diff --git "a/DharmicData/Mahabharata/Chapters/MBH2.txt" "b/DharmicData/Mahabharata/Chapters/MBH2.txt" new file mode 100644--- /dev/null +++ "b/DharmicData/Mahabharata/Chapters/MBH2.txt" @@ -0,0 +1,5149 @@ +वैशंपायन उवाच +ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ +प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः +अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः +त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते +अर्जुन उवाच +कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर +प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते +मय उवाच +युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ +प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत +अहं हि विश्वकर्मा वै दानवानां महाकविः +सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव +अर्जुन उवाच +प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया +एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया +न चापि तव संकल्पं मोघमिच्छामि दानव +कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि +वैशंपायन उवाच +चोदितो वासुदेवस्तु मयेन भरतर्षभ +मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति +चोदयामास तं कृष्णः सभा वै क्रियतामिति +धर्मराजस्य दैतेय यादृशीमिह मन्यसे +यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः +मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् +यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया +आसुरान्मानुषांश्चैव तां सभां कुरु वै मय +प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा +विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा +ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे +सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् +तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा +स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः +स पूर्वदेवचरितं तत्र तत्र विशां पते +कथयामास दैतेयः पाण्डुपुत्रेषु भारत +स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च +सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् +अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः +पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः +तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः +धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् +सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् +दशकिष्कुसहस्रां तां मापयामास सर्वतः +वैशंपायन उवाच +उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः +पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः +गमनाय मतिं चक्रे पितुर्दर्शनलालसः +धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः +ववन्दे चरणौ मूर्ध्ना जगद्��न्द्यः पितृष्वसुः +स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः +ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः +तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः +अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् +उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् +तया स्वजनगामीनि श्रावितो वचनानि सः +संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः +तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् +ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः +ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः +द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः +भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली +भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः +अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः +माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि +स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः +स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः +वसु प्रदाय च ततः प्रदक्षिणमवर्तत +काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् +गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् +तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते +प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः +अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः +अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् +अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा +उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् +रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् +तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी +पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः +स तथा भ्रातृभिः सार्धं केशवः परवीरहा +अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः +पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् +युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा +परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः +ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः +निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् +स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः +लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा +मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् +अतृप्तमनसामेव तेषां केशवदर्शने +क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः +अकामा इव पार्थास्ते गोविन्दगतमानसाः +निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः +स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् +वैशंपायन उवाच +अ���ाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् +आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् +उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति +यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया +कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति +सभायां सत्यसंधस्य यदासीद्वृषपर्वणः +आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत +ततः सभां करिष्यामि पाण्डवाय यशस्विने +मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् +अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह +निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् +सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा +सा वै शतसहस्रस्य संमिता सर्वघातिनी +अनुरूपा च भीमस्य गाण्डीवं भवतो यथा +वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् +सर्वमेतत्प्रदास्यामि भवते नात्र संशयः +इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् +उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति +हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः +रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः +दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः +यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना +आहृताः क्रतवो मुख्याः शतं भरतसत्तम +यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः +शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः +यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः +यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः +उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः +नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः +उपासते यत्र सत्रं सहस्रयुगपर्यये +यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः +श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये +सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः +ददौ यत्र सहस्राणि प्रयुतानि च केशवः +तत्र गत्वा स जग्राह गदां शङ्खं च भारत +स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः +किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत् +तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् +विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् +गदां च भीमसेनाय प्रवरां प्रददौ तदा +देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् +सभा तु सा महाराज शातकुम्भमयद्रुमा +दश किष्कुसहस्राणि समन्तादायताभवत् +यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा +भ्राजमाना तथा दिव्या बभार परमं वपुः +प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् +प्रबभौ ज्वलमानेव दिव्या दि���्येन वर्चसा +नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता +आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा +उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी +बहुरत्ना बहुधना सुकृता विश्वकर्मणा +न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी +आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः +तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च +सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः +अन्तरिक्षचरा घोरा महाकाया महाबलाः +रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः +तस्यां सभायां नलिनीं चकाराप्रतिमां मयः +वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् +पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् +पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् +सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् +मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् +मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः +दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत +तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः +आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः +काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः +हंसकारण्डवयुताश्चक्रवाकोपशोभिताः +जलजानां च माल्यानां स्थलजानां च सर्वशः +मारुतो गन्धमादाय पाण्डवान्स्म निषेवते +ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः +निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् +वैशंपायन उवाच +ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः +अयुतं भोजयामास ब्राह्मणानां नराधिपः +घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा +अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि +ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः +पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत +वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि +पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च +तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा +उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् +तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः +तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि +सभायामृषयस्तस्यां पाण्डवैः सह आसते +आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः +असितो देवलः सत्यः सर्पमाली महाशिराः +अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः +बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः +सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् +तित्तिरिर्��ाज्ञवल्क्यश्च ससुतो लोमहर्षणः +अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ +दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः +मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ +बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः +जातूकर्णः शिखावांश्च सुबलः पारिजातकः +पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः +पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा +जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः +हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः +कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः +पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः +कर्करो वेणुजङ्घश्च कलापः कठ एव च +मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः +एते चान्ये च बहवो वेदवेदाङ्गपारगाः +उपासते महात्मानं सभायामृषिसत्तमाः +कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः +तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते +श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः +संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् +कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः +काम्बोजराजः कमलः कम्पनश्च महाबलः +सततं कम्पयामास यवनानेक एव यः +यथासुरान्कालकेयान्देवो वज्रधरस्तथा +जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः +तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण +किरातराजः सुमना यवनाधिपतिस्तथा +चाणूरो देवरातश्च भोजो भीमरथश्च यः +श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः +सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः +केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः +सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः +अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः +शिशुपालः सहसुतः करूषाधिपतिस्तथा +वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः +आहुको विपृथुश्चैव गदः सारण एव च +अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः +भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् +केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः +अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः +अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः +तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः +रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः +एते चान्ये च बहवो राजानः पृथिवीपते +धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः +चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा +गीतवादित्रकुशलाः शम्यातालविश���रदाः +प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः +संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः +गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः +पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते +तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः +दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते +वैशंपायन उवाच +तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु +महत्सु चोपविष्टेषु गन्धर्वेषु च भारत +लोकाननुचरन्सर्वानागमत्तां सभामृषिः +नारदः सुमहातेजा ऋषिभिः सहितस्तदा +पारिजातेन राजेन्द्र रैवतेन च धीमता +सुमुखेन च सौम्येन देवर्षिरमितद्युतिः +सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः +तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् +सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह +अभ्यवादयत प्रीत्या विनयावनतस्तदा +तदर्हमासनं तस्मै संप्रदाय यथाविधि +अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् +सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः +धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् +नारद उवाच +कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः +सुखानि चानुभूयन्ते मनश्च न विहन्यते +कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः +वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु +कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा +उभौ वा प्रीतिसारेण न कामेन प्रबाधसे +कच्चिदर्थं च धर्मं च कामं च जयतां वर +विभज्य काले कालज्ञ सदा वरद सेवसे +कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ +बलाबलं तथा सम्यक्चतुर्दश परीक्षसे +कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर +तथा संधाय कर्माणि अष्टौ भारत सेवसे +कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ +आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः +कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः +त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् +कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे +कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे +कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः +कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः +विजयो मन्त्रमूलो हि राज्ञां भवति भारत +सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः +कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे +कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् +कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह +कच्चित्ते मन���त्रितो मन्त्रो न राष्ट्रमनुधावति +कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् +क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् +कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः +सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् +कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः +विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् +कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः +कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः +कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् +पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् +कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः +यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः +एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः +राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् +कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च +त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः +कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा +नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन +कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः +अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः +कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः +हुतं च होष्यमाणं च काले वेदयते सदा +कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः +उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव +कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः +जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः +अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् +श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु +कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः +राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ +कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा +उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः +कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः +कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव +कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः +दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः +कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् +संप्राप्तकालं दातव्यं ददासि न विकर्षसि +कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः +भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः +कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः +कच्चित्प्राणांस्तवार्��ेषु संत्यजन्ति सदा युधि +कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान् +अनुशास्सि यथाकामं कामात्मा शासनातिगः +कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् +लभते मानमधिकं भूयो वा भक्तवेतनम् +कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् +यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे +कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् +व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ +कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् +युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि +कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते +समश्च नाभिशङ्क्यश्च यथा माता यथा पिता +कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ +अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् +पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् +बलस्य च महाराज दत्त्वा वेतनमग्रतः +कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप +उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः +कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः +पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् +कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः +साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः +कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते +तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि +कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः +बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी +कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप +अविहाय महाराज विहंसि समरे रिपून् +कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव +अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् +कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च +घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव +कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् +आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः +कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते +रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् +कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च +प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव +कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः +पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव +कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् +अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् +कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः +अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्यय��� तव +कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान् +नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् +कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् +त्वं कर्मस्वनुरूपेषु नियोजयसि भारत +कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते +अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः +कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा +त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः +कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च +भागशो विनिविष्टानि न कृषिर्देवमातृका +कच्चिद्बीजं च भक्तं च कर्षकायावसीदते +प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् +कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः +वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते +कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः +क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव +कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः +ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः +कच्चिद्बलेनानुगताः समानि विषमाणि च +पुराणचौराः साध्यक्षाश्चरन्ति विषये तव +कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः +कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे +कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च +प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् +कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते +संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे +कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान् +उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः +कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः +अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम +कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते +परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च +कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा +मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि +कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः +सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा +कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते +अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथंचन +कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा +आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च +कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः +त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन +कच्चित्ते दुर्बलः शत��रुर्बलेनोपनिपीडितः +मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर +कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः +कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः +कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते +ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा +कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः +वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे +कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः +गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् +कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः +पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् +कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि +चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि +कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ +आयुष्या च यशस्या च धर्मकामार्थदर्शिनी +एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति +विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते +कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि +अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः +पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः +कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ +व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत +अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः +नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् +अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् +एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् +निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् +मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च +कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश +कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् +कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् +युधिष्ठिर उवाच +कथं वै सफला वेदाः कथं वै सफलं धनम् +कथं वै सफला दाराः कथं वै सफलं श्रुतम् +नारद उवाच +अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् +रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् +वैशंपायन उवाच +एतदाख्याय स मुनिर्नारदः सुमहातपाः +पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् +नारद उवाच +कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् +यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः +कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः +उपानयन्ति पण्यानि उपधाभिरवञ्चिताः +कच्चिच्छृ���ोषि वृद्धानां धर्मार्थसहिता गिरः +नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् +कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च +धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी +द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् +चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि +कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि +सतां मध्ये महाराज सत्करोषि च पूजयन् +कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ +हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो +कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ +धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् +कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ +विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः +कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा +रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि +कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् +पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि +वैशंपायन उवाच +एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य +प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् +एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा +उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च +नारद उवाच +एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे +स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् +वैशंपायन उवाच +संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् +प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः +भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् +यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया +राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः +यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् +वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो +न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः +एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च +मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् +नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः +अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः +भवान्संचरते लोकान्सदा नानाविधान्बहून् +ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः +ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् +इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः +तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् +पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा +मानुषेषु ��� मे तात दृष्टपूर्वा न च श्रुता +सभा मणिमयी राजन्यथेयं तव भारत +सभां तु पितृराजस्य वरुणस्य च धीमतः +कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च +ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् +यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ +नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः +प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः +नारदं प्रत्युवाचेदं धर्मराजो महामनाः +सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् +किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः +पितामहं च के तस्यां सभायां पर्युपासते +वासवं देवराजं च यमं वैवस्वतं च के +वरुणं च कुबेरं च सभायां पर्युपासते +एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव +श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः +एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् +क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः +नारद उवाच +शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता +स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा +विस्तीर्णा योजनशतं शतमध्यर्धमायता +वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता +जराशोकक्लमापेता निरातङ्का शिवा शुभा +वेश्मासनवती रम्या दिव्यपादपशोभिता +तस्यां देवेश्वरः पार्थ सभायां परमासने +आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत +बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः +विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह +तस्यामुपासते नित्यं महात्मानं शतक्रतुम् +मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः +सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा +एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः +उपासते महात्मानं देवराजमरिंदमम् +तथा देवर्षयः सर्वे पार्थ शक्रमुपासते +अमला धूतपाप्मानो दीप्यमाना इवाग्नयः +तेजस्विनः सोमयुजो विपापा विगतक्लमाः +पराशरः पर्वतश्च तथा सावर्णिगालवौ +शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः +दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः +उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः +हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः +हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः +वातस्कन्धो विशाखश्च विधाता काल एव च +अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः +अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः +ईशानं सर्वलोकस्य वज्रिणं समुपासते +सहदेवः सुनीथश्च वाल्मीकिश्��� महातपाः +समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः +मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः +मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः +कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः +मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः +संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् +दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती +अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव +जलवाहास्तथा मेघा वायवः स्तनयित्नवः +प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः +अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा +भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत +यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः +यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते +तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः +नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि +रमयन्ति स्म नृपते देवराजं शतक्रतुम् +स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा +विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् +ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा +विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः +स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे +बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह +एते चान्ये च बहवो यतात्मानो यतव्रताः +विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः +ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा +एषा सभा मया राजन्दृष्टा पुष्करमालिनी +शतक्रतोर्महाराज याम्यां शृणु ममानघ +नारद उवाच +कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् +वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह +तैजसी सा सभा राजन्बभूव शतयोजना +विस्तारायामसंपन्ना भूयसी चापि पाण्डव +अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी +नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी +न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् +न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत +सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः +रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम +पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः +रसवन्ति च तोयानि शीतान्युष्णानि चैव ह +तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः +यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते +ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः +त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः +अरिप्��णुत्सुसिंहश्च कृतवेगः कृतिर्निमिः +प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः +ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः +चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः +भरतस्तथा सुरथः सुनीथो नैषधो नलः +दिवोदासोऽथ सुमना अम्बरीषो भगीरथः +व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः +रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः +रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी +आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः +औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः +अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः +भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः +करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः +कपोतरोमा तृणकः सहदेवार्जुनौ तथा +रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः +अलर्कः कक्षसेनश्च गयो गौराश्व एव च +जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा +भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा +वैन्यो राजा वारिषेणः पुरुजो जनमेजयः +ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा +इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः +पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् +अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा +शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः +धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः +शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् +शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव +उशद्गवः शतरथो देवराजो जयद्रथः +वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा +अथापरे सहस्राणि ये गताः शशबिन्दवः +इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः +एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः +तस्यां सभायां राजर्षे वैवस्वतमुपासते +अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च +यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः +अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये +स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे +कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः +नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः +कालस्य नयने युक्ता यमस्य पुरुषाश्च ये +तस्यां शिंशपपालाशास्तथा काशकुशादयः +उपासते धर्मराजं मूर्तिमन्तो निरामयाः +एते चान्ये च बहवः पितृराजसभासदः +अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा +असंबाधा हि सा पार्थ रम्या कामगमा सभा +दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा +प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत +तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः +शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा +सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः +चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः +सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः +गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः +वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः +पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः +दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः +शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् +उपासते महात्मानं रूपयुक्ता मनस्विनः +ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः +वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् +नारद उवाच +युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा +प्रमाणेन यथा याम्या शुभप्राकारतोरणा +अन्तःसलिलमास्थाय विहिता विश्वकर्मणा +दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता +नीलपीतासितश्यामैः सितैर्लोहितकैरपि +अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः +तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः +अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः +सा सभा सुखसंस्पर्शा न शीता न च घर्मदा +वेश्मासनवती रम्या सिता वरुणपालिता +यस्यामास्ते स वरुणो वारुण्या सह भारत +दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः +स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः +आदित्यास्तत्र वरुणं जलेश्वरमुपासते +वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा +कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् +कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ +मणिमान्कुण्डलधरः कर्कोटकधनंजयौ +प्रह्लादो मूषिकादश्च तथैव जनमेजयः +पताकिनो मण्डलिनः फणवन्तश्च सर्वशः +एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर +उपासते महात्मानं वरुणं विगतक्लमाः +बलिर्वैरोचनो राजा नरकः पृथिवींजयः +प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः +सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः +घटोदरो महापार्श्वः क्रथनः पिठरस्तथा +विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः +दशग्रीवश्च वाली च मेघवासा दशावरः +कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः +दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः +स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः +सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः +ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा +उपासते महात्मानं सर्वे सुचरितव्रताः +तथा समुद्राश्चत्वारो नदी भागीरथी च या +कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी +विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती +इरावती वितस्ता च सिन्धुर्देवनदस्तथा +गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा +एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च +कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर +पल्वलानि तडागानि देहवन्त्यथ भारत +दिशस्तथा मही चैव तथा सर्वे महीधराः +उपासते महात्मानं सर्वे जलचरास्तथा +गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः +स्तुवन्तो वरुणं तस्यां सर्व एव समासते +महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः +सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते +एषा मया संपतता वारुणी भरतर्षभ +दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु +नारद उवाच +सभा वैश्रवणी राजञ्शतयोजनमायता +विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा +तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा +शशिप्रभा खेचरीणां कैलासशिखरोपमा +गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते +दिव्या हेममयैरुच्चैः पादपैरुपशोभिता +रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा +सिताभ्रशिखराकारा प्लवमानेव दृश्यते +तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः +स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः +दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते +दिव्यपादोपधाने च निषण्णः परमासने +मन्दाराणामुदाराणां वनानि सुरभीणि च +सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः +नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च +मनोहृदयसंह्लादी वायुस्तमुपसेवते +तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः +दिव्यतानेन गीतानि गान्ति दिव्यानि भारत +मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता +चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला +विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा +वर्गा च सौरभेयी च समीची बुद्बुदा लता +एताः सहस्रशश्चान्या नृत्तगीतविशारदाः +उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः +अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा +अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः +किंनरा नाम गन्धर्वा नरा नाम तथापरे +मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः +कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः +कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः +वराहकर्णः सान��द्रोष्ठः फलभक्षः फलोदकः +अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः +पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः +वृक्षवास्यनिकेतश्च चीरवासाश्च भारत +एते चान्ये च बहवो यक्षाः शतसहस्रशः +सदा भगवती च श्रीस्तथैव नलकूबरः +अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः +आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे +भगवान्भूतसंघैश्च वृतः शतसहस्रशः +उमापतिः पशुपतिः शूलधृग्भगनेत्रहा +त्र्यम्बको राजशार्दूल देवी च विगतक्लमा +वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः +मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः +नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः +वृतः सखायमन्वास्ते सदैव धनदं नृप +सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा +पितामहसभां राजन्कथयिष्ये गतक्लमाम् +नारद उवाच +पुरा देवयुगे राजन्नादित्यो भगवान्दिवः +आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः +चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः +सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव +अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ +अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् +श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन +दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् +भगवन्द्रष्टुमिच्छामि पितामहसभामहम् +येन सा तपसा शक्या कर्मणा वापि गोपते +औषधैर्वा तथा युक्तैरुत वा मायया यया +तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् +ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् +अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् +एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप +क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा +न वेद परिमाणं वा संस्थानं वापि भारत +न च रूपं मया तादृग्दृष्टपूर्वं कदाचन +सुसुखा सा सभा राजन्न शीता न च घर्मदा +न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत +नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः +स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा +अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा +दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् +तस्यां स भगवानास्ते विदधद्देवमायया +स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः +उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् +दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा +भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः +मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही +शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत +प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः +चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् +वायवः क्रतवश्चैव संकल्पः प्राण एव च +एते चान्ये च बहवः स्वयंभुवमुपस्थिताः +अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः +आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा +विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः +शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च +शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च +मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि +आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः +मरुतो विश्वकर्मा च वसवश्चैव भारत +तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ +ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव +अथर्ववेदश्च तथा पर्वाणि च विशां पते +इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः +ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः +सावित्री दुर्गतरणी वाणी सप्तविधा तथा +मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा +सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा +भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते +क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च +अर्धमासाश्च मासाश्च ऋतवः षट्च भारत +संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः +कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् +अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा +कालका सुरभिर्देवी सरमा चाथ गौतमी +आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि +विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः +राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा +सुपर्णनागपशवः पितामहमुपासते +देवो नारायणस्तस्यां तथा देवर्षयश्च ये +ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा +यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् +सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप +अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् +प्रजावतां च पञ्चाशदृषीणामपि पाण्डव +ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः +प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् +अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा +यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा +महाभागानमितधीर्ब्रह्मा लोकपितामहः +दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते +प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः +सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप +तथा तैरुपयातैश्च प्रत���यातैश्च भारत +आकुला सा सभा तात भवति स्म सुखप्रदा +सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता +ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा +सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा +सभेयं राजशार्दूल मनुष्येषु यथा तव +एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव +तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा +युधिष्ठिर उवाच +प्रायशो राजलोकस्ते कथितो वदतां वर +वैवस्वतसभायां तु यथा वदसि वै प्रभो +वरुणस्य सभायां तु नागास्ते कथिता विभो +दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा +तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा +गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः +पितामहसभायां तु कथितास्ते महर्षयः +सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि +शतक्रतुसभायां तु देवाः संकीर्तिता मुने +उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः +एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने +कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः +किं कर्म तेनाचरितं तपो वा नियतव्रतम् +येनासौ सह शक्रेण स्पर्धते स्म महायशाः +पितृलोकगतश्चापि त्वया विप्र पिता मम +दृष्टः पाण्डुर्महाभागः कथं चासि समागतः +किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् +त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे +नारद उवाच +यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो +तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः +स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् +तस्य सर्वे महीपालाः शासनावनताः स्थिताः +तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् +शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर +स विजित्य महीं सर्वां सशैलवनकाननाम् +आजहार महाराज राजसूयं महाक्रतुम् +तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया +द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् +प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः +यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् +अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा +प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् +भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः +रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् +तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् +एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते +तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ +समाप्य च हरिश्चन्द्रो महायज��ञं प्रतापवान् +अभिषिक्तः स शुशुभे साम्राज्येन नराधिप +ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् +यजन्ते ते महेन्द्रेण मोदन्ते सह भारत +ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः +ते तत्सदः समासाद्य मोदन्ते भरतर्षभ +तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् +तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः +पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः +हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः +समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः +राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत +तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव +गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् +बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् +छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः +युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् +किंचिदेव निमित्तं च भवत्यत्र क्षयावहम् +एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर +अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे +भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् +एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि +आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति +वैशंपायन उवाच +एवमाख्याय पार्थेभ्यो नारदो जनमेजय +जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः +गते तु नारदे पार्थो भ्रातृभिः सह कौरव +राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत +वैशंपायन उवाच +ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः +चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत +राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् +यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च +हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः +यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः +युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः +प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे +स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् +आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् +भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् +किं हितं सर्वलोकानां भवेदिति मनो दधे +अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः +अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः +एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः +न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता +स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः +राजसूयं प्रति तदा पुनः पुनरपृच्��त +ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा +युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् +येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति +तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति +तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन +राजसूयस्य समयं मन्यन्ते सुहृदस्तव +तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा +साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः +दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् +अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते +समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् +अविचार्य महाराज राजसूये मनः कुरु +इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् +स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते +धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा +श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् +पुनः पुनर्मनो दध्रे राजसूयाय भारत +स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः +धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः +युधिष्ठिर उवाच +इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः +श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् +वैशंपायन उवाच +एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन +इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् +अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् +अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा +मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् +स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् +भूयो विममृशे पार्थो लोकानां हितकाम्यया +सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ +विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति +न हि यज्ञसमारम्भः केवलात्मविपत्तये +भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् +स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् +सर्वलोकात्परं मत्वा जगाम मनसा हरिम् +अप्रमेयं महाबाहुं कामाज्जातमजं नृषु +पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः +नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् +न स किंचिन्न विषहेदिति कृष्णममन्यत +स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः +गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा +शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् +द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् +दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः +इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा +���्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः +इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः +स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः +भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः +प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा +अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः +तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् +धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् +युधिष्ठिर उवाच +प्रार्थितो राजसूयो मे न चासौ केवलेप्सया +प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः +यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यते +यश्च सर्वेश्वरो राजा राजसूयं स विन्दति +तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे +तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् +केचिद्धि सौहृदादेव दोषं न परिचक्षते +अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत +प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् +एवंप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने +त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च +परमं नः क्षमं लोके यथावद्वक्तुमर्हसि +श्रीकृष्ण उवाच +सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि +जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत +जामदग्न्येन रामेण क्षत्रं यदवशेषितम् +तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् +कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप +निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ +ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते +राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि +ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः +तानि चैकशतं विद्धि कुलानि भरतर्षभ +ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् +भजते च महाराज विस्तरः स चतुर्दिशम् +तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते +सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत +चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् +स साम्राज्यं जरासंधः प्राप्तो भवति योनितः +तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः +राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् +तमेव च महाराज शिष्यवत्समुपस्थितः +वक्रः करूषाधिपतिर्मायायोधी महाबलः +अपरौ च महावीर्यौ महात्मानौ समाश्रितौ +जरासंधं महावीर्यं तौ हंसडिभकावुभौ +दन्तवक्रः करूषश्च कलभो मेघवाहनः +मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः +मुरं च नरकं चैव शास्ति यो यवनाधिपौ +अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा +भगदत्तो महाराज वृद्धस्तव पितुः सखा +स वाचा प्रणतस्तस्य कर्मणा चैव भारत +स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि +प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः +मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः +स ते संनतिमानेकः स्नेहतः शत्रुतापनः +जरासंधं गतस्त्वेवं पुरा यो न मया हतः +पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः +आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् +आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् +वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः +पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः +चतुर्युः स महाराज भोज इन्द्रसखो बली +विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् +भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि +स भक्तो मागधं राजा भीष्मकः परवीरहा +प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः +भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः +न कुलं न बलं राजन्नभिजानंस्तथात्मनः +पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः +उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो +जरासंधभयादेव प्रतीचीं दिशमाश्रिताः +शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः +सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह +शाल्वेयानां च राजानः सोदर्यानुचरैः सह +दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः +तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः +मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः +तथैव सर्वपाञ्चाला जरासंधभयार्दिताः +स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् +कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् +बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः +अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले +बलेन तेन स ज्ञातीनभिभूय वृथामतिः +श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् +भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना +ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता +दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा +संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् +हतौ कंससुनामानौ मया रामेण चाप्युत +भये तु समुपक्रान्ते जरासंधे समुद्यते +मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः +अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः +न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् +तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ +नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ +तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् +त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः +न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः +तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर +अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः +स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः +हतो हंस इति प्रोक्तमथ केनापि भारत +तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत +विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे +इत्येतां मतिमास्थाय डिभको निधनं गतः +तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः +प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत +तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ +स्वपुरं शूरसेनानां प्रययौ भरतर्षभ +ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे +पुनरानन्दिताः सर्वे मथुरायां वसामहे +यदा त्वभ्येत्य पितरं सा वै राजीवलोचना +कंसभार्या जरासंधं दुहिता मागधं नृपम् +चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता +पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम +ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् +संस्मरन्तो विमनसो व्यपयाता नराधिप +पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् +प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः +इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः +कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् +पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप +तथैव दुर्गसंस्कारं देवैरपि दुरासदम् +स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः +तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः +आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च +माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् +एवं वयं जरासंधादादितः कृतकिल्बिषाः +सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः +त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि +योजनान्ते शतद्वारं विक्रमक्रमतोरणम् +अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः +अष्टादश सहस्राणि व्रातानां सन्ति नः कुले +आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः +चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः +अहं च रौहिणेयश्च साम्बः शौरिसमो युधि +एवमेते रथाः सप्त राजन्नन्यान्निबोध मे +कृतवर्मा अनाधृष्टिः समीकः समितिंजयः +कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः +पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश +लोकसंहनना वीरा वीर्यवन्तो महाबलाः +स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः +स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम +क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत +न तु शक्यं जरासंधे जीवमाने महाबले +राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम +तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे +कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः +सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः +आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः +स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् +पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् +वयं चैव महाराज जरासंधभयात्तदा +मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् +यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि +यतस्व तेषां मोक्षाय जरासंधवधाय च +समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन +राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर +इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ +एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः +युधिष्ठिर उवाच +उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति +संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि +गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः +न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् +कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति +परेण समवेतस्तु यः प्रशस्तः स पूज्यते +विशाला बहुला भूमिर्बहुरत्नसमाचिता +दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह +शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः +आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः +एवमेवाभिजानन्ति कुले जाता मनस्विनः +कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन +भीम उवाच +अनारम्भपरो राजा वल्मीक इव सीदति +दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति +अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् +जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् +कृष्णे नयो मयि बलं जयः पार्थे धनंजये +मागधं साधयिष्यामो वयं त्रय इवाग्नयः +कृष्ण उवाच +आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते +तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् +हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः +कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः +ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः +निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः +बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ +न चैनमनु��ुध्यन्ते कुलान्येकशतं नृपाः +तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः +रत्नभाजो हि राजानो जरासंधमुपासते +न च तुष्यति तेनापि बाल्यादनयमास्थितः +मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् +आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् +एवं सर्वान्वशे चक्रे जरासंधः शतावरान् +तं दुर्बलतरो राजा कथं पार्थ उपैष्यति +प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे +पशूनामिव का प्रीतिर्जीविते भरतर्षभ +क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः +ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् +षडशीतिः समानीताः शेषा राजंश्चतुर्दश +जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते +प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् +जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत् +युधिष्ठिर उवाच +सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः +कथं प्रहिणुयां भीमं बलात्केवलसाहसात् +भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् +मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् +जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम् +श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् +अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते +यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम +संन्यासं रोचये साधु कार्यस्यास्य जनार्दन +प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः +वैशंपायन उवाच +पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी +रथं ध्वजं सभां चैव युधिष्ठिरमभाषत +धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् +प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् +कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः +बलेन सदृशं नास्ति वीर्यं तु मम रोचते +कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति +क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये +सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् +सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति +द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे +जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् +संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते +तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः +दैन्यं यथाबलवति तथा मोहो बलान्विते +तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना +जरासंधविनाशं च राज्ञां च परिमोक्षणम् +यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् +अनारम्भे तु निय���ो भवेदगुणनिश्चयः +गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् +काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् +साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः +वासुदेव उवाच +जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च +या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता +न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा +न चापि कंचिदमरमयुद्धेनापि शुश्रुमः +एतावदेव पुरुषैः कार्यं हृदयतोषणम् +नयेन विधिदृष्टेन यदुपक्रमते परान् +सुनयस्यानपायस्य संयुगे परमः क्रमः +संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः +ते वयं नयमास्थाय शत्रुदेहसमीपगाः +कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः +पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः +व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् +इति बुद्धिमतां नीतिस्तन्ममापीह रोचते +अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत् +शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे +एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ +अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः +अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः +प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः +युधिष्ठिर उवाच +कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः +यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा +कृष्ण उवाच +शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः +यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः +अक्षौहिणीनां तिसृणामासीत्समरदर्पितः +राजा बृहद्रथो नाम मगधाधिपतिः पतिः +रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः +नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः +तेजसा सूर्यसदृशः क्षमया पृथिवीसमः +यमान्तकसमः कोपे श्रिया वैश्रवणोपमः +तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम +व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः +स काशिराजस्य सुते यमजे भरतर्षभ +उपयेमे महावीर्यो रूपद्रविणसंमते +तयोश्चकार समयं मिथः स पुरुषर्षभः +नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा +स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप +प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः +तयोर्मध्यगतश्चापि रराज वसुधाधिपः +गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः +विषयेषु निमग्नस्य तस्य यौवनमत्यगात् +न च वंशकरः पुत्रस्तस्याजायत कश्चन +मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः +नाससाद नृपश्रे���्ठः पुत्रं कुलविवर्धनम् +अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः +शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् +यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् +पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् +तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः +परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत +ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः +पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा +बृहद्रथ उवाच +भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् +किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे +कृष्ण उवाच +एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः +तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् +तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह +अवातमशुकादष्टमेकमाम्रफलं किल +तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च +राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम् +उवाच च महाप्राज्ञस्तं राजानं महामुनिः +गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप +यथासमयमाज्ञाय तदा स नृपसत्तमः +द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ +ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे +भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः +तयोः समभवद्गर्भः फलप्राशनसंभवः +ते च दृष्ट्वा नरपतिः परां मुदमवाप ह +अथ काले महाप्राज्ञ यथासमयमागते +प्रजायेतामुभे राजञ्शरीरशकले तदा +एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे +दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् +उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले +सजीवे प्राणिशकले तत्यजाते सुदुःखिते +तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे +निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः +ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी +जग्राह मनुजव्याघ्र मांसशोणितभोजना +कर्तुकामा सुखवहे शकले सा तु राक्षसी +संघट्टयामास तदा विधानबलचोदिता +ते समानीतमात्रे तु शकले पुरुषर्षभ +एकमूर्तिकृते वीरः कुमारः समपद्यत +ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना +न शशाक समुद्वोढुं वज्रसारमयं शिशुम् +बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः +प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः +तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः +निर्जगाम नरव्याघ्र राज्ञा सह परंतप +ते चाबले परिग्लाने पयःपूर्णपयोधरे +निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् +अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् +तं च बालं सुबलिनं चिन्तयामास राक्षसी +नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः +बालं पुत्रमुपादातुं मेघलेखेव भास्करम् +सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् +बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् +तव पत्नीद्वये जातो द्विजातिवरशासनात् +धात्रीजनपरित्यक्तो मयायं परिरक्षितः +ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे +तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् +ततः स राजा संहृष्टः सर्वं तदुपलभ्य च +अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् +का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी +कामया ब्रूहि कल्याणि देवता प्रतिभासि मे +राक्षस्युवाच +जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी +तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् +साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप +तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक +संश्लेषिते मया दैवात्कुमारः समपद्यत +तव भाग्यैर्महाराज हेतुमात्रमहं त्विह +कृष्ण उवाच +एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत +स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः +तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा +आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् +तस्य नामाकरोत्तत्र प्रजापतिसमः पिता +जरया संधितो यस्माज्जरासंधस्ततोऽभवत् +सोऽवर्धत महातेजा मगधाधिपतेः सुतः +प्रमाणबलसंपन्नो हुताहुतिरिवानलः +कस्यचित्त्वथ कालस्य पुनरेव महातपाः +मगधानुपचक्राम भगवांश्चण्डकौशिकः +तस्यागमनसंहृष्टः सामात्यः सपुरःसरः +सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः +पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत +स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् +प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः +उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना +सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा +पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति +अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः +देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते +न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः +सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति +सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः +एनमासाद्य राजानः समृद्धबलवाहनाः +विनाशमुपयास्यन्ति शलभा इव पावकम् +एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति +वर्षास्विवोद्धतजला नदीर्नदनदीपतिः +एष धार��िता सम्यक्चातुर्वर्ण्यं महाबलः +शुभाशुभमिव स्फीता सर्वसस्यधरा धरा +अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः +सर्वभूतात्मभूतस्य वायोरिव शरीरिणः +एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् +सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः +एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् +विसर्जयामास नृपं बृहद्रथमथारिहन् +प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः +अभिषिच्य जरासंधं मगधाधिपतिस्तदा +बृहद्रथो नरपतिः परां निर्वृतिमाययौ +अभिषिक्ते जरासंधे तदा राजा बृहद्रथः +पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् +तपोवनस्थे पितरि मातृभ्यां सह भारत +जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे +अथ दीर्घस्य कालस्य तपोवनगतो नृपः +सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः +तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ +मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ +यौ तौ मया ते कथितौ पूर्वमेव महाबलौ +त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः +एवमेष तदा वीर बलिभिः कुकुरान्धकैः +वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः +वासुदेव उवाच +पतितौ हंसडिभकौ कंसामात्यौ निपातितौ +जरासंधस्य निधने कालोऽयं समुपागतः +न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः +प्राणयुद्धेन जेतव्यः स इत्युपलभामहे +मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः +साधयिष्याम तं राजन्वयं त्रय इवाग्नयः +त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः +न संदेहो यथा युद्धमेकेनाभ्युपयास्यति +अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः +भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति +अलं तस्य महाबाहुर्भीमसेनो महाबलः +लोकस्य समुदीर्णस्य निधनायान्तको यथा +यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि +भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे +वैशंपायन उवाच +एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः +भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ +अच्युताच्युत मा मैवं व्याहरामित्रकर्षण +पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् +यथा वदसि गोविन्द सर्वं तदुपपद्यते +न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी +निहतश्च जरासंधो मोक्षिताश्च महीक्षितः +राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः +क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते +मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम +त्रिभिर्भवद्भिर्हि व��ना नाहं जीवितुमुत्सहे +धर्मकामार्थरहितो रोगार्त इव दुर्गतः +न शौरिणा विना पार्थो न शौरिः पाण्डवं विना +नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः +अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः +युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः +सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् +अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः +यतो हि निम्नं भवति नयन्तीह ततो जलम् +यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् +तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् +वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये +एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् +पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये +एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये +अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम् +नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति +एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः +वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति +वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् +आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः +अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् +रविसोमाग्निवपुषां भीममासीत्तदा वपुः +हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ +एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ +ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने +धर्मार्थकामकार्याणां कार्याणामिव निग्रहे +कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् +रम्यं पद्मसरो गत्वा कालकूटमतीत्य च +गण्डकीयां तथा शोणं सदानीरां तथैव च +एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते +संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् +अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् +उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः +कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः +ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् +गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् +वासुदेव उवाच +एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् +निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः +वैहारो विपुलः शैलो वराहो वृषभस्तथा +तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः +एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः +रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् +पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः +निगूढा इव लोध्राणां वनैः का��िजनप्रियैः +शूद्रायां गौतमो यत्र महात्मा संशितव्रतः +औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः +गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि +भजते मागधं वंशं स नृपाणामनुग्रहात् +अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः +गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन +वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः +लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः +अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ +स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः +अपरिहार्या मेघानां मागधेयं मणेः कृते +कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् +अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते +वयमासादने तस्य दर्पमद्य निहन्म हि +वैशंपायन उवाच +एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः +वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् +तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् +स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् +तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् +बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः +यत्र माषादमृषभमाससाद बृहद्रथः +तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् +आनह्य चर्मणा तेन स्थापयामास स्वे पुरे +यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः +मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् +शिरसीव जिघांसन्तो जरासंधजिघांसवः +स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् +अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् +विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् +ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा +एतस्मिन्नेव काले तु जरासंधं समर्चयन् +पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः +स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः +युयुत्सवः प्रविविशुर्जरासंधेन भारत +भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् +स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् +तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः +राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः +बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः +विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः +निवेशनमथाजग्मुर्जरासंधस्य धीमतः +गोवासमिव वीक्षन्तः सिंहा हैमवता यथा +शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः +अशोभन्त महाराज बाहवो बाहुशालिनाम् +तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् +व्यूढो��स्कान्मागधानां विस्मयः समजायत +ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः +अहंकारेण राजानमुपतस्थुर्महाबलाः +तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् +प्रत्युत्थाय जरासंध उपतस्थे यथाविधि +उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः +तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् +स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः +अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत +तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः +उपतस्थे जरासंधो विस्मितश्चाभवत्तदा +ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः +इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम +स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः +तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् +तानब्रवीज्जरासंधस्तदा यादवपाण्डवान् +आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् +अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः +संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः +तानुवाच जरासंधः सत्यसंधो नराधिपः +विगर्हमाणः कौरव्य वेषग्रहणकारणात् +न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः +भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः +ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः +बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ +एवं विरागवसना बहिर्माल्यानुलेपनाः +सत्यं वदत के यूयं सत्यं राजसु शोभते +चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः +अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् +कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् +वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः +एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् +प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे +एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः +स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः +स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः +विशेषनियमाश्चैषामविशेषाश्च सन्त्युत +विशेषवांश्च सततं क्षत्रियः श्रियमर्छति +पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् +क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् +अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् +स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् +तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः +अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् +प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः +कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् +प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् +जरासंध उवाच +न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत +चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् +वैकृते चासति कथं मन्यध्वं मामनागसम् +अरिं विब्रूत तद्विप्राः सतां समय एष हि +अथ धर्मोपघाताद्धि मनः समुपतप्यते +योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः +अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः +वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च +त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् +अनागसं प्रजानानाः प्रमादादिव जल्पथ +वासुदेव उवाच +कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः +वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः +त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः +तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् +राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम +तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि +अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् +वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः +मनुष्याणां समालम्भो न च दृष्टः कदाचन +स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम् +सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति +कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः +ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः +ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः +नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् +मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः +को हि जानन्नभिजनमात्मनः क्षत्रियो नृप +नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् +स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः +यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप +स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः +स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् +एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः +येनासुरान्पराजित्य जगत्पाति शतक्रतुः +स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव +मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः +मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे +समं तेजस्त्वया चैव केवलं मनुजेश्वर +यावदेव न संबुद्धं तावदेव भवेत्तव +विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते +जहि त्वं सदृशेष्वेव मानं दर्पं च मागध +मा गमः ससुतामात्यः सबलश्च यमक्षयम् +दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः +श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः +मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः +शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ +त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध +मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् +जरासंध उवाच +नाजितान्वै नरपतीनहमादद्मि कांश्चन +जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः +क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् +विक्रम्य वशमानीय कामतो यत्समाचरेत् +देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् +अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् +सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः +द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा +वैशंपायन उवाच +एवमुक्त्वा जरासंधः सहदेवाभिषेचनम् +आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः +स तु सेनापती राजा सस्मार भरतर्षभ +कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते +ययोस्ते नामनी लोके हंसेति डिभकेति च +पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते +तं तु राजन्विभुः शौरी राजानं बलिनां वरम् +स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् +सत्यसंधो जरासंधं भुवि भीमपराक्रमम् +भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः +नात्मनात्मवतां मुख्य इयेष मधुसूदनः +ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः +वैशंपायन उवाच +ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः +उवाच वाग्मी राजानं जरासंधमधोक्षजः +त्रयाणां केन ते राजन्योद्धुं वितरते मनः +अस्मदन्यतमेनेह सज्जीभवतु को युधि +एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः +जरासंधस्ततो राजन्भीमसेनेन मागधः +धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च +उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः +कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना +समनह्यज्जरासंधः क्षत्रधर्ममनुव्रतः +अवमुच्य किरीटं स केशान्समनुमृज्य च +उदतिष्ठज्जरासंधो वेलातिग इवार्णवः +उवाच मतिमान्राजा भीमं भीमपराक्रमम् +भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् +एवमुक्त्वा जरासंधो भीमसेनमरिंदमः +प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः +ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली +भीमसेनो जरासंधमाससाद युयुत्सया +ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः +वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ +तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा +आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव +उभौ परमसंहृष्टौ बलेनातिबलावुभौ +अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ +तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे +बलिनोः संयुगे राजन्वृत्रवासवयोरिव +प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः +आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः +ततः शब्देन महता भर्त्सयन्तौ परस्परम् +पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः +व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ +बाहुभिः समसज्जेतामायसैः परिघैरिव +कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि +अनारतं दिवारात्रमविश्रान्तमवर्तत +तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः +चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् +तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः +उवाच भीमकर्माणं भीमं संबोधयन्निव +क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे +पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः +तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः +सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ +एवमुक्तः स कृष्णेन पाण्डवः परवीरहा +जरासंधस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे +ततस्तमजितं जेतुं जरासंधं वृकोदरः +संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः +वैशंपायन उवाच +भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् +बुद्धिमास्थाय विपुलां जरासंधजिघांसया +नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् +प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा +एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् +त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया +यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः +बलं भीम जरासंधे दर्शयाशु तदद्य नः +एवमुक्तस्तदा भीमो जरासंधमरिंदमः +उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः +भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ +बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च +तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः +अभवत्तुमुलो नादः सर्वप्राणिभयंकरः +वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः +भीमसेनस्य नादेन जरासंधस्य चैव ह +किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही +इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् +ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् +रात्रौ परास���मुत्सृज्य निश्चक्रमुररिंदमाः +जरासंधरथं कृष्णो योजयित्वा पताकिनम् +आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् +ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः +राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् +अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः +रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् +यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः +अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः +भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः +शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः +शक्रविष्णू हि संग्रामे चेरतुस्तारकामये +रथेन तेन तं कृष्ण उपारुह्य ययौ तदा +तप्तचामीकराभेण किङ्किणीजालमालिना +मेघनिर्घोषनादेन जैत्रेणामित्रघातिना +येन शक्रो दानवानां जघान नवतीर्नव +तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः +ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा +रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः +हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे +अधिष्ठितः स शुशुभे कृष्णेनातीव भारत +असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः +योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः +चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् +क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः +व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः +तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः +दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ +आदित्य इव मध्याह्ने सहस्रकिरणावृतः +न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते +दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः +तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् +निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः +यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः +बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् +स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः +गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः +तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा +ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा +बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् +पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः +नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन +भीमार्जुनबलोपेते धर्मस्य परिपालनम् +जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् +राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते +विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे +दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम +किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ +कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् +तानुवाच हृषीकेशः समाश्वास्य महामनाः +युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति +तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः +सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति +ततः प्रतीतमनसस्ते नृपा भरतर्षभ +तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् +रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः +कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया +जरासंधात्मजश्चैव सहदेवो महारथः +निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् +स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः +सहदेवो नृणां देवं वासुदेवमुपस्थितः +भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा +अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा +गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः +विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् +कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् +रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः +इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः +समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत +दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः +राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम +दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ +पुनः स्वनगरं प्राप्तावक्षताविति भारत +ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः +भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे +ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम् +अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह +यथावयः समागम्य राजभिस्तैश्च पाण्डवः +सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् +युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः +जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः +एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः +पाण्डवैर्घातयामास जरासंधमरिं तदा +घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः +धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत +सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा +धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति +तेनैव रथमुख्येन तरुणादित्यवर्चसा +धर्मराजविसृष्टेन दिव्येनानादयन्दिशः +ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ +प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् +ततो गते भगवति कृष्णे देवकि��न्दने +जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा +संवर्धितौजसो भूयः कर्मणा तेन भारत +द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् +तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् +तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् +वैशंपायन उवाच +पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी +रथं ध्वजं सभां चैव युधिष्ठिरमभाषत +धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् +प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् +तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् +करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम +विजयाय प्रयास्यामि दिशं धनदरक्षिताम् +तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे +धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः +स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत +स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ +दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च +विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि +इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः +अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा +तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ +ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः +दिशं धनपतेरिष्टामजयत्पाकशासनिः +भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् +प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् +खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः +जनमेजय उवाच +दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय +न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् +वैशंपायन उवाच +धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते +यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा +पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् +धनंजयो महाबाहुर्नातितीव्रेण कर्मणा +आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः +सुमण्डलं पापजितं कृतवाननुसैनिकम् +स तेन सहितो राजन्सव्यसाची परंतपः +विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् +सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः +अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् +स तानपि महेष्वासो विजित्य भरतर्षभ +तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् +तत्र राजा महानासीद्भगदत्तो विशां पते +तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः +स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् +अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः +ततः स दिवसानष्टौ योधयित��वा धनंजयम् +प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः +उपपन्नं महाबाहो त्वयि पाण्डवनन्दन +पाकशासनदायादे वीर्यमाहवशोभिनि +अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे +न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि +किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते +यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक +अर्जुन उवाच +कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः +तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् +भवान्पितृसखा चैव प्रीयमाणो मयापि च +ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् +भगदत्त उवाच +कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः +सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते +वैशंपायन उवाच +तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः +प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् +अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् +तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः +विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः +तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः +तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् +कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् +मृदङ्गवरनादेन रथनेमिस्वनेन च +हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् +ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा +निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् +सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः +न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् +सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः +उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः +स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ +सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् +मोदापुरं वामदेवं सुदामानं सुसंकुलम् +कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् +तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् +व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः +स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् +बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः +स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् +अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः +विजित्य चाहवे शूरान्पार्वतीयान्महारथान् +ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् +पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः +गणानुत्सवसंकेतानजयत्सप्त पाण्डवः +ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः +व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह +ततस्त्रिगर्त��न्कौन्तेयो दार्वान्कोकनदाश्च ये +क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः +अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः +उरशावासिनं चैव रोचमानं रणेऽजयत् +ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् +प्रामथद्बलमास्थाय पाकशासनिराहवे +ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः +सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः +ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः +महता परिमर्देन वशे चक्रे दुरासदान् +गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः +दरदान्सह काम्बोजैरजयत्पाकशासनिः +प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः +निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः +लोहान्परमकाम्बोजानृषिकानुत्तरानपि +सहितांस्तान्महाराज व्यजयत्पाकशासनिः +ऋषिकेषु तु संग्रामो बभूवातिभयंकरः +तारकामयसंकाशः परमर्षिकपार्थयोः +स विजित्य ततो राजन्नृषिकान्रणमूर्धनि +शुकोदरसमप्रख्यान्हयानष्टौ समानयत् +मयूरसदृशानन्यानुभयानेव चापरान् +स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् +श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः +वैशंपायन उवाच +स श्वेतपर्वतं वीरः समतिक्रम्य भारत +देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् +महता संनिपातेन क्षत्रियान्तकरेण ह +व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् +तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् +पाकशासनिरव्यग्रः सहसैन्यः समासदत् +तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् +ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः +सरो मानसमासाद्य हाटकानभितः प्रभुः +गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः +तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् +लेभे स करमत्यन्तं गन्धर्वनगरात्तदा +उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः +इयेष जेतुं तं देशं पाकशासननन्दनः +तत एनं महाकाया महावीर्या महाबलाः +द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् +पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन +उपावर्तस्व कल्याण पर्याप्तमिदमच्युत +इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः +प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव +न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते +उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते +प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन +न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् +अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि +तद्ब्रवीहि करिष्यामो वचनात्तव भारत +ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः +पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः +न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः +युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम् +ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च +मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् +एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् +संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा +स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह +धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च +हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि +मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः +वृतः सुमहता राजन्बलेन चतुरङ्गिणा +आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् +वैशंपायन उवाच +एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् +धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति +महता बलचक्रेण परराष्ट्रावमर्दिना +वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः +स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् +पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः +ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः +विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः +तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् +कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् +भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः +अधिसेनापतिं चक्रे सुधर्माणं महाबलम् +ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः +सैन्येन महता राजन्कम्पयन्निव मेदिनीम् +सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् +जिगाय समरे वीरो बलेन बलिनां वरः +स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा +पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः +ततो दक्षिणमागम्य पुलिन्दनगरं महत् +सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् +ततस्तु धर्मराजस्य शासनाद्भरतर्षभः +शिशुपालं महावीर्यमभ्ययाज्जनमेजय +चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् +उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः +तौ समेत्य महाराज कुरुचेदिवृषौ तदा +उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् +ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते +उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ +तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् +स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः +ततो भीमस्तत्र राजन्��ुषित्वा त्रिदशाः क्षपाः +सत्कृतः शिशुपालेन ययौ सबलवाहनः +वैशंपायन उवाच +ततः कुमारविषये श्रेणिमन्तमथाजयत् +कोसलाधिपतिं चैव बृहद्बलमरिंदमः +अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् +अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा +ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् +मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः +ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् +सर्वमल्पेन कालेन देशं चक्रे वशे बली +एवं बहुविधान्देशान्विजित्य पुरुषर्षभः +उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् +पाण्डवः सुमहावीर्यो बलेन बलिनां वरः +स काशिराजं समरे सुबन्धुमनिवर्तिनम् +वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः +ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् +युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः +ततो मत्स्यान्महातेजा मलयांश्च महाबलान् +अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः +निवृत्य च महाबाहुर्मदर्वीकं महीधरम् +सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः +वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् +भर्गाणामधिपं चैव निषादाधिपतिं तथा +विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् +ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः +तरसैवाजयद्भीमो नातितीव्रेण कर्मणा +शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः +वैदेहकं च राजानं जनकं जगतीपतिम् +विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा +वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् +किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः +ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् +विजित्य युधि कौन्तेयो मागधानुपयाद्बली +दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् +तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् +जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह +तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली +स कम्पयन्निव महीं बलेन चतुरङ्गिणा +युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना +स कर्णं युधि निर्जित्य वशे कृत्वा च भारत +ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः +अथ मोदागिरिं चैव राजानं बलवत्तरम् +पाण्डवो बाहुवीर्येण निजघान महामृधे +ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् +कौशिकीकच्छनिलयं राजानं च महौजसम् +उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ +निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् +समुद्रसेनं निर्जित्य ���न्द्रसेनं च पार्थिवम् +ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा +सुह्मानामधिपं चैव ये च सागरवासिनः +सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः +एवं बहुविधान्देशान्विजित्य पवनात्मजः +वसु तेभ्य उपादाय लौहित्यमगमद्बली +स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः +करमाहारयामास रत्नानि विविधानि च +चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् +काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् +स कोटिशतसंख्येन धनेन महता तदा +अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् +इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः +निवेदयामास तदा धर्मराजाय तद्धनम् +वैशंपायन उवाच +तथैव सहदेवोऽपि धर्मराजेन पूजितः +महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् +स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः +मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली +अधिराजाधिपं चैव दन्तवक्रं महाहवे +जिगाय करदं चैव स्वराज्ये संन्यवेशयत् +सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् +तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् +निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा +तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् +नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् +प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् +ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् +ददर्श वासुदेवेन शेषितं पूर्ववैरिणा +चक्रे तत्र स संग्रामं सह भोजेन भारत +स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ +करांस्तेभ्य उपादाय रत्नानि विविधानि च +ततस्तैरेव सहितो नर्मदामभितो ययौ +विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ +जिगाय समरे वीरावाश्विनेयः प्रतापवान् +ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ +तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः +पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् +ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम् +सैन्यक्षयकरं चैव प्राणानां संशयाय च +चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः +ततो हया रथा नागाः पुरुषाः कवचानि च +प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा +ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः +नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय +जनमेजय उवाच +किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि +सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज +वैशंपायन उवाच +तत्र माहिष्मतीवासी भगवान्हव्यवाहनः +श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः +नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् +तदा ब्राह्मणरूपेण चरमाणो यदृच्छया +तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा +प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः +तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् +चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः +वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः +अभयं च स जग्राह स्वसैन्ये वै महीपतिः +ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः +जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना +तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह +बभूवुरनभिग्राह्या योषितश्छन्दतः किल +एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे +स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत +वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम +भयादग्नेर्महाराज तदा प्रभृति सर्वदा +सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् +परीतमग्निना राजन्नाकम्पत यथा गिरिः +उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः +त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते +मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक +पावनात्पावकश्चासि वहनाद्धव्यवाहनः +वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि +यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन +एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् +विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् +प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत +न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः +तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् +सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः +उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया +वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च +मया तु रक्षितव्येयं पुरी भरतसत्तम +यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति +ईप्सितं तु करिष्यामि मनसस्तव पाण्डव +तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः +पूजयामास माद्रेयः पावकं पुरुषर्षभः +पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा +सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् +प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् +माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् +त्रैपुरं स वशे कृत्वा राजानममितौजसम् +निजग्राह महाबाहुस्तरसा पोतनेश्वरम् +आहृतिं कौशिकाचार्यं यत्नेन महता ततः +वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा +सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे +राज्ञे भोजकटस्थाय महामात्राय धीमते +भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै +स चास्य ससुतो राजन्प्रतिजग्राह शासनम् +प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च +ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः +ततः शूर्पारकं चैव गणं चोपकृताह्वयम् +वशे चक्रे महातेजा दण्डकांश्च महाबलः +सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् +निषादान्पुरुषादांश्च कर्णप्रावरणानपि +ये च कालमुखा नाम नरा राक्षसयोनयः +कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा +द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा +तिमिंगिलं च नृपतिं वशे चक्रे महामतिः +एकपादांश्च पुरुषान्केवलान्वनवासिनः +नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् +दूतैरेव वशे चक्रे करं चैनानदापयत् +पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः +अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् +अन्ताखीं चैव रोमां च यवनानां पुरं तथा +दूतैरेव वशे चक्रे करं चैनानदापयत् +भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः +प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने +विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः +स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् +तच्च कालकृतं धीमानन्वमन्यत स प्रभुः +ततः संप्रेषयामास रत्नानि विविधानि च +चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च +वासांसि च महार्हाणि मणींश्चैव महाधनान् +न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् +एवं निर्जित्य तरसा सान्त्वेन विजयेन च +करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः +धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ +कृतकर्मा सुखं राजन्नुवास जनमेजय +वैशंपायन उवाच +नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा +वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः +निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् +उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह +सिंहनादेन महता योधानां गर्जितेन च +रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् +ततो बहुधनं रम्यं गवाश्वधनधान्यवत् +कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् +तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः +मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् +शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः +शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् +तथा मध्यमिकायांश्च वाटधानान्द्विज���नथ +पुनश्च परिवृत्याथ पुष्करारण्यवासिनः +गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः +सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः +शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् +वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः +कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् +उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् +द्वारपालं च तरसा वशे चक्रे महाद्युतिः +रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः +तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः +तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः +स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् +ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् +मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली +स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते +रत्नानि भूरीण्यादाय संप्रतस्थे युधां पतिः +ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् +पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् +ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् +न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् +करभाणां सहस्राणि कोशं तस्य महात्मनः +ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् +इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् +ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् +एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् +विजिग्ये वासुदेवेन निर्जितां भरतर्षभः +वैशंपायन उवाच +रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् +शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः +बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् +निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् +सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् +विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः +दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् +राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः +अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् +सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे +प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् +अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् +धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् +कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि +स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः +विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे +सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् +यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् +अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः +ऋषिः पु��ाणो वेदात्मा दृश्यश्चापि विजानताम् +जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह +भूतभव्यभवन्नाथः केशवः केशिसूदनः +प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा +बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् +उच्चावचमुपादाय धर्मराजाय माधवः +धनौघं पुरुषव्याघ्रो बलेन महता वृतः +तं धनौघमपर्यन्तं रत्नसागरमक्षयम् +नादयन्रथघोषेण प्रविवेश पुरोत्तमम् +असूर्यमिव सूर्येण निवातमिव वायुना +कृष्णेन समुपेतेन जहृषे भारतं पुरम् +तं मुदाभिसमागम्य सत्कृत्य च यथाविधि +संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः +धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः +भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् +त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते +धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् +सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत +उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव +तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया +अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि +स दीक्षापय गोविन्द त्वमात्मानं महाभुज +त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् +मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो +अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् +तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् +त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् +संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् +यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते +नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः +युधिष्ठिर उवाच +सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम +यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः +वैशंपायन उवाच +अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह +ईहितुं राजसूयाय साधनान्युपचक्रमे +तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः +सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः +अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः +तथोपकरणं सर्वं मङ्गलानि च सर्वशः +अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि +समानयन्तु पुरुषा यथायोगं यथाक्रमम् +इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः +अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया +सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः +मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम +तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् +सहदे���ो युधां श्रेष्ठो धर्मराजे महात्मनि +ततो द्वैपायनो राजन्नृत्विजः समुपानयत् +वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् +स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः +धनंजयानामृषभः सुसामा सामगोऽभवत् +याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः +पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् +एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ +बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः +ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् +शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् +तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः +रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् +तत आज्ञापयामास स राजा राजसत्तमः +सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः +आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् +उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा +आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि +विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च +ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् +आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् +ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् +दीक्षयां चक्रिरे विप्रा राजसूयाय भारत +दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः +जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः +भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा +क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः +अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव +आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः +सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः +तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् +बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् +सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः +तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः +कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् +भुञ्जतां चैव विप्राणां वदतां च महास्वनः +अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् +दीयतां दीयतामेषां भुज्यतां भुज्यतामिति +एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः +गवां शतसहस्राणि शयनानां च भारत +रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ +प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः +पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे +ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् +नकुलं हास्तिनपुरं भीष्माय भरतर्षभ +द्रोणाय धृतराष्ट्राय विदुराय कृपाय च +भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे +वैशंपायन उवाच +स गत्वा हास्तिनपुरं नकुलः समितिंजयः +भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः +प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः +संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा +अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ +द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् +दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत +समुपादाय रत्नानि विविधानि महान्ति च +धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः +दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते +सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः +गान्धारराजः सुबलः शकुनिश्च महाबलः +अचलो वृषकश्चैव कर्णश्च रथिनां वरः +ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः +सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः +अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः +यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः +प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः +सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः +पार्वतीयाश्च राजानो राजा चैव बृहद्बलः +पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा +आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा +द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा +कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः +बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते +विराटः सह पुत्रैश्च माचेल्लश्च महारथः +राजानो राजपुत्राश्च नानाजनपदेश्वराः +शिशुपालो महावीर्यः सह पुत्रेण भारत +आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः +रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः +गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् +उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च +वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः +एते चान्ये च बहवो राजानो मध्यदेशजाः +आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् +ददुस्तेषामावसथान्धर्मराजस्य शासनात् +बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् +तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् +सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः +कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् +सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः +सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् +सुखारोहणसोपानान्महासनपरिच्छदान��� +स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः +हंसांशुवर्णसदृशानायोजनसुदर्शनान् +असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः +बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव +विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् +वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् +तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः +भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः +वैशंपायन उवाच +पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः +अभिवाद्य ततो राजन्निदं वचनमब्रवीत् +भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती +अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः +इदं वः स्वमहं चैव यदिहास्ति धनं मम +प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः +एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः +युयोज ह यथायोगमधिकारेष्वनन्तरम् +भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् +परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् +राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत् +कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती +हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे +दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् +तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् +बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः +नकुलेन समानीताः स्वामिवत्तत्र रेमिरे +क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् +दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः +सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् +द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् +न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् +रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् +कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् +यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् +भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः +लोकराजविमानैश्च ब्राह्मणावसथैः सह +कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा +विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः +राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः +अशोभत सदो राजन्कौन्तेयस्य महात्मनः +ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः +षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता +सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् +अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः +रत्नोपहारकर्मण्यो बभूव स समागमः +इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्व��तैः +तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः +यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः +ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः +वैशंपायन उवाच +ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह +अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः +नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः +समासीनाः शुशुभिरे सह राजर्षिभिस्तदा +समेता ब्रह्मभवने देवा देवर्षयो यथा +कर्मान्तरमुपासन्तो जजल्पुरमितौजसः +इदमेवं न चाप्येवमेवमेतन्न चान्यथा +इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् +कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते +अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः +तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् +विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् +केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः +रेमिरे कथयन्तश्च सर्ववेदविदां वराः +सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः +आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला +न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः +अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने +तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् +तुतोष नारदः पश्यन्धर्मराजस्य धीमतः +अथ चिन्तां समापेदे स मुनिर्मनुजाधिप +नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् +सस्मार च पुरावृत्तां कथां तां भरतर्षभ +अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् +देवानां संगमं तं तु विज्ञाय कुरुनन्दन +नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् +साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः +प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः +संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् +अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ +इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः +आदिश्य विबुधान्सर्वानजायत यदुक्षये +क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः +परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् +यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते +सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः +अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम् +आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् +इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् +हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् +तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः +महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः +ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् +क्रियतामर्हणं राज्ञां यथार्हमिति भारत +आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर +स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा +एतानर्हानभिगतानाहुः संवत्सरोषितान् +त इमे कालपूगस्य महतोऽस्मानुपागताः +एषामेकैकशो राजन्नर्घ्यमानीयतामिति +अथ चैषां वरिष्ठाय समर्थायोपनीयताम् +युधिष्ठिर उवाच +कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन +उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह +वैशंपायन उवाच +ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत +वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि +एष ह्येषां समेतानां तेजोबलपराक्रमैः +मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः +असूर्यमिव सूर्येण निवातमिव वायुना +भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः +तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् +उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् +प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा +शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे +स उपालभ्य भीष्मं च धर्मराजं च संसदि +अपाक्षिपद्वासुदेवं चेदिराजो महाबलः +शिशुपाल उवाच +नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु +महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् +नायं युक्तः समाचारः पाण्डवेषु महात्मसु +यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि +बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः +अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः +त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया +भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् +कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् +अर्हणामर्हति तथा यथा युष्माभिरर्चितः +अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ +वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः +अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् +द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् +आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव +द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि +ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन +द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया +नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः +अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया +अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः +किं राजभिरिहानीतैरवमानाय भारत +वयं तु न भयादस्य कौन्तेयस्य महात्मनः +प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् +अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः +करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते +किमन्यदवमानाद्धि यदिमं राजसंसदि +अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि +अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् +को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् +योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा +अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् +कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् +यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः +ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति +अथ वा कृपणैरेतामुपनीतां जनार्दन +पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि +अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे +हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने +न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते +त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन +क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् +अराज्ञो राजवत्पूजा तथा ते मधुसूदन +दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः +वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् +इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् +निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा +वैशंपायन उवाच +ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् +उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः +नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् +अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् +न हि धर्मं परं जातु नावबुध्येत पार्थिव +भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा +पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् +मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि +वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् +न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः +भीष्म उवाच +नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् +लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते +क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः +यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः +अस्यां च समितौ राज्ञामेकमप्यजितं युधि +न पश्यामि महीपालं सात्वतीपुत्रतेजसा +न हि केवलमस्माकमयमर्च्यतमोऽच्युतः +त्रयाणामपि लोकानामर्चनीयो जनार्दनः +कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः +जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम�� +तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् +एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी +ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः +तेषां कथयतां शौरेरहं गुणवतो गुणान् +समागतानामश्रौषं बहून्बहुमतान्सताम् +कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः +बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे +न केवलं वयं कामाच्चेदिराज जनार्दनम् +न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन +अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् +यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे +न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः +गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः +ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः +पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ +वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा +नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते +दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा +संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते +तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम् +अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ +ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः +सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः +कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः +कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् +एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः +परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः +बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या +चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् +आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये +दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् +अयं तु पुरुषो बालः शिशुपालो न बुध्यते +सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते +यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः +स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् +सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु +को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् +अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति +दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति +वैशंपायन उवाच +एवमुक्त्वा ततो भीष्मो विरराम महायशाः +व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः +केशवं केशिहन्तारमप्रमेयपराक्रमम् +पूज्यमानं मया यो वः कृष्णं न सहते नृपाः +सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् +एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः +मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् +अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः +ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् +मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे +ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि +अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति +आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः +सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् +तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः +संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा +युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् +अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् +सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ +आमिषादपकृष्टानां सिंहानामिव गर्जताम् +तं बलौघमपर्यन्तं राजसागरमक्षयम् +कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा +पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः +सहदेवो नृणां देवः समापयत कर्म तत् +तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः +अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् +स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम् +युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् +इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः +यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः +वैशंपायन उवाच +ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् +रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः +भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् +बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा +असौ रोषात्प्रचलितो महान्नृपतिसागरः +अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह +यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् +यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह +इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे +उवाचेदं वचो भीष्मस्ततः कुरुपितामहः +मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति +शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः +प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः +भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः +वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः +भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ +न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः +तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः +पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पच��तनः +सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् +नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः +यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत +विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर +चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् +आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा +तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा +चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः +प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर +इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः +भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत +शिशुपाल उवाच +विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् +न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः +युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया +वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः +नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात् +तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः +पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः +त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः +अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः +कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते +यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः +तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि +यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् +तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ +चेतनारहितं काष्ठं यद्यनेन निपातितम् +पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् +वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः +तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम +भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि +इति ते भीष्म शृण्वानाः परं विस्मयमागताः +यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः +स चानेन हतः कंस इत्येतन्न महाद्भुतम् +न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् +यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम +स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च +यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः +इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा +भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते +ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम +अजानत इवाख्यासि संस्तुवन्कुरुसत्तम +गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति +असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः +संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः +एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् +न गाथा गाथिनं शास्ति बहु चेदपि गायति +प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा +नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः +अतः पापीयसी चैषां पाण्डवानामपीष्यते +येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः +धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः +को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः +कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता +अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना +अम्बा नामेति भद्रं ते कथं सापहृता त्वया +यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः +भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः +दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः +तव जातान्यपत्यानि सज्जनाचरिते पथि +न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा +यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः +न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् +न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् +इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः +सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् +व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् +सर्वं तदनपत्यस्य मोघं भवति निश्चयात् +सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् +हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् +एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा +भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः +वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा +धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह +धर्मं चरत माधर्ममिति तस्य वचः किल +पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः +अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः +अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम +तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः +समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः +तेषामण्डानि सर्वेषां भक्षयामास पापकृत् +स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि +ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः +अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह +ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् +तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् +ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः +निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह +ते त्वां हंससधर्माणमपीमे वसुधाधिपाः +निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम् +गाथामप्यत्र गायन्ति ये पुराणविदो जनाः +भीष्म य���ं तां च ते सम्यक्कथयिष्यामि भारत +अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् +अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते +शिशुपाल उवाच +स मे बहुमतो राजा जरासंधो महाबलः +योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे +केशवेन कृतं यत्तु जरासंधवधे तदा +भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते +अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना +दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः +येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता +नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने +भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः +जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् +यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे +कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति +इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया +अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति +अथ वा नैतदाश्चर्यं येषां त्वमसि भारत +स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः +वैशंपायन उवाच +तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु +चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् +तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते +भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः +त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः +ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव +दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् +युगान्ते सर्वभूतानि कालस्येव दिधक्षतः +उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् +भीष्म एव महाबाहुर्महासेनमिवेश्वरः +तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत +गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः +नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः +समुद्धूतो घनापाये वेलामिव महोदधिः +शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप +नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः +उत्पतन्तं तु वेगेन पुनः पुनररिंदमः +न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा +प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् +भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् +मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः +मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना +ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः +भीमसेनमुवाचेदं भीष्मो मतिमतां वरः +भीष्म उवाच +चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः +रासभारावसदृशं रुराव च ननाद च +तेनास्य मातापितरौ त्र��सतुस्तौ सबान्धवौ +वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् +ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् +चिन्तासंमूढहृदयं वागुवाचाशरीरिणी +एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः +तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् +न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः +मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप +संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः +पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् +येनेदमीरितं वाक्यं ममैव तनयं प्रति +प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः +श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति +अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः +येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ +पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ +तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् +निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति +त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् +धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः +तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः +एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा +एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् +शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् +ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ +यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा +अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् +कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ +अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः +पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् +न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ +पेततुस्तच्च नयनं निममज्ज ललाटजम् +तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत +ददस्व मे वरं कृष्ण भयार्ताया महाभुज +त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः +पितृष्वसारं मा भैषीरित्युवाच जनार्दनः +ददानि कं वरं किं वा करवाणि पितृष्वसः +शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव +एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् +शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल +कृष्ण उवाच +अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः +पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः +भीष्म उवाच +एवमेष नृपः पापः शिशुपालः सुमन्दधीः +त्वां समाह्वयते वीर गोविन्दवरदर्पितः +भीष्म उवाच +नैषा चेदिपतेर्बुद्धिर्यया त्व���ह्वयतेऽच्युतम् +नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः +को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः +क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः +एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् +तमेव पुनरादातुमिच्छत्पृथुयशा हरिः +येनैष कुरुशार्दूल शार्दूल इव चेदिराट् +गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् +वैशंपायन उवाच +ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा +उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् +शिशुपाल उवाच +द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः +यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः +संस्तवाय मनो भीष्म परेषां रमते सदा +यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् +दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् +जायमानेन येनेयमभवद्दारिता मही +वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले +स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् +द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ +स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ +ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् +इमां वसुमतीं कुर्यादशेषामिति मे मतिः +द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् +अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि +शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् +स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा +किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप +पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् +आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः +अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् +यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः +केशवं तच्च ते भीष्म न कश्चिदनुमन्यते +कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि +समावेशयसे सर्वं जगत्केवलकाम्यया +अथ वैषा न ते भक्तिः प्रकृतिं याति भारत +मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा +भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे +भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः +मा साहसमितीदं सा सततं वाशते किल +साहसं चात्मनातीव चरन्ती नावबुध्यते +सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः +दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना +इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् +तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे +इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् +लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता स���ः +वैशंपायन उवाच +ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः +उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः +इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् +योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् +एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः +केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे +केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः +पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् +हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः +सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना +इति तेषां वचः श्रुत्वा ततः कुरुपितामहः +उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् +उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये +यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः +पशुवद्घातनं वा मे दहनं वा कटाग्निना +क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् +एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः +यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् +कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् +यावदस्यैव देवस्य देहं विशतु पातितः +वैशंपायन उवाच +ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः +युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह +आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन +यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः +सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा +नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः +ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् +अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः +इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः +एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः +उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् +एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः +सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् +प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् +अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः +क्रीडतो भोजराजन्यानेष रैवतके गिरौ +हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा +अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् +पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः +सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः +भार्यामभ्यहरन्मोहादकामां तामितो गताम् +एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् +जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् +पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् +दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते +पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् +कृतानि तु परोक्षं मे यानि तानि निबोधत +इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् +अवलेपाद्वधार्हस्य समग्रे राजमण्डले +रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः +न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा +एवमादि ततः सर्वे सहितास्ते नराधिपाः +वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् +ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् +जहास स्वनवद्धासं प्रहस्येदमुवाच ह +मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् +विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् +मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् +अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन +क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम +क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति +तथा ब्रुवत एवास्य भगवान्मधुसूदनः +व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः +स पपात महाबाहुर्वज्राहत इवाचलः +ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः +उत्पतन्तं महाराज गगनादिव भास्करम् +ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् +ववन्दे तत्तदा तेजो विवेश च नराधिप +तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः +यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् +अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः +कृष्णेन निहते चैद्ये चचाल च वसुंधरा +ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन +अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् +हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः +अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः +रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः +केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् +प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः +ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः +पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् +दमघोषात्मजं वीरं संसाधयत मा चिरम् +तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा +चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् +अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः +ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् +यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः +शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् +अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः +समापयामास च तं राजसूयं महाक्रतुम् +तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः +ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः +ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् +समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् +दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो +आजमीढाजमीढानां यशः संवर्धितं त्वया +कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः +आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः +स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि +श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः +यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह +राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः +प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः +तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् +भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः +यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् +विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् +धनंजयो यज्ञसेनं महात्मानं महारथः +भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः +द्रोणं च ससुतं वीरं सहदेवो महारथः +नकुलः सुबलं राजन्सहपुत्रं समन्वयात् +द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् +अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः +एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः +गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ +युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् +आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन +राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि +तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् +तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् +समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् +उपादाय बलिं मुख्यं मामेव समुपस्थितम् +न वयं त्वामृते वीर रंस्यामेह कथंचन +अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी +एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् +अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः +साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः +सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि +अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे +सुभद्रां द्रौपदीं चैव सभाजयत केशवः +निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् +स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च +ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् +योजयित्वा महाराज दारुकः प्रत्युपस्थितः +उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् +प्रदक्षिणमुपावृत्य समारुह्य महामनाः +प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् +तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः +भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् +ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः +अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् +अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते +पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः +बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः +कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ +अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति +गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप +एको दुर्योधनो राजा शकुनिश्चापि सौबलः +तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ +वैशंपायन उवाच +वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ +शनैर्ददर्श तां सर्वां सभां शकुनिना सह +तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः +न दृष्टपूर्वा ये तेन नगरे नागसाह्वये +स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः +स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया +स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः +दुर्मना विमुखश्चैव परिचक्राम तां सभाम् +ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् +वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले +जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम् +वासांसि च शुभान्यस्मै प्रददू राजशासनात् +तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः +अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा +नामर्षयत्ततस्तेषामवहासममर्षणः +आकारं रक्षमाणस्तु न स तान्समुदैक्षत +पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् +आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः +द्वारं च विवृताकारं ललाटेन समाहनत् +संवृतं चेति मन्वानो द्वारदेशादुपारमत् +एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते +पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः +अप्रहृष्टेन मनसा राजसूये महाक्रतौ +प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् +पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः +दुर्योधनस्य नृपतेः पापा मतिरजायत +पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् +कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह +महिमानं परं चापि पाण्डवानां म��ात्मनाम् +दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत +स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् +श्रियं च तामनुपमां धर्मराजस्य धीमतः +प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा +नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः +अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत +दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि +दुर्योधन उवाच +दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् +जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः +तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल +यथा शक्रस्य देवेषु तथाभूतं महाद्युते +अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् +शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् +पश्य सात्वतमुख्येन शिशुपालं निपातितम् +न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः +दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना +क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति +वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् +सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् +तथा हि रत्नान्यादाय विविधानि नृपा नृपम् +उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः +श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे +अमर्षवशमापन्नो दह्येऽहमतथोचितः +वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् +अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् +को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् +सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च +सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि +योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् +ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् +यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् +अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् +सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये +दैवमेव परं मन्ये पौरुषं तु निरर्थकम् +दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा +कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल +तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् +तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् +धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः +सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् +रक्षिभिश्चावहासं तं परितप्ये यथाग्निना +स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् +अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय +शकुनिरुवाच +दुर्योधन न तेऽ��र्षः कार्यः प्रति युधिष्ठिरम् +भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा +अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् +विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः +तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह +सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् +लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते +विवृद्धस्तेजसा तेषां तत्र का परिदेवना +धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी +लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् +तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः +कृता वशे महीपालास्तत्र का परिदेवना +अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् +सभां तां कारयामास सव्यसाची परंतपः +तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः +वहन्ति तां सभां भीमास्तत्र का परिदेवना +यच्चासहायतां राजन्नुक्तवानसि भारत +तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः +द्रोणस्तव महेष्वासः सह पुत्रेण धीमता +सूतपुत्रश्च राधेयो गौतमश्च महारथः +अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् +एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् +दुर्योधन उवाच +त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः +एतानेव विजेष्यामि यदि त्वमनुमन्यसे +एतेषु विजितेष्वद्य भविष्यति मही मम +सर्वे च पृथिवीपालाः सभा सा च महाधना +शकुनिरुवाच +धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः +नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः +नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि +महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः +अहं तु तद्विजानामि विजेतुं येन शक्यते +युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च +दुर्योधन उवाच +अप्रमादेन सुहृदामन्येषां च महात्मनाम् +यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल +शकुनिरुवाच +द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् +समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् +देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि +त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय +तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् +राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ +इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय +अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः +दुर्योधन उवाच +त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल +निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् +वैशंपायन उवाच +अनुभूय तु राज्ञस्तं र��जसूयं महाक्रतुम् +युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः +प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् +प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा +दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् +उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् +दुर्योधनो महाराज विवर्णो हरिणः कृशः +दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ +न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् +ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे +धृतराष्ट्र उवाच +दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक +श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन +अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् +चिन्तयंश्च न पश्यामि शोकस्य तव संभवम् +ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् +भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् +आच्छादयसि प्रावारानश्नासि पिशितौदनम् +आजानेया वहन्ति त्वां केनासि हरिणः कृशः +शयनानि महार्हाणि योषितश्च मनोरमाः +गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् +देवानामिव ते सर्वं वाचि बद्धं न संशयः +स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक +दुर्योधन उवाच +अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा +अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् +अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः +क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते +संतोषो वै श्रियं हन्ति अभिमानश्च भारत +अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् +न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे +ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम +सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च +अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् +तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः +अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः +त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः +दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् +भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने +कदलीमृगमोकानि कृष्णश्यामारुणानि च +काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् +रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः +त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत +पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते +आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः +न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः +यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः +अ��र्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप +शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो +ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः +त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः +कमण्डलूनुपादाय जातरूपमयाञ्शुभान् +एवं बलिं समादाय प्रवेशं लेभिरे ततः +यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः +तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः +शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् +दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् +गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ +तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ +उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः +इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु +पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् +स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः +मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत +उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् +पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः +सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर +यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः +वैश्या इव महीपाला द्विजातिपरिवेषकाः +न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा +गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे +तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् +शान्तिं न परिगच्छामि दह्यमानेन चेतसा +शकुनिरुवाच +यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे +तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम +अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत +हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने +द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् +आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् +वैशंपायन उवाच +एवमुक्तः शकुनिना राजा दुर्योधनस्तदा +धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् +अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् +द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि +धृतराष्ट्र उवाच +क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने +तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् +स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् +उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् +दुर्योधन उवाच +निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति +निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् +स मयि त्वं मृते राजन्विदुरेण सुखी भव +भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि +वैशंपायन उवाच +आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः +धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः +स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम +मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः +ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः +सुकृतां सुप्रवेशां च निवेदयत मे शनैः +दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः +धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै +अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः +द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत +तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् +विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् +सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् +मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् +नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो +पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु +धृतराष्ट्र उवाच +क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति +दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः +अशुभं वा शुभं वापि हितं वा यदि वाहितम् +प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः +मयि संनिहिते चैव भीष्मे च भरतर्षभे +अनयो दैवविहितो न कथंचिद्भविष्यति +गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे +खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् +न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते +दैवमेव परं मन्ये येनैतदुपपद्यते +इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् +आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः +जनमेजय उवाच +कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् +यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः +के च तत्र सभास्तारा राजानो ब्रह्मवित्तम +के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् +विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज +मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम +सूत उवाच +एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् +आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् +वैशंपायन उवाच +शृणु मे विस्तरेणेमां कथां भरतसत्तम +भूय एव महाराज यदि ते श्रवणे मतिः +विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः +दुर्योधनमिदं वाक्यमुवाच विजने पुनः +अलं द्यूतेन गान्धारे विदुरो न प्रशंसति +न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति +हितं हि परमं मन्ये विदुरो यत्प्रभाषते +क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव +देवर्षिर्वासवगुरुर्देवराजाय धीमते +यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः +तद्वेद विदुरः सर्वं सरहस्यं महाकविः +स्थितश्च वचने तस्य सदाहमपि पुत्रक +विदुरो वापि मेधावी कुरूणां प्रवरो मतः +उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप +द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते +भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय +पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् +प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् +अधीतवान्कृती शास्त्रे लालितः सततं गृहे +भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् +पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् +तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक +स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् +नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा +तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् +समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि +दुर्योधन उवाच +अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः +नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः +न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो +ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे +सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् +स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते +आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः +कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने +हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा +अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने +ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते +युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे +उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् +नादृश्यत परः प्रान्तो नापरस्तत्र भारत +न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः +प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु +कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् +अपश्यं नलिनीं पूर्णामुदकस्येव भारत +वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः +शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् +तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् +सपत्नेनावहासो हि स मां दहति भारत +पुनश्च तादृशीमेव वापीं जलजशालिनीम् +मत्वा शिलासमां तोये पतितोऽस्मि नराधिप +तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् +द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम +क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः +ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम +प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप +अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा +अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः +तत्र मां यमजौ दूरादालोक्य ललितौ किल +बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ +उवाच सहदेवस्तु तत्र मां विस्मयन्निव +इदं द्वारमितो गच्छ राजन्निति पुनः पुनः +नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे +यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे +दुर्योधन उवाच +यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत +आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः +न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् +फलतो भूमितो वापि प्रतिपद्यस्व भारत +ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् +प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु +अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् +उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः +गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः +प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः +त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः +कमण्डलूनुपादाय जातरूपमयाञ्शुभान् +एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः +शतं दासीसहस्राणां कार्पासिकनिवासिनाम् +श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः +शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च +बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः +उपनिन्युर्महाराज हयान्गान्धारदेशजान् +इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये +समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः +ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह +विविधं बलिमादाय रत्नानि विविधानि च +अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु +कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः +प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली +यवनैः सहितो राजा भगदत्तो महारथः +आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः +बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः +अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् +प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा +द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् +औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् +एकपादांश्च तत्राहमपश्यं द्वारि वारितान् +बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु +इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् +तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि +अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् +जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः +चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः +वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा +न पारयाम्यभिगतान्विविधान्द्वारि वारितान् +बल्यर्थं ददतस्तस्य नानारूपाननेकशः +कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः +आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् +प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् +और्णं च राङ्कवं चैव कीटजं पट्टजं तथा +कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः +श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् +निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् +अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् +रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः +बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः +शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः +महागमान्दूरगमान्गणितानर्बुदं हयान् +कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् +बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः +आसनानि महार्हाणि यानानि शयनानि च +मणिकाञ्चनचित्राणि गजदन्तमयानि च +रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् +हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् +विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः +नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च +एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः +प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः +दुर्योधन उवाच +दायं तु तस्मै विविधं शृणु मे गदतोऽनघ +यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् +मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् +ये ते कीचकवेणूनां छायां रम्यामुपासते +खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः +पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः +ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः +जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः +कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् +हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु +उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः +उत्तरादपि कैलासादोषधीः सुमहाबलाः +पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः +अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः +ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः +वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये +फलमूलाशना ये च किराताश्चर्मवाससः +चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च +चर्मरत्नसुवर्णानां गन्धानां चैव राशयः +कैरातिकानामयुतं दासीनां च विशां पते +आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः +निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् +बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः +कायव्या दरदा दार्वाः शूरा वैयमकास्तथा +औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह +काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः +शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः +अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह +वसातयः समौलेयाः सह क्षुद्रकमालवैः +शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते +अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा +सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः +आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे +वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः +दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि +तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् +कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ +ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् +शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः +दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् +क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः +एते चान्ये च बहवो गणा दिग्भ्यः समागताः +अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः +राजा चित्ररथो नाम गन्धर्वो वासवानुगः +शतानि चत्वार्यददद्धयानां वातरंहसाम् +तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् +आम्रपत्रसवर्णानामददद्धेममालिनाम् +कृती तु राजा कौरव्य शूकराणां विशां पते +अददद्गजरत्नानां शतानि सुबहून्यपि +विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् +कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते +पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् +अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् +जवसत्त्वोपपन्नानां वयःस्थानां नराधिप +बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् +यज्ञसेनेन दासीनां सहस्राणि चतुर्दश +दासानामयुतं चैव सदाराणां विशां पते +गजयुक्ता महाराज रथाः षड्विंशतिस्तथा +राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् +समुद्रसारं व��डूर्यं मुक्ताः शङ्खांस्तथैव च +शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् +संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः +तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः +प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः +उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च +प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् +सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा +नानादेशसमुत्थैश्च नानाजातिभिरागतैः +पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने +उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् +शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते +भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत +येषामामं च पक्वं च संविधत्ते युधिष्ठिरः +अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः +रथानामर्बुदं चापि पादाता बहवस्तथा +प्रमीयमाणमारब्धं पच्यमानं तथैव च +विसृज्यमानं चान्यत्र पुण्याहस्वन एव च +नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन +अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने +अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः +त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः +सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् +दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् +भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने +भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् +अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते +द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत +वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः +दुर्योधन उवाच +आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः +पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः +धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः +मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते +दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः +आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः +आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत +अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः +बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् +सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः +सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः +ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् +दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः +वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् +मत्स्यस्त्वक्षानवाबध्नादेकलव्य ���पानहौ +आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा +चेकितान उपासङ्गं धनुः काश्य उपाहरत् +असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् +अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः +नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् +प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः +जामदग्न्येन सहितास्तथान्ये वेदपारगाः +अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् +महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा +अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः +धनंजयश्च व्यजने भीमसेनश्च पाण्डवः +उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः +तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः +सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा +तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् +गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् +उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः +तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् +प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् +प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा +धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः +सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः +विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा +ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् +शतान्यनडुहां पञ्च द्विजमुख्येषु भारत +नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च +न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः +यथातिमात्रं कौन्तेयः श्रिया परमया युतः +राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः +एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो +कथं नु जीवितं श्रेयो मम पश्यसि भारत +अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप +कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत +एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर +तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च +धृतराष्ट्र उवाच +त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः +द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा +अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् +अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ +तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप +पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह +अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ +ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् +आहरिष्यन्ति राजानस्तवापि विपुलं धनम् +प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च +अनर्थाचरितं तात परस्वस्पृहणं भृशम् +स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते +अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु +उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् +विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः +अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति +अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् +क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ +दुर्योधन उवाच +जानन्वै मोहयसि मां नावि नौरिव संयता +स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् +न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता +भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः +परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति +पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः +राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः +प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् +लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः +तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि +क्षत्रियस्य महाराज जये वृत्तिः समाहिता +स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ +प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः +प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ +प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः +तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् +असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् +समुच्छ्रये यो यतते स राजन्परमो नयी +ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा +पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः +अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः +शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी +द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव +राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् +नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते +येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः +शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते +व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः +अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः +वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् +आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत +एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः +जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते +एधते ज्ञातिषु स वै सद्योवृद्धिर्���ि विक्रमः +नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति +अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि +अतादृशस्य किं मेऽद्य जीवितेन विशां पते +वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः +शकुनिरुवाच +यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे +तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः +अगत्वा संशयमहमयुद्ध्वा च चमूमुखे +अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये +ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत +अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् +दुर्योधन उवाच +अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् +द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् +धृतराष्ट्र उवाच +स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः +तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् +दुर्योधन उवाच +विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः +पाण्डवानां हिते युक्तो न तथा मम कौरव +नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः +मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन +भयं परिहरन्मन्द आत्मानं परिपालयन् +वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति +न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते +यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् +धृतराष्ट्र उवाच +सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये +वैरं विकारं सृजति तद्वै शस्त्रमनायसम् +अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम् +तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च +दुर्योधन उवाच +द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः +तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व +स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् +भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व +धृतराष्ट्र उवाच +वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र +पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् +दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन +तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति +वैशंपायन उवाच +एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च +शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैव���ंमूढचेताः +सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् +सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः +श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु +सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः +कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् +चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः +ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः +युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व +सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः +सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति +मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः +मत्वा च दुस्तरं दैवमेतद्राजा चकार ह +अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः +नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् +नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि +पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र +धृतराष्ट्र उवाच +नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् +धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् +तदद्य विदुर प्राप्य राजानं मम शासनात् +क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् +वैशंपायन उवाच +ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः +बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् +सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् +प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः +स राजगृहमासाद्य कुबेरभवनोपमम् +अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् +तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् +पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् +युधिष्ठिर उवाच +विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि +कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् +विदुर उवाच +राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः +प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा +इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च +इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र +समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च +प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे +दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा +तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व +युधिष्ठिर उवाच +द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः +किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म +विदुर उवाच +जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे +राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व +युधिष्ठिर उवाच +के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः +पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य +विदुर उवाच +गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः +विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च +युधिष्ठिर उवाच +महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति +धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे +नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम् +इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा +न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् +आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे +वैशंपायन उवाच +एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् +प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा +दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् +धातुश्च वशमन्वेति पाशैरिव नरः सितः +इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः +अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः +बाह्लिकेन रथं दत्तमास्थाय परवीरहा +परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः +राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः +धृतराष्ट्रेण चाहूतः कालस्य समयेन च +स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ +समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः +तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च +समियाय यथान्यायं द्रौणिना च विभुः सह +समेत्य च महाबाहुः सोमदत्तेन चैव ह +दुर्योधनेन शल्येन सौबलेन च वीर्यवान् +ये चान्ये तत्र राजानः पूर्वमेव समागताः +जयद्रथेन च तथा कुरुभिश्चापि सर्वशः +ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः +प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः +ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् +स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् +अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः +ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् +राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः +चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः +ततो हर्षः समभवत्कौरवाणां विशां पते +तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् +विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ +ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः +याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव +स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् +ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् +कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च +ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः +कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च +मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ +उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः +जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् +स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् +सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः +सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् +शकुनिरुवाच +उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः +अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर +युधिष्ठिर उवाच +निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः +न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि +न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह +शकुने मैव नो जैषीरमार्गेण नृशंसवत् +शकुनिरुवाच +योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु +महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु +अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ +दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः +युधिष्ठिर उवाच +एवमाहायमसितो देवलो मुनिसत्तमः +इमानि लोकद्वाराणि यो वै संचरते सदा +इदं वै देवनं पापं मायया कितवैः सह +धर्मेण तु जयो युद्धे तत्परं साधु देवनम् +नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत +अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् +शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे +तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् +नाहं निकृत्या कामये सुखान्युत धनानि वा +कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते +शकुनिरुवाच +श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर +विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः +एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे +देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् +युधिष्ठिर उवाच +आहूतो न निवर्तेयमिति मे व्रतमाहितम् +विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः +अस्मिन्समागमे केन देवनं मे भविष्यति +प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् +दुर्योधन उवाच +अहं दातास्मि रत्नानां धनानां च विशां पते +मदर्थे देविता चायं शकुनिर्मातुलो मम +युधिष्ठिर उवाच +अन्येनान्यस्य विषमं देवनं प्रतिभाति मे +एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् +वैशंपायन उवाच +उपोह्यमाने द्यूते तु राजानः सर्व एव ते +धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः +भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः +नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत +ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः +सिंहासनानि भूरीणि विचित्राणि च भेजिरे +शुशुभे सा सभा राजन्राजभिस्तैः समागतैः +देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् +सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः +प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् +युधिष्ठिर उवाच +अयं बहुधनो राजन्सागरावर्तसंभवः +मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः +एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव +भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् +दुर्योधन उवाच +सन्ति मे मणयश्चैव धनानि विविधानि च +मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् +वैशंपायन उवाच +ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् +शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः +इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् +कोशो हिरण्यमक्षय्यं जातरूपमनेकशः +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् +युधिष्ठिर ���वाच +अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः +सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः +संह्रादनो राजरथो य इहास्मानुपावहत् +जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः +अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः +वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल +हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः +सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि +ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः +सर्वे च पुरभेत्तारो नगमेघनिभा गजाः +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +तमेवंवादिनं पार्थं प्रहसन्निव सौबलः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः +कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः +महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः +मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः +अनुसेवां चरन्तीमाः कुशला नृत्यसामसु +स्नातकानाममात्यानां राज्ञां च मम शासनात् +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +एतावन्त्येव दासानां सहस्राण्युत सन्ति मे +प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा +प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः +पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः +हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः +एकैको यत्र लभते सहस्रपरमां भृतिम् +युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः +ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने +एतद्���ाजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +रथानां शकटानां च हयानां चायुतानि मे +युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः +एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः +क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् +षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +ताम्रलोहैः परिवृता निधयो मे चतुःशताः +पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +विदुर उवाच +महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु +मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् +यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः +दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः +गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे +दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम +मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते +आरुह्य तं मज्जति वा पतनं वाधिगच्छति +सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते +प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः +विदितं ते महाराज राजस्वेवासमञ्जसम् +अन्धका यादवा भोजाः समेताः कंसमत्यजन् +नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना +एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः +त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् +निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् +काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च +क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे +त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् +ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् +सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः +इति स्म भाषते काव्यो जम्भत्यागे महासुरान् +हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् +गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् +सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतप +आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् +तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ +मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा +जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत +मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः +वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् +मा गमः ससुतामात्यः सबलश्च पराभवम् +समवेतान्हि कः पार्थान्प्रतियुध्येत भारत +मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः +विदुर उवाच +द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय +यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् +प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः +दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः +दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति +विषाणं गौरिव मदात्स्वयमारुजते बलात् +यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम् +नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत् +दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च +अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् +आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः +युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा +प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः +वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम् +यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः +वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् +महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः +बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् +जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः +यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः +दुर्योधन उवाच +परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् +जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् +सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति +जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् +उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि +भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात् +जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह व���चः +द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात् +अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे +तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे +मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् +यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् +अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः +न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् +एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता +तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि +भिनत्ति शिरसा शैलमहिं भोजयते च यः +स एव तस्य कुरुते कार्याणामनुशासनम् +यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति +मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः +प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति +भस्मापि न स विन्देत शिष्टं क्वचन भारत +न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् +स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति +विदुर उवाच +एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् +राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति +अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे +यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः +न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा +ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः +अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु +स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् +लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह +अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः +यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये +अप्रियाण्याह पथ्यानि तेन राजा सहायवान् +अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि +सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य +वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् +यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः +आशीविषान्नेत्रविषान्कोपयेन���न तु पण्डितः +एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन +शकुनिरुवाच +बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर +आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् +युधिष्ठिर उवाच +मम वित्तमसंख्येयं यदहं वेद सौबल +अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि +अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् +शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् +एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +गवाश्वं बहुधेनूकमसंख्येयमजाविकम् +यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल +एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +पुरं जनपदो भूमिरब्राह्मणधनैः सह +अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम +एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः +कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् +एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः +नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् +शकुनिरुवाच +प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर +अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि +वैशंपायन उवाच +एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +युधिष्ठिर उवाच +अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च +अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +शकुनिरुवाच +माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया +गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ +युधिष्ठिर उवाच +अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् +यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि +शकुनिरुवाच +गर्ते मत्तः प��रपतति प्रमत्तः स्थाणुमृच्छति +ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ +स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर +कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव +युधिष्ठिर उवाच +यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी +अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +शकुनिरुवाच +अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची +भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् +युधिष्ठिर उवाच +यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः +तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी +बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः +अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +शकुनिरुवाच +बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् +आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् +युधिष्ठिर उवाच +अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा +कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे +वैशंपायन उवाच +एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +शकुनिरुवाच +एतत्पापिष्ठमकरोर्यदात्मानं पराजितः +शिष्टे सति धने राजन्पाप आत्मपराजयः +वैशंपायन उवाच +एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् +पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् +शकुनिरुवाच +अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः +पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय +युधिष्ठिर उवाच +नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी +सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया +शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया +शारदोत्पलसेविन्या रूपेण श्रीसमानया +तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा +तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् +चरमं संविशति या प्रथमं प्रतिबुध्यते +आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् +आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च +वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा +तयैवंविधया राजन्पाञ्चा���्याहं सुमध्यया +ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल +वैशंपायन उवाच +एवमुक्ते तु वचने धर्मराजेन भारत +धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः +चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाः +भीष्मद्रोणकृपादीनां स्वेदश्च समजायत +शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् +आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा +धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः +किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत +जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः +इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् +सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः +जितमित्येव तानक्षान्पुनरेवान्वपद्यत +दुर्योधन उवाच +एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् +संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु +विदुर उवाच +दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः +प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् +आशीविषाः शिरसि ते पूर्णकोशा महाविषाः +मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् +न हि दासीत्वमापन्ना कृष्णा भवति भारत +अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः +अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः +द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले +नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत +ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् +समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानि +परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु +अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् +निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः +न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा +तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव +द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र +त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन +मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव +मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति +अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः +वाचः काव्याः सुहृदां पथ्यरू��ा; न श्रूयन्ते वर्धते लोभ एव +वैशंपायन उवाच +धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः +अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये +त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः +क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव +एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य +प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् +प्रातिकाम्युवाच +युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् +सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि +द्रौपद्युवाच +कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः +मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित् +प्रातिकाम्युवाच +यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः +न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि +द्रौपद्युवाच +गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज +किं नु पूर्वं पराजैषीरात्मानं मां नु भारत +एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज +वैशंपायन उवाच +सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा +कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी +किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् +युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् +न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा +दुर्योधन उवाच +इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् +इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः +वैशंपायन उवाच +स गत्वा राजभवनं दुर्योधनवशानुगः +उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव +सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम् +न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि +द्रौपद्युवाच +एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ +धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः +वैशंपायन उवाच +युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् +द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ +एकवस्त्रा अधोनीवी रोदमाना रजस्वला +सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् +ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः +इहैवैतामानय प्रातिकामि;न्प्रत��यक्षमस्याः कुरवो ब्रुवन्तु +ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः +विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि +दुर्योधन उवाच +दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः +स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः +ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः +प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम् +एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा +कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि +ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण +आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य +ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः +दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् +ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः +ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन +स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम् +दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम् +सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि +एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य +ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् +कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् +रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा +द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् +प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना +ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा +इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः +गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् +नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः +न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः +धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः +वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य +इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् +न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् +धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् +यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् +द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि +राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः +तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् +सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः +हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव +यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् +दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान् +आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः +कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम् +गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत् +सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव +तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् +भीष्म उवाच +न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् +अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य +त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् +उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् +द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः +न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि +द्रौपद्युवाच +आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः +द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः +स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यः +संभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः +तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम् +समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् +वैशंपायन उवाच +तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान् +दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव +तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् +वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः +भीम उवाच +भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर +न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि +��ाश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् +तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् +वाहनानि धनं चैव कवचान्यायुधानि च +राज्यमात्मा वयं चैव कैतवेन हृतं परैः +न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् +इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते +एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः +त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः +अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते +बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय +अर्जुन उवाच +न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः +परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् +न सकामाः परे कार्या धर्ममेवाचरोत्तमम् +भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति +आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् +दीव्यते परकामेन तन्नः कीर्तिकरं महत् +भीमसेन उवाच +एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय +दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव +वैशंपायन उवाच +तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः +क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् +याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः +अविवेकेन वाक्यस्य नरकः सद्य एव नः +भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ +समेत्य नाहतुः किंचिद्विदुरश्च महामतिः +भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च +अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ +ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः +कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति +यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा +विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् +एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः +न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा +उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् +पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् +विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन +मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः +चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् +मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् +एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते +तथायुक्तेन च कृतां क्रियां लोको न मन्यते +तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् +समाहूतेन कितवैरास्थितो द्रौपदीपणः +साधारणी च सर्वेषां पाण्डवानामनिन्दिता +जितेन पूर्वं चानेन पाण्डवेन कृतः प��ः +इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना +एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् +एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत +विकर्णं शंसमानानां सौबलं च विनिन्दताम् +तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः +प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् +दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि +तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः +एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया +धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् +त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे +यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् +न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर +यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः +कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज +यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः +अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ +एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् +कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः +भवत्यविजिता केन हेतुनैषा मता तव +मन्यसे वा सभामेतामानीतामेकवाससम् +अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् +एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन +इयं त्वनेकवशगा बन्धकीति विनिश्चिता +अस्याः सभामानयनं न चित्रमिति मे मतिः +एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता +यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः +सौबलेनेह तत्सर्वं धर्मेण विजितं वसु +दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः +पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर +तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत +अवकीर्योत्तरीयाणि सभायां समुपाविशन् +ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् +सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे +आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते +तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः +ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः +तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् +शशाप तत्र भीमस्तु राजमध्ये महास्वनः +क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् +इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः +नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति +यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः +पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् +अस्य पापस्य दुर्जातेर्भारतापसदस्य च +न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि +तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् +प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् +यदा तु वाससां राशिः सभामध्ये समाचितः +ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् +धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः +सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा +न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह +स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् +ततो बाहू समुच्छ्रित्य निवार्य च सभासदः +विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् +विदुर उवाच +द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् +न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते +सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् +तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत +धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः +विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः +विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः +भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति +यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः +अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते +यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः +अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः +अत्राप्युदाहरन्तीममितिहासं पुरातनम् +प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च +प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः +कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् +अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा +तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् +तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् +ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा +स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् +तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् +यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि +शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति +सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् +जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् +प्रह्लाद उवाच +त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च +ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु +यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् +के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः +कश्यप उवाच +जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् +सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति +तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते +तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा +विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते +न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः +अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु +पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् +अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः +एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते +वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते +इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् +हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् +ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् +स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् +अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च +एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः +तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् +समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् +तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते +विदुर उवाच +कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् +श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः +माता सुधन्वनश्चापि श्रेयसी मातृतस्तव +विरोचन सुधन्वायं प्राणानामीश्वरस्तव +सुधन्वोवाच +पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः +अनुजानामि ते पुत्रं जीवत्वेष शतं समाः +विदुर उवाच +एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः +यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् +वैशंपायन उवाच +विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः +कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय +तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् +दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् +द्रौपद्युवाच +पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् +विह्वलास्मि कृतानेन कर्षता बलिना बलात् +अभिवादं करोम्येषां गुरूणां कुरुसंसदि +न मे स्यादपराधोऽयं यदिदं न कृतं मया +वैशंपायन उवाच +सा तेन च समुद्धूता दुःखेन च तपस्विनी +पतिता विललापेदं सभायामतथोचिता +द्रौपद्युवाच +स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः +न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता +यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे +साहमद्य सभामध्ये दृश्यामि कुरुसंसदि +यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे +स���पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना +मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् +स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् +किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा +सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् +धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् +स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः +कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती +वासुदेवस्य च सखी पार्थिवानां सभामियाम् +तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् +ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः +अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः +क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः +जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः +तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः +भीष्म उवाच +उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् +लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः +बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः +स धर्मो धर्मवेलायां भवत्यभिहितः परैः +न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् +सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् +नूनमन्तः कुलस्यास्य भविता नचिरादिव +तथा हि कुरवः सर्वे लोभमोहपरायणाः +कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् +धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता +उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् +यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे +एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः +शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः +युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः +अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति +वैशंपायन उवाच +तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् +नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः +दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां;स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः +स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् +तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव +पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् +अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः +कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् +धर्मे स्थितो धर्मर��जो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः +ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व +सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव +न विब्रुवन्त्यार्यसत्त्वा यथाव;त्पतींश्च ते समवेक्ष्याल्पभाग्यान् +ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः +चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः +सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः +युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः +किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः +किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः +भीमसेनो यमौ चेति भृशं कौतूहलान्विताः +तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् +प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् +यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः +न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि +ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः +मन्यते जितमात्मानं यद्येष विजिता वयम् +न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् +मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् +पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव +नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः +धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम् +गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च +धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव +धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः +तमुवाच तदा भीष्मो द्रोणो विदुर एव च +क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि +कर्ण उवाच +त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी +दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी +प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म +ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः +अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन +अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु +पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च +दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति +प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः +पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु +वैशंपायन उवाच +तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः +राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः +भीम उवाच +नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः +किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र +वैशंपायन उवाच +राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा +युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् +भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने +प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे +एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् +स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः +कदलीदण्डसदृशं सर्वलक्षणपूजितम् +गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् +अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव +द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् +वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते +प्रोवाच राजमध्ये तं सभां विश्रावयन्निव +पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः +यद्येतमूरुं गदया न भिन्द्यां ते महाहवे +क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः +वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः +विदुर उवाच +परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् +दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि +अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् +योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति +इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् +इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा +स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः +गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात +दुर्योधन उवाच +भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव +युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि +अर्जुन उवाच +ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा +ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव +वैशंपायन उवाच +ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे +तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः +तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च +भीष्मद्रोणौ गौतमश्चापि ��िद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः +ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे +निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे +हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम् +स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् +एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् +कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः +धृतराष्ट्र उवाच +वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि +वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती +द्रौपद्युवाच +ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ +सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः +मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः +एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् +राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् +लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत +धृतराष्ट्र उवाच +द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् +मनो हि मे वितरति नैकं त्वं वरमर्हसि +द्रौपद्युवाच +सरथौ सधनुष्कौ च भीमसेनधनंजयौ +नकुलं सहदेवं च द्वितीयं वरये वरम् +धृतराष्ट्र उवाच +तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता +त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी +द्रौपद्युवाच +लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे +अनर्हा वरमादातुं तृतीयं राजसत्तम +एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ +त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः +पापीयांस इमे भूत्वा संतीर्णाः पतयो मम +वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा +कर्ण उवाच +या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः +तासामेतादृशं कर्म न कस्यांचन शुश्रुमः +क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति +द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् +अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् +पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् +वैशंपायन उवाच +तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः +स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः +त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् +अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः +अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते +देहे त्रितयमेवैतत्पुरुषस्योप���ायते +तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् +धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् +अर्जुन उवाच +न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः +भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः +स्मरन्ति सुकृतान्येव न वैराणि कृतानि च +सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः +भीम उवाच +इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् +अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत +किं नो विवदितेनेह किं नः क्लेशेन भारत +अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् +वैशंपायन उवाच +इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः +मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत +सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा +स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् +क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप +सधूमः सस्फुलिङ्गार्चिः पावकः समजायत +भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् +युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः +युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् +मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत +निवार्य तं महाबाहुं कोपसंरक्तलोचनम् +पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः +युधिष्ठिर उवाच +राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः +नित्यं हि स्थातुमिच्छामस्तव भारत शासने +धृतराष्ट्र उवाच +अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत +अनुज्ञाताः सहधनाः स्वराज्यमनुशासत +इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् +धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् +वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर +विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता +यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत +नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते +न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् +विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः +संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः +प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् +नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः +प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः +स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि +सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः +तथाचरितमार्येण त्वयास्मिन्सत्समागमे +दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः +मातरं चैव ग���न्धारीं मां च त्वद्गुणकाङ्क्षिणम् +उपस्थितं वृद्धमन्धं पितरं पश्य भारत +प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् +मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् +अशोच्याः कुरवो राजन्येषां त्वमनुशासिता +मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः +त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः +श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः +अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश +भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः +वैशंपायन उवाच +इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः +कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह +ते रथान्मेघसंकाशानास्थाय सह कृष्णया +प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् +जनमेजय उवाच +अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् +पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा +वैशंपायन उवाच +अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता +राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति +दुर्योधनं समासाद्य सामात्यं भरतर्षभ +दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् +दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ +शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः +अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः +मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः +वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् +अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् +दुर्योधन उवाच +न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः +शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः +सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण +पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् +ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् +यदि तान्योधयिष्यामः किं वा नः परिहास्यति +अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् +कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति +आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः +निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा +संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी +गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते +गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः +स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् +नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् +सहदेवश्च राजा च चक्रुराकारमिङ्गितैः +ते त्वास्थाय रथान्सर्वे बह���शस्त्रपरिच्छदान् +अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः +न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते +द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति +पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः +एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ +ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः +प्रविशेम महारण्यमजिनैः प्रतिवासिताः +त्रयोदशं च सजने अज्ञाताः परिवत्सरम् +ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश +निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् +अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः +एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ +अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् +दृढमूला वयं राज्ये मित्राणि परिगृह्य च +सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् +ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् +जेष्यामस्तान्वयं राजन्रोचतां ते परंतप +धृतराष्ट्र उवाच +तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि +आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः +वैशंपायन उवाच +ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः +विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् +भूरिश्रवाः शांतनवो विकर्णश्च महारथः +मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः +अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् +अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः +अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् +पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता +जाते दुर्योधने क्षत्ता महामतिरभाषत +नीयतां परलोकाय साध्वयं कुलपांसनः +व्यनदज्जातमात्रो हि गोमायुरिव भारत +अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत +मा बालानामशिष्टानामभिमंस्था मतिं प्रभो +मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि +बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् +शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत +स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः +शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा +न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन +त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः +शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा +प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् +अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् +अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् +यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः +पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह +वैशंपायन उवाच +ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् +उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः +उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर +एहि पाण्डव दीव्येति पिता त्वामाह भारत +युधिष्ठिर उवाच +धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् +न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि +अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च +जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे +वैशंपायन उवाच +इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः +जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः +विविशुस्ते सभां तां तु पुनरेव महारथाः +व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः +यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये +सर्वलोकविनाशाय दैवेनोपनिपीडिताः +शकुनिरुवाच +अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् +महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ +वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः +प्रविशेम महारण्यं रौरवाजिनवाससः +त्रयोदशं च सजने अज्ञाताः परिवत्सरम् +ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश +अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश +वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः +त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् +स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः +अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर +अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत +सभासद ऊचुः +अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् +बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः +वैशंपायन उवाच +जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः +ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः +जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् +अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् +युधिष्ठिर उवाच +कथं वै मद्विधो राजा स्वधर्ममनुपालयन् +आहूतो विनिवर्तेत दीव्यामि शकुने त्वया +शकुनिरुवाच +गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् +गजाः कोशो हिरण्यं च दासीदासं च सर्वशः +एष नो ग्लह एवैको वनवासाय पाण्डवाः +यूयं वयं वा विजिता वसेम वनमाश्रिताः +अनेन व्यवसायेन दीव्याम भरतर्षभ +समुत्क्षेपेण चैकेन वनवासाय भारत +वैशंपायन उवाच +प्रतिजग्राह तं पार्थो ���्लहं जग्राह सौबलः +जितमित्येव शकुनिर्युधिष्ठिरमभाषत +वैशंपायन उवाच +वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः +अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् +अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् +प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् +प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः +पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः +अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः +गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः +नरकं पातिताः पार्था दीर्घकालमनन्तकम् +सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः +बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः +ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः +चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति +निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः +न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा +ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः +अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः +अदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम् +महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय +अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः +सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् +कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि +एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः +एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् +यथाफलाः षण्ढतिला यथा चर्ममया मृगाः +तथैव पाण्डवाः सर्वे यथा काकयवा अपि +किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य +एवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः +तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् +उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् +भीमसेन उवाच +क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे +गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे +यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम् +तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे +ये च त्वामनुवर्तन्ते कामलोभवशानुगाः +गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् +वैशंपायन उवाच +एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म +मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः +भीमसेन उवाच +नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया +निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति +मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः +यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे +धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् +शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः +वैशंपायन उवाच +तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् +गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः +नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः +शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ +एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी +राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः +अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः +शकुनिं चाक्षकितवं सहदेवो हनिष्यति +इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः +सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति +सुयोधनमिमं पापं हन्तास्मि गदया युधि +शिरः पादेन चास्याहमधिष्ठास्यामि भूतले +वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः +दुःशासनस्य रुधिरं पातास्मि मृगराडिव +अर्जुन उवाच +नैव वाचा व्यवसितं भीम विज्ञायते सताम् +इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति +दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः +दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् +असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् +भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे +अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया +कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः +ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः +तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् +चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः +शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि +न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे +दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति +वैशंपायन उवाच +इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः +प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् +सौबलस्य वधं प्रेप्सुरिदं वचनम��्रवीत् +क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः +अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर +नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः +यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् +कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः +हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् +यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल +सहदेववचः श्रुत्वा नकुलोऽपि विशां पते +दर्शनीयतमो नॄणामिदं वचनमब्रवीत् +सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः +यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये +तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् +दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् +निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् +निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव +एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः +प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् +युधिष्ठिर उवाच +आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् +राजानं सोमदत्तं च महाराजं च बाह्लिकम् +द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च +विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः +युयुत्सुं संजयं चैव तथैवान्यान्सभासदः +सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः +वैशंपायन उवाच +न च किंचित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् +मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः +विदुर उवाच +आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति +सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता +इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि +इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः +युधिष्ठिर विजानीहि ममेदं भरतर्षभ +नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् +त्वं वै धर्मान्विजानीषे युधां वेत्ता धनंजयः +हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही +संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः +धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी +अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः +परैरभेद्याः संतुष्टाः को वो न स्पृहयेदिह +एष वै सर्वकल्याणः समाधिस्तव भारत +नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत +हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा +द्वैपायनेन कृष्णेन नगरे वारणावते +भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना +अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति +द्रष्टा सदा न���रदस्य धौम्यस्तेऽयं पुरोहितः +मा हार्षीः सांपराये त्वं बुद्धिं तामृषिपूजिताम् +पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव +शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया +ऐन्द्रे जये धृतमना याम्ये कोपविधारणे +विसर्गे चैव कौबेरे वारुणे चैव संयमे +आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् +भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् +वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसंभवम् +अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् +आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः +यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर +आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत +कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् +वैशंपायन उवाच +एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः +भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः +वैशंपायन उवाच +तस्मिन्संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् +आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः +यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा +ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् +कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् +शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् +वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् +स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा +न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते +साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् +सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे +अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता +भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते +गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि +सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् +यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः +तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला +शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ +तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् +अथापश्यत्सुतान्सर्वान्हृताभरणवाससः +रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान् +परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् +तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला +सस्वजानावदच्छोकात्तत्तद्विलपती बहु +कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् +अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा +व्यसनं वः सम���्यागात्कोऽयं विधिविपर्ययः +कस्यापध्यानजं चेदमागः पश्यामि वो धिया +स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् +दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः +कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः +वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः +यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् +शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् +धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा +यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम् +धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् +मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि +रत्या मत्या च गत्या च ययाहमभिसंधिता +जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् +एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च +पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः +विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः +प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः +राजा च धृतराष्ट्रः स शोकाकुलितचेतनः +क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति +ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् +तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः +धृतराष्ट्र उवाच +कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः +भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ +धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी +श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् +विदुर उवाच +वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः +बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः +सिकता वपन्सव्यसाची राजानमनुगच्छति +माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति +पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः +दर्शनीयतमो लोके राजानमनुगच्छति +कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना +दर्शनीया प्ररुदती राजानमनुगच्छति +धौम्यो याम्यानि सामानि रौद्राणि च विशां पते +गायन्गच्छति मार्गेषु कुशानादाय पाणिना +धृतराष्ट्र उवाच +विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः +तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते +विदुर उवाच +निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च +न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः +योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत +निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने +नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा +स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः +यथा च भीमो व्रजति तन्मे निगदतः शृणु +बाह्वोर्बले नास्ति समो ममेति भरतर्षभ +बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति +बाहू दर्शयमानो हि बाहुद्रविणदर्पितः +चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः +प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा +सिकता वपन्सव्यसाची राजानमनुगच्छति +असक्ताः सिकतास्तस्य यथा संप्रति भारत +असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु +न मे कश्चिद्विजानीयान्मुखमद्येति भारत +मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति +नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो +पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति +एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला +शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् +यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे +हतपत्यो हतसुता हतबन्धुजनप्रियाः +बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः +एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् +कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः +सामानि गायन्याम्यानि पुरतो याति भारत +हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा +एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति +हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् +इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः +एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् +कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः +एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् +अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत +राहुरग्रसदादित्यमपर्वणि विशां पते +उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत +प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः +देवायतनचैत्येषु प्राकाराट्टालकेषु च +एवमेते महोत्पाता वनं गच्छति पाण्डवे +भारतानामभावाय राजन्दुर्मन्त्रिते तव +नारदश्च सभामध्ये कुरूणामग्रतः स्थितः +महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह +इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः +दुर्योधनापराधेन भीमार्जुनबलेन च +इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत +ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः +ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः +द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् +अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् +दुःशासनं च कर्णं च सर्वानेव च भारतान् +अव���्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः +अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् +गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् +नोत्सहे समभित्यक्तुं दैवमूलमतः परम् +धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः +ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः +चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः +वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः +मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे +पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत +याजोपयाजतपसा पुत्रं लेभे स पावकात् +धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् +ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी +मर्त्यधर्मतया तस्मादिति मां भयमाविशत् +गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः +सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः +मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः +नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः +त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् +मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी +यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च +इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् +दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि +साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे +वैशंपायन उवाच +द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् +सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् +यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः +सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः +वैशंपायन उवाच +वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे +धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् +तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् +निःश्वसन्तमनेकाग्रमिति होवाच संजयः +अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप +प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि +धृतराष्ट्र उवाच +अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति +पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः +संजय उवाच +तवेदं सुकृतं राजन्महद्वैरं भविष्यति +विनाशः सर्वलोकस्य सानुबन्धो भविष्यति +वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च +पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् +प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव +सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् +धृतराष्ट्र उवाच +यस्मै देवाः प्रयच्छन्ति पुरुषाय प���ाभवम् +बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति +बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते +अनयो नयसंकाशो हृदयान्नापसर्पति +अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः +उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते +न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् +कालस्य बलमेतावद्विपरीतार्थदर्शनम् +आसादितमिदं घोरं तुमुलं लोमहर्षणम् +पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् +अयोनिजां रूपवतीं कुले जातां विभावरीम् +को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् +पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् +स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् +एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् +हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः +विहीनान्सर्वकामेभ्यो दासभाववशं गतान् +धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे +क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि +दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् +तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी +अपि शेषं भवेदद्य पुत्राणां मम संजय +भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः +प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् +अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः +ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे +आसीन्निष्टानको घोरो निर्घातश्च महानभूत् +दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् +अपर्वणि महाघोरं प्रजानां जनयन्भयम् +तथैव रथशालासु प्रादुरासीद्धुताशनः +ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये +दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः +तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् +प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय +कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः +ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः +वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति +अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः +सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् +अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् +एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता +एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा +पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति +तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः +वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः +तेन सत्याभिसंधेन व��सुदेवेन रक्षिताः +आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः +तेषां मध्ये महेष्वासो भीमसेनो महाबलः +आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः +ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः +गदावेगं च भीमस्य नालं सोढुं नराधिपाः +तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः +कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् +तथा हि बलवान्राजा जरासंधो महाद्युतिः +बाहुप्रहरणेनैव भीमेन निहतो युधि +तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ +उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया +एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः +उक्तवान्न गृहीतं च मया पुत्रहितेप्सया