भार्या या पतिप्राणा सा भार्या या पतिव्रता +अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा +भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः +भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः +भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः +सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः +पितरो धर्मकार्येषु भवन्त्य���र्तस्य मातरः +कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै +यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः +संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् +भार्यैवान्वेति भर्तारं सततं या पतिव्रता +प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते +पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति +एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते +यदाप्नोति पतिर्भार्यामिह लोके परत्र च +आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः +तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् +भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् +ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् +दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः +ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव +सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः +रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च +आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् +ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः +परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः +पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः +स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् +प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे +अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः +न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् +न वाससां न रामाणां नापां स्पर्शस्तथा सुखः +शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः +ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् +गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः +स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः +पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते +त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम +इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् +आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव +इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा +ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः +मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः +वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः +जातकर्मणि पुत्राणां तवापि विदितं तथा +अङ्गादङ्गात्संभवसि हृदयादभिजायसे +आत्मा वै पुत्रनामासि स जीव शरदः शतम् +पोषो हि त्वदधीनो मे संतानमपि चाक्षयम् +तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् +त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः +सरसी���ामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् +यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते +तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः +मृगापकृष्टेन हि ते मृगयां परिधावता +अहमासादिता राजन्कुमारी पितुराश्रमे +उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका +विश्वाची च घृताची च षडेवाप्सरसां वराः +तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः +दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् +सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः +अवकीर्य च मां याता परात्मजमिवासती +किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि +यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया +कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् +इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना +दुःषन्त उवाच +न पुत्रमभिजानामि त्वयि जातं शकुन्तले +असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः +मेनका निरनुक्रोशा बन्धकी जननी तव +यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता +स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव +विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः +मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता +तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि +अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे +विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् +क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका +क्व च त्वमेवं कृपणा तापसीवेषधारिणी +अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् +कथमल्पेन कालेन शालस्कन्ध इवोद्गतः +सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे +यदृच्छया कामरागाज्जाता मेनकया ह्यसि +सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि +नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया +शकुन्तलोवाच +राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि +आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि +मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् +ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः +क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् +आवयोरन्तरं पश्य मेरुसर्षपयोरिव +महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च +भवनान्यनुसंयामि प्रभावं पश्य मे नृप +सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ +निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि +विरूपो यावदादर्शे नात्मनः पश्यते मुखम् +मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् +यदा तु मुखमादर्शे विक���तं सोऽभिवीक्षते +तदेतरं विजानाति आत्मानं नेतरं जनम् +अतीव रूपसंपन्नो न किंचिदवमन्यते +अतीव जल्पन्दुर्वाचो भवतीह विहेठकः +मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः +अशुभं वाक्यमादत्ते पुरीषमिव सूकरः +प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः +गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः +अन्यान्परिवदन्साधुर्यथा हि परितप्यते +तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः +अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् +एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः +सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः +यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् +अतो हास्यतरं लोके किंचिदन्यन्न विद्यते +यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् +सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव +अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः +स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते +तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते +कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् +उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् +स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् +कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् +धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः +त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् +स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि +आत्मानं सत्यधर्मौ च पालयानो महीपते +नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि +वरं कूपशताद्वापी वरं वापीशतात्क्रतुः +वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् +अश्वमेधसहस्रं च सत्यं च तुलया धृतम् +अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते +सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् +सत्यं च वदतो राजन्समं वा स्यान्न वा समम् +नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् +न हि तीव्रतरं किंचिदनृतादिह विद्यते +राजन्सत्यं परं ब्रह्म सत्यं च समयः परः +मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते +अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् +आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम् +ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् +चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति +वैशंपायन उवाच +एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला +अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी +ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा +भस्त्रा माता पितुः पुत्रो येन जातः स एव सः +भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् +रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् +त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला +जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् +तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप +अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् +शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव +भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि +तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः +तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् +पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् +शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् +अहमप्येवमेवैनं जानामि स्वयमात्मजम् +यद्यहं वचनादेव गृह्णीयामिममात्मजम् +भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् +तं विशोध्य तदा राजा देवदूतेन भारत +हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् +मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे +सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः +स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः +तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः +अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः +कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह +तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् +मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम् +पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् +यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये +प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे +तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् +वासोभिरन्नपानैश्च पूजयामास भारत +दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा +भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् +तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः +भास्वरं दिव्यमजितं लोकसंनादनं महत् +स विजित्य महीपालांश्चकार वशवर्तिनः +चचार च सतां धर्मं प्राप चानुत्तमं यशः +स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् +ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः +याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् +श्रीमान्गोविततं नाम वाजिमेधमवाप सः +यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ +भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् +अपरे ये च पूर्वे च भारता इति वि���्रुताः +भरतस्यान्ववाये हि देवकल्पा महौजसः +बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः +येषामपरिमेयानि नामधेयानि सर्वशः +तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत +महाभागान्देवकल्पान्सत्यार्जवपरायणान् +वैशंपायन उवाच +प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च +भरतस्य कुरोः पूरोरजमीढस्य चान्वये +यादवानामिमं वंशं पौरवाणां च सर्वशः +तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् +धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ +तेजोभिरुदिताः सर्वे महर्षिसमतेजसः +दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः +मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः +तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः +संभूताः पुरुषव्याघ्र स हि लोकपितामहः +वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः +आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् +सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः +मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् +ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे +प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय +ददौ स दश धर्माय कश्यपाय त्रयोदश +कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे +त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा +मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् +इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च +विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः +मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत +मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः +मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् +ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः +तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् +ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् +वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च +करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् +पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् +नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् +पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ +अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् +पुरूरवास्ततो विद्वानिलायां समपद्यत +सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् +त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः +अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः +विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः +जहार च स विप्राणां रत्नान्युत्क्रोशतामपि +सनत्कुमा��स्तं राजन्ब्रह्मलोकादुपेत्य ह +अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ +ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत +लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः +स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् +आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा +षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः +दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः +नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् +स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते +आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः +राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः +पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् +नहुषः पालयामास ब्रह्मक्षत्रमथो विशः +स हत्वा दस्युसंघातानृषीन्करमदापयत् +पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् +कारयामास चेन्द्रत्वमभिभूय दिवौकसः +तेजसा तपसा चैव विक्रमेणौजसा तथा +यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् +नहुषो जनयामास षट्पुत्रान्प्रियवाससि +ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः +स पालयामास महीमीजे च विविधैः सवैः +अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा +अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः +तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः +देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे +देवयान्यामजायेतां यदुस्तुर्वसुरेव च +द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे +स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् +जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् +जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् +यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत +यौवनेन चरन्कामान्युवा युवतिभिः सह +विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः +तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् +किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च +ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् +यौवनेन त्वदीयेन चरेयं विषयानहम् +यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः +कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः +मामकेन शरीरेण राज्यमेकः प्रशास्तु वः +अहं तन्वाभिनवया युवा कामानवाप्नुयाम् +न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् +तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः +राजंश्चराभिनवया तन्वा यौवनगोचरः +अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया +एवमु���्तः स राजर्षिस्तपोवीर्यसमाश्रयात् +संचारयामास जरां तदा पुत्रे महात्मनि +पौरवेणाथ वयसा राजा यौवनमास्थितः +यायातेनापि वयसा राज्यं पूरुरकारयत् +ततो वर्षसहस्रान्ते ययातिरपराजितः +अतृप्त एव कामानां पूरुं पुत्रमुवाच ह +त्वया दायादवानस्मि त्वं मे वंशकरः सुतः +पौरवो वंश इति ते ख्यातिं लोके गमिष्यति +ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च +कालेन महता पश्चात्कालधर्ममुपेयिवान् +जनमेजय उवाच +ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः +कथं स शुक्रतनयां लेभे परमदुर्लभाम् +एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम +आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् +वैशंपायन उवाच +ययातिरासीद्राजर्षिर्देवराजसमद्युतिः +तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा +तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय +देवयान्याश्च संयोगं ययातेर्नाहुषस्य च +सुराणामसुराणां च समजायत वै मिथः +ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे +जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् +पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे +ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् +तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् +तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् +ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् +असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि +न तान्संजीवयामास बृहस्पतिरुदारधीः +न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् +संजीवनीं ततो देवा विषादमगमन्परम् +ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा +ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः +भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् +यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि +शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि +वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः +रक्षते दानवांस्तत्र न स रक्षत्यदानवान् +तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् +देवयानीं च दयितां सुतां तस्य महात्मनः +त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते +शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च +देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् +तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः +तदाभिपूजितो देवैः समीपं वृषपर्वणः +स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः +असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह +ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः +नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् +ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ +अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् +शुक्र उवाच +कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः +अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः +वैशंपायन उवाच +कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् +आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् +व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत +आराधयन्नुपाध्यायं देवयानीं च भारत +नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे +गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् +संशीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् +पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत +देवयान्यपि तं विप्रं नियमव्रतचारिणम् +अनुगायमाना ललना रहः पर्यचरत्तदा +पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् +तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् +गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः +जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च +हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् +ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् +ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् +उवाच वचनं काले देवयान्यथ भारत +अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो +अगोपाश्चागता गावः कचस्तात न दृश्यते +व्यक्तं हतो मृतो वापि कचस्तात भविष्यति +तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते +शुक्र उवाच +अयमेहीति शब्देन मृतं संजीवयाम्यहम् +वैशंपायन उवाच +ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत् +आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया +हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया +स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया +वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् +ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः +प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा +देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् +पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते +शुक्र उवाच +बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः +विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् +मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् +सुराश्च विश्वे च जगच्च सर्व;मुपस्थितां वैकृतिमानमन्ति +देवयान्युवाच +यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः +ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् +स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः +कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः +शुक्र उवाच +असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति +अब्राह्मणं कर्तुमिच्छन्ति रौद्रा;स्ते मां यथा प्रस्तुतं दानवैर्हि +अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् +वैशंपायन उवाच +संचोदितो देवयान्या महर्षिः पुनराह्वयत् +संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् +गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार +तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र +कच उवाच +भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् +न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि +असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य +ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् +शुक्र उवाच +किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य +नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि +देवयान्युवाच +द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः +कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता +शुक्र उवाच +संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी +विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य +न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् +ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि +पुत्रो भूत्वा भावय भावितो मा;मस्माद्देहादुपनिष्क्रम्य तात +समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः +वैशंपायन उवाच +गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः +कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः +दृष्ट्वा च तं पतितं ब्रह्मराशि;मुत्थापयामास मृतं कचोऽपि +विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच +ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् +ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् +वैशंपा���न उवाच +सुरापानाद्वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम् +दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन +समन्युरुत्थाय महानुभाव;स्तदोशना विप्रहितं चिकीर्षुः +काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः +यो ब्राह्मणोऽद्य प्रभृतीह कश्चि;न्मोहात्सुरां पास्यति मन्दबुद्धिः +अपेतधर्मो ब्रह्महा चैव स स्या;दस्मिँल्लोके गर्हितः स्यात्परे च +मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके +सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे +इतीदमुक्त्वा स महानुभाव;स्तपोनिधीनां निधिरप्रमेयः +तान्दानवान्दैवविमूढबुद्धी;निदं समाहूय वचोऽभ्युवाच +आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे +संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः +गुरोरुष्य सकाशे तु दश वर्षशतानि सः +अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् +वैशंपायन उवाच +समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा +प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् +ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च +भ्राजसे विद्यया चैव तपसा च दमेन च +ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः +तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः +एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन +व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि +स समावृत्तविद्यो मां भक्तां भजितुमर्हसि +गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् +कच उवाच +पूज्यो मान्यश्च भगवान्यथा तव पिता मम +तथा त्वमनवद्याङ्गि पूजनीयतरा मम +आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः +त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम +यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव +देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि +देवयान्युवाच +गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः +तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम +असुरैर्हन्यमाने च कच त्वयि पुनः पुनः +तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे +सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् +न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् +कच उवाच +अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते +प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे +यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने +तत्राहमुषितो भ��्रे कुक्षौ काव्यस्य भामिनि +भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने +सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम +आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि +अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे +अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम +देवयान्युवाच +यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः +ततः कच न ते विद्या सिद्धिमेषा गमिष्यति +कच उवाच +गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः +गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् +आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया +शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः +तस्माद्भवत्या यः कामो न तथा स भविष्यति +ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति +फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा +अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति +वैशंपायन उवाच +एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा +त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः +तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः +बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः +यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् +न ते यशः प्रणशिता भागभाङ्नो भविष्यसि +वैशंपायन उवाच +कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः +कचादधीत्य तां विद्यां कृतार्था भरतर्षभ +सर्व एव समागम्य शतक्रतुमथाब्रुवन् +कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर +एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा +तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः +क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे +वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् +ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा +वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः +तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा +व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः +ततस्तयोर्मिथस्तत्र विरोधः समजायत +देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते +देवयान्युवाच +कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि +समुदाचारहीनाया न ते श्रेयो भविष्यति +शर्मिष्ठोवाच +आसीनं च शयानं च पिता ते पितरं मम +स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् +याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः +सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः +अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि +लप्स्यसे प्रतिय��द्धारं न हि त्वां गणयाम्यहम् +वैशंपायन उवाच +समुच्छ्रयं देवयानीं गतां सक्तां च वाससि +शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् +हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया +अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा +अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः +श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः +स नाहुषः प्रेक्षमाण उदपानं गतोदकम् +ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव +तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् +सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना +का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला +दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा +कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते +दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे +देवयान्युवाच +योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया +तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते +एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः +समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः +जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् +तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि +वैशंपायन उवाच +तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः +गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् +उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः +आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ +देवयान्युवाच +त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः +नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः +वैशंपायन उवाच +सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् +दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना +आचक्षे ते महाप्राज्ञ देवयानी वने हता +शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः +श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् +त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने +दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने +बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् +आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः +मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता +देवयान्युवाच +निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम +शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः +सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः +एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी +वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् +स्त���वतो दुहिता हि त्वं याचतः प्रतिगृह्णतः +सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः +इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः +क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः +यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः +प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया +शुक्र उवाच +स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः +अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि +वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः +अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम +शुक्र उवाच +यः परेषां नरो नित्यमतिवादांस्तितिक्षति +देवयानि विजानीहि तेन सर्वमिदं जितम् +यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा +स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते +यः समुत्पतितं क्रोधमक्रोधेन निरस्यति +देवयानि विजानीहि तेन सर्वमिदं जितम् +यः समुत्पतितं क्रोधं क्षमयेह निरस्यति +यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते +यः संधारयते मन्युं योऽतिवादांस्तितिक्षति +यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् +यो यजेदपरिश्रान्तो मासि मासि शतं समाः +न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः +यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः +न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् +देवयान्युवाच +वेदाहं तात बालापि धर्माणां यदिहान्तरम् +अक्रोधे चातिवादे च वेद चापि बलाबलम् +शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता +तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते +पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च +न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु +ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च +तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते +वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः +न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु +यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते +वैशंपायन उवाच +ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह +वृषपर्वाणमासीनमित्युवाचाविचारयन् +नाधर्मश्चरितो राजन्सद्यः फलति गौरिव +पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति +फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे +यदघातयथा विप्रं कचमाङ्गिरसं तदा +अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् +वधादनर्हतस्तस्य वधाच्च दुहितुर्मम +वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् +स्थातुं त्वद्विषये राजन्न शक्ष्या���ि त्वया सह +अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् +यथेममात्मनो दोषं न नियच्छस्युपेक्षसे +वृषपर्वोवाच +नाधर्मं न मृषावादं त्वयि जानामि भार्गव +त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् +यद्यस्मानपहाय त्वमितो गच्छसि भार्गव +समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् +शुक्र उवाच +समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः +दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे +प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् +योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः +वृषपर्वोवाच +यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव +भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः +शुक्र उवाच +यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर +तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् +देवयान्युवाच +यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव +नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् +वृषपर्वोवाच +यं काममभिकामासि देवयानि शुचिस्मिते +तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् +देवयान्युवाच +दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये +अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता +वृषपर्वोवाच +उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानय +यं च कामयते कामं देवयानी करोतु तम् +वैशंपायन उवाच +ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् +उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह +त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः +सा यं कामयते कामं स कार्योऽद्य त्वयानघे +शर्मिष्ठोवाच +सा यं कामयते कामं करवाण्यहमद्य तम् +मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते +वैशंपायन उवाच +ततः कन्यासहस्रेण वृता शिबिकया तदा +पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् +शर्मिष्ठोवाच +अहं कन्यासहस्रेण दासी ते परिचारिका +अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता +देवयान्युवाच +स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः +स्तूयमानस्य दुहिता कथं दासी भविष्यसि +शर्मिष्ठोवाच +येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् +अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता +वैशंपायन उवाच +प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः +देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् +प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम +अमोघं तव विज्ञानमस्ति विद्याबल�� च ते +एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः +प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः +वैशंपायन उवाच +अथ दीर्घस्य कालस्य देवयानी नृपोत्तम +वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी +तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा +तमेव देशं संप्राप्ता यथाकामं चचार सा +ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् +क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् +खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च +पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया +तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः +ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः +पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः +उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् +रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् +शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः +ययातिरुवाच +द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते +गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् +देवयान्युवाच +आख्यास्याम्यहमादत्स्व वचनं मे नराधिप +शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् +इयं च मे सखी दासी यत्राहं तत्र गामिनी +दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः +ययातिरुवाच +कथं नु ते सखी दासी कन्येयं वरवर्णिनी +असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे +देवयान्युवाच +सर्व एव नरव्याघ्र विधानमनुवर्तते +विधानविहितं मत्वा मा विचित्राः कथाः कृथाः +राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च +किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे +ययातिरुवाच +ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः +राजाहं राजपुत्रश्च ययातिरिति विश्रुतः +देवयान्युवाच +केनास्यर्थेन नृपते इमं देशमुपागतः +जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया +ययातिरुवाच +मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः +बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि +देवयान्युवाच +द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह +त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव +ययातिरुवाच +विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि +अविवाह्या हि राजानो देवयानि पितुस्तव +देवयान्युवाच +संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् +ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् +ययातिरुवाच +एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गन��� +पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः +देवयान्युवाच +पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा +तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः +कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् +गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया +ययातिरुवाच +क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् +दुराधर्षतरो विप्रः पुरुषेण विजानता +देवयान्युवाच +कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् +दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ +ययातिरुवाच +एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते +हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः +दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम +अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् +देवयान्युवाच +दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया +अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः +वैशंपायन उवाच +त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः +श्रुत्वैव च स राजानं दर्शयामास भार्गवः +दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः +ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः +देवयान्युवाच +राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् +नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे +शुक्र उवाच +वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया +गृहाणेमां मया दत्तां महिषीं नहुषात्मज +ययातिरुवाच +अधर्मो न स्पृशेदेवं महान्मामिह भार्गव +वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् +शुक्र उवाच +अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् +अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते +वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् +अनया सह संप्रीतिमतुलां समवाप्स्यसि +इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी +संपूज्या सततं राजन्मा चैनां शयने ह्वयेः +वैशंपायन उवाच +एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् +जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना +वैशंपायन उवाच +ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् +प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् +देवयान्याश्चानुमते तां सुतां वृषपर्वणः +अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् +वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् +वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् +देवयान्या तु सहितः स नृपो नहुषात्मजः +विजहार बहूनब्दान्देववन्मुदितो भृशम् +ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना +लेभे गर्भं प्रथमतः कुमारं च व्यजायत +गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी +ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् +ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः +किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् +देवयानी प्रजातासौ वृथाहं प्राप्तयौवना +यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् +राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः +अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः +अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया +अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः +तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी +प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् +सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा +तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति +रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा +सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप +ययातिरुवाच +वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् +रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् +अब्रवीदुशना काव्यो देवयानीं यदावहम् +नेयमाह्वयितव्या ते शयने वार्षपर्वणी +शर्मिष्ठोवाच +न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले +प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि +पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र +एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति +ययातिरुवाच +राजा प्रमाणं भूतानां स नश्येत मृषा वदन् +अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे +शर्मिष्ठोवाच +समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः +समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः +ययातिरुवाच +दातव्यं याचमानेभ्य इति मे व्रतमाहितम् +त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते +शर्मिष्ठोवाच +अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय +त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् +त्रय एवाधना राजन्भार्या दासस्तथा सुतः +यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् +देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी +सा चाहं च त्वया राजन्भरणीये भजस्व माम् +वैशंपायन उवाच +एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् +पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् +समागम्य च शर्मिष्ठां यथाकाममवाप्य च +अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् +तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी +लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् +प्रजज्ञे च ततः काले राजन्राजीवलोचना +कुमारं देवगर्भाभं राजीवनिभलोचनम् +वैशंपायन उवाच +श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता +चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत +अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् +किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया +शर्मिष्ठोवाच +ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः +स मया वरदः कामं याचितो धर्मसंहितम् +नाहमन्यायतः काममाचरामि शुचिस्मिते +तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते +देवयान्युवाच +शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः +गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् +शर्मिष्ठोवाच +ओजसा तेजसा चैव दीप्यमानं रविं यथा +तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते +देवयान्युवाच +यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम +अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् +वैशंपायन उवाच +अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः +जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी +ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः +यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ +तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी +द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् +ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता +ययातिसहिता राजन्निर्जगाम महावनम् +ददर्श च तदा तत्र कुमारान्देवरूपिणः +क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् +कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः +वर्चसा रूपतश्चैव सदृशा मे मतास्तव +एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत +किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता +विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् +तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् +शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः +इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः +नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके +रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः +दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति +बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् +मदधीना सती कस्मादकार्षीर्विप्रियं मम +तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् +शर्मिष्ठोवाच +यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि +न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते +यदा त्वया वृतो राजा वृत एव तदा मया +सखीभर्ता हि धर्मेण भर्ता भवति शोभने +पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी +त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् +वैशंपायन उवाच +श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् +राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया +सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् +त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा +अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः +न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना +अविब्रुवन्ती किंचित्तु राजानं चारुलोचना +अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम् +सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता +अनन्तरं ययातिस्तु पूजयामास भार्गवम् +देवयान्युवाच +अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् +शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः +त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना +दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते +धर्मज्ञ इति विख्यात एष राजा भृगूद्वह +अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते +शुक्र उवाच +धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् +तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया +ययातिरुवाच +ऋतुं वै याचमानाया भगवन्नान्यचेतसा +दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया +ऋतुं वै याचमानाया न ददाति पुमान्वृतः +भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः +अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः +नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः +इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह +अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् +शुक्र उवाच +नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव +मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष +वैशंपायन उवाच +क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा +पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत +ययातिरुवाच +अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह +प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् +शुक्र उवाच +नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप +जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि +ययातिरुवाच +राज्यभाक्स भवेद्ब्रह्म���्पुण्यभाक्कीर्तिभाक्तथा +यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् +शुक्र उवाच +संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज +मामनुध्याय भावेन न च पापमवाप्स्यसि +वयो दास्यति ते पुत्रो यः स राजा भविष्यति +आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च +वैशंपायन उवाच +जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह +पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः +जरा वली च मां तात पलितानि च पर्यगुः +काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने +त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह +यौवनेन त्वदीयेन चरेयं विषयानहम् +पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् +दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह +यदुरुवाच +सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः +वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः +अशक्तः कार्यकरणे परिभूतः स यौवनैः +सहोपजीविभिश्चैव तां जरां नाभिकामये +ययातिरुवाच +यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि +तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति +तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह +यौवनेन चरेयं वै विषयांस्तव पुत्रक +पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् +स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह +तुर्वसुरुवाच +न कामये जरां तात कामभोगप्रणाशिनीम् +बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् +ययातिरुवाच +यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि +तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति +संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च +पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि +गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च +पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि +वैशंपायन उवाच +एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः +शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् +द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् +जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च +पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् +स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह +द्रुह्युरुवाच +न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् +वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये +ययातिरुवाच +यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि +तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् +उडुपप्लवसंतारो यत्र नित्यं भविष्यति +अराजा भ��जशब्दं त्वं तत्रावाप्स्यसि सान्वयः +अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह +एकं वर्षसहस्रं तु चरेयं यौवनेन ते +अनुरुवाच +जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा +न जुहोति च कालेऽग्निं तां जरां नाभिकामये +ययातिरुवाच +यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि +जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे +प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव +अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि +पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि +जरा वली च मे तात पलितानि च पर्यगुः +काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने +पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह +कंचित्कालं चरेयं वै विषयान्वयसा तव +पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् +स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह +वैशंपायन उवाच +एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा +यथात्थ मां महाराज तत्करिष्यामि ते वचः +प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह +गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् +जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव +यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् +ययातिरुवाच +पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते +सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति +वैशंपायन उवाच +पौरवेणाथ वयसा ययातिर्नहुषात्मजः +प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् +यथाकामं यथोत्साहं यथाकालं यथासुखम् +धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि +देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि +दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् +अतिथीनन्नपानैश्च विशश्च परिपालनैः +आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च +धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् +ययातिः पालयामास साक्षादिन्द्र इवापरः +स राजा सिंहविक्रान्तो युवा विषयगोचरः +अविरोधेन धर्मस्य चचार सुखमुत्तमम् +स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः +कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः +परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् +पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह +यथाकामं यथोत्साहं यथाकालमरिंदम +सेविता विषयाः पुत्र यौवनेन मया तव +पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् +राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः +प्रतिपेदे जर��ं राजा ययातिर्नाहुषस्तदा +यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः +अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् +ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् +कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो +ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि +यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः +शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च +कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति +एतत्संबोधयामस्त्वां धर्मं त्वमनुपालय +ययातिरुवाच +ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः +ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन +मम ज्येष्ठेन यदुना नियोगो नानुपालितः +प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः +मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः +स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु +यदुनाहमवज्ञातस्तथा तुर्वसुनापि च +द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् +पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः +कनीयान्मम दायादो जरा येन धृता मम +मम कामः स च कृतः पूरुणा पुत्ररूपिणा +शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् +पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः +भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् +प्रकृतय ऊचुः +यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा +सर्वमर्हति कल्याणं कनीयानपि स प्रभो +अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव +वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् +वैशंपायन उवाच +पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा +अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् +दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः +पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह +यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः +द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः +पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव +इदं वर्षसहस्राय राज्यं कारयितुं वशी +वैशंपायन उवाच +एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् +राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः +उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः +फलमूलाशनो दान्तो यथा स्वर्गमितो गतः +स गतः सुरवासं तं निवसन्मुदितः सुखम् +कालस्य नातिमहतः पुनः शक्रेण पातितः +निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् +स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया +तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः +राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् +प्रतर्दनेन शिबिना समेत्य किल संसदि +जनमेजय उवाच +कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः +सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः +कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ +देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः +वर्धनः कुरुवंशस्य विभावसुसमद्युतिः +तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः +चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः +वैशंपायन उवाच +हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् +दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् +ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् +राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा +अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् +फलमूलाशनो राजा वने संन्यवसच्चिरम् +संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः +अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः +अतिथीन्पूजयामास वन्येन हविषा विभुः +शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः +पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः +अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः +ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः +पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः +एकपादस्थितश्चासीत्षण्मासाननिलाशनः +पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी +वैशंपायन उवाच +स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि +पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा +देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी +अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः +स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् +कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः +शक्र उवाच +यदा स पूरुस्तव रूपेण राज;ञ्जरां गृहीत्वा प्रचचार भूमौ +तदा राज्यं संप्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् +ययातिरुवाच +गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव +मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव +अक्रोधनः क्रोधनेभ्यो विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः +अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः +आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः +आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति +नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत +ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् +अरुंतुदं पुर���षं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् +विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् +सद्भिः पुरस्तादभिपूजितः स्या;त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् +सदासतामतिवादांस्तितिक्षे;त्सतां वृत्तं चाददीतार्यवृत्तः +वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि +परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु +न हीदृशं संवननं त्रिषु लोकेषु विद्यते +यथा मैत्री च भूतेषु दानं च मधुरा च वाक् +तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् +पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन +इन्द्र उवाच +सर्वाणि कर्माणि समाप्य राज;न्गृहान्परित्यज्य वनं गतोऽसि +तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते +ययातिरुवाच +नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु +आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव +इन्द्र उवाच +यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः +तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् +ययातिरुवाच +सुरर्षिगन्धर्वनरावमाना;त्क्षयं गता मे यदि शक्र लोकाः +इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज +इन्द्र उवाच +सतां सकाशे पतितासि राजं;श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः +एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च +वैशंपायन उवाच +ततः प्रहायामरराजजुष्टा;न्पुण्याँल्लोकान्पतमानं ययातिम् +संप्रेक्ष्य राजर्षिवरोऽष्टकस्त;मुवाच सद्धर्मविधानगोप्ता +कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः +पतस्युदीर्णाम्बुधरान्धकारा;त्खात्खेचराणां प्रवरो यथार्कः +दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् +किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः +दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् +अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः +न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः +तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः +भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप +त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः +सन्तः प्रतिष्ठा ���ि सुखच्युतानां; सतां सदैवामरराजकल्प +ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु +प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः +प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः +ययातिरुवाच +अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् +प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः +अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जे +यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् +अष्टक उवाच +अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित् +यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् +ययातिरुवाच +प्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम् +सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी +अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि +एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् +नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः +तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या +सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या +तस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् +दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरः +दिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् +भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित् +धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा +संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः +तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते +अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम् +किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः +अष्टक उवाच +ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा च +तन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् +ययातिरुवाच +राजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वै +तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः +ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् +अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्���ुपेतः +ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् +तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः +देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् +संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम् +तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् +सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान् +तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् +दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण +एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः +वाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र +अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः +तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु +तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि +हविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः +अष्टक उवाच +यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् +किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः +ययातिरुवाच +ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि +तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः +अष्टक उवाच +कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् +किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे +ययातिरुवाच +इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे +ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति +तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म +आख्यातं ते पार्थिव सर्वमेत;द्भूयश्चेदानीं वद किं ते वदामि +अष्टक उवाच +यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः +कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि +ययातिरुवाच +ऊर्ध्वं देहात्कर्मणो जृम्भमाणा;द्व्यक्तं पृथिव्यामनुसंचरन्ति +इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् +षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि +तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः +अष्टक उवाच +यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः +कथं भवन्ति कथमाभवन्ति; कथंभूता गर्भभूता भवन्ति +ययातिरुवाच +अस्रं रेतः पुष्पफलानुपृक्त;मन्वेति तद्वै पुरुषेण सृष्टम् +स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र +वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् +चतुष्पदं द्विपदं चापि सर्व;मेवंभूता गर्भभूता भवन्ति +अष्टक उवाच +अन्यद्वपुर्विदधातीह गर्भ; उताहोस्वित्स्वेन कामेन याति +आपद्यमानो नरयोनिमेता;माचक्ष्व मे संशयात्प्रब्रवीमि +शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम् +एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे +ययातिरुवाच +वायुः समुत्कर्षति गर्भयोनि;मृतौ रेतः पुष्परसानुपृक्तम् +स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् +स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः +स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च +घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् +इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे +अष्टक उवाच +यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा +अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् +ययातिरुवाच +हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च +अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह +पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति +कीटाः पतंगाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव +चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति +आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह +अष्टक उवाच +किं स्वित्कृत्वा लभते तात लोका;न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा +तन्मे पृष्टः शंस सर्वं यथाव;च्छुभाँल्लोकान्येन गच्छेत्क्रमेण +ययातिरुवाच +तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा +नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः +अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् +तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति +चत्वारि कर्माण्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि +मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः +न मान्यमानो मुदमादद���त; न संतापं प्राप्नुयाच्चावमानात् +सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते +इति दद्यादिति यजेदित्यधीयीत मे व्रतम् +इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः +येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् +तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह +अष्टक उवाच +चरन्गृहस्थः कथमेति देवा;न्कथं भिक्षुः कथमाचार्यकर्मा +वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्संप्रति वेदयन्ति +ययातिरुवाच +आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी +मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी +धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च +अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी +स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी +तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः +अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः +अनोकसारी लघुरल्पचार;श्चरन्देशानेकचरः स भिक्षुः +रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च +तामेव रात्रिं प्रयतेत विद्वा;नरण्यसंस्थो भवितुं यतात्मा +दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् +अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् +अष्टक उवाच +कति स्विदेव मुनयो मौनानि कति चाप्युत +भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् +ययातिरुवाच +अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः +ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप +अष्टक उवाच +कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः +ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः +ययातिरुवाच +न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् +तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः +अनग्निरनिकेतश्च अगोत्रचरणो मुनिः +कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् +यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् +तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः +यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः +आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् +धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् +असितं सितकर्मस्थं कस्तं नार्चितुमर्हति +तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः +यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः +अथ लोकमिमं जित्वा लोकं विजयते परम् +आस्येन तु यदाहारं गोवन्मृगयते मुनिः +अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते +अष्टक उवाच +कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् +उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव +ययातिरुवाच +अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः +ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः +अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् +तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः +यद्वै नृशंसं तदपथ्यमाहु;र्यः सेवते धर्ममनर्थबुद्धिः +अस्वोऽप्यनीशश्च तथैव राजं;स्तदार्जवं स समाधिस्तदार्यम् +अष्टक उवाच +केनासि दूतः प्रहितोऽद्य राज;न्युवा स्रग्वी दर्शनीयः सुवर्चाः +कुत आगतः कतरस्यां दिशि त्व;मुताहोस्वित्पार्थिवं स्थानमस्ति +ययातिरुवाच +इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः +उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः +सतां सकाशे तु वृतः प्रपात;स्ते संगता गुणवन्तश्च सर्वे +शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र +अष्टक उवाच +पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र +यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये +ययातिरुवाच +यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च +तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह +अष्टक उवाच +तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति +यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रममित्रसाह +ययातिरुवाच +नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य +यथा प्रदेयं सततं द्विजेभ्य;स्तथाददं पूर्वमहं नरेन्द्र +नाब्राह्मणः कृपणो जातु जीवे;द्या चापि स्याद्ब्राह्मणी वीरपत्नी +सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु +प्रतर्दन उवाच +पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः +यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये +ययातिरुवाच +सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि +मधुच्युतो घृतपृक्ता विशोका;स्ते नान्तवन्तः प्रतिपालयन्ति +प्रतर्दन उवाच +तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु +यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रमपेतमोहः +ययातिरुवाच +न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् +दैवादेशादापदं प्राप्य विद्वां;श्चरेन्नृशंसं न हि जातु राजा +धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः +न मद्विधो धर्मबुद्धिः प्रजान;न्कुर्यादेवं कृपणं मां यथात्थ +कुर्यामपूर्वं न कृतं यदन्यै;र्विवित्समानः किमु तत्र साधु +ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् +वसुमना उवाच +पृच्छामि त्वां वसुमना रौशदश्वि;र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र +यद्यन्तरिक्षे प्रथितो महात्म;न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये +ययातिरुवाच +यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च +लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति +वसुमना उवाच +तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु +क्रीणीष्वैनांस्तृणकेनापि राज;न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः +ययातिरुवाच +न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः +कुर्यां न चैवाकृतपूर्वमन्यै;र्विवित्समानः किमु तत्र साधु +वसुमना उवाच +तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते +अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु +शिबिरुवाच +पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात +यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये +ययातिरुवाच +न त्वं वाचा हृदयेनापि विद्व;न्परीप्समानान्नावमंस्था नरेन्द्र +तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः +शिबिरुवाच +तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते +न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् +ययातिरुवाच +यथा त्वमिन्द्रप्रतिमप्रभाव;स्ते चाप्यनन्ता नरदेव लोकाः +तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् +अष्टक उवाच +न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि +सर्वे प्रदाय भवते गन्तारो नरकं वयम् +ययातिरुवाच +यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः +अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा +अष्टक उवाच +कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः +उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव +ययातिरुवाच +युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः +उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव +अष्टक उवाच +आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा +वयमप्यनुयास्यामो यदा कालो भविष्यति +ययातिरुवाच +सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् +एष नो विरजाः पन्था दृश्यते देवसद्मनः +वैशंपायन उवाच +तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः +आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी +अष्टक उवाच +अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा +कस्मादेवं शिबिरौशीनरोऽय;मेकोऽत्यगात्सर्ववेगेन वाहान् +ययातिरुवाच +अददाद्देवयानाय यावद्वित्तमविन्दत +उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः +दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा +राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या +एवंवृत्तो ह्रीनिषेधश्च यस्मा;त्तस्माच्छिबिरत्यगाद्वै रथेन +वैशंपायन उवाच +अथाष्टकः पुनरेवान्वपृच्छ;न्मातामहं कौतुकादिन्द्रकल्पम् +पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य +कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा +ययातिरुवाच +ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् +गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः +सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः +मेध्यानश्वानेकशफान्सुरूपां;स्तदा देवाः पुण्यभाजो भवन्ति +अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य +गोभिः सुवर्णेन धनैश्च मुख्यै;स्तत्रासन्गाः शतमर्बुदानि +सत्येन मे द्यौश्च वसुंधरा च; तथैवाग्निर्ज्वलते मानुषेषु +न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति +सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् +यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् +अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् +वैशंपायन उवाच +एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः +त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वी���् +जनमेजय उवाच +भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् +यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः +न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः +प्रजाविरहितो वापि भूतपूर्वः कदाचन +तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् +चरितं श्रोतुमिच्छामि विस्तरेण तपोधन +वैशंपायन उवाच +हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि +पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः +प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः +पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् +मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः +पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः +सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः +मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः +रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः +यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः +सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः +ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् +स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः +तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः +धर्मेपुः संनतेपुश्च दशमो देवविक्रमः +अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः +मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् +मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः +तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः +तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् +आजहार यशो दीप्तं जिगाय च वसुंधराम् +इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् +सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः +रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः +इलिनो जनयामास दुःषन्तप्रभृतीन्नृप +दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च +तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय +दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः +तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः +भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् +नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत +ततो महद्भिः क्रतुभिरीजानो भरतस्तदा +लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत +ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः +भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् +ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् +ततः स वितथो नाम भुमन्योरभवत्सुतः +सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा +पुष्करिण्यामृचीकस्य ��ुमन्योरभवन्सुताः +तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् +राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः +सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् +पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् +ममज्जेव मही तस्य भूरिभारावपीडिता +हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् +सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः +चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः +प्रवृद्धजनसस्या च सहदेवा व्यरोचत +ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः +अजमीढं सुमीढं च पुरुमीढं च भारत +अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः +षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत +ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ +केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ +तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः +अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः +जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् +ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव +आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् +संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः +व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा +क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् +अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च +चालयन्वसुधां चैव बलेन चतुरङ्गिणा +अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् +अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् +ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः +राजा संवरणस्तस्मात्पलायत महाभयात् +सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा +नदीविषयपर्यन्ते पर्वतस्य समीपतः +तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः +तेषां निवसतां तत्र सहस्रं परिवत्सरान् +अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः +तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च +अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा +निवेद्य सर्वमृषये सत्कारेण सुवर्चसे +तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा +पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे +ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत +अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् +विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् +भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् +पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः +ततः स पृथिवीं प्राप्य पुनरीजे महाबलः +आजमीढो महायज्ञैर्बहुभिर���भूरिदक्षिणैः +ततः संवरणात्सौरी सुषुवे तपती कुरुम् +राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे +तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् +कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः +अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् +जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः +पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी +अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् +अभिराजो विराजश्च शल्मलश्च महाबलः +उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः +एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः +जनमेजयादयः सप्त तथैवान्ये महाबलाः +परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः +कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् +इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः +जनमेजयस्य तनया भुवि ख्याता महाबलाः +धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च +निषधश्च महातेजास्तथा जाम्बूनदो बली +कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः +सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः +धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः +हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः +हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः +प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ +देवापिः शंतनुश्चैव बाह्लीकश्च महारथः +देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया +शंतनुश्च महीं लेभे बाह्लीकश्च महारथः +भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः +देवर्षिकल्पा नृपते बहवो राजसत्तमाः +एवंविधाश्चाप्यपरे देवकल्पा महारथाः +जाता मनोरन्ववाये ऐलवंशविवर्धनाः +जनमेजय उवाच +श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् +उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः +किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति +प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे +एतामेव कथां दिव्यामा प्रजापतितो मनोः +तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् +सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् +विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् +गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् +न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् +वैशंपायन उवाच +शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् +प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् +दक्षस्यादितिः +अदितेर्विवस्वान् +विवस्वतो मनुः +मनोरिला +इलायाः पुरूरवाः +पुरूरवस आयुः +आयुषो नहुषः +नहुषस्य ययातिः +ययातेर्द्वे भार्ये बभूवतुः +उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम +अत्रानुवंशो भवति +यदुं च तुर्वसुं चैव देवयानी व्यजायत +द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी +तत्र यदोर्यादवाः +पूरोः पौरवाः +पूरोर्भार्या कौसल्या नाम +तस्यामस्य जज्ञे जनमेजयो नाम +यस्त्रीनश्वमेधानाजहार +विश्वजिता चेष्ट्वा वनं प्रविवेश +जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् +तस्यामस्य जज्ञे प्राचिन्वान् +यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् +ततस्तस्य प्राचिन्वत्वम् +प्राचिन्वान्खल्वश्मकीमुपयेमे +तस्यामस्य जज्ञे संयातिः +संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे +तस्यामस्य जज्ञे अहंपातिः +अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम +तस्यामस्य जज्ञे सार्वभौमः +सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम +तस्यामस्य जज्ञे जयत्सेनः +जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम +तस्यामस्य जज्ञे अराचीनः +अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम +तस्यामस्य जज्ञे महाभौमः +महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम +तस्यामस्य जज्ञे अयुतनायी +यः पुरुषमेधानामयुतमानयत् +तदस्यायुतनायित्वम् +अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम +तस्यामस्य जज्ञे अक्रोधनः +अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे +तस्यामस्य जज्ञे देवातिथिः +देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम +तस्यामस्य जज्ञे ऋचः +ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम +तस्यां पुत्रमजनयदृक्षम् +ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम +तस्यां पुत्रं मतिनारं नामोत्पादयामास +मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार +निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास +तस्यां पुत्रमजनयत्तंसुं नाम +अत्रानुवंशो भवति +तंसुं सरस्वती पुत्रं मतिनारादजीजनत् +इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् +इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् +दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे +तस्यामस्य जज्ञे भरतः +तत्र श्लोकौ भवतः +माता भस्त्रा पितुः पुत्रो येन जातः स एव सः +भरस्व पुत्रं दुःषन्त मावमंस��थाः शकुन्तलाम् +रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् +त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला +ततोऽस्य भरतत्वम् +भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम +तस्यामस्य जज्ञे भुमन्युः +भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम +तस्यामस्य जज्ञे सुहोत्रः +सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम +तस्यामस्य जज्ञे हस्ती +य इदं हास्तिनपुरं मापयामास +एतदस्य हास्तिनपुरत्वम् +हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम +तस्यामस्य जज्ञे विकुण्ठनः +विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम +तस्यामस्य जज्ञेऽजमीढः +अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति +पृथक्पृथग्वंशकरा नृपतयः +तत्र वंशकरः संवरणः +संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे +तस्यामस्य जज्ञे कुरुः +कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम +तस्यामस्य जज्ञे विडूरथः +विडूरथस्तु मागधीमुपयेमे संप्रियां नाम +तस्यामस्य जज्ञेऽरुग्वान्नाम +अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम +तस्यामस्य जज्ञे परिक्षित् +परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम +तस्यामस्य जज्ञे भीमसेनः +भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम +तस्यामस्य जज्ञे पर्यश्रवाः +यमाहुः प्रतीपं नाम +प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम +तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति +देवापिः खलु बाल एवारण्यं प्रविवेश +शंतनुस्तु महीपालोऽभवत् +अत्रानुवंशो भवति +यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते +पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः +तदस्य शंतनुत्वम् +शंतनुः खलु गङ्गां भागीरथीमुपयेमे +तस्यामस्य जज्ञे देवव्रतः +यमाहुर्भीष्म इति +भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् +यामाहुर्गन्धकालीति +तस्यां कानीनो गर्भः पराशराद्द्वैपायनः +तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः +चित्राङ्गदो विचित्रवीर्यश्च +तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः +विचित्रवीर्यस्तु राजा समभवत् +विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे +विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः +ततः सत्यवती चिन्तयामास +दौःषन्तो वंश उच्छिद्यते इति +सा द्वैपायनमृषिं चिन्तयामास +स तस्याः पुरतः स्थितः किं करवाणीति +सा तमुवाच +भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः +साध्वपत्यं तस्योत्पादयेति +स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति +तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य +तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति +पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने +अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् +तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान +स बाणविद्ध उवाच पाण्डुम् +चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति +स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये +वाक्यं चोवाच +स्वचापल्यादिदं प्राप्तवानहम् +शृणोमि च नानपत्यस्य लोका सन्तीति +सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच +सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति +स तां हृष्टरूपः पाण्डुरुवाच +इयं ते सपत्न्यनपत्या +साध्वस्यामपत्यमुत्पाद्यतामिति +स एवमस्त्वित्युक्तः कुन्त्या +ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ +माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे +स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः +तत्रैनं चितास्थं माद्री समन्वारुरोह +उवाच कुन्तीम् +यमयोरार्ययाप्रमत्तया भवितव्यमिति +ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः +तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन +ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः +तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः +तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः +पुत्रांश्चोत्पादयामासुः +प्रतिविन्ध्यं युधिष्ठिरः +सुतसोमं वृकोदरः +श्रुतकीर्तिमर्जुनः +शतानीकं नकुलः +श्रुतकर्माणं सहदेव इति +युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे +तस्यां पुत्रं जनयामास यौधेयं नाम +भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् +तस्यां पुत्रं सर्वगं नामोत्पादयामास +अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् +तस्यां पुत्रमभिमन्युं नाम जनयामास +नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् +तस्यां पुत्रं निरमित्रं नामाजनयत् +सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे +तस्यां पुत्रमजनयत्सुहोत्रं नाम +भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास +इत्येते एकादश पाण्डवानां पुत्राः +विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे +तस्यामस्य परासुर्गर्भोऽजायत +तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य +षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति +संजीवयित्वा चैनमुवाच +परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति +परिक्षित्तु खलु माद्रवतीं नामोपयेमे +तस्यामस्य जनमेजयः +जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च +शतानीकस्तु खलु वैदेहीमुपयेमे +तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः +इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः +पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते +वैशंपायन उवाच +इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः +महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः +सोऽश्वमेधसहस्रेण वाजपेयशतेन च +तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः +ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः +तत्र राजर्षयो आसन्स च राजा महाभिषः +अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् +तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् +ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा +महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् +अपध्यातो भगवता ब्रह्मणा स महाभिषः +उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि +स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् +प्रतीपं रोचयामास पितरं भूरिवर्चसम् +महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् +तमेव मनसाध्यायमुपावर्तत्सरिद्वरा +सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः +ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः +तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा +किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् +तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि +अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना +विमूढा हि वय�� सर्वे प्रच्छन्नमृषिसत्तमम् +संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा +तेन कोपाद्वयं शप्ता योनौ संभवतेति ह +न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना +त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि +न मानुषीणां जठरं प्रविशेमाशुभं वयम् +इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् +मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति +वसव ऊचुः +प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः +भविता मानुषे लोके स नः कर्ता भविष्यति +गङ्गोवाच +ममाप्येवं मतं देवा यथावदत मानघाः +प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् +वसव ऊचुः +जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि +यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे +गङ्गोवाच +एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् +नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह +वसव ऊचुः +तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् +तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः +न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः +तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् +वैशंपायन उवाच +एवं ते समयं कृत्वा गङ्गया वसवः सह +जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा +वैशंपायन उवाच +ततः प्रतीपो राजा स सर्वभूतहिते रतः +निषसाद समा बह्वीर्गङ्गातीरगतो जपन् +तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी +उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः +अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी +दक्षिणं शालसंकाशमूरुं भेजे शुभानना +प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् +करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् +स्त्र्युवाच +त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् +त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः +प्रतीप उवाच +नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि +न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् +स्त्र्युवाच +नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् +भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् +प्रतीप उवाच +मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् +अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः +प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने +अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् +सव्यतः कामिनीभागस्त्वया स च विवर्जितः +तस्मादहं नाचरिष्ये त��वयि कामं वराङ्गने +स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् +स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता +स्त्र्युवाच +एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते +त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् +पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् +गुणा न हि मया शक्या वक्तुं वर्षशतैरपि +कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् +स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो +तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् +एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् +पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः +वैशंपायन उवाच +तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत +पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् +एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः +तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन +तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः +शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः +संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा +पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम +प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात् +पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव +त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी +कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया +सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने +यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ +मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् +एवं संदिश्य तनयं प्रतीपः शंतनुं तदा +स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह +स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः +बभूव मृगयाशीलः सततं वनगोचरः +स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः +गङ्गामनुचचारैकः सिद्धचारणसेविताम् +स कदाचिन्महाराज ददर्श परमस्त्रियम् +जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् +सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् +सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् +तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा +पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः +सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् +स्नेहादागतसौहार्दा नातृप्यत विलासिनी +तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा +देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः +यक्षी वा पन्नगी वापि मानुषी वा सुम��्यमे +या वा त्वं सुरगर्भाभे भार्या मे भव शोभने +एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च +वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता +उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा +भविष्यामि महीपाल महिषी ते वशानुगा +यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् +न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् +एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव +वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् +तथेति राज्ञा सा तूक्ता तदा भरतसत्तम +प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् +आसाद्य शंतनुस्तां च बुभुजे कामतो वशी +न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् +स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च +उपचारेण च रहस्तुतोष जगतीपतिः +दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी +मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी +भाग्योपनतकामस्य भार्येवोपस्थिताभवत् +शंतनो राजसिंहस्य देवराजसमद्युतेः +संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः +राजानं रमयामास यथा रेमे तथैव सः +स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः +संवत्सरानृतून्मासान्न बुबोध बहून्गतान् +रममाणस्तया सार्धं यथाकामं जनेश्वरः +अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः +जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत +प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् +तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा +न च तां किंचनोवाच त्यागाद्भीतो महीपतिः +अथ तामष्टमे पुत्रे जाते प्रहसितामिव +उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः +मा वधीः कासि कस्यासि किं हिंससि सुतानिति +पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते +स्त्र्युवाच +पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर +जीर्णस्तु मम वासोऽयं यथा स समयः कृतः +अहं गङ्गा जह्नुसुता महर्षिगणसेविता +देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह +अष्टेमे वसवो देवा महाभागा महौजसः +वसिष्ठशापदोषेण मानुषत्वमुपागताः +तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते +मद्विधा मानुषी धात्री न चैवास्तीह काचन +तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता +जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः +देवानां समयस्त्वेष वसूनां संश्रुतो मया +जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति +तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः +स्वस्ति तेऽस्तु ���मिष्यामि पुत्रं पाहि महाव्रतम् +एष पर्यायवासो मे वसूनां संनिधौ कृतः +मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् +शंतनुरुवाच +आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् +यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः +अनेन च कुमारेण गङ्गादत्तेन किं कृतम् +यस्य चैव कृतेनायं मानुषेषु निवत्स्यति +ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् +मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि +वैशंपायन उवाच +सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् +भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् +यं लेभे वरुणः पुत्रं पुरा भरतसत्तम +वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत +तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् +मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् +स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम +वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके +दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता +गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ +अनुग्रहार्थं जगतः सर्वकामदुघां वराम् +तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः +सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते +चचार रम्ये धर्म्ये च गौरपेतभया तदा +अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ +पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् +ते सदारा वनं तच्च व्यचरन्त समन्ततः +रेमिरे रमणीयेषु पर्वतेषु वनेषु च +तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम +सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा +या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा +सा विस्मयसमाविष्टा शीलद्रविणसंपदा +दिवे वै दर्शयामास तां गां गोवृषभेक्षण +स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् +उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च +एवंगुणसमायुक्तां वसवे वसुनन्दिनी +दर्शयामास राजेन्द्र पुरा पौरवनन्दन +द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम +उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् +एषा गौरुत्तमा देवि वारुणेरसितेक्षणे +ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् +अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे +दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः +एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा +तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् +अस्ति मे मानुषे लोके नरदेवात्मजा सखी +नाम्ना जिनवती नाम रूपयौवनशालिनी +उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः +दुहिता प्रथिता लोके मानुषे रूपसंपदा +तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् +आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन +यावदस्याः पयः पीत्वा सा सखी मम मानद +मानुषेषु भवत्वेका जरारोगविवर्जिता +एतन्मम महाभाग कर्तुमर्हस्यनिन्दित +प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन +एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया +पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् +तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप +ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् +हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः +अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः +न चापश्यत गां तत्र सवत्सां काननोत्तमे +ततः स मृगयामास वने तस्मिंस्तपोधनः +नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः +ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः +ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा +यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् +तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः +एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः +वशं कोपस्य संप्राप्त आपवो भरतर्षभ +शप्त्वा च तान्महाभागस्तपस्येव मनो दधे +एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः +महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः +अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः +शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः +प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ +न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् +आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् +उवाच च स धर्मात्मा सप्त यूयं धरादयः +अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ +अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति +द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा +नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् +न प्रजास्यति चाप्येष मानुषेषु महामनाः +भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः +पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति +एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः +ततो मामुपजग्मुस्ते समस्ता वसवस्तदा +अयाचन्त च मां राजन्वरं स च मया कृतः +जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि +एवं तेषामहं सम्यक्शप्तानां राजसत्तम +मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् +अयं शापादृषेस्तस्य एक एव नृपोत्तम +द्यौ राजन्मानुषे लोके चिरं वत्स्यति भ���रत +एतदाख्याय सा देवी तत्रैवान्तरधीयत +आदाय च कुमारं तं जगामाथ यथेप्सितम् +स तु देवव्रतो नाम गाङ्गेय इति चाभवत् +द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः +शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः +तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् +महाभाग्यं च नृपतेर्भारतस्य यशस्विनः +यस्येतिहासो द्युतिमान्महाभारतमुच्यते +वैशंपायन उवाच +स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः +धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः +दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् +नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे +एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः +आसीद्भरतवंशस्य गोप्ता साधुजनस्य च +कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः +धर्म एव परः कामादर्थाच्चेति व्यवस्थितः +एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ +न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् +वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् +तं महीपा महीपालं राजराज्येऽभ्यषेचयन् +वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः +प्रति भारतगोप्तारं समपद्यन्त भूमिपाः +शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा +नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत +ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः +ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः +स हास्तिनपुरे रम्ये कुरूणां पुटभेदने +वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम् +स देवराजसदृशो धर्मज्ञः सत्यवागृजुः +दानधर्मतपोयोगाच्छ्रिया परमया युतः +अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः +तेजसा सूर्यसंकाशो वायुवेगसमो जवे +अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः +वधः पशुवराहाणां तथैव मृगपक्षिणाम् +शंतनौ पृथिवीपाले नावर्तत वृथा नृप +धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान् +समं शशास भूतानि कामरागविवर्जितः +देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः +न चाधर्मेण केषांचित्प्राणिनामभवद्वधः +असुखानामनाथानां तिर्यग्योनिषु वर्तताम् +स एव राजा भूतानां सर्वेषामभवत्पिता +तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति +श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः +स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः +रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः +तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः +गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः +सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च +महाबलो महासत्त्वो महावीर्यो महारथः +स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् +भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः +तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः +स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा +ततो निमित्तमन्विच्छन्ददर्श स महामनाः +कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् +दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् +कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् +तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके +अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् +जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा +नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् +स तु तं पितरं दृष्ट्वा मोहयामास मायया +संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत +तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः +शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह +दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् +गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम् +अलंकृतामाभरणैररजोम्बरधारिणीम् +दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः +गङ्गोवाच +यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः +स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् +वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् +कृतास्त्रः परमेष्वासो देवराजसमो युधि +सुराणां संमतो नित्यमसुराणां च भारत +उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः +तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः +यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् +तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि +ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् +यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् +महेष्वासमिमं राजन्राजधर्मार्थकोविदम् +मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय +वैशंपायन उवाच +तयैवं समनुज्ञातः पुत्रमादाय शंतनुः +भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति +पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् +सर्वकामसमृद्धार्थं मेने आत्मानमात्मना +पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् +पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः +राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ +स तथा सह पुत्रेण रममाणो महीपतिः +वर्तयामास वर्षाणि चत्वार्यमितविक्रमः +स कदाचिद्वनं यातो यमुनामभितो नदीम् +महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् +तस्य प्रभवमन्विच्छन्विचचार समन्ततः +स ददर्श तदा कन्यां दाशानां देवरूपिणीम् +तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् +कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि +साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् +पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः +रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् +समीक्ष्य राजा दाशेयीं कामयामास शंतनुः +स गत्वा पितरं तस्या वरयामास तां तदा +पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् +स च तं प्रत्युवाचेदं दाशराजो महीपतिम् +जातमात्रैव मे देया वराय वरवर्णिनी +हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर +यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ +सत्यवागसि सत्येन समयं कुरु मे ततः +समयेन प्रदद्यां ते कन्यामहमिमां नृप +न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति +शंतनुरुवाच +श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा +दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन +दाश उवाच +अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः +त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव +वैशंपायन उवाच +नाकामयत तं दातुं वरं दाशाय शंतनुः +शरीरजेन तीव्रेण दह्यमानोऽपि भारत +स चिन्तयन्नेव तदा दाशकन्यां महीपतिः +प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः +ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम् +पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् +सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः +तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः +ध्यायन्निव च किं राजन्नाभिभाषसि किंचन +एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत +असंशयं ध्यानपरं यथा मात्थ तथास्म्युत +अपत्यं नस्त्वमेवैकः कुले महति भारत +अनित्यता च मर्त्यानामतः शोचामि पुत्रक +कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् +असंशयं त्वमेवैकः शतादपि वरः सुतः +न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे +संतानस्याविनाशाय कामये भद्रमस्तु ते +अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः +अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः +सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् +एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि +यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः +एषा त्रयी पुराणानामुत्तमानां च शाश्वती +त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत +नान���यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ +सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् +इति ते कारणं तात दुःखस्योक्तमशेषतः +ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः +देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् +अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् +तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् +तस्मै स कुरुमुख्याय यथावत्परिपृच्छते +वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ +ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा +अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् +तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च +अब्रवीच्चैनमासीनं राजसंसदि भारत +त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ +पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः +को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् +अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः +अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः +यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी +तेन मे बहुशस्तात पिता ते परिकीर्तितः +अर्हः सत्यवतीं वोढुं सर्वराजसु भारत +असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया +सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः +कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ +बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् +यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा +न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप +एतावानत्र दोषो हि नान्यः कश्चन पार्थिव +एतज्जानीहि भद्रं ते दानादाने परंतप +एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत +शृण्वतां भूमिपालानां पितुरर्थाय भारत +इदं मे मतमादत्स्व सत्यं सत्यवतां वर +नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् +एवमेतत्करिष्यामि यथा त्वमनुभाषसे +योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति +इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत +चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ +त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः +कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः +इदं तु वचनं सौम्य कार्यं चैव निबोध मे +कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम +यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण +राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् +नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन +तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् +तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः +प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया +देवव्रत उवाच +दाशराज निबोधेदं वचनं मे नृपोत्तम +शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते +राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप +अपत्यहेतोरपि च करोम्येष विनिश्चयम् +अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति +अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि +वैशंपायन उवाच +तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः +ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत +ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा +अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् +ततः स पितुरर्थाय तामुवाच यशस्विनीम् +अधिरोह रथं मातर्गच्छावः स्वगृहानिति +एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् +आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् +तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः +समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् +तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः +स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् +वैशंपायन उवाच +ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः +तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् +ततः शांतनवो धीमान्सत्यवत्यामजायत +वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति +अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः +विचित्रवीर्यं राजानं जनयामास वीर्यवान् +अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ +स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान् +स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम् +स्थापयामास वै राज्ये सत्यवत्या मते स्थितः +स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् +मनुष्यं न हि मेने स कंचित्सदृशमात्मनः +तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा +गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा +तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह +तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः +नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः +तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले +मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् +चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् +अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः +तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि +भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत् +विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् +कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् +विच��त्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः +अन्वशासन्महाराज पितृपैतामहं पदम् +स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः +पूजयामास धर्मेण स चैनं प्रत्यपालयत् +वैशंपायन उवाच +हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ +पालयामास तद्राज्यं सत्यवत्या मते स्थितः +संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् +भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् +अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः +शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् +ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् +जगामानुमते मातुः पुरीं वाराणसीं प्रति +तत्र राज्ञः समुदितान्सर्वतः समुपागतान् +ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः +कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः +भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः +उवाच च महीपालान्राजञ्जलदनिःस्वनः +रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः +आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः +अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि +प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि +वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च +प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते +अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् +स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च +प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः +ता इमाः पृथिवीपाला जिहीर्षामि बलादितः +ते यतध्वं परं शक्त्या विजयायेतराय वा +स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः +एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् +सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् +आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः +ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः +संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् +तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् +आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् +ताराणामिव संपातो बभूव जनमेजय +भूषणानां च शुभ्राणां कवचानां च सर्वशः +सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः +सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा +सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् +रथानास्थाय ते वीराः सर्वप्रहरणान्विताः +प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः +ततः समभवद्युद्धं तेषां तस्य च भारत +एकस्य च बहूनां च तुमुलं लोमहर्षणम् +ते त्विषून्दशसाहस्रा���स्तस्मै युगपदाक्षिपन् +अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् +ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् +ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः +स तद्बाणमयं वर्षं शरैरावार्य सर्वतः +ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः +तस्याति पुरुषानन्याँल्लाघवं रथचारिणः +रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् +तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः +कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति +ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः +अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे +वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा +वाशितामनुसंप्राप्तो यूथपो बलिनां वरः +स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः +शाल्वराजो महाबाहुरमर्षेणाभिचोदितः +ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः +तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् +क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः +निवर्तयामास रथं शाल्वं प्रति महारथः +निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते +प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे +तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे +अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ +ततो भीष्मं शांतनवं शरैः शतसहस्रशः +शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः +पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः +विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् +लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः +अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः +क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः +क्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत +सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः +यावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट् +ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः +तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप +अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः +भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् +अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् +कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदा +जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् +ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ +राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः +स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय +एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः +प्रययौ ���ास्तिनपुरं यत्र राजा स कौरवः +सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप +वनानि सरितश्चैव शैलांश्च विविधद्रुमान् +अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमः +आनयामास काश्यस्य सुताः सागरगासुतः +स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः +यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् +ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे +भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः +सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् +भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे +सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् +विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता +ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा +मया सौभपतिः पूर्वं मनसाभिवृतः पतिः +तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः +मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे +एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर +एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि +चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः +स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः +अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् +अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे +भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा +तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः +विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत +ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे +रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे +आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते +विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते +स चाश्विरूपसदृशो देवसत्त्वपराक्रमः +सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् +ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः +विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत +सुहृदां यतमानानामाप्तैः सह चिकित्सकैः +जगामास्तमिवादित्यः कौरव्यो यमसादनम् +प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् +राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः +ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः +वैशंपायन उवाच +ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी +पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत +धर्मं च पितृवंशं च मातृवंशं च मानिनी +प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् +शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः +त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम् +यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् +यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः +वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च +विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः +व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये +प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव +तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर +कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि +मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते +बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ +इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे +रूपयौवनसंपन्ने पुत्रकामे च भारत +तयोरुत्पादयापत्यं संतानाय कुलस्य नः +मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि +राज्ये चैवाभिषिच्यस्व भारताननुशाधि च +दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् +तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः +प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः +असंशयं परो धर्मस्त्वया मातरुदाहृतः +त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् +जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे +स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः +परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः +यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन +त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः +ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् +प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् +त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् +विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् +न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन +एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा +माता सत्यवती भीष्ममुवाच तदनन्तरम् +जानामि ते स्थितिं सत्ये परां सत्यपराक्रम +इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा +जानामि चैव सत्यं तन्मदर्थं यदभाषथाः +आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् +यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् +सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप +लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् +धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् +राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः +सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते +शंतनोरपि संतानं यथा स्यादक्षयं भुवि +तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् +श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः +आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च +भीष्म उवाच +जामदग्न्येन रामेण पितुर्वधममृष्यता +क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः +शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै +पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता +निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् +एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना +त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा +ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः +उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः +पाणिग्राहस्य तनय इति वेदेषु निश्चितम् +धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः +लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः +अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा +ममता नाम तस्यासीद्भार्या परमसंमता +उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् +बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत +उवाच ममता तं तु देवरं वदतां वरम् +अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति +अयं च मे महाभाग कुक्षावेव बृहस्पते +औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत +अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि +तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि +एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः +कामात्मानं तदात्मानं न शशाक नियच्छितुम् +संबभूव ततः कामी तया सार्धमकामया +उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत +भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः +अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः +शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः +उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः +यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति +एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि +स वै दीर्घतमा नाम शापादृषिरजायत +बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा +स पुत्राञ्जनयामास गौतमादीन्महायशाः +ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये +लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः +काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् +न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते +चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् +सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः +जगाम सुबहून्देशानन्धस्तेनोडुपेन ह +तं तु राजा बलिर्नाम सर्वधर्मविशारदः +अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् +जग्राह च��नं धर्मात्मा बलिः सत्यपराक्रमः +ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ +संतानार्थं महाभाग भार्यासु मम मानद +पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि +एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः +तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा +अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह +स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा +तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी +जनयामास धर्मात्मा पुत्रानेकादशैव तु +काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः +उवाच तमृषिं राजा ममैत इति वीर्यवान् +नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् +शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः +अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव +अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे +ततः प्रसादयामास पुनस्तमृषिसत्तमम् +बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः +तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् +भविष्यति कुमारस्ते तेजस्वी सत्यवागिति +तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत +एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि +जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः +एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् +भीष्म उवाच +पुनर्भरतवंशस्य हेतुं संतानवृद्धये +वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु +ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् +विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः +वैशंपायन उवाच +ततः सत्यवती भीष्मं वाचा संसज्जमानया +विहसन्तीव सव्रीडमिदं वचनमब्रवीत् +सत्यमेतन्महाबाहो यथा वदसि भारत +विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च +न ते शक्यमनाख्यातुमापद्धीयं तथाविधा +त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः +तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् +धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम +सा कदाचिदहं तत्र गता प्रथमयौवने +अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः +आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् +स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा +सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु +तमहं शापभीता च पितुर्भीता च भारत +वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे +अभिभूय स मां बालां तेजसा वशमानयत् +तमसा लोकमावृत्य नौगतामेव भारत +मत्स्य��न्धो महानासीत्पुरा मम जुगुप्सितः +तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः +ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् +द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि +पाराशर्यो महायोगी स बभूव महानृषिः +कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः +यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः +लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च +सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः +स नियुक्तो मया व्यक्तं त्वया च अमितद्युते +भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति +स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति +तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि +तव ह्यनुमते भीष्म नियतं स महातपाः +विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति +महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् +धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति +अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् +कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् +यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् +तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः +उक्तं भवत्या यच्छ्रेयः परमं रोचते मम +ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन +कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् +स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् +प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन +तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् +परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च +मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् +तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च +मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् +भवत्या यदभिप्रेतं तदहं कर्तुमागतः +शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव +तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये +स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् +तमासनगतं माता पृष्ट्वा कुशलमव्ययम् +सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् +मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे +तेषां पिता यथा स्वामी तथा माता न संशयः +विधातृविहितः स त्वं यथा मे प्रथमः सुतः +विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः +यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः +भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे +अयं शांतनवः सत्यं पालयन्सत्यविक्रमः +बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने +स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च +भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ +अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च +आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि +यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे +रूपयौवनसंपन्ने पुत्रकामे च धर्मतः +तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक +अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च +व्यास उवाच +वेत्थ धर्मं सत्यवति परं चापरमेव च +यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः +तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् +ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् +भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् +व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया +संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः +न हि मामव्रतोपेता उपेयात्काचिदङ्गना +सत्यवत्युवाच +यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु +अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः +कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो +तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति +व्यास उवाच +यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् +विरूपतां मे सहतामेतदस्याः परं व्रतम् +यदि मे सहते गन्धं रूपं वेषं तथा वपुः +अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् +वैशंपायन उवाच +समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः +ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् +धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् +कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे +भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् +व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् +भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये +सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह +नष्टं च भारतं वंशं पुनरेव समुद्धर +पुत्रं जनय सुश्रोणि देवराजसमप्रभम् +स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः +सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् +भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा +वैशंपायन उवाच +ततः सत्यवती काले वधूं स्नातामृतौ तदा +संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् +कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति +अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति +श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे +साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् +ततोऽम्बिकायां प्रथमं निय���क्तः सत्यवागृषिः +दीप्यमानेषु दीपेषु शयनं प्रविवेश ह +तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने +बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् +संबभूव तया रात्रौ मातुः प्रियचिकीर्षया +भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् +ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् +अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति +निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् +प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः +नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः +महाभागो महावीर्यो महाबुद्धिर्भविष्यति +तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः +किं तु मातुः स वैगुण्यादन्ध एव भविष्यति +तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् +नान्धः कुरूणां नृपतिरनुरूपस्तपोधन +ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् +द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि +स तथेति प्रतिज्ञाय निश्चक्राम महातपाः +सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् +पुनरेव तु सा देवी परिभाष्य स्नुषां ततः +ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता +ततस्तेनैव विधिना महर्षिस्तामपद्यत +अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् +विषण्णा पाण्डुसंकाशा समपद्यत भारत +तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव +व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् +यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि +तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति +नाम चास्य तदेवेह भविष्यति शुभानने +इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः +ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत +शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् +तं माता पुनरेवान्यमेकं पुत्रमयाचत +तथेति च महर्षिस्तां मातरं प्रत्यभाषत +ततः कुमारं सा देवी प्राप्तकालमजीजनत् +पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया +तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः +ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् +सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् +नाकरोद्वचनं देव्या भयात्सुरसुतोपमा +ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् +प्रेषयामास कृष्णाय ततः काशिपतेः सुता +दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च +संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह +कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः +तया सहोषितो रात्रिं महर्षिः प्रीयमाणया +उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि +अयं च ते शुभे गर्भः श्रीमानुदरमागतः +धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः +स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः +धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् +धर्मो विदुररूपेण शापात्तस्य महात्मनः +माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः +स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च +तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत +एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि +जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः +जनमेजय उवाच +किं कृतं कर्म धर्मेण येन शापमुपेयिवान् +कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत +वैशंपायन उवाच +बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः +धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः +स आश्रमपदद्वारि वृक्षमूले महातपाः +ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः +तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः +तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः +अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ +ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम +निधाय च भयाल्लीनास्तत्रैवान्वागते बले +तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् +आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः +तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् +कतरेण पथा याता दस्यवो द्विजसत्तम +तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् +तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः +न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा +ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् +ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च +ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति +संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् +तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति +स वध्यघातैरज्ञातः शूले प्रोतो महातपाः +ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा +प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ +शूलस्थः स तु धर्मात्मा कालेन महता ततः +निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् +धारयामास च प्राणानृषींश्च समुपानयत् +शूलाग्रे तप्यमानेन तपस्तेन महात्मना +संतापं परमं जग्मुर्मुनयोऽथ परंतप +ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः +दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् +श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि +ततः स मुनिशार्दूलस्तानुवाच तपोधनान् +दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति +राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः +प्रसादयामास तदा शूलस्थमृषिसत्तमम् +यन्मयापकृतं मोहादज्ञानादृषिसत्तम +प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि +एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः +कृतप्रसादो राजा तं ततः समवतारयत् +अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह +अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे +स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः +स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः +अणीमाण्डव्य इति च ततो लोकेषु कथ्यते +स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् +आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः +किं नु तद्दुष्कृतं कर्म मया कृतमजानता +यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया +शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् +धर्म उवाच +पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता +कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन +अणीमाण्डव्य उवाच +अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः +शूद्रयोनावतो धर्म मानुषः संभविष्यसि +मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् +आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् +परेण कुर्वतामेवं दोष एव भविष्यति +वैशंपायन उवाच +एतेन त्वपराधेन शापात्तस्य महात्मनः +धर्मो विदुररूपेण शूद्रयोनावजायत +धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः +दीर्घदर्शी शमपरः कुरूणां च हिते रतः