diff --git "a/DharmicData/Mahabharata/Chapters/MBH4.txt" "b/DharmicData/Mahabharata/Chapters/MBH4.txt" new file mode 100644--- /dev/null +++ "b/DharmicData/Mahabharata/Chapters/MBH4.txt" @@ -0,0 +1,3997 @@ +जनमेजय उवाच +कथं विराटनगरे मम पूर्वपितामहाः +अज्ञातवासमुषिता दुर्योधनभयार्दिताः +वैशंपायन उवाच +तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः +गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् +कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः +अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् +ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः +संनिवर्त्यानुजान्सर्वानिति होवाच भारत +द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् +त्रयोदशोऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः +स साधु कौन्तेय इतो वासमर्जुन रोचय +यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः +अर्जुन उवाच +तस्यैव वरदानेन धर्मस्य मनुजाधिप +अज्ञाता विचरिष्यामो नराणां भरतर्षभ +किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् +रमणीयानि गुप्तानि तेषां किंचित्स्म रोचय +सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् +पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः +दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः +एतेषां कतमो राजन्निवासस्तव रोचते +वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् +युधिष्ठिर उवाच +एवमेतन्महाबाहो यथा स भगवान्प्रभुः +अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा +अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् +संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् +मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् +धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः +विराटनगरे तात संवत्सरमिमं वयम् +कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत +यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् +कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः +अर्जुन उवाच +नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि +विराटनृपतेः साधो रंस्यसे केन कर्मणा +मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः +राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव +न दुःखमुचितं किंचिद्राजन्वेद यथा जनः +स इमामापदं प्राप्य कथं घोरां तरिष्यसि +युधिष्ठिर उवाच +शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः +विराटमनुसंप्राप्य राजानं पुरुषर्षभम् +सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः +कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता +वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह +कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् +आसं युध��ष्ठिरस्याहं पुरा प्राणसमः सखा +इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते +इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा +वृकोदर विराटे त्वं रंस्यसे केन कर्मणा +भीम उवाच +पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः +उपस्थास्यामि राजानं विराटमिति मे मतिः +सूपानस्य करिष्यामि कुशलोऽस्मि महानसे +कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः +तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम् +आहरिष्यामि दारूणां निचयान्महतोऽपि च +तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति +द्विपा वा बलिनो राजन्वृषभा वा महाबलाः +विनिग्राह्या यदि मया निग्रहीष्यामि तानपि +ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः +तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् +न त्वेतान्युध्यमानान्वै हनिष्यामि कथंचन +तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् +आरालिको गोविकर्ता सूपकर्ता नियोधकः +आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः +आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते +इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा +युधिष्ठिर उवाच +यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् +दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा +महाबलं महाबाहुमजितं कुरुनन्दनम् +सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः +योऽयमासाद्य तं दावं तर्पयामास पावकम् +विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् +श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति +सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः +आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः +आयुधानां वरो वज्रः ककुद्मी च गवां वरः +ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः +धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः +पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा +यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर +एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् +सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत +गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति +उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि +दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता +यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् +यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ +दक्षिणे चैव सव्ये च गवामिव वहः कृतः +हिमवानिव शैलानां समुद्रः सरितामिव +त्रिदशानां यथा शक्रो वसूनामिव हव्��वाट् +मृगाणामिव शार्दूलो गरुडः पततामिव +वरः संनह्यमानानामर्जुनः किं करिष्यति +अर्जुन उवाच +प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते +ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ +कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे +वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा +पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः +रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् +गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा +शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः +प्रजानां समुदाचारं बहु कर्मकृतं वदन् +छादयिष्यामि कौन्तेय माययात्मानमात्मना +युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका +उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत +एतेन विधिना छन्नः कृतकेन यथा नलः +विहरिष्यामि राजेन्द्र विराटभवने सुखम् +युधिष्ठिर उवाच +किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि +सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः +नकुल उवाच +अश्वबन्धो भविष्यामि विराटनृपतेरहम् +ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम +कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते +प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव +ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः +तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा +युधिष्ठिर उवाच +सहदेव कथं तस्य समीपे विहरिष्यसि +किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि +सहदेव उवाच +गोसंख्याता भविष्यामि विराटस्य महीपतेः +प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् +तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते +निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः +अहं हि भवता गोषु सततं प्रकृतः पुरा +तत्र मे कौशलं कर्म अवबुद्धं विशां पते +लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् +तत्सर्वं मे सुविदितमन्यच्चापि महीपते +वृषभानपि जानामि राजन्पूजितलक्षणान् +येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते +सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा +न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव +युधिष्ठिर उवाच +इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी +मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा +केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति +न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः +सुकुमारी च बाला च राजपुत्री यशस्विनी +पतिव्रता महाभागा कथं नु विचरिष्यति +मा���्यगन्धानलंकारान्वस्त्राणि विविधानि च +एतान्येवाभिजानाति यतो जाता हि भामिनी +द्रौपद्युवाच +सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत +नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः +साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि +आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि +सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् +सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् +युधिष्ठिर उवाच +कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् +न पापमभिजानासि साधु साध्वीव्रते स्थिता +युधिष्ठिर उवाच +कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ +मम चापि यथाबुद्धि रुचितानि विनिश्चयात् +पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु +सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने +इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् +यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः +इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः +पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह +सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः +गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति +धौम्य उवाच +विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः +अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत +हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः +यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति +दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि +अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् +दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् +तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः +नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् +आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् +अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः +न तत्रोपविशेज्जातु स राजवसतिं वसेत् +न चानुशिष्येद्राजानमपृच्छन्तं कदाचन +तूष्णीं त्वेनमुपासीत काले समभिपूजयन् +असूयन्ति हि राजानो जनाननृतवादिनः +तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा +नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन +अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये +विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि +एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् +यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह +अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् +यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् +प्रमादमवहेलां च कोपं च परिवर्जयेत् +समर्थनासु सर्वासु ���ितं च प्रियमेव च +संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् +अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च +अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् +नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः +अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् +नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् +स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् +दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः +रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते +नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् +न च संदर्शने किंचित्प्रवृद्धमपि संजपेत् +अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् +न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् +यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् +शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः +प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् +ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः +अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च +यस्य कोपो महाबाधः प्रसादश्च महाफलः +कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः +न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् +सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः +हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् +नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् +न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा +स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् +लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः +असंमूढश्च यो नित्यं स राजवसतिं वसेत् +राजानं राजपुत्रं वा संवर्तयति यः सदा +अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् +प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः +न निर्बध्नाति राजानं लभते प्रग्रहं पुनः +प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः +उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् +अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः +न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् +श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् +विशेषयेन्न राजानं योग्याभूमिषु सर्वदा +अम्लानो बलवाञ्शूरश्छायेवानपगः सदा +सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् +अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् +अहं किं करवाणीति स राजवसतिं वसेत् +उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा +आदिष्टो न विकल्पेत स राजवसतिं व���ेत् +यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् +दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् +समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् +मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् +न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत् +प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् +यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति +तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् +संवत्सरमिमं तात तथाशीला बुभूषवः +अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ +युधिष्ठिर उवाच +अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन +कुन्तीमृते मातरं नो विदुरं च महामतिम् +यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति +तारणायास्य दुःखस्य प्रस्थानाय जयाय च +वैशंपायन उवाच +एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः +अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते +तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः +समृद्धिवृद्धिलाभाय पृथिवीविजयाय च +अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् +याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः +वैशंपायन उवाच +ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः +बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः +ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः +वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः +विध्यन्तो मृगजातानि महेष्वासा महाबलाः +उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु +अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः +लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् +ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् +पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च +व्यक्तं दूरे विराटस्य राजधानी भविष्यति +वसामेह परां रात्रिं बलवान्मे परिश्रमः +युधिष्ठिर उवाच +धनंजय समुद्यम्य पाञ्चालीं वह भारत +राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः +वैशंपायन उवाच +तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव +संप्राप्य नगराभ्याशमवतारयदर्जुनः +स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत् +क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् +सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि +समुद्वेगं जनस्यास्य करिष्यामो न संशयः +ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः +एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा +अर्जुन उवाच +इयं कूटे मनुष्येन्द्र गहना महती शमी +भीमशाखा दुरारोहा श्मशानस्य समीपतः +न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव +उत्पथे हि वने जाता मृगव्यालनिषेविते +समासज्यायुधान्यस्यां गच्छामो नगरं प्रति +एवमत्र यथाजोषं विहरिष्याम भारत +वैशंपायन उवाच +एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् +प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ +येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् +स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः +तदुदारं महाघोषं सपत्नगणसूदनम् +अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम् +येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः +अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः +पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः +प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये +निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे +पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव +सैन्धवं येन राजानं परामृषत चानघ +ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् +अजयत्पश्चिमामाशां धनुषा येन पाण्डवः +तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि +दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः +अपज्यमकरोद्वीरः सहदेवस्तदायुधम् +खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् +विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह +तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् +यानि तस्यावकाशानि दृढरूपाण्यमन्यत +यत्र चापश्यत स वै तिरो वर्षाणि वर्षति +तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत +शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः +विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् +आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् +अशीतिशतवर्षेयं माता न इति वादिनः +कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च +समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते +आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः +आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः +जयो जयन्तो विजयो जयत्सेनो जयद्बलः +इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः +ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् +अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् +वैशंपायन उवाच +ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् +वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा +नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः +महानुभावो नरराजसत्कृतो; दुरासदस्���ीक्ष्णविषो यथोरगः +बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा +महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान् +तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् +मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते +पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम् +न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् +न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् +शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् +समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः +वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् +सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् +इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो +तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च +कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः +गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् +युधिष्ठिर उवाच +युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः +अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः +विराट उवाच +ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव +प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति +युधिष्ठिर उवाच +आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः +न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः +विराट उवाच +हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा +शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा +समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः +पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया +ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा +दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम +वैशंपायन उवाच +एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा +उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् +वैशंपायन उवाच +अथापरो भीमबलः श्रिया ज्वल;न्नुपाययौ सिंहविलासविक्रमः +खजं च दर्वीं च करेण ध��रय;न्नसिं च कालाङ्गमकोशमव्रणम् +स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन् +सुकृष्णवासा गिरिराजसारवा;न्स मत्स्यराजं समुपेत्य तस्थिवान् +तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान् +सिंहोन्नतांसोऽयमतीव रूपवा;न्प्रदृश्यते को नु नरर्षभो युवा +अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि संपदम् +तथास्य चित्तं ह्यपि संवितर्कय;न्नरर्षभस्याद्य न यामि तत्त्वतः +ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः +उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् +विराट उवाच +न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे +श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह +भीम उवाच +नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् +आस्वादिता ये नृपते पुराभव;न्युधिष्ठिरेणापि नृपेण सर्वशः +बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव +गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् +विराट उवाच +ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे +न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि +यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः +नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः +वैशंपायन उवाच +तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम् +उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन +वैशंपायन उवाच +ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् +जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना +वासश्च परिधायैकं कृष्णं सुमलिनं महत् +कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् +तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् +अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि +सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता +कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति +तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा +नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् +विराटस्य तु कैकेयी भार्या परमसंमता +अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् +सा समीक्ष्य तथारूपामनाथामेकवाससम् +समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि +सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता +कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति +सुदेष्णोवाच +नैवंरूपा भवन्त्येवं यथा वदसि भामिनि +प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् +गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता +रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी +सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा +तेन तेनैव संपन्ना काश्मीरीव तुरंगमा +स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा +कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना +का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचन +यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः +अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी +इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः +देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे +द्रौपद्युवाच +नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी +सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते +केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् +ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः +आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् +कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् +तत्र तत्र चराम्येवं लभमाना सुशोभनम् +वासांसि यावच्च लभे तावत्तावद्रमे तथा +मालिनीत्येव मे नाम स्वयं देवी चकार सा +साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् +सुदेष्णोवाच +मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते +नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा +स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि +प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः +वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि +तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः +राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् +विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा +यं हि त्वमनवद्याङ्गि नरमायतलोचने +प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् +यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि +एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् +यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः +तथाविधमहं मन्ये वासं तव शुचिस्मिते +द्रौपद्युवाच +नास्मि लभ्या विराटेन न चान्येन कथंचन +गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि +पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् +रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् +यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् +प्रीयेयुस्तेन वासेन गन्धर्वाः प��यो मम +यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः +तामेव स ततो रात्रिं प्रविशेदपरां तनुम् +न चाप्यहं चालयितुं शक्या केनचिदङ्गने +दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः +सुदेष्णोवाच +एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि +न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन +वैशंपायन उवाच +एवं कृष्णा विराटस्य भार्यया परिसान्त्विता +न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय +वैशंपायन उवाच +सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् +भाषां चैषां समास्थाय विराटमुपयादथ +तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् +समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् +कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि +न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ +स प्राप्य राजानममित्रतापन;स्ततोऽब्रवीन्मेघमहौघनिःस्वनः +वैश्योऽस्मि नाम्नाहमरिष्टनेमि;र्गोसंख्य आसं कुरुपुंगवानाम् +वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् +न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः +विराट उवाच +त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि +आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् +कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् +कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् +सहदेव उवाच +पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः +तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः +अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे +तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः +भूतं भव्यं भविष्यच्च यच्च संख्यागतं क्वचित् +न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् +गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः +आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः +क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित् +तैस्तैरुपायैर्विदितं मयैत;देतानि शिल्पानि मयि स्थितानि +वृषभांश्चापि जानामि राजन्पूजितलक्षणान् +येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते +विराट उवाच +शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः +पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह +वैशंपायन उवाच +तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वर��� +न चैनमन्येऽपि विदुः कथंचन; प्रादाच्च तस्मै भरणं यथेप्सितम् +वैशंपायन उवाच +अथापरोऽदृश्यत रूपसंपदा; स्त्रीणामलंकारधरो बृहत्पुमान् +प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे +बहूंश्च दीर्घांश्च विकीर्य मूर्धजा;न्महाभुजो वारणमत्तविक्रमः +गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः +तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् +विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् +सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः +न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् +सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः +विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले +शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा +आरुह्य यानं परिधावतां भवा;न्सुतैः समो मे भव वा मया समः +वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व +नैवंविधाः क्लीबरूपा भवन्ति; कथंचनेति प्रतिभाति मे मनः +अर्जुन उवाच +गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते +त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः +इदं तु रूपं मम येन किं नु त;त्प्रकीर्तयित्वा भृशशोकवर्धनम् +बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् +विराट उवाच +ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः +इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि +वैशंपायन उवाच +बृहन्नडां तामभिवीक्ष्य मत्स्यरा;ट्कलासु नृत्ते च तथैव वादिते +अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् +स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनंजयः प्रभुः +सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः +तथा स सत्रेण धनंजयोऽवस;त्प्रियाणि कुर्वन्सह ताभिरात्मवान् +तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथ वान्तरेचराः +वैशंपायन उवाच +अथापरोऽदृश्यत पाण्डवः प्रभु;र्विराटराज्ञस्तुरगान्समीक्षतः +तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् +स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् +ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः +अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः +प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा +अभ्येत्य राजानममित्रहाब्रवी;ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च +हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् +विराट उवाच +ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि +कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् +नकुल उवाच +पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः +तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन +अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः +दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् +न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः +जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः +विराट उवाच +यदस्ति किंचिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै +ये चापि केचिन्मम वाजियोजका;स्त्वदाश्रयाः सारथयश्च सन्तु मे +इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु +न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम +युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् +कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः +वैशंपायन उवाच +तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः +न चैनमन्येऽपि विदुः कथंचन; प्रियाभिरामं विचरन्तमन्तरा +एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः +अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः +जनमेजय उवाच +एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः +अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज +वैशंपायन उवाच +एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः +आराधयन्तो राजानं यदकुर्वन्त तच्छृणु +युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः +तथैव च विराटस्य सपुत्रस्य विशां पते +स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः +अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् +अज्ञातं च विराटस्य विजित्य वसु धर्मराट् +भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति +भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च +अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे +वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः +विक्रीणानश्च सर्वेभ्यः पाण्��वेभ्यः प्रयच्छति +सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः +दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति +नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् +तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति +कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी +यथा पुनरविज्ञाता तथा चरति भामिनी +एवं संपादयन्तस्ते तथान्योन्यं महारथाः +प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप +अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः +आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः +तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः +महाकाया महावीर्याः कालखञ्जा इवासुराः +वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः +सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः +असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ +तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् +आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन +यदा सर्वे विमनसस्ते मल्ला हतचेतसः +अथ सूदेन तं मल्लं योधयामास मत्स्यराट् +चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् +न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् +ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् +प्रविवेश महारङ्गं विराटमभिहर्षयन् +बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् +ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् +तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ +मत्ताविव महाकायौ वारणौ षष्टिहायनौ +चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा +विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् +तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् +ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् +भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् +प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः +तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते +विराटः परमं हर्षमगच्छद्बान्धवैः सह +संहर्षात्प्रददौ वित्तं बहु राजा महामनाः +बल्लवाय महारङ्गे यथा वैश्रवणस्तथा +एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् +विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् +यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते +ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् +पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः +योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः +बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः +विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः +अश्���ैर्विनीतैर्जवनैस्तत्र तत्र समागतैः +तोषयामास नकुलो राजानं राजसत्तम +तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु +विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो +एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः +कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा +वैशंपायन उवाच +वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा +महारथेषु छन्नेषु मासा दश समत्ययुः +याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते +अवसत्परिचारार्हा सुदुःखं जनमेजय +तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने +सेनापतिर्विराटस्य ददर्श जलजाननाम् +तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव +कीचकः कामयामास कामबाणप्रपीडितः +स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै +प्रहसन्निव सेनानीरिदं वचनमब्रवीत् +नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा +रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी +का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश्च शोभना +चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् +अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम् +अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किंचन +प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् +मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम +ततः सुदेष्णामनुमन्त्र्य कीचक;स्ततः समभ्येत्य नराधिपात्मजाम् +उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने +इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि +अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती +त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि +अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने +द्रौपद्युवाच +अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे +विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् +परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् +दयिताः प्राणिनां दारा धर्मं समनुचिन्तय +परदारे न ते बुद्धिर्जातु कार्या कथंचन +विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् +मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः +अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् +मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् +दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् +न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम +ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः +अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि +यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् +तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि +अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि +तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः +त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक +किं मातुरङ्के शयितो यथा शिशु;श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् +वैशंपायन उवाच +प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् +अमर्यादेन कामेन घोरेणाभिपरिप्लुतः +यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् +तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् +तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा +विराटमहिषी देवी कृपां चक्रे मनस्विनी +स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च +उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् +पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय +तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् +तत्र संप्रेषितामेनां विजने निरवग्रहाम् +सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि +कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा +सुरामाहारयामास राजार्हां सुपरिस्रुताम् +आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् +कारयामास कुशलैरन्नपानं सुशोभनम् +तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता +सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् +सुदेष्णोवाच +उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् +पानमानय कल्याणि पिपासा मां प्रबाधते +द्रौपद्युवाच +न गच्छेयमहं तस्य राजपुत्रि निवेशनम् +त्वमेव राज्ञि जानासि यथा स निरपत्रपः +न चाहमनवद्याङ्गि तव वेश्मनि भामिनि +कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी +त्वं चैव देवि जानासि यथा स समयः कृतः +प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि +कीचकश्च सुकेशान्ते मूढो मदनदर्पितः +सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने +सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः +अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते +सुदेष्णोवाच +नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया +वैशंपायन उवाच +इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् +सा शङ्कमाना रुदती दैवं शरणमीयुषी +प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् +द्रौपद्युवाच +यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन +तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः +वैशंपायन उवाच +उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः +स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् +अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् +तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् +तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् +उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः +कीचक उवाच +स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम +स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् +सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके +आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च +अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् +एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् +द्रौपद्युवाच +अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् +पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् +कीचक उवाच +अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् +वैशंपायन उवाच +इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् +सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् +सभां शरणमाधावद्यत्र राजा युधिष्ठिरः +तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् +अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् +ततो योऽसौ तदार्केण राक्षसः संनियोजितः +स कीचकमपोवाह वातवेगेन भारत +स पपात ततो भूमौ रक्षोबलसमाहतः +विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः +तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ +अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् +तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः +दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः +अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् +प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् +सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् +अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः +आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् +दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा +द्रौपद्युवाच +येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् +तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् +ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः +तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् +येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् +तेषां मां मान���नीं भार्यां सूतपुत्रः पदावधीत् +ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः +तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् +सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये +तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् +शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् +चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः +कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् +मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः +क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते +न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना +मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् +यः पश्यन्मां मर्षयति वध्यमानामनागसम् +न राजन्राजवत्किंचित्समाचरसि कीचके +दस्यूनामिव धर्मस्ते न हि संसदि शोभते +न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन +सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते +नोपालभे त्वां नृपते विराट जनसंसदि +नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके +सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् +विराट उवाच +परोक्षं नाभिजानामि विग्रहं युवयोरहम् +अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम +वैशंपायन उवाच +ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् +साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् +सभ्या ऊचुः +यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा +परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन +वैशंपायन उवाच +एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः +युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् +अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् +गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् +भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः +शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत +मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव +तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः +अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि +विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि +गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् +द्रौपद्युवाच +अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी +तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता +वैशंपायन उवाच +इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् +केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा +शुशुभे वदनं तस्या रुदन्त्या विरतं तदा +मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् +सुदेष्णोवाच +कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने +कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् +द्रौपद्युवाच +कीचको मावधीत्तत्र सुराहारीं गतां तव +सभायां पश्यतो राज्ञो यथैव विजने तथा +सुदेष्णोवाच +घातयामि सुकेशान्ते कीचकं यदि मन्यसे +योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते +द्रौपद्युवाच +अन्ये वै तं वधिष्यन्ति येषामागः करोति सः +मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति +वैशंपायन उवाच +सा हता सूतपुत्रेण राजपुत्री समज्वलत् +वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी +जगामावासमेवाथ तदा सा द्रुपदात्मजा +कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा +गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा +चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् +किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम +इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् +नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् +तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् +प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती +दुःखेन महता युक्ता मानसेन मनस्विनी +सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता +सर्वश्वेतेव माहेयी वने जाता त्रिहायनी +उपातिष्ठत पाञ्चाली वाशितेव महागजम् +सा लतेव महाशालं फुल्लं गोमतितीरजम् +बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता +सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव +वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता +अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता +उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः +नामृतस्य हि पापीयान्भार्यामालभ्य जीवति +तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि +तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे +स संप्रहाय शयनं राजपुत्र्या प्रबोधितः +उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे +अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् +केनास्यर्थेन संप्राप्ता त्वरितेव ममान्तिकम् +न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे +आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा +सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् +यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् +अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु +अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः +शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् +गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते +द्र���पद्युवाच +अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः +जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि +यन्मां दासीप्रवादेन प्रातिकामी तदानयत् +सभायां पार्षदो मध्ये तन्मां दहति भारत +पार्थिवस्य सुता नाम का नु जीवेत मादृशी +अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो +वनवासगतायाश्च सैन्धवेन दुरात्मना +परामर्शं द्वितीयं च सोढुमुत्सहते नु का +मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः +कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी +एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत +न मां जानासि कौन्तेय किं फलं जीवितेन मे +योऽयं राज्ञो विराटस्य कीचको नाम भारत +सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः +स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि +नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै +तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् +कालेनेव फलं पक्वं हृदयं मे विदीर्यते +भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् +यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् +को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह +प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् +यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् +सायंप्रातरदेविष्यदपि संवत्सरान्बहून् +रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् +अश्वाश्वतरसंघांश्च न जातु क्षयमावहेत् +सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः +तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् +दश नागसहस्राणि पद्मिनां हेममालिनाम् +यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति +तथा शतसहस्राणि नृणाममिततेजसाम् +उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् +शतं दासीसहस्राणि यस्य नित्यं महानसे +पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत +एष निष्कसहस्राणि प्रदाय ददतां वरः +द्यूतजेन ह्यनर्थेन महता समुपावृतः +एनं हि स्वरसंपन्ना बहवः सूतमागधाः +सायंप्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः +सहस्रमृषयो यस्य नित्यमासन्सभासदः +तपःश्रुतोपसंपन्नाः सर्वकामैरुपस्थिताः +अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् +बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः +स एष निरयं प्राप्तो मत्स्यस्य परिचारकः +सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः +इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः +आसन्बलिभृतः सर्वे सोऽद���यान्यैर्भृतिमिच्छति +पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः +स वशे विवशो राजा परेषामद्य वर्तते +प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा +सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः +यमुपासन्त राजानः सभायामृषिभिः सह +तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् +अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् +दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् +उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा +तमुपासीनमद्यान्यं पश्य भारत भारतम् +एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् +शोकसागरमध्यस्थां किं मां भीम न पश्यसि +द्रौपद्युवाच +इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत +न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् +शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा +कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् +प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् +प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव +स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता +योध्यमानं महावीर्यैरिमं समनुशोचति +कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः +स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ +सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी +अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ +इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् +क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि +तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् +शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे +यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् +सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा +योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् +सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः +यस्माद्भयममित्राणां सदैव पुरुषर्षभात् +स लोकपरिभूतेन वेषेणास्ते धनंजयः +यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः +स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते +किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते +वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः +यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि +आधारः सर्वविद्यानां स धारयति कुण्डले +यं स्म राजसहस्राणि तेजसाप्रतिमानि वै +समरे नातिवर्तन्ते वेलामिव महार्णवः +सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा +आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः +य���्य स्म रथघोषेण समकम्पत मेदिनी +सपर्वतवना भीम सहस्थावरजङ्गमा +यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत +स शोचयति मामद्य भीमसेन तवानुजः +भूषितं तमलंकारैः कुण्डलैः परिहाटकैः +कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः +तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् +कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः +यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् +प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः +मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् +पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा +नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् +अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् +तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् +गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत +सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः +न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् +यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः +दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् +गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् +संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् +विराटमभिनन्दन्तमथ मे भवति ज्वरः +सहदेवं हि मे वीरं नित्यमार्या प्रशंसति +महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति +ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे +स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि +तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् +सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव +यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया +सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् +अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् +विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः +अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् +विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः +किं नु मां मन्यसे पार्थ सुखितेति परंतप +एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः +अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत +वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि +युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत +शोषयन्ति शरीरं मे किं नु दुःखमतः परम् +द्रौपद्युवाच +अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि +शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् +विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप +आसे कालमुपासीना सर्वं दुःखं किलार्तवत् +अनित्या ���िल मर्त्यानामर्थसिद्धिर्जयाजयौ +इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः +य एव हेतुर्भवति पुरुषस्य जयावहः +पराजये च हेतुः स इति च प्रतिपालये +दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे +पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् +न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् +इति चाप्यागमं भूयो दैवस्य प्रतिपालये +स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति +इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः +दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते +दैवस्य चागमे यत्नस्तेन कार्यो विजानता +यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् +पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते +महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च +इमामवस्थां संप्राप्ता का मदन्या जिजीविषेत् +कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत +पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम +भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् +एवं समुदिता नारी का न्वन्या दुःखिता भवेत् +नूनं हि बालया धातुर्मया वै विप्रियं कृतम् +यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ +वर्णावकाशमपि मे पश्य पाण्डव यादृशम् +यादृशो मे न तत्रासीद्दुःखे परमके तदा +त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा +साहं दासत्वमापन्ना न शान्तिमवशा लभे +नादैविकमिदं मन्ये यत्र पार्थो धनंजयः +भीमधन्वा महाबाहुरास्ते शान्त इवानलः +अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः +विनिपातमिमं मन्ये युष्माकमविचिन्तितम् +यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा +सा प्रेक्षे मुखमन्यासामवराणां वरा सती +पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा +युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् +यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी +आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी +यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः +साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी +इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् +या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः +अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् +पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा +वैशंपायन उवाच +इत्यस्य दर्शयामास किणबद्धौ करावुभौ +द्रौपद्युवाच +बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन +साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी +किं नु वक्ष्य��ि सम्राण्मां वर्णकः सुकृतो न वा +नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते +वैशंपायन उवाच +सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी +रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती +सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः +हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् +नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा +अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव +ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः +मुखमानीय वेपन्त्या रुरोद परवीरहा +तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् +ततः परमदुःखार्त इदं वचनमब्रवीत् +भीमसेन उवाच +धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च +यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ +सभायां स्म विराटस्य करोमि कदनं महत् +तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् +तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि +यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः +सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च +दुःशासनस्य पापस्य यन्मया न हृतं शिरः +तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् +मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते +इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः +शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् +धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे +लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् +सुकन्या नाम शार्याती भार्गवं च्यवनं वने +वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी +नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता +पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् +दुहिता जनकस्यापि वैदेही यदि ते श्रुता +पतिमन्वचरत्सीता महारण्यनिवासिनम् +रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया +क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत +लोपामुद्रा तथा भीरु वयोरूपसमन्विता +अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् +यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः +तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः +मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् +पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि +द्रौपद्युवाच +आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् +अपारयन्त्या दुःखानि न राजानमुपालभे +विमुक्तेन व्यतीतेन भीमसेन महाबल +प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव +ममेह भीम कैकेयी रूपाभिभवशङ्कया +नित्यमुद्विजते राजा कथं नेयादिमामिति +तस्या विदित्व�� तं भावं स्वयं चानृतदर्शनः +कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् +तमहं कुपिता भीम पुनः कोपं नियम्य च +अब्रुवं कामसंमूढमात्मानं रक्ष कीचक +गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया +ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः +एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह +नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते +शतं सहस्रमपि वा गन्धर्वाणामहं रणे +समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् +इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः +न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् +धर्मे स्थितास्मि सततं कुलशीलसमन्विता +नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक +एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा +न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति +पापात्मा पापभावश्च कामरागवशानुगः +अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः +दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् +तद्धर्मे यतमानानां महान्धर्मो नशिष्यति +समयं रक्षमाणानां भार्या वो न भविष्यति +भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता +प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः +वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् +क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् +पश्यतो धर्मराजस्य कीचको मां पदावधीत् +तव चैव समक्षं वै भीमसेन महाबल +त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् +जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह +जहीममपि पापं त्वं योऽयं मामवमन्यते +कीचको राजवाल्लभ्याच्छोककृन्मम भारत +तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि +यो निमित्तमनर्थानां बहूनां मम भारत +तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति +विषमालोड्य पास्यामि मा कीचकवशं गमम् +श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः +वैशंपायन उवाच +इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता +भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च +कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् +भीमसेन उवाच +तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे +अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् +अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् +दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते +यैषा नर्तनशाला वै मत्स्यराजेन कारिता +दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् +तत्रास्ति शय���ं भीरु दृढाङ्गं सुप्रतिष्ठितम् +तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् +यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् +कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् +वैशंपायन उवाच +तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ +रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा +तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः +गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् +सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् +न चैवालभथास्त्राणमभिपन्ना बलीयसा +प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते +अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः +सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते +अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् +दासीशतं च ते दद्यां दासानामपि चापरम् +रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः +द्रौपद्युवाच +एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक +न त्वां सखा वा भ्राता वा जानीयात्संगतं मया +अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् +एवं मे प्रतिजानीहि ततोऽहं वशगा तव +कीचक उवाच +एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे +एको भद्रे गमिष्यामि शून्यमावसथं तव +समागमार्थं रम्भोरु त्वया मदनमोहितः +यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः +द्रौपद्युवाच +यदिदं नर्तनागारं मत्स्यराजेन कारितम् +दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् +तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते +तत्र दोषः परिहृतो भविष्यति न संशयः +वैशंपायन उवाच +तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह +दिवसार्धं समभवन्मासेनैव समं नृप +कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः +सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् +गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः +अलंचकार सोऽऽत्मानं सत्वरः काममोहितः +तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् +अनुचिन्तयतश्चापि तामेवायतलोचनाम् +आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः +निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः +कृतसंप्रत्ययस्तत्र कीचकः काममोहितः +नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् +ततस्तु द्रौपदी गत्वा तदा भीमं महानसे +उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् +तमुवाच सुकेशान्ता कीचकस्य मया कृतः +संगमो नर्तनागारे यथावोचः परंतप +शून्यं स नर्तनागारमागमिष्यति कीचकः +एको निशि महाबाहो कीचकं तं निषूदय +तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् +गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव +दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते +तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर +अश्रु दुःखाभिभूताया मम मार्जस्व भारत +आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च +भीमसेन उवाच +स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् +न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि +या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे +हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि +सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते +कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा +तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् +अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् +ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् +कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः +द्रौपद्युवाच +यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो +निगूढस्त्वं तथा वीर कीचकं विनिपातय +भीमसेन उवाच +एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे +अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते +नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः +अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः +वैशंपायन उवाच +भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् +मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् +कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत् +तां वेलां नर्तनागारे पाञ्चालीसंगमाशया +मन्यमानः स संकेतमागारं प्राविशच्च तम् +प्रविश्य च स तद्वेश्म तमसा संवृतं महत् +पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् +एकान्तमास्थितं चैनमाससाद सुदुर्मतिः +शयानं शयने तत्र मृत्युं सूतः परामृशत् +जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह +उपसंगम्य चैवैनं कीचकः काममोहितः +हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत +प्रापितं ते मया वित्तं बहुरूपमनन्तकम् +तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः +नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः +सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् +भीमसेन उवाच +दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि +ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् +वैशंपायन उवाच +इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः +समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् +भीमो जग्राह केशेषु माल्यवत्सु सुग���्धिषु +स केशेषु परामृष्टो बलेन बलिनां वरः +आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् +बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः +वसन्ते वाशिताहेतोर्बलवद्गजयोरिव +ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् +कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि +पातितो भुवि भीमस्तु कीचकेन बलीयसा +उत्पपाताथ वेगेन दण्डाहत इवोरगः +स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ +निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने +ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः +बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् +तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली +कीचको रोषसंतप्तः पदान्न चलितः पदम् +मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् +बलादहीयत तदा सूतो भीमबलार्दितः +तं हीयमानं विज्ञाय भीमसेनो महाबलः +वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् +क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः +जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् +गृहीत्वा कीचकं भीमो विरुराव महाबलः +शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् +तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः +काये प्रवेशयामास पशोरिव पिनाकधृक् +तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् +कृष्णायै दर्शयामास भीमसेनो महाबलः +उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः +पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः +तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् +आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् +कीचकं घातयित्वा तु द्रौपदी योषितां वरा +प्रहृष्टा गतसंतापा सभापालानुवाच ह +कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम +परस्त्रीकामसंमत्तः समागच्छत पश्यत +तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः +सहसैव समाजग्मुरादायोल्काः सहस्रशः +ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् +गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् +क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा +इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा +वैशंपायन उवाच +तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः +रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः +सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् +तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् +पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् +संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः +ददृशुस्ते ततः कृष���णां सूतपुत्राः समागताः +अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् +समवेतेषु सूतेषु तानुवाचोपकीचकः +हन्यतां शीघ्रमसती यत्कृते कीचको हतः +अथ वा नेह हन्तव्या दह्यतां कामिना सह +मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा +ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः +सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि +पराक्रमं तु सूतानां मत्वा राजान्वमोदत +सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते +तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् +मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् +ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् +जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा +ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता +प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती +द्रौपद्युवाच +जयो जयन्तो विजयो जयत्सेनो जयद्बलः +ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् +येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः +व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् +रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् +ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् +वैशंपायन उवाच +तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः +श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् +भीमसेन उवाच +अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् +तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते +वैशंपायन उवाच +इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया +ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च +अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा +स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् +श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः +स तं वृक्षं दशव्यामं सस्कन्धविटपं बली +प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः +ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः +भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते +तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् +वित्रेसुः सर्वतः सूता विषादभयकम्पिताः +तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा +दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः +परस्परमथोचुस्ते विषादभयकम्पिताः +गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् +सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् +ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् +विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति +द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव +शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् +तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते +उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् +अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः +एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् +प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव +अन्येनाहं गमिष्यामि विराटस्य महानसम् +पञ्चाधिकं शतं तच्च निहतं तत्र भारत +महावनमिव छिन्नं शिश्ये विगलितद्रुमम् +एवं ते निहता राजञ्शतं पञ्च च कीचकाः +स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् +तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः +विस्मयं परमं गत्वा नोचुः किंचन भारत +वैशंपायन उवाच +ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् +गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः +यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः +विनिकीर्णं प्रदृश्येत तथा सूता महीतले +सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् +सर्वं संशयितं राजन्नगरं ते भविष्यति +तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः +पुंसामिष्टश्च विषयो मैथुनाय न संशयः +यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् +विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् +तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः +अब्रवीत्क्रियतामेषां सूतानां परमक्रिया +एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने +दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः +सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः +सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् +गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले +बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् +न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् +स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् +अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च +मोक्षिता भीमसेनेन जगाम नगरं प्रति +त्रासितेव मृगी बाला शार्दूलेन मनस्विनी +गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा +तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश +गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् +ततो महानसद्वारि भीमसेनमवस्थितम् +ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् +तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत् +गन्धर्वराजाय नमो येनास्मि परिमोचिता +भीमसेन उवाच +ये यस्या विचरन्तीह पुरुषा वशवर्तिन�� +तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत +वैशंपायन उवाच +ततः सा नर्तनागारे धनंजयमपश्यत +राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् +ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः +कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् +कन्या ऊचुः +दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता +दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् +बृहन्नडोवाच +कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः +इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् +सैरन्ध्र्युवाच +बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै +या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् +न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते +तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव +बृहन्नडोवाच +बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् +तिर्यग्योनिगता बाले न चैनामवबुध्यसे +वैशंपायन उवाच +ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् +प्रविवेश सुदेष्णायाः समीपमपलायिनी +तामब्रवीद्राजपुत्री विराटवचनादिदम् +सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् +राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् +त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि +सैरन्ध्र्युवाच +त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि +कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः +ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् +ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः +वैशंपायन उवाच +कीचकस्य तु घातेन सानुजस्य विशां पते +अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः +तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः +शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः +आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः +स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः +इत्यजल्पन्महाराज परानीकविशातनम् +देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् +अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः +मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च +संविधाय यथादिष्टं यथादेशप्रदर्शनम् +कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति +तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् +द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना +संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः +दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् +कृतोऽस्माभिः परो यत्नस्तेषामन्वेषण��� सदा +पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने +निर्जने मृगसंकीर्णे नानाद्रुमलतावृते +लताप्रतानबहुले नानागुल्मसमावृते +न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः +मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा +गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च +जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च +नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् +अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ +वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम +कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम् +मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः +प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप +न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता +सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ +न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् +पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् +स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते +अन्वेषणे पाण्डवानां भूयः किं करवामहे +इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् +येन त्रिगर्ता निकृता बलेन महता नृप +सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना +स हतः पतितः शेते गन्धर्वैर्निशि भारत +अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत +प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् +कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् +वैशंपायन उवाच +ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा +चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः +सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः +तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः +अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः +तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे +अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः +निवृत्तसमयास्ते हि सत्यव्रतपरायणाः +क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः +दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् +अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः +प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् +तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् +राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् +अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत +अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः +चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् +तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रज��तेषु च +परिचारेषु तीर्थेषु विविधेष्वाकरेषु च +विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया +विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः +अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः +नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च +आश्रमेषु च रम्येषु पर्वतेषु गुहासु च +अथाग्रजानन्तरजः पापभावानुरागिणम् +ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् +एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा +यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः +एते चान्ये च भूयांसो देशाद्देशं यथाविधि +न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते +अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः +व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः +अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः +तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन +कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप +वैशंपायन उवाच +अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् +न तादृशा विनश्यन्ति नापि यान्ति पराभवम् +शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः +धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः +नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् +धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् +अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप +अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् +तेषां तथा विधेयानां निभृतानां महात्मनाम् +किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति +तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् +न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया +सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् +क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम् +यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् +दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः +शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः +तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी +विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे +ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः +वैशंपायन उवाच +ततः शांतनवो भीष्मो भरतानां पितामहः +श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् +आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् +हितार्थं स उवाचेमां भारतीं भारतान्प्रति +युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् +असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा +भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् +यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् +सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः +श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः +वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः +समयं समयज्ञास्ते पालयन्तः शुचिव्रताः +नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् +धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः +न नाशमधिगच्छेयुरिति मे धीयते मतिः +तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत +न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः +यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् +बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् +सा त्वियं साधु वक्तव्या न त्वनीतिः कथंचन +वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः +अवश्यं त्विह धीरेण सतां मध्ये विवक्षता +यथामति विवक्तव्यं सर्वशो धर्मलिप्सया +तत्र नाहं तथा मन्ये यथायमितरो जनः +पुरे जनपदे वापि यत्र राजा युधिष्ठिरः +नासूयको न चापीर्षुर्नातिवादी न मत्सरी +भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः +ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च +क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः +सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः +संपन्नसस्या च मही निरीतीका भविष्यति +रसवन्ति च धान्यानि गुणवन्ति फलानि च +गन्धवन्ति च माल्यानि शुभशब्दा च भारती +वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् +भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः +गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः +पयांसि दधिसर्पींषि रसवन्ति हितानि च +गुणवन्ति च पानानि भोज्यानि रसवन्ति च +तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः +रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः +दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः +स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे +देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते +संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः +देवतातिथिपूजासु सर्वभूतानुरागवान् +इष्टदानो महोत्साहः शश्वद्धर्मपरायणः +अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः +भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः +त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः +शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः +भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः +धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः +किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः +यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा +ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् +तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः +गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा +एवमेतत्तु संचिन्त्य यत्कृतं मन्यसे हितम् +तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे +वैशंपायन उवाच +ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा +युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् +धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् +तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु +तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् +नीतिर्विधीयतां चापि सांप्रतं या हिता भवेत् +नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता +किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे +तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु +गूढभावेषु छन्नेषु काले चोदयमागते +स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः +उदये पाण्डवानां च प्राप्ते काले न संशयः +निवृत्तसमयाः पार्था महात्मानो महाबलाः +महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः +तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् +यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे +तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः +नियतं सर्वमित्रेषु बलवत्स्वबलेषु च +उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत +प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः +साम्ना भेदेन दानेन दण्डेन बलिकर्मणा +न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् +सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् +सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि +योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः +अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः +एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः +यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि +वैशंपायन उवाच +अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः +प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् +असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह +सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः +बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो +स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत +असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा +प्रणेता कीचकश्चास्य बलवानभवत्पुरा +क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः +निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् +तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः +भविष्यति निरुत्साहो विराट इति मे मतिः +तत्र यात्रा मम मता यदि ते रोचतेऽनघ +कौरवाणां च सर्वेषां कर्णस्य च महात्मनः +एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् +राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् +आददामोऽस्य रत्नानि विविधानि वसूनि च +ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः +अथ वा गोसहस्राणि बहूनि च शुभानि च +विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् +कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते +गास्तस्यापहरामाशु सह सर्वैः सुसंहताः +संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् +हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे +तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् +भवतो बलवृद्धिश्च भविष्यति न संशयः +तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् +सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः +तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् +विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ +प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः +आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा +मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् +संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः +किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः +अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् +यामो राजन्ननुद्विग्ना विराटविषयं वयम् +आदास्यामो हि गास्तस्य विविधानि वसूनि च +ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् +वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् +शासने नित्यसंयुक्तं दुःशासनमनन्तरम् +सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् +यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः +सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः +त्रिगर्तैः सहितो राजा समग्रबलवाहनः +प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति +जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् +विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः +ते यात्वा सहसा तत्र विराटनगरं प्रति +क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् +गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च +वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् +स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः +आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् +अपरं दिवसं सर्वे राजन्संभूय कौरवाः +अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः +वैशंपायन उवाच +ततस्तेषां महाराज तत्रैवामिततेजसाम् +छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् +व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे +कुर्वतां तस्य कर्माणि विराटस्य महीपतेः +ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत +सुशर्मणा गृहीतं तु गोधनं तरसा बहु +ततो जवेन महता गोपाः पुरमथाव्रजत् +अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली +शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः +सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः +तं सभायां महाराजमासीनं राष्ट्रवर्धनम् +सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा +अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् +गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते +तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव +तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् +रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् +राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे +भानुमन्ति विचित्राणि सूपसेव्यानि भागशः +सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् +विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् +सर्वपारसवं वर्म कल्याणपटलं दृढम् +शतानीकादवरजो मदिराश्वोऽभ्यहारयत् +शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् +अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् +उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च +सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् +दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् +विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् +शतशश्च तनुत्राणि यथास्वानि महारथाः +योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः +सूपस्करेषु शुभ्रेषु महत्सु च महारथाः +पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् +सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः +महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा +अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् +यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् +अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् +कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् +युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः +एतेषामपि दीयन्तां रथा ध्वजपताकिनः +कवचानि विचित्राणि दृढानि च मृदूनि च +प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च +वीराङ्गरूपाः पुरुषा नागराजकरोपमाः +नेमे जातु न युध्येरन्निति मे धीयते मतिः +एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः +शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् +सहदेवाय राज्ञे च भीमाय नकुलाय च +तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः +निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् +कवचानि विचित्राणि दृढानि च मृदूनि च +विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् +तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः +तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः +विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः +चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः +भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः +क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः +स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः +राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः +विशारदानां वश्यानां हृष्टानां चानुयायिनाम् +अष्टौ रथसहस्राणि दश नागशतानि च +षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः +तदनीकं विराटस्य शुशुभे भरतर्षभ +संप्रयातं महाराज निनीषन्तं गवां पदम् +तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत +दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् +वैशंपायन उवाच +निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः +त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति +ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः +अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः +भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः +ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः +तेषां समागमो घोरस्तुमुलो लोमहर्षणः +देवासुरसमो राजन्नासीत्सूर्ये विलम्बति +उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन +पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः +इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत +खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत +रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् +पततां लोकवीराणां सव्यदक्षिणमस्यताम् +रथा रथैः समाजग्मुः पादातैश्च पदातयः +सादिभिः सादिनश्चैव गजैश्चापि महागजाः +असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि +संरब्धाः समरे राजन्निजघ्नुरितरेतरम् +निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः +न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् +कॢप्तोत्तरोष्��ं सुनसं कॢप्तकेशमलंकृतम् +अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् +अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः +शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे +नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः +आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः +उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता +कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत +शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् +प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ +आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि +लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् +जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः +विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् +हयानां च शतान्यत्र हत्वा पञ्च महारथान् +चरन्स विविधान्मार्गान्रथेषु रथयूथपः +त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे +तौ व्यावहरतां तत्र महात्मानौ महाबलौ +अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव +ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः +शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव +अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ +कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ +ततो राजा सुशर्माणं विव्याध दशभिः शरैः +पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् +तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः +पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् +ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः +नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते +वैशंपायन उवाच +तमसाभिप्लुते लोके रजसा चैव भारत +व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः +ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः +कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि +ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत +घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् +ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा +अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः +ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ +गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् +तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति +गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः +बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा +प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् +तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी +विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् +तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव +स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः +तस्मिन्गृहीते विरथे विराटे बलवत्तरे +प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् +तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः +अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् +मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा +तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् +उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः +भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः +भीमसेन उवाच +अहमेनं परित्रास्ये शासनात्तव पार्थिव +पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः +स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह +एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् +सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः +एनमेव समारुज्य द्रावयिष्यामि शात्रवान् +वैशंपायन उवाच +तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् +अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः +मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः +मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् +जनाः समवबुध्येरन्भीमोऽयमिति भारत +अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम् +चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् +यदेव मानुषं भीम भवेदन्यैरलक्षितम् +तदेवायुधमादाय मोक्षयाशु महीपतिम् +यमौ च चक्ररक्षौ ते भवितारौ महाबलौ +व्यूहतः समरे तात मत्स्यराजं परीप्सतः +ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् +दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः +तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः +वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् +सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः +भीमः सप्तशतान्योधान्परलोकमदर्शयत् +नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः +शतानि त्रीणि शूराणां सहदेवः प्रतापवान् +युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः +भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ +ततो युधिष्ठिरो राजा त्वरमाणो महारथः +अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् +सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम् +अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् +ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः +समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् +पृष्ठगोप��� च तस्याथ हत्वा परमसायकैः +अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् +चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः +स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा +ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः +गदामस्य परामृश्य तमेवाजघ्निवान्बली +स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा +भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली +त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा +तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे +अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् +निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः +अवजित्य सुशर्माणं धनं चादाय सर्वशः +स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः +संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् +ततो विराटः कौन्तेयानतिमानुषविक्रमान् +अर्चयामास वित्तेन मानेन च महारथान् +विराट उवाच +यथैव मम रत्नानि युष्माकं तानि वै तथा +कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् +ददान्यलंकृताः कन्या वसूनि विविधानि च +मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः +युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह +तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि +वैशंपायन उवाच +तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् +ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः +प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते +एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः +अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् +पुनरेव महाबाहुर्विराटो राजसत्तमः +एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् +मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण +तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् +रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा +वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते +त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च +यतश्च जातः संरम्भः स च शत्रुर्वशं गतः +ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत +प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे +आनृशंस्यपरो नित्यं सुसुखः सततं भव +गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव +सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् +ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् +आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम +कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् +वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः +���े गत्वा केवलां रात्रिमथ सूर्योदयं प्रति +विराटस्य पुराभ्याशे दूता जयमघोषयन् +वैशंपायन उवाच +याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति +दुर्योधनः सहामात्यो विराटमुपयादथ +भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् +द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः +विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् +दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः +एते मत्स्यानुपागम्य विराटस्य महीपतेः +घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा +षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते +महता रथवंशेन परिवार्य समन्ततः +गोपालानां तु घोषेषु हन्यतां तैर्महारथैः +आरावः सुमहानासीत्संप्रहारे भयंकरे +गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः +जगाम नगरायैव परिक्रोशंस्तदार्तवत् +स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः +अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह +दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् +तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् +षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते +तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् +राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् +त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् +त्वया परिषदो मध्ये श्लाघते स नराधिपः +पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः +इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः +तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् +आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर +निर्दहैषामनीकानि भीमेन शरतेजसा +धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः +द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः +पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् +शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय +श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः +ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः +रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया +छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः +रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् +यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः +त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः +गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः +स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम् +अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् +उत्तर उवाच +अद्याहमनुगच्छेयं द���ढधन्वा गवां पदम् +यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः +तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः +पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः +अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः +यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः +स लभेयं यदि त्वन्यं हययानविदं नरम् +त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् +विगाह्य तत्परानीकं गजवाजिरथाकुलम् +शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् +दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् +द्रोणं च सह पुत्रेण महेष्वासान्समागतान् +वित्रासयित्वा संग्रामे दानवानिव वज्रभृत् +अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् +शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् +किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् +पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः +किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते +वैशंपायन उवाच +तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः +नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् +अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी +व्रीडमानेव शनकैरिदं वचनमब्रवीत् +योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः +बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः +धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः +दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति +यदा तत्पावको दावमदहत्खाण्डवं महत् +अर्जुनस्य तदानेन संगृहीता हयोत्तमाः +तेन सारथिना पार्थः सर्वभूतानि सर्वशः +अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः +येयं कुमारी सुश्रोणी भगिनी ते यवीयसी +अस्याः स वचनं वीर करिष्यति न संशयः +यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् +जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् +एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत +गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् +सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् +यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः +वैशंपायन उवाच +स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा +प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत +तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् +प्रणयं भावयन्ती स्म सखीमध्य इदं वचः +गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे +तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः +नचिरं च हतस्तस्य संग्रामे रथसारथिः +तेन नास्ति समः सूतो योऽस्य सारथ्���माचरेत् +तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे +आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव +सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे +पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः +अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि +प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् +एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः +जगाम राजपुत्रस्य सकाशममितौजसः +तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् +अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव +दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत +त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् +पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः +सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् +संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे +कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः +अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा +त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः +एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा +का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि +गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् +तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि +उत्तर उवाच +बृहन्नडे गायनो वा नर्तनो वा पुनर्भव +क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् +वैशंपायन उवाच +स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु +उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम +ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत +कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः +स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः +कवचेन महार्हेण समनह्यद्बृहन्नडाम् +स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् +ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् +धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् +आदाय प्रययौ वीरः स बृहन्नडसारथिः +अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा +बृहन्नडे आनयेथा वासांसि रुचिराणि नः +पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च +विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् +अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः +प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः +यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् +अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च +एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् +कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः +वैशंपायन उवाच +स राजधान्या निर्याय वैराटिः पृथिवींजयः +प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः +समवेतान्कुरून्यावज्जिगीषूनवजित्य वै +गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् +ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः +ते हया नरसिंहेन चोदिता वातरंहसः +आलिखन्त इवाकाशमूहुः काञ्चनमालिनः +नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ +अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् +श्मशानमभितो गत्वा आससाद कुरूनथ +तदनीकं महत्तेषां विबभौ सागरस्वनम् +सर्पमाणमिवाकाशे वनं बहुलपादपम् +ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता +दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम +तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम् +कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च +द्रोणेन च सपुत्रेण महेष्वासेन धीमता +हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् +नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे +बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् +प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् +नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् +रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् +दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे +यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः +अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः +दुर्योधनस्तथा वीरो राजा च रथिनां वरः +द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः +दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः +हृषितानि च रोमाणि कश्मलं चागतं मम +वैशंपायन उवाच +अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः +परिदेवयते मन्दः सकाशे सव्यसाचिनः +त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् +सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः +सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः +प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे +अर्जुन उवाच +भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः +न च तावत्कृतं किंचित्परैः कर्म रणाजिरे +स्वयमेव च मामात्थ वह मां कौरवान्प्रति +सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः +मध्यमामिषगृध्राणां कुरूणामाततायिनाम् +नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् +तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च +कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे +न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि +प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः +अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि +न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति +स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च +कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव +उत्तर उवाच +कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् +प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे +वैशंपायन उवाच +इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली +त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः +बृहन्नडोवाच +नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् +श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् +वैशंपायन उवाच +एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् +तमन्वधावद्धावन्तं राजपुत्रं धनंजयः +दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी +विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा +सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् +तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् +क एष वेषप्रच्छन्नो भस्मनेव हुताशनः +किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः +सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च +तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ +तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात् +अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः +एकः कोऽस्मानुपायायादन्यो लोके धनंजयात् +एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे +स एष किल निर्यातो बालभावान्न पौरुषात् +सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् +उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः +स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति +तं नूनमेष धावन्तं जिघृक्षति धनंजयः +इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् +न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते +छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत +उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः +गत्वा पदशतं तूर्णं केशपक्षे परामृशत् +सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् +बहुलं कृपणं चैव विराटस्य सुतस्तदा +शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते +मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् +हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः +मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे +वैशंपायन उवाच +एवमादीनि वाक्यानि विलपन्तमचेतसम् +प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् +अथैनमब���रवीत्पार्थो भयार्तं नष्टचेतसम् +यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन +एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः +प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः +अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः +मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप +अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् +प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् +यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह +एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः +समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ +तत एनं विचेष्टन्तमकामं भयपीडितम् +रथमारोपयामास पार्थः प्रहरतां वरः +वैशंपायन उवाच +तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् +शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् +भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः +वित्रस्तमनसः सर्वे धनंजयकृताद्भयात् +तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् +गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत +चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः +भस्मवर्णप्रकाशेन तमसा संवृतं नभः +रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः +निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च +शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः +हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः +यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि +यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् +रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि +वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् +एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः +आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः +स एष पार्थो विक्रान्तः सव्यसाची परंतपः +नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः +क्लेशितश्च वने शूरो वासवेन च शिक्षितः +अमर्षवशमापन्नो योत्स्यते नात्र संशयः +नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः +महादेवोऽपि पार्थेन श्रूयते युधि तोषितः +कर्ण उवाच +सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे +न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा +दुर्योधन उवाच +यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम +ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् +अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः +शरैरेनं सुनिशितैः पातयिष्यामि भूतले +वैशंपायन उवाच +तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतपे +भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् +वैशंपायन उवाच +तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् +सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् +समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर +नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् +भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् +मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः +तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम् +अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत +युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा +ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च +अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् +एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् +व्यायामसहमत्यर्थं तृणराजसमं महत् +सर्वायुधमहामात्रं शत्रुसंबाधकारकम् +सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् +अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् +तादृशान्येव सर्वाणि बलवन्ति दृढानि च +उत्तर उवाच +अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् +तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् +नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना +महता राजपुत्रेण मन्त्रयज्ञविदा सता +स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् +कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे +बृहन्नडोवाच +व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि +धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते +दायादं मत्स्यराजस्य कुले जातं मनस्विनम् +कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज +वैशंपायन उवाच +एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली +आरुरोह शमीवृक्षं वैराटिरवशस्तदा +तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः +परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद +तथा संनहनान्येषां परिमुच्य समन्ततः +अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह +तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् +विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव +स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् +हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत +संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च +वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् +उत्तर उवाच +बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः +सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् +वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः +सुपार्श्वं सुग्रहं चैव कस���यैतद्धनुरुत्तमम् +तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः +पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् +सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः +तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् +शालभा यत्र सौवर्णास्तपनीयविचित्रिताः +सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् +इमे च कस्य नाराचाः सहस्रा लोमवाहिनः +समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये +विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः +हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः +कस्यायमसितावापः पञ्चशार्दूललक्षणः +वराहकर्णव्यामिश्रः शरान्धारयते दश +कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः +शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः +कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः +उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः +कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः +वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् +सुफलश्चित्रकोशश्च किङ्किणीसायको महान् +कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः +कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः +हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः +कस्य पाञ्चनखे कोशे सायको हेमविग्रहः +प्रमाणरूपसंपन्नः पीत आकाशसंनिभः +कस्य हेममये कोशे सुतप्ते पावकप्रभे +निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः +निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे +विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् +बृहन्नडोवाच +यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् +गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः +सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् +एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् +यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् +येन देवान्मनुष्यांश्च पार्थो विषहते मृधे +देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः +एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् +ततोऽनन्तरमेवाथ प्रजापतिरधारयत् +त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च +सोमः पञ्चशतं राजा तथैव वरुणः शतम् +पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः +महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् +पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः +सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः +येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः +इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् +राज्ञो युधिष्��िरस्यैतद्वैराटे धनुरुत्तमम् +सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः +तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् +शलभा यत्र सौवर्णास्तपनीयविचित्रिताः +एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् +ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः +एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः +एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः +भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् +ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः +एते भीमस्य निशिता रिपुक्षयकराः शराः +हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः +नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः +येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे +कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः +ये त्विमे भास्कराकाराः सर्वपारशवाः शराः +एते चित्राः क्रियोपेताः सहदेवस्य धीमतः +ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः +हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः +यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः +अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः +वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः +गुरुभारसहो दिव्यः शात्रवाणां भयंकरः +सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः +निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः +यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने +नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः +यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः +सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् +उत्तर उवाच +सुवर्णविकृतानीमान्यायुधानि महात्मनाम् +रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् +क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः +नकुलः सहदेवश्च भीमसेनश्च पाण्डवः +सर्व एव महात्मानः सर्वामित्रविनाशनाः +राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन +द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता +जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् +अर्जुन उवाच +अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः +बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः +अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले +सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः +उत्तर उवाच +दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे +प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते +अर्जुन उवाच +हन्त तेऽहं समाचक्षे दश नामानि यानि मे +अर्जुनः फल्गुनो जिष्ण��ः किरीटी श्वेतवाहनः +बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः +उत्तर उवाच +केनासि विजयो नाम केनासि श्वेतवाहनः +किरीटी नाम केनासि सव्यसाची कथं भवान् +अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च +धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः +श्रुता मे तस्य वीरस्य केवला नामहेतवः +अर्जुन उवाच +सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् +मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् +अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् +नाजित्वा विनिवर्तामि तेन मां विजयं विदुः +श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः +संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः +उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा +जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः +पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः +किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् +न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन +तेन देवमनुष्येषु बीभत्सुरिति मां विदुः +उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे +तेन देवमनुष्येषु सव्यसाचीति मां विदुः +पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः +करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः +अहं दुरापो दुर्धर्षो दमनः पाकशासनिः +तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः +कृष्ण इत्येव दशमं नाम चक्रे पिता मम +कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै +वैशंपायन उवाच +ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् +अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः +दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय +लोहिताक्ष महाबाहो नागराजकरोपम +यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम +यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् +अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि +उत्तर उवाच +आस्थाय विपुलं वीर रथं सारथिना मया +कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया +अर्जुन उवाच +प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव +सर्वान्नुदामि ते शत्रून्रणे रणविशारद +स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह +युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् +एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे +एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् +अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् +संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् +त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम�� +ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि +नगरं ते मया गुप्तं रथोपस्थं भविष्यति +अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना +अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् +उत्तर उवाच +बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि +केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् +इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् +निश्चयं चापि दुर्मेधा न गच्छामि कथंचन +एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च +केन कर्मविपाकेन क्लीबत्वमिदमागतम् +मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् +गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् +अर्जुन उवाच +भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् +चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते +नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः +समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज +उत्तर उवाच +परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा +न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः +सहायवानस्मि रणे युध्येयममरैरपि +साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे +अहं ते संग्रहीष्यामि हयाञ्शत्रुरथारुजः +शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ +दारुको वासुदेवस्य यथा शक्रस्य मातलिः +तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव +यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् +दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः +योऽयं धुरं धुर्यवरो वामं वहति शोभनः +तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् +योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः +वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् +योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः +बलाहकादपि मतः स जवे वीर्यवत्तरः +त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् +त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम +वैशंपायन उवाच +ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् +चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे +कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा +अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः +तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः +यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः +सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् +भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् +तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव +यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे +वैशंपा���न उवाच +उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् +आयुधं सर्वमादाय ततः प्रायाद्धनंजयः +ध्वजं सिंहं रथात्तस्मादपनीय महारथः +प्रणिधाय शमीमूले प्रायादुत्तरसारथिः +दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा +काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् +मनसा चिन्तयामास प्रसादं पावकस्य च +स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् +सपताकं विचित्राङ्गं सोपासङ्गं महारथः +रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः +बद्धासिः सतनुत्राणः प्रगृहीतशरासनः +ततः प्रायादुदीचीं स कपिप्रवरकेतनः +स्वनवन्तं महाशङ्खं बलवानरिमर्दनः +प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् +ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् +उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् +संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः +उत्तरं च परिष्वज्य समाश्वासयदर्जुनः +मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप +कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि +श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः +कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् +स त्वं कथमिहानेन शङ्खशब्देन भीषितः +विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा +उत्तर उवाच +श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः +कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् +नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः +ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् +धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् +अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च +रथस्य च निनादेन मनो मुह्यति मे भृशम् +व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे +ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे +गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ +अर्जुन उवाच +एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय +दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः +वैशंपायन उवाच +तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च +गाण्डीवस्य च घोषेण पृथिवी समकम्पत +द्रोण उवाच +यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते +कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः +शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः +अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् +प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः +ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् +शकुनाश्चापसव्या नो वेदयन्ति म���द्भयम् +गोमायुरेष सेनाया रुवन्मध्येऽनुधावति +अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् +भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये +पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति +विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः +गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः +वैशंपायन उवाच +अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् +द्रोणं च रथशार्दूलं कृपं च सुमहारथम् +उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् +पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् +पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् +वने जनपदेऽज्ञातैरेष एव पणो हि नः +तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् +अज्ञातवासं बीभत्सुरथास्माभिः समागतः +अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः +पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः +लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् +हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति +अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः +अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा +उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् +यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः +त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः +मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् +तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् +प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् +सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् +अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति +ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः +अस्मान्वाप्यतिसंधाय कुर्युर्मत्स्येन संगतम् +अथ वा तानुपायातो मत्स्यो जानपदैः सह +सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः +तेषामेव महावीर्यः कश्चिदेव पुरःसरः +अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् +यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः +सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः +अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः +भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च +संभ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः +नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् +आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा +यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत् +शरैरभिप्रणुन्नानां भग्नानां गहने वने +को हि जीवेत्पदातीनां भवेदश्वेषु संशयः +आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् +जानाति हि मतं तेषामतस्त्रासयतीव नः +अर्जुनेनास्य संप्रीतिमधिकामुपलक्षये +तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति +यथा सेना न भज्येत तथा नीतिर्विधीयताम् +अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता +यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् +अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे +स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः +सदा च वायवो वान्ति नित्यं वर्षति वासवः +स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा +किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते +अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् +आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः +नैते महाभये प्राप्ते संप्रष्टव्याः कथंचन +प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च +कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः +बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि +इष्वस्त्रे चारुसंधाने पण्डितास्तत्र शोभनाः +परेषां विवरज्ञाने मनुष्याचरितेषु च +अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः +पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः +विधीयतां तथा नीतिर्यथा वध्येत वै परः +गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् +आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् +कर्ण उवाच +सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये +अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् +यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः +अहमावारयिष्यामि वेलेव मकरालयम् +मम चापप्रमुक्तानां शराणां नतपर्वणाम् +नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् +रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया +छादयन्तु शराः पार्थं शलभा इव पादपम् +शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् +श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव +समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च +जातस्नेहश्च युद्धस्य मयि संप्रहरिष्यति +पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव +शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः +एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः +अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् +इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः +दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् +अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् +धार्त���ाष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् +अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् +शलभानामिवाकाशे प्रचारः संप्रदृश्यताम् +इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् +अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् +तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् +पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् +अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् +शरधारो महामेघः शमयिष्यामि पाण्डवम् +मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः +शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः +जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् +तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् +ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया +अद्यैव पततां भूमौ विनदन्भैरवान्रवान् +शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् +दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः +अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् +समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् +हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् +निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः +कामं गच्छन्तु कुरवो धनमादाय केवलम् +रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् +कृप उवाच +सदैव तव राधेय युद्धे क्रूरतरा मतिः +नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे +नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः +तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः +देशकालेन संयुक्तं युद्धं विजयदं भवेत् +हीनकालं तदेवेह फलवन्न भवत्युत +देशे काले च विक्रान्तं कल्याणाय विधीयते +आनुकूल्येन कार्याणामन्तरं संविधीयताम् +भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः +परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः +एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् +एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् +एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् +अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् +एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत +एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः +एको गन्धर्वराजानं चित्रसेनमरिंदमः +विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् +तथा निवातकवचाः कालखञ्जाश्च दानवाः +दैवतैरप्यवध्यास्ते एकेन युधि पातिताः +एकेन हि त्वया कर्ण किं नामेह कृतं पुरा +एकैकेन यथा तेषां भूमिपाला वशीकृताः +इन्द्रोऽपि हि न पार्थेन संयुग��� योद्धुमर्हति +यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् +आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् +अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि +अथ वा कुञ्जरं मत्तमेक एव चरन्वने +अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि +समिद्धं पावकं वापि घृतमेदोवसाहुतम् +घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि +आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् +समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् +अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः +तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः +अस्माभिरेष निकृतो वर्षाणीह त्रयोदश +सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति +एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् +अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् +सह युध्यामहे पार्थमागतं युद्धदुर्मदम् +सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः +द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् +सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः +वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् +षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः +व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः +युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा +अश्वत्थामोवाच +न च तावज्जिता गावो न च सीमान्तरं गताः +न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे +संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् +विजित्य च परां भूमिं नाहुः किंचन पौरुषम् +पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः +तूष्णीं धारयते लोकान्वसुधा सचराचरान् +चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः +धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति +अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च +क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् +वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् +वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् +सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि +प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति +तथा नृशंसरूपेण यथान्यः प्राकृतो जनः +तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः +निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा +कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम् +नकुलं सहदेवं च धनं येषां त्वया हृतम् +युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः +इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा +तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया +एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला +मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा +कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् +यथाशक्ति मनुष्याणां शममालक्षयामहे +अन्येषां चैव सत्त्वानामपि कीटपिपीलिके +द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति +दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः +त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि +वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति +नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् +भयादिह न युध्येत कुन्तीपुत्रो धनंजयः +यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति +वृक्षं गरुडवेगेन विनिहत्य तमेष्यति +त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् +वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् +दैवं दैवेन युध्येत मानुषेण च मानुषम् +अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् +पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः +एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः +यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः +यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् +अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः +दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह +नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च +ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् +न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः +अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः +अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः +कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः +युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम् +मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् +भीष्म उवाच +साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति +कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति +आचार्यो नाभिषक्तव्यः पुरुषेण विजानता +देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः +यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः +कथमभ्युदये तेषां न प्रमुह्येत पण्डितः +स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः +तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते +कर्णो यदभ्यवोचन्नस्तेजःसंजननाय तत् +आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् +नायं कालो विर��धस्य कौन्तेये समुपस्थिते +क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च +भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा +यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते +एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् +चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते +नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः +अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः +ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते +आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने +सर्वे संहत्य युध्यामः पाकशासनिमागतम् +बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः +मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः +अश्वत्थामोवाच +आचार्य एव क्षमतां शान्तिरत्र विधीयताम् +अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् +वैशंपायन उवाच +ततो दुर्योधनो द्रोणं क्षमयामास भारत +सह कर्णेन भीष्मेण कृपेण च महात्मना +द्रोण उवाच +यदेव प्रथमं वाक्यं भीष्मः शांतनवोऽब्रवीत् +तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् +यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् +साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् +वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनंजयः +धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति +यथा नायं समायुज्याद्धार्तराष्ट्रान्कथंचन +यथा च न पराजय्यात्तथा नीतिर्विधीयताम् +उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् +तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि +भीष्म उवाच +कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च +अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा +ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि +एवं कालविभागेन कालचक्रं प्रवर्तते +तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् +पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः +तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः +त्रयोदशानां वर्षाणामिति मे वर्तते मतिः +सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् +एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः +सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः +येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः +अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् +न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः +तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः +धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् +यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् +वृणु��ुर्मरणं पार्था नानृतत्वं कथंचन +प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः +अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः +प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् +तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् +तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् +न हि पश्यामि संग्रामे कदाचिदपि कौरव +एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनंजयः +संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ +अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् +तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् +क्रियतामाशु राजेन्द्र संप्राप्तो हि धनंजयः +दुर्योधन उवाच +नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह +युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् +भीष्म उवाच +अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते +क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति +ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु +वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् +मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् +आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः +कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् +अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः +अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् +वैशंपायन उवाच +तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः +उपायादर्जुनस्तूर्णं रथघोषेण नादयन् +ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् +दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् +ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् +महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् +एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते +एष घोषः सजलदो रोरवीति च वानरः +एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् +उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् +इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ +अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ +निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् +अभिवादयते पार्थः श्रोत्रे च परिपृच्छति +अर्जुन उवाच +इषुपाते च सेनाया हयान्संयच्छ सारथे +यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः +सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् +तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः +एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् +भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः +राजानं नात्र पश्याम�� गाः समादाय गच्छति +दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः +उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः +तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् +तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः +वैशंपायन उवाच +एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः +नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः +अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः +उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने +अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् +नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति +तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः +न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे +अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् +किं नो गावः करिष्यन्ति धनं वा विपुलं तथा +दुर्योधनः पार्थजले पुरा नौरिव मज्जति +तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः +शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् +कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः +नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः +तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः +शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा +ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् +विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् +तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च +अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् +ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः +गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् +वैशंपायन उवाच +स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः +दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् +गोषु प्रयातासु जवेन मत्स्या;न्किरीटिनं कृतकार्यं च मत्वा +दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः +तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि +मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच +एतेन तूर्णं प्रतिपादयेमा;ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् +जवेन सर्वेण कुरु प्रयत्न;मासादयैतद्रथसिंहवृन्दम् +गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः +तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् +स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः +विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये +तं चित्रसेनो विशिखैर्विपाठैः; संग्रामजिच्छत्रुसहो जयश्च +प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः +ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः +व्रातान्रथानामदहत्स मन्यु;र्वनं यथाग्निः कुरुपुंगवानाम् +तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन +विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद +ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् +अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन +तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि +शत्रुंतपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम् +स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् +शत्रुंतपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान +ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन +गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः +रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः +चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि +हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः +वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये +सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः +तथा स शत्रून्समरे विनिघ्न;न्गाण्डीवधन्वा पुरुषप्रवीरः +चचार संख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते +प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे +तथा सपत्नान्विकिरन्किरीटी; चचार संख्येऽतिरथो रथेन +शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः +एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली +तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः +प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् +स पाण्डवं द्वादशभिः पृषत्कै;र्वैकर्तनः शीघ्रमुपाजघान +विव्याध गात्रेषु हयांश्च सर्वा;न्विराटपुत्रं च शरैर्निजघ्ने +स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् +आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम् +अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी +स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः +स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी +विहाय संग्रामशिरः ��्रयातो; वैकर्तनः पाण्डवबाणतप्तः +वैशंपायन उवाच +अपयाते तु राधेये दुर्योधनपुरोगमाः +अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् +बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः +अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् +आस्थाय रुचिरं जिष्णो रथं सारथिना मया +कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया +अर्जुन उवाच +लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि +नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर +कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् +एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः +कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः +आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः +सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् +अत्रैव चाविरोधेन एष धर्मः सनातनः +यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति +ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति +अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते +आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः +सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि +एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः +य एष तु रथानीके सुवर्णकवचावृतः +सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति +यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः +धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः +एतस्याभिमुखं वीर रथं पररथारुजः +प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः +एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः +एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः +नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति +एष वैकर्तनः कर्णो विदितः पूर्वमेव ते +एतस्य रथमास्थाय राधेयस्य दुरात्मनः +यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा +यस्तु नीलानुसारेण पञ्चतारेण केतुना +हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् +यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः +यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति +महतो रथवंशस्य नानाध्वजपताकिनः +बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः +हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते +जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः +एष शांतनवो भीष्मः सर्वेषां नः पितामहः +राजश्रियावबद्धस्तु दुर्योधनवशानुगः +पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् +एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् +ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् +यत्रातिष्ठत्क��पो राजन्योत्स्यमानो धनंजयम् +वैशंपायन उवाच +तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् +संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः +अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः +भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः +ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् +सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः +तद्देवयक्षगन्धर्वमहोरगसमाकुलम् +शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् +अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् +तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे +शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः +मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् +तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् +विमानं देवराजस्य शुशुभे खेचरं तदा +तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः +गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः +तथा राजा वसुमना बलाक्षः सुप्रतर्दनः +अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः +मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः +विमाने देवराजस्य समदृश्यन्त सुप्रभाः +अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः +तथा धातुर्विधातुश्च कुबेरस्य यमस्य च +अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः +यथाभागं यथोद्देशं विमानानि चकाशिरे +सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः +अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः +दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः +प्रससार वसन्ताग्रे वनानामिव पुष्पताम् +रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् +आतपत्राणि वासांसि स्रजश्च व्यजनानि च +उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः +दिव्यान्गन्धानुपादाय वायुर्योधानसेवत +प्रभासितमिवाकाशं चित्ररूपमलंकृतम् +संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः +विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः +वैशंपायन उवाच +एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः +आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः +अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः +तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ +शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ +पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् +विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः +तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् +कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः +ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् +दिशः संछादयन्बाणैः प्रदिशश्च महारथः +एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः +प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् +स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः +तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् +अर्पयित्वा महात्मानं ननाद समरे कृपः +ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः +त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः +चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः +ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः +उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् +च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः +नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् +स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् +विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः +ततः पार्थो धनुस्तस्य भल्लेन निशितेन च +चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् +अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः +व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् +तस्य निर्मुच्यमानस्य कवचात्काय आबभौ +समये मुच्यमानस्य सर्पस्येव तनुर्यथा +छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् +चकार गौतमः सज्यं तदद्भुतमिवाभवत् +स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा +एवमन्यानि चापानि बहूनि कृतहस्तवत् +शारद्वतस्य चिच्छेद पाण्डवः परवीरहा +स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् +प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव +तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् +वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः +सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता +युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः +तमाशु निशितैः पार्थं बिभेद दशभिः शरैः +ततः पार्थो महातेजा विशिखानग्नितेजसः +चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् +अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् +षष्ठेन च शिरः कायाच्छरेण रथसारथेः +त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः +द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा +ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव +त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् +स छिन्नधन्वा विरथो हताश्वो हतसारथिः +गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् +सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता +अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् +ततो योधाः परीप्सन्तः शारद्वतम���र्षणम् +सर्वतः समरे पार्थं शरवर्षैरवाकिरन् +ततो विराटस्य सुतः सव्यमावृत्य वाजिनः +यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् +ततः कृपमुपादाय विरथं ते नरर्षभाः +अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात् +अर्जुन उवाच +यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा +उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता +तत्र मां वह भद्रं ते द्रोणानीकाय मारिष +अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः +स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः +युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः +दीर्घबाहुर्महातेजा बलरूपसमन्वितः +सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् +बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये +वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च +ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष +धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः +क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् +एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे +तेनाहं योद्धुमिच्छामि महाभागेन संयुगे +तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय +वैशंपायन उवाच +अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् +चोदयामास तानश्वान्भारद्वाजरथं प्रति +तमापतन्तं वेगेन पाण्डवं रथिनां वरम् +द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् +ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् +प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः +अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः +मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः +तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि +आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ +समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ +दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् +हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् +रथं रथेन द्रोणस्य समासाद्य महारथः +अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः +उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा +उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः +कोपं नार्हसि नः कर्तुं सदा समरदुर्जय +अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ +इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति +ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् +अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् +ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् +अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् +एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः +समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः +तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे +उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ +क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् +व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः +शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् +द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् +रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत +इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः +वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ +छादयेतां शरव्रातैरन्योन्यमपराजितौ +विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् +संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत +स सायकमयैर्जालैरर्जुनस्य रथं प्रति +भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् +पार्थं च स महाबाहुर्महावेगैर्महारथः +विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् +तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः +शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् +विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् +नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् +तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् +स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः +युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् +एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः +नादृश्यत तदा द्रोणो नीहारेणेव संवृतः +तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः +जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः +दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् +स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् +अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् +व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः +महानभूत्ततः शब्दो वंशानामिव दह्यताम् +जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः +प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् +ततः कनकपुङ्खानां शराणां नतपर्वणाम् +वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः +द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् +एको दीर्घ इवादृश्यदाकाशे संहतः शरः +एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् +आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः +शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः +पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव +युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः +द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव +तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् +शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः +तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ +उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः +अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् +न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः +दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः +इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् +जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् +आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः +अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः +दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे +अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् +तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः +अमर्षिणोस्तदान्योन्यं देवदानवयोरिव +ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः +द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः +एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् +एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः +ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु +पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः +ततो नागा रथाश्चैव सादिनश्च विशां पते +शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः +बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः +सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः +योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः +बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे +विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने +आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः +अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् +दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् +प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् +जेतारं देवदैत्यानां सर्पाणां च महारथम् +अविश्रमं च शिक्षां च लाघवं दूरपातिताम् +पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः +अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः +विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ +तस्य बाणमयं वर्षं शलभानामिवायतम् +न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् +अनिशं संदधानस्य शरानुत्सृजतस्तदा +ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च +तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे +शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् +ततः शतसहस्राणि शराणां नतपर्वणाम् +य��गपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् +अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना +हाहाकारो महानासीत्सैन्यानां भरतर्षभ +पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् +गन्धर्वाप्सरसश्चैव ये च तत्र समागताः +ततो वृन्देन महता रथानां रथयूथपः +आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् +अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः +पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् +स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे +किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् +आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् +अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् +स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः +छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः +वैशंपायन उवाच +तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् +शरजालेन महता वर्षमाणमिवाम्बुदम् +तयोर्देवासुरसमः संनिपातो महानभूत् +किरतोः शरजालानि वृत्रवासवयोरिव +न स्म सूर्यस्तदा भाति न च वाति समीरणः +शरगाढे कृते व्योम्नि छायाभूते समन्ततः +महांश्चटचटाशब्दो योधयोर्हन्यमानयोः +दह्यतामिव वेणूनामासीत्परपुरंजय +हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् +स राजन्न प्रजानाति दिशं कांचन मोहितः +ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः +विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह +तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् +ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् +पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः +ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा +योजयामास नवया मौर्व्या गाण्डीवमोजसा +ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् +वारणेनेव मत्तेन मत्तो वारणयूथपः +ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः +रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् +तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः +युध्यमानौ महात्मानौ यूथपाविव संगतौ +तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ +शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः +अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः +तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः +अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे +जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः +ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा +अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् +तत्र चक्षुर्दधे पार्थ�� यत्र विस्फार्यते धनुः +ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् +स रोषवशमापन्नः कर्णमेव जिघांसया +अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः +तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् +त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः +उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः +अभिदुद्राव सहसा कर्णमेव सपत्नजित् +तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः +कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् +अर्जुन उवाच +कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् +न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् +अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् +इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् +यत्त्वया कथितं पूर्वं मामनासाद्य किंचन +तदद्य कुरु राधेय कुरुमध्ये मया सह +यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः +दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् +धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा +तस्य राधेय कोपस्य विजयं पश्य मे मृधे +एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् +प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः +कर्ण उवाच +ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर +अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि +यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् +इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् +धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा +तथैव बद्धमात्मानमबद्धमिव मन्यसे +यदि तावद्वने वासो यथोक्तश्चरितस्त्वया +तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि +यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् +तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः +अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः +योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् +अर्जुन उवाच +इदानीमेव तावत्त्वमपयातो रणान्मम +तेन जीवसि राधेय निहतस्त्वनुजस्तव +भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः +त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः +वैशंपायन उवाच +इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः +अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः +प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् +शरवर्षेण महता वर्षमाण इवाम्बुदः +उत्पेतुः शरजालानि घोररूपाणि सर्वशः +अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् +सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् +चिच्छेद निशिताग्रेण शरेण नत��र्वणा +उपासङ्गादुपादाय कर्णो बाणानथापरान् +विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत +ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् +स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः +ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः +तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् +ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः +आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि +अथापरेण बाणेन ज्वलितेन महाभुजः +विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् +तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः +ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् +स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः +ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः +वैशंपायन उवाच +ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् +एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः +अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः +काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः +आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे +अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय +शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे +सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम +दक्षिणेनाथ वामेन कतरेण स्विदस्यति +इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः +शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् +नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् +पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् +वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः +जयतः कौरवीं सेनामेकस्य मम धन्विनः +शतं मार्गा भविष्यन्ति पावकस्येव कानने +मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् +असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च +दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः +अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा +पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च +अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् +प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः +अहं पारे समुद्रस्य हिरण्यपुरमारुजम् +जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् +ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् +वनमादीपयिष्यामि कुरूणामस्त्रतेजसा +तानहं रथनीडेभ्यः शरैः संनतपर्वभिः +एकः संकालयिष्यामि वज्रपाणिरिवासुरान् +रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि +अस्त्रमाग्नेयमग्नेश्च वायव्���ं मातरिश्वनः +वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् +धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् +अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् +एवमाश्वासितस्तेन वैराटिः सव्यसाचिना +व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः +तमायान्तं महाबाहुं जिगीषन्तं रणे परान् +अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् +तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः +आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः +दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः +आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् +दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् +द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे +तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् +चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् +अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे +सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः +तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः +विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः +ततस्तमपि कौन्तेयः शरेणानतपर्वणा +ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् +ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः +अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे +तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः +विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् +तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ +अभिपत्य रथैरन्यैरपनीतौ पदानुगैः +सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः +किरीटमाली कौन्तेयो लब्धलक्षो महाबलः +वैशंपायन उवाच +अथ संगम्य सर्वे तु कौरवाणां महारथाः +अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत +स सायकमयैर्जालैः सर्वतस्तान्महारथान् +प्राच्छादयदमेयात्मा नीहार इव पर्वतान् +नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः +भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् +नराश्वकायान्निर्भिद्य लोहानि कवचानि च +पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः +त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे +मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः +उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा +सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः +शरैः संताड्यमानानां कवचानां महात्मनाम् +ताम्रराजतलोहानां प्रादुरासीन्महास्वनः +छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् +गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः +रथोपस्थाभ��पतितैरास्तृता मानवैर्मही +प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः +श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः +त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् +कुण्डलोष्णीषधारीणि जातरूपस्रजानि च +पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि +विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः +सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी +शिरसां पात्यमानानामन्तरा निशितैः शरैः +अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ +दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः +अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च +क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः +तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् +सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः +वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् +अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत +प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् +अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् +शरचापप्लवां घोरां मांसशोणितकर्दमाम् +महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् +चकार महतीं पार्थो नदीमुत्तरशोणिताम् +आददानस्य हि शरान्संधाय च विमुञ्चतः +विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् +वैशंपायन उवाच +अथ दुर्योधनः कर्णो दुःशासनविविंशती +द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे +पुनरीयुः सुसंरब्धा धनंजयजिघांसया +विस्फारयन्तश्चापानि बलवन्ति दृढानि च +तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा +प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः +ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः +तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम् +शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः +ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् +इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः +अदूरात्पर्यवस्थाय पूरयामासुरादृताः +तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः +न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत +ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः +अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् +स रश्मिभिरिवादित्यः प्रतपन्समरे बली +किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् +यथा बलाहके विद्युत्पावको वा शिलोच्चये +तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् +यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि +तथा दश दिशः सर्वाः पतद्गाण्���ीवमावृणोत् +त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः +सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे +संग्रामविमुखाः सर्वे योधास्ते हतचेतसः +एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ +प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते +वैशंपायन उवाच +ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् +वध्यमानेषु योधेषु धनंजयमुपाद्रवत् +प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् +शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः +पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि +शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा +प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् +प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् +तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा +प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः +ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् +समपर्यन्महावेगाञ्श्वसमानानिवोरगान् +ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः +ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् +ततो भल्लेन महता पृथुधारेण पाण्डवः +छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि +ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् +शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी +तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् +भीष्मस्य सह पार्थेन बलिवासवयोरिव +भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि +अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि +अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः +गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् +स तैः संछादयामास भीष्मं शरशतैः शितैः +पर्वतं वारिधाराभिश्छादयन्निव तोयदः +तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् +व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् +ततस्तानि निकृत्तानि शरजालानि भागशः +समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति +ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् +पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् +व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः +ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् +दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् +बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः +कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे +ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् +आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् +अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ +चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ +प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् +कौबेरं वारुणं चैव याम्यं वायव्यमेव च +प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः +विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा +साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् +नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् +महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः +एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत +अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् +चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् +निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे +समादाय महाबाहुः सज्यं चक्रे महाबलः +शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये +अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् +चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे +तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् +न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः +अथावृणोद्दश दिशः शरैरतिरथस्तदा +किरीटमाली कौन्तेयः शूरः शांतनवस्तथा +अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् +बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम् +पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः +शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् +ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः +आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः +निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः +आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः +तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः +प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः +तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् +शशंस देवराजाय चित्रसेनः प्रतापवान् +पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः +चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः +नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते +पौराणानां महास्त्राणां विचित्रोऽयं समागमः +मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे +न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् +उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ +उभौ सदृशकर्माणावुभौ युधि दुरासदौ +इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् +पूजयामास दिव्येन पुष्पवर्षेण भारत +ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् +अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः +ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् +न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः +अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे +यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः +स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् +गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः +तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् +उपदेशमनुस्मृत्य रक्षमाणो महारथम् +वैशंपायन उवाच +भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः +उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद +स भीमधन्वानमुदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम् +आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये +स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन +रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः +अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम् +सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म +स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः +शरानुपादाय विषाग्निकल्पा;न्विव्याध राजानमदीनसत्त्वः +दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः +अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ +ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः +रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् +तमापतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये +आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन +पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् +विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः +शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा +संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य +निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य +तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह +निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् +तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद +ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे +गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना;स्ते योधमुख्याः सहसापजग्मुः +दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य +रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः +तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्���ुसहो निषङ्गी +प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् +अर्जुन उवाच +विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम् +न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे +युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि +तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र +मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् +न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय +न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् +परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष +वैशंपायन उवाच +आहूयमानस्तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः +निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन +सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी +पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः +तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः +दुर्योधनं दक्षिणतोऽभ्यगच्छ;त्पार्थं नृवीरो युधि हेममाली +भीष्मस्ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान् +दुर्योधनं पश्चिमतोऽभ्यरक्ष;त्पार्थान्महाबाहुरधिज्यधन्वा +द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् +सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः +स तान्यनीकानि निवर्तमाना;न्यालोक्य पूर्णौघनिभानि पार्थः +हंसो यथा मेघमिवापतन्तं; धनंजयः प्रत्यपतत्तरस्वी +ते सर्वतः संपरिवार्य पार्थ;मस्त्राणि दिव्यानि समाददानाः +ववर्षुरभ्येत्य शरैः समन्ता;न्मेघा यथा भूधरमम्बुवेगैः +ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम् +संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् +ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः +गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार +ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् +व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता +ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन +उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः +तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः +निर्य���हि मध्यादिति मत्स्यपुत्र;मुवाच यावत्कुरवो विसंज्ञाः +आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् +द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर +भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः +एतस्य वाहान्कुरु सव्यतस्त्व;मेवं हि यातव्यममूढसंज्ञैः +रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः +वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह +ततोऽन्वशासच्चतुरः सदश्वा;न्पुत्रो विराटस्य हिरण्यकक्ष्यान् +ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् +तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी +स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः +ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा +तस्थौ विमुक्तो रथवृन्दमध्या;द्राहुं विदार्येव सहस्ररश्मिः +लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् +रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे +अयं कथं स्विद्भवतां विमुक्त;स्तं वै प्रबध्नीत यथा न मुच्येत् +तमब्रवीच्छांतनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् +शान्तिं पराश्वस्य यथा स्थितोऽभू;रुत्सृज्य बाणांश्च धनुश्च चित्रम् +न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् +त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् +क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः +दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ +अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् +तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम् +निवर्तनायैव मनो निदध्यु;र्दुर्योधनं ते परिरक्षमाणाः +तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान् +आभाषमाणोऽनुययौ मुहूर्तं; संपूजयंस्तत्र गुरून्महात्मा +पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना +द्रौणिं कृपं चैव गुरूंश्च सर्वा;ञ्शरैर्विचित्रैरभिवाद्य चैव +दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण +आमन्त्र्य वीरांश्च तथैव मान्या;न्गाण्डीवघोषेण विनाद्य लोकान् +स देवदत्तं सहस��� विनाद्य; विदार्य वीरो द्विषतां मनांसि +ध्वजेन सर्वानभिभूय शत्रू;न्स हेमजालेन विराजमानः +दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् +आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः +वैशंपायन उवाच +ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः +समानयामास तदा विराटस्य धनं महत् +गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः +वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः +भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः +मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा +क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः +ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते +अर्जुन उवाच +स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन +नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः +वैशंपायन उवाच +तस्य तामभयां वाचं श्रुत्वा योधाः समागताः +आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् +ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः +पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् +राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः +गोकुलानि महाबाहो वीर गोपालकैः सह +ततोऽपराह्णे यास्यामो विराटनगरं प्रति +आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः +गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया +नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् +वैशंपायन उवाच +उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः +वचनादर्जुनस्यैव आचक्षध्वं जयं मम +वैशंपायन उवाच +अवजित्य धनं चापि विराटो वाहिनीपतिः +प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः +जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः +अशोभत महाराजः सह पार्थैः श्रिया वृतः +तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् +उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह +सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् +विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा +ततः स राजा मत्स्यानां विराटो वाहिनीपतिः +उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् +आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि +अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् +विजेतुमभिसंरब्ध एक एवातिसाहसात् +बृहन्नडासहायश्च निर्यातः पृथिवींजयः +उपयातानतिरथान्द्रोणं शांतनवं कृपम् +कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् +राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सु���ं ह्येकरथेन यातम् +बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् +सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः +त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन +तस्माद्गच्छन्तु मे योधा बलेन महता वृताः +उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः +हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान् +प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान् +एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः +व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् +कुमारमाशु जानीत यदि जीवति वा न वा +यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति +तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् +बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः +सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान् +अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन +अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः +विराटनगरं प्राप्य जयमावेदयंस्तदा +राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् +पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् +सर्वा विनिर्जिता गावः कुरवश्च पराजिताः +उत्तरः सह सूतेन कुशली च परंतप +कङ्क उवाच +दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः +दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ +नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् +ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा +वैशंपायन उवाच +ततो विराटो नृपतिः संप्रहृष्टतनूरुहः +श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः +आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् +राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः +पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः +कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः +वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम +घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् +शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम +उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता +शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् +श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च +भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च +तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः +पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् +प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः +मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् +अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् +तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत +न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् +न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे +प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे +विराट उवाच +स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन +न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् +कङ्क उवाच +किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद +देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् +श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः +स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् +द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये +अथ वा मन्यसे राजन्दीव्याव यदि रोचते +वैशंपायन उवाच +प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् +पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः +ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः +बृहन्नडा यस्य यन्ता कथं स न विजेष्यति +इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् +समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि +वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे +भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति +वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे +नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि +युधिष्ठिर उवाच +यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः +दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः +मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः +कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् +विराट उवाच +बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि +नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् +वैशंपायन उवाच +ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् +मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् +बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् +तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत +अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् +सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा +पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता +तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् +अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा +अवकीर्यमाणः संहृष्टो नगर�� स्वैरमागमत् +सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा +आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् +ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् +बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः +ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् +प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः +क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् +उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा +एतस्य हि महाबाहो व्रतमेतत्समाहितम् +यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् +अन्यत्र संग्रामगतान्न स जीवेदसंशयम् +न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् +विराटमिह सामात्यं हन्यात्सबलवाहनम् +वैशंपायन उवाच +ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः +सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत +स तं रुधिरसंसिक्तमनेकाग्रमनागसम् +भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् +ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः +केनायं ताडितो राजन्केन पापमिदं कृतम् +विराट उवाच +मयायं ताडितो जिह्मो न चाप्येतावदर्हति +प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति +उत्तर उवाच +अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् +मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् +वैशंपायन उवाच +स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः +क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् +क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत +चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम +यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः +सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः +न दूषयामि ते राजन्यच्च हन्याददूषकम् +बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् +शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा +अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत +क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् +प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः +त्वया दायादवानस्मि कैकेयीनन्दिवर्धन +त्वया मे सदृशः पुत्रो न भूतो न भविष्यति +पदं पदसहस्रेण यश्चरन्नापराध्नुयात् +तेन कर्णेन ते तात कथमासीत्समागमः +मनुष्यलोके सकले यस्य तुल्यो न विद्यते +यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः +तेन भीष्मेण ते तात कथमासीत्समागमः +आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः +सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः +तेन द्रोणे�� ते तात कथमासीत्समागमः +आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि +अश्वत्थामेति विख्यातः कथं तेन समागमः +रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा +कृपेण तेन ते तात कथमासीत्समागमः +पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः +दुर्योधनेन ते तात कथमासीत्समागमः +उत्तर उवाच +न मया निर्जिता गावो न मया निर्जिताः परे +कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् +स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् +स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा +तेन ता निर्जिता गावस्तेन ते कुरवो जिताः +तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् +स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् +सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः +दुर्योधनं च समरे सनागमिव यूथपम् +प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् +न हास्तिनपुरे त्राणं तव पश्यामि किंचन +व्यायामेन परीप्सस्व जीवितं कौरवात्मज +न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु +पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि +स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् +सचिवैः संवृतो राजा रथे नाग इव श्वसन् +तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष +यदभ्रघनसंकाशमनीकं व्यधमच्छरैः +तत्प्रणुद्य रथानीकं सिंहसंहननो युवा +कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली +एकेन तेन वीरेण षड्रथाः परिवारिताः +शार्दूलेनेव मत्तेन मृगास्तृणचरा वने +विराट उवाच +क्व स वीरो महाबाहुर्देवपुत्रो महायशाः +यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे +इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् +येन मे त्वं च गावश्च रक्षिता देवसूनुना +उत्तर उवाच +अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् +स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति +वैशंपायन उवाच +एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् +वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् +ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना +प्रददौ तानि वासांसि विराटदुहितुः स्वयम् +उत्तरा तु महार्हाणि विविधानि तनूनि च +प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी +मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा +इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे +ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ +सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः +वैशंपायन उवाच +ततस्तृतीये दिवसे भ्रातरः पञ��च पाण्डवाः +स्नाताः शुक्लाम्बरधराः समये चरितव्रताः +युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः +अभिपद्मा यथा नागा भ्राजमाना महारथाः +विराटस्य सभां गत्वा भूमिपालासनेष्वथ +निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः +तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः +आजगाम सभां कर्तुं राजकार्याणि सर्वशः +श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव +अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् +मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् +स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः +अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः +परिहासेप्सया वाक्यं विराटस्य निशम्य तत् +स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् +इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति +ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः +अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः +अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा +संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः +उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः +एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् +अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् +त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः +सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा +एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः +अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः +एनं नित्यमुपासन्त कुरवः किंकरा यथा +सर्वे च राजन्राजानो धनेश्वरमिवामराः +एष सर्वान्महीपालान्करमाहारयत्तदा +वैश्यानिव महाराज विवशान्स्ववशानपि +अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् +उपजीवन्ति राजानमेनं सुचरितव्रतम् +एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् +पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो +एष धर्मे दमे चैव क्रोधे चापि यतव्रतः +महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः +श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः +सगणः सह कर्णेन सौबलेनापि वा विभुः +न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर +एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः +एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः +कथं नार्हति राजार्हमासनं पृथिवीपतिः +विराट उवाच +यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः +कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली +नकुलः सहदेवो वा द्रौपदी वा यशस्विनी +यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्व���ित् +अर्जुन उवाच +य एष बल्लवो ब्रूते सूदस्तव नराधिप +एष भीमो महाबाहुर्भीमवेगपराक्रमः +एष क्रोधवशान्हत्वा पर्वते गन्धमादने +सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् +गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् +व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव +यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः +गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ +शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ +नानारथसहस्राणां समर्थौ पुरुषर्षभौ +एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी +सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः +अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः +भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः +उषिताः स्म महाराज सुखं तव निवेशने +अज्ञातवासमुषिता गर्भवास इव प्रजाः +वैशंपायन उवाच +यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः +तदार्जुनस्य वैराटिः कथयामास विक्रमम् +अयं स द्विषतां मध्ये मृगाणामिव केसरी +अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् +अनेन विद्धो मातङ्गो महानेकेषुणा हतः +हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम् +अनेन विजिता गावो जिताश्च कुरवो युधि +अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ +तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् +उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे +प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये +उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् +उत्तर उवाच +अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् +पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः +विराट उवाच +अहं खल्वपि संग्रामे शत्रूणां वशमागतः +मोक्षितो भीमसेनेन गावश्च विजितास्तथा +एतेषां बाहुवीर्येण यदस्माकं जयो मृधे +वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् +प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् +यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः +क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः +वैशंपायन उवाच +ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार +राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा +पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् +धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् +समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः +युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ +नातृप्यद्दर्शने तेषां व��राटो वाहिनीपतिः +संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् +दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् +दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः +इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन +प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया +उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः +अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः +एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम् +ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् +प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव +युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ +विराट उवाच +किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम +प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि +अर्जुन उवाच +अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव +रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि +प्रियो बहुमतश्चाहं नर्तको गीतकोविदः +आचार्यवच्च मां नित्यं मन्यते दुहिता तव +वयःस्थया तया राजन्सह संवत्सरोषितः +अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो +तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते +शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया +स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः +अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति +अभिषङ्गादहं भीतो मिथ्याचारात्परंतप +स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् +स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा +दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः +अभिमन्युर्महाबाहुः पुत्रो मम विशां पते +जामाता तव युक्तो वै भर्ता च दुहितुस्तव +विराट उवाच +उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये +य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः +यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् +सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः +वैशंपायन उवाच +एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः +अन्वजानात्स संयोगं समये मत्स्यपार्थयोः +ततो मित्रेषु सर्वेषु वासुदेवे च भारत +प्रेषयामास कौन्तेयो विराटश्च महीपतिः +ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः +उपप्लव्ये विराटस्य समपद्यन्त सर्वशः +तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् +आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः +काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे +अक्षौहिणीभ्यां सहितावागतौ पृ��िवीपते +अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः +द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः +धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः +समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः +सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः +तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः +प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे +ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः +तत्रागमद्वासुदेवो वनमाली हलायुधः +कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः +अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च +अभिमन्युमुपादाय सह मात्रा परंतपाः +इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः +आययुः सहिताः सर्वे परिसंवत्सरोषिताः +दश नागसहस्राणि हयानां च शतायुतम् +रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् +वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः +अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् +पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् +स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः +ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः +ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा +पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि +उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् +सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् +गायनाख्यानशीलाश्च नटा वैतालिकास्तथा +स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः +सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः +आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः +वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः +सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया +परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम् +सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे +तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः +सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा +तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् +स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः +प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् +विवाहं कारयामास सौभद्रस्य महात्मनः +तस्मै सप्त सहस्राणि हयानां वातरंहसाम् +द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा +कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः +ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः +गोसहस्राणि रत्नानि वस्त्राणि विविधानि च +भूषणानि च मुख्यानि यानानि शयनानि च +तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम् +नगरं मत्स्यराजस्य शुशुभे भरतर्षभ