diff --git "a/DharmicData/Ramayana/ValmikiRamayana.txt" "b/DharmicData/Ramayana/ValmikiRamayana.txt"
new file mode 100644--- /dev/null
+++ "b/DharmicData/Ramayana/ValmikiRamayana.txt"
@@ -0,0 +1,22742 @@
+तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥
+कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो धृढव्रतः ॥१-१-२॥
+चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान् कः कः समर्थश्च कश्च एक प्रियदर्शनः ॥१-१-३॥
+आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः ।कस्य बिभ्यति देवाः च जात रोषस्य संयुगे ॥१-१-४॥
+एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे ।महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् ॥१-१-५॥
+श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः ।श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् ॥१-१-६॥
+बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः ।मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः ॥१-१-७॥
+इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः ।नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥
+बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः ।विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः ॥१-१-९॥
+महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः ।आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
+समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् ।पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥
+धर्मज्ञः सत्यसन्धः च प्रजानाम् च हिते रतः ।यशस्वी ज्ञानसंपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥
+प्रजापति समः श्रीमान् धता रिपु निषूदनः ।रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥
+रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता ।वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः ॥१-१-१४॥
+सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः ॥१-१-१५॥
+सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः ।अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः ॥१-१-१६॥
+स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः ।समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१-१-१७॥
+विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः ।काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥
+धनदेन समः त्यागे सत्ये धर्म इव अपरः ।तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥
+ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् ।प्रकृतीनाम् हितैः ��ुक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥
+यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥
+पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत ।विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥
+स सत्य वचनात् राजा धर्म पाशेन संयतः ।विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१-१-२३॥
+स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् ।पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥
+तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह ।स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥
+भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥
+जनकस्य कुले जाता देव मायेव निर्मिता ।सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥
+सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥
+शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् ।गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥
+गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥
+चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् ।रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
+देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥
+राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥
+नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः ।स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥
+गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् ।अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥
+त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥
+न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥
+निवर्तयामास ततो भरतम् भरत अग्रजः ।स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥
+नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥
+रामः तु पुनः आलक्ष्य नागरस्य जनस्य च ।तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
+प्रविश्य तु महाअरण्यम् रामो राजीव लो���नः ।विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥
+सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥
+खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥
+ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥
+प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् ।ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥
+तेन तत्र एव वसता जनस्थान निवासिनी ।विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥
+ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥
+निजघान रणे रामः तेषाम् च एव पद अनुगान् ।वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥
+रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश ।ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥
+सहायम् वरयामास मारीचम् नाम राक्षसम् ।वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
+न विरोधो बलवता क्षमो रावण तेन ते ।अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥
+जगाम सह मारीचः तस्य आश्रम पदम् तदा ।तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥
+जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥
+राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥
+मार्गमाणो वने सीताम् राक्षसम् संददर्श ह ।कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥
+तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः ।स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥
+श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥
+शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥
+हनुमत् वचनात् च एव सुग्रीवेण समागतः ।सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥
+आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥
+चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥
+रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।प्रतिज्ञातम् च रामे�� तदा वालि वधम् प्रति ॥१-१-६२॥
+वालिनः च बलम् तत्र कथयामास वानरः ।सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥
+राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् ।दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥
+उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः ।पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् ॥१-१-६५॥
+बिभेद च पुनः सालान् सप्त एकेन महा इषुणा ।गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा ॥१-१-६६॥
+ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः ।किष्किंधाम् राम सहितो जगाम च गुहाम् तदा ॥१-१-६७॥
+ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः ।तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
+अनुमान्य तदा ताराम् सुग्रीवेण समागतः ।निजघान च तत्र एनम् शरेण एकेन राघवः ॥१-१-६९॥
+ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे ।सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
+स च सर्वान् समानीय वानरान् वानरर्षभः ।दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् ॥१-१-७१॥
+ततो गृध्रस्य वचनात् संपातेः हनुमान् बली ।शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् ॥१-१-७२॥
+तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् ।ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् ॥१-१-७३॥
+निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च ।समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१-१-७४॥
+पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि ।शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१-१-७५॥
+अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् ।मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया ॥१-१-७६॥
+ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् ।रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः ॥१-१-७७॥
+सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् ।न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः ॥१-१-७८॥
+ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः ।समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः ॥१-१-७९॥
+दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः ।समुद्र वचनात् च एव नलम् सेतुम् अकारयत् ॥१-१-८०॥
+तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे ।रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१-१-८१॥
+ताम् उवाच ततः रामः परुषम् जन संसदि ।अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१-१-८२॥
+ततः अग्नि वचन��त् सीताम् ज्ञात्वा विगत कल्मषाम् ।कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१-१-८३॥
+स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः ॥बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः ॥१-१-८४॥
+अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् ।कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
+देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् ।अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः ॥१-१-८६॥
+भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः ।भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् ॥१-१-८७॥
+पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा ।पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा ॥१-१-८८॥
+नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः ।रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् ॥१-१-८९॥
+प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः ।निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥
+न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः ॥१-१-९१॥
+न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः ।न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥
+न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥
+नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥
+गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् ।असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥
+राज वंशान् शत गुणान् स्थाप इष्यति राघवः ।चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
+दश वर्ष सहस्राणि दश वर्ष शतानि च ।रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति ॥१-१-९७॥
+इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् ।यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते ॥१-१-९८॥
+एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः ।स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
+पठन् द्विजो वाक् ऋषभत्वम् ईयात् ।स्यात् क्षत्रियो भूमि पतित्वम् ईयात् ॥वणिक् जनः पण्य फलत्वम् ईयात् ।जनः च शूद्रो अपि महत्त्वम् ईयात् ॥१-१-१००॥
+नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्य विशारदः ।पूजयामास धर्मात्मा सह शिष्यो महामुनिः ॥१-२-१॥
+यथावत् पूजितः तेन देवर्षिः नारदः तथा ।आपृच्छैव अभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
+स मुहूर्तं गते तस्मिन् देवलोकम् मुनिः तदा ।जगाम तमसा तीरम् जाह्नव्यात् अविदूरतः ॥१-२-३॥
+स तु तीरम् समासाद्य तमसाया मुनिः तदा ।शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् ॥१-२-४॥
+अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय ।रमणीयम् प्रसन्न अम्बु सन् मनुष्य मनो यथा ॥१-२-५॥
+न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम ।इदम् एव अवगाहिष्ये तमसा तीर्थम् उत्तमम् ॥१-२-६॥
+एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना ।प्रयच्छत मुनेः तस्य वल्कलम् नियतः गुरोः ॥१-२-७॥
+स शिष्य हस्तात् आदाय वल्कलम् नियतेन्द्रियः ।विचचार ह पश्यन् तत् सर्वतो विपुलम् वनम् ॥१-२-८॥
+तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् ।ददर्श भगवान् तत्र क्रौङ्चयोः चारु निस्वनम् ॥१-२-९॥
+तस्मात् तु मिथुनात् एकम् पुमांसम् पाप निश्चयः ।जघान वैरनिलयो निषादः तस्य पश्यतः ॥१-२-१०॥
+तम् शोणित परीताङ्गम् चेष्टमानम् महीतले ।भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम् ॥१-२-११॥
+वियुक्ता पतिना तेन द्विजेन सहचारिणा ।ताम्र शीर्षेण मत्तेन पत्रिणा सहितेन वै ॥१-२-१२॥
+तथा विधिम् द्विजम् दृष्ट्वा निषादेन निपातितम् ।ऋशेः धर्मात्मानः तस्य कारुण्यम् समपद्यत ॥१-२-१३॥
+ततः करुण वेदित्वात् अधर्मो अयम् इति द्विजः ।निशाम्य रुदतीम् क्रौन्चीम् इदम् वचनम् अब्रैइत् ॥१-२-१४॥
+मा निषाद प्रतिष्ठाम्त्व ।मगमः शाश्वतीः समाः ।यत् क्रौङ्च मिथुनात् एक ।मवधीः काम मोहितम् ॥१-२-१५॥
+तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः ।शोकार्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया ॥१-२-१६॥
+चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् ।शिश्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनिपुङ्गवः ॥१-२-१७॥
+पाद बद्धः अक्षर समः तन्त्री लय समन्वितः ।शोकार्तस्य प्रवृत्तो मे श्लोको भवतु न अन्यथा ॥१-२-१८॥
+शिष्यः तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् ।प्रति जग्राह संतुष्टः तस्य तुष्टोअः अभवत् मुनिः ॥१-२-१९॥
+सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः ॥१-२-२०॥
+भरद्वाजः ततः शिष्यो विनीतः श्रुतवान् गुरोः ।कलशम् पूर्णमादाय पृष्ठतः अनुजगाम ह ॥१-२-२१॥
+स प्रविश्य आश्रम पदम् शिष्येण सह धर्मवित् ।उपविष्टः कथाः च अन्याः चकार ध्यानमास्थितः ॥१-२-२२॥
+आजगाम ततः ब्रह्मो लोककर्ता स्वयम् प्रभुः ।चतुर् मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवम् ॥१-२-२३॥
+वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः ।प्रान्जलिः प्रयतो भूत्वा तस्थौ परम विस्मितः ॥१-२-२४॥
+पूजयामास तम् देवम् पाद्य अर्घ्य आसन वन्दनैः ।प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम् ॥१-२-२५॥
+अथ उपविश्य भगवान् आसने परम अर्चिते ।वाल्मीकये च ऋषये सन्दिदेश आसनम् ततः ॥१-२-२६॥
+ब्रह्मणा समनुज्ञातः सोऽपि उपाविशत् आसने ।उपविष्टे तदा तस्मिन् साक्षात् लोक पितामहे ॥१-२-२७॥
+तत् गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः।पापात्मना कृतम् कष्टम् वैर ग्रहण बुद्धिना ॥१-२-२८॥
+यत् तादृशम् चारुरवम् क्रौन्चम् हन्यात् अकारणात्।शोचन् एव पुनः क्रौन्चीम् उप श्लोकम् इमम् जगौ ॥१-२-२९॥
+पुनर् अन्तर्गत मना भूत्वा शोक परायणः।तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् ॥१-२-३०॥
+श्लोक एवास्त्वयाम् बद्धो न अत्र कार्या विचारणा।मत् च्छन्दात् एव ते ब्रह्मन् प्रवृत्ते अयम् सरस्वती ॥१-२-३१॥
+रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषिसत्तम ।धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
+वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् ।रहस्यम् च प्रकाशम् च यद् वृत्तम् तस्य धीमतः ॥१-२-३३॥
+रामस्य सह सौमित्रे राक्षसानाम् च सर्वशः ।वैदेह्याः च एव यद् वृत्तम् प्रकाशम् यदि वा रहः ॥१-२-३४॥
+तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति ।न ते वाक् अनृता काव्ये काचित् अत्र भविष्यति ॥१-२-३५॥
+कुरु राम कथाम् पुण्याम् श्लोक बद्धाम् मनोरमाम् ।यावत् स्थास्यन्ति गिरयः सरितः च महीतले ॥१-२-३६॥
+तावत् रामायण कथा लोकेषु प्रचरिष्यति ।यावत् रामस्य च कथा त्वत् कृता प्रचरिष्यति ॥१-२-३७॥
+तावत् ऊर्ध्वम् अधः च त्वम् मत् लोकेषु निवत्स्यसि ।इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत ।ततः स शिष्यो भगवान् मुनिः विस्मयम् आययौ ॥१-२-३८॥
+तस्य शिष्याः ततः सर्वे जगुः श्लोकम् इमम् पुनः ।मुहुर् मुहुः प्रीयमाणाः प्राहुः च भृश विस्मिताः ॥१-२-३९॥
+समाक्षरैः चतुर्भिः यः पादैः गीतो महर्षिणा ।सः अनुव्याहरणात् भूयः शोकः श्लोकत्वम् आगतः ॥१-२-४०॥
+तस्य बुद्धिः इयम् जाता महर्षेः भावितात्मनः ।कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाण्यहम् ॥१-२-४१॥
+उदार वृत्त अर्थ पदैः मनोरमैःतदा अस्य रामस्य चकार कीर्तिमान् ।सम अक्षरैः श्लोक शतैः यशस्विनोयशस्करम् काव्यम् उदार दर्शनः ॥१-२-४२॥
+तद् उपगत समास सन्धि योगम्सम मधुरोपनत अर्थ वाक्य बद्धम् ।रघुवर चरितम् मुनिप्रणीतम्दश शिरसः च वधम् निशामय अध्वम् ॥१-२-४३॥
+श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१।॥
+उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२।॥
+राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३।॥
+हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४।॥
+स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५।॥
+ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६।॥
+तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिःअभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७।॥
+कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८।॥
+स यथा कथितम् पूर्वम् नारदेन महात्मना ।रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९।॥
+जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०।॥
+नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११।॥
+राम राम विवादम् च गुणान् दाशरथेः तथा ।तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२।॥
+विघातम् च अभिषेकस्य राघवस्य विवासनम् ।राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३।॥
+प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४।॥
+गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५।॥
+वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६।॥
+पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७।॥
+दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।अनसू��ा समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८।॥
+दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९।॥
+वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०।॥
+राघवस्य विलापम् च गृध्र राज निबर्हणम् ।कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१।॥
+शबरी दर्शनम् च एव फल मूल अशनम् तथा ।प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२।॥
+ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३।॥
+वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४।॥
+कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५।॥
+अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६।॥
+पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७।॥
+राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८।॥
+रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९।॥
+दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०।॥
+अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१।॥
+मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२।॥
+ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३।॥
+राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४।॥
+प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५।॥
+कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६।॥
+विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७।॥
+प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८।॥
+अनागतम् च यत् किंचिद् रामस्य वसु���ा तले ।तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥
+प्राप्त राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।चकार चरितम् कृत्स्नम् विचित्र पदम् अर्थवत् ॥१-४-१॥
+चतुर्विंशत् सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।तथा सर्ग शतान् पंच षट् काण्डानि तथा उत्तरम् ॥१-४-२॥
+कृत्वा तु तन् महाप्राज्ञः स भविष्यम् सह उत्तरम् ।चिन्तयामास कोन्वेतत् प्रयुंजीयाद् इति प्रभुः ॥१-४-३॥
+तस्य चिन्तयामानस्य महर्षेर् भावितात्मनः ।अगृह्णीताम् ततः पादौ मुनि वेषौ कुशी लवौ ॥१-४-४॥
+कुशी लवौ तु धर्मज्ञौ राज पुत्रौ यशश्विनौ ।भ्रातरौ स्वर संपन्नौ ददर्श आश्रम वासिनौ ॥१-४-५॥
+स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्टितौ ।वेदोपबृंहणार्थाय तौ अग्राहयत प्रभुः ॥१-४-६॥
+काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् ।पौलस्त्य वधम् इति एवम् चकार चरित व्रतः ॥१-४-७॥
+पाठ्ये गेये च मथुरम् प्रमाणैः त्रिभिर् अन्वितम् ।जातिभिः सप्तभिः युक्तम् तन्त्री लय समन्वितम् ॥१-४-८॥
+रसैः शृंगार करुण हास्य रौद्र भयानकैः ।विरादिभी रसैर् युक्तम् काव्यम् एतत् अगायताम् ॥१-४-९॥
+तौ तु गान्धर्व तत्त्वज्ञौ स्थान मूर्च्छन कोविदौ ।भ्रातरौ स्वर संपन्नौ गन्धर्वाः इव रूपिणौ ॥१-४-१०॥
+रूप लक्षण संपन्नौ मधुर स्वर भाषिणौ ।बिंबात् इव उथीतौ बिंबौ राम देहात् तथा अपरौ ॥१-४-११॥
+तौ राज पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।वाचो विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१-४-१२॥
+ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे ।यथा उपदेशम् तत्त्वज्ञौ जगतुः तौ समाहितौ ॥१-४-१३॥
+महात्मनौ महाभागौ सर्व लक्ष्ण लक्षितौ ।तौ कदाचित् समेतानाम् ऋषीणाम् भवित आत्मनाम् ॥१-४-१४॥
+मध्ये सभम् समीपस्थौ इदम् काव्यम् अगायताम् ।तत् श्रुत्वा मुनयः सर्वे बाष्प पर्याकुलेक्षणाः ॥१-४-१५॥
+साधु साध्विति ता ऊचुः परम् विस्मयम् आगताः ।ते प्रीत मनसः सर्वे मुनयो धर्म वत्सलाः ॥१-४-१६॥
+प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशी लवौ ।अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१-४-१७॥
+चिरनिर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् ।प्रविश्य ता उभौ सुष्ठु तथा भावम् अगायताम् ॥१-४-१८॥
+सहितौ मधुरम् रक्तम् संपन्नम् स्वर संपदा ।एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महर्षिभिः ॥१-४-१९॥
+संरक्ततरम् अत्यर्थम् मधुरम��� तौ अगायताम् ।प्रीतः कश्चिन् मुनिः ताभ्याम् संस्थितः कलशम् ददौ ॥१-४-२०॥
+प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महायशाः ।अन्यः कृष्णाजिनम् अदद् यज्ञ सूत्रम् तथा अपरः ॥१-४-२१॥
+कश्चित् कमण्डलुम् प्रदान् मौञ्जीम् अन्यो महामुनिः ।ब्रुसीमन्यः तदा प्रादत् कौपीनम् अपरो मुनिः ॥१-४-२२॥
+ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरो मुनिः ।काषायम् अपरो वस्त्रम् चीरम् अन्यो ददौ मुनिः ॥१-४-२३॥
+जटाबन्धनम् अन्यः तु काष्ठ रज्जुम् मुदान्वितः ।यज्ञ भाण्डम् ऋषिः कश्चित् काष्ठभारम् तथा परः ॥१-४-२४॥
+औदुम्बरीम् ब्रुसीम् अन्यः स्वस्ति केचित् तदा अवदन् ।आयुष्यम् अपरे प्राहुर् मुदा तत्र महर्षयः ॥१-४-२५॥
+ददुः च एवम् वरान् सर्वे मुनयः सत्यवादिनः ।आश्चर्यम् इदम् आख्यानम् मुनिना संप्रकीर्तितम् ॥१-४-२६॥
+परम् कवीनाम् आधारम् समाप्तम् च यथा क्रमम् ।अभिगीतम् इदम् गीतम् सर्व गीतेषु कोविदौ ॥१-४-२७॥
+आयुष्यम् पुष्टि जननम् सर्व श्रुति मनोहरम् ।प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
+रथ्यासु राज मार्गेषु ददर्श भरताग्रजः ।स्व वेश्म च आनीय ततो भ्रातरौ स कुशी लवौ ॥१-४-२९॥
+पूजयामास पुज अर्हौ रामः शत्रुनिबर्हणः ।आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
+उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वित ।दृष्ट्वा तु रूप संपन्नौ विनीतौ भ्रातरौ उभौ ॥१-४-३१॥
+उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा ।श्रूयताम् एतद् आख्यानम् अनयोः देव वर्चसोः ॥१-४-३२॥
+विचित्रार्थ पदम् सम्यक् गायकौ समचोदयत् ।तौ च अपि मधुरम् रक्तम् स्वचित्तायत निःस्वनम् ॥१-४-३३॥
+तन्त्री लयवत् अत्यर्थम् विश्रुतार्थम् अगायताम् ।ह्लादयत् सर्व गात्राणि मनांसि हृदयानि च ।श्रोत्राश्रय सुखम् गेयम् तद् बभौ जनसंसदि ॥१-४-३४॥
+इमौ मुनी पार्थिव लक्षणान्वितौकुशी लवौ च एव महातपस्विनौ ।ममा अपि तद् भूति करम् प्रचक्षतेमहानुभावम् चरितम् निबोधत ॥१-४-३५॥
+ततः तु तौ राम वचः प्रचोदितौअगायताम् मार्ग विधान संपदा ।स च अपि रामः परिषद् गतः शनैर्बुभूषय आसक्तमना बभूव ॥१-४-३६॥
+सर्वा पूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा ।प्रजपतिम् उपादाय नृपाणम् जय शालिनाम् ॥१-५-१॥
+येषाम् स सगरो नाम सागरो येन खानितः ।षष्टिः पुत्र सहस्राणि यम् यान्तम् पर्यवारयन् ॥१-५-२॥
+इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम��� वंशे महात्मनाम् ।महद् उत्पन्नम् आख्यनम् रामायणम् इति श्रुतम् ॥१-५-३॥
+तदिदम् वर्तयिष्यावः सर्वम् निखिलम् आदितः ।धर्म काम अर्थ सहितम् श्रोतव्यम् अनसूयता ॥१-५-४॥
+कोसलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्ट सरयू तीरे प्रभूत धन धान्यवान् ॥१-५-५॥
+अयोध्या नाम नगरी तत्र आसीत् लोक विश्रुता ।मनुना मानव इन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
+आयता दश च द्वे च योजनानि महापुरी ।श्रीमती त्रीणि विस्तीर्णा सु विभक्ता महापथा ॥१-५-७॥
+राज मार्गेण महता सुविभक्तेन शोभिता ।मुक्ता पुष्प अवकीर्णेन जल सिक्तेन नित्यशः ॥१-५-८॥
+ताम् तु राजा दशरथो महाराष्ट्र विवर्धनः ।पुरीम् आवासयामास दिवि देवपतिः यथा ॥१-५-९॥
+कपाट तोरणवर्ती सु विभक्त अन्तरापणाम् ।सर्व यंत्र अयुधवतीम् उषिताम् सर्व शिल्पिभिः ॥१-५-१०॥
+सूत मागध संबाधाम् श्रीमतीम् अतुल प्रभाम् ।उच्चाट्टाल ध्वजवतीम् शतघ्नी शत संकुलाम् ॥१-५-११॥
+वधू नाटक सन्घैः च संयुक्ताम् सर्वतः पुरीम् ।उद्यान आम्र वणोपेताम् महतीम् साल मेखलाम् ॥१-५-१२॥
+दुर्ग गंभीर परिखाम् दुर्गाम् अन्यैः दुरासदम् ।वाजीवारण संपूर्णाम् गोभिः उष्ट्रैः खरैः तथा ॥१-५-१३॥
+सामंत राज सन्घैः च बलि कर्मभिः आवृतम् ।नाना देश निवासैः च वणिग्भिः उपशोभिताम् ॥१-५-१४॥
+प्रासादै रत्न विकृतैः पर्वतैः इव शोभिताम् ।कूटागारैः च संपूर्णाम् इन्द्रस्य इव अमरावतीम् ॥१-५-१५॥
+चित्रम् अष्टापद आकाराम् वर नारी गणैर् युताम् ।सर्व रत्न समाकीर्णाम् विमान गृह शोभिताम् ॥१-५-१६॥
+गृह गाढाम् अविच्छिद्राम् सम भूमौ निवेशिताम् ।शालि तण्डुल संपूर्णाम् इक्षु काण्ड रसः उदकाम् ॥१-५-१७॥
+दुन्दुभीभिः मृदन्गैः च वीणाभिः पणवैः तथा ।नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम् ॥१-५-१८॥
+विमानम् इव सिद्धानाम् तपस अधिगतम् दिवि ।सु निवेशित वेश्मान्ताम् नरोत्तम समावृताम् ॥१-५-१९॥
+ये च बाणैः न विध्यन्ति विविक्तम् अपरा परम् ।शब्द वेध्यम् च विततम् लघु हस्ता विशारदाः ॥१-५-२०॥
+सिंह व्याघ्र वराहाणाम् मत्तानाम् नदताम् वने ।हन्तारो निशितैः शस्त्रैः बलात् बाहु बलैर् अपि ॥१-५-२१॥
+तादृशानाम् सहस्रैः ताम् अभि पूर्णाम् महारथैः ।पुरीम् आवसयमास राजा दशरथः तदा ॥१-५-२२॥
+ताम् अग्निमद्भिः गुणवद्भिः आवृताम्द्विजोत्तमैः वेद षडङ्ग पारगैः ।सहस्रदैः सत्य ���तैः महात्मभिःमहर्षि कल्पैः ऋषिभिः च केवलैः ॥१-५-२३॥
+तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥
+इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
+बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥
+यथा मनुर् महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
+तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥
+तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥
+न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥
+कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः ॥१-६-८॥
+सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥
+न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते ॥१-६-१०॥
+न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥
+न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः ॥१-६-१२॥
+स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥
+नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् ॥१-६-१४॥
+न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥
+कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् ॥१-६-१६॥
+वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥
+दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
+क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥
+सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
+योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥
+कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥
+विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥
+इरावत कुलीनैः च महापद्म कुलैः तथा ।अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥
+भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥
+नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥
+ताम् पुरीम् स महातेजा राजा दशरथो महान् ।शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
+ताम् सत्य नामाम् दृढ तोरण अर्गलाम्गृहैः विचित्रैः उपशोभिताम् शिवाम् ।पुरीम् अयोध्याम् नृ सहस्र संकुलाम्शशास वै शक्र समो महीपतिः ॥१-६-२८॥
+तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥
+अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥
+धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥
+ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥
+सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥
+एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥
+श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥
+तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥
+तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥
+कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।प्राप्त कालम् यथा दण्ड��् धारयेयुः सुतेषु अपि ॥१-७-१०॥
+कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥
+वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥
+ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
+शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥
+कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥
+सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥
+गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥
+अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥
+मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥
+ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥
+अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥
+विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥
+न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥
+तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥
+तस्य च एवम् प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थम् तप्य मानस्य न असीत् वंशकरः सुतः ॥१-८-१॥
+चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः ।सुतार्थम् वाजिमेधेन किम् अर्थम् न यजामि अहम् ॥१-८-२॥
+स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् ।मंत्रिभिः सह धर्मात्मा सर्वैः अपि कृत आत्मभिः ॥१-८-३॥
+ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान् ॥१-८-४॥
+ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रम��� ।सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान् ॥१-८-५॥
+सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१-८-६॥
+तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ।इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-८-७॥
+मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् ।तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम ॥१-८-८॥
+तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१-८-९॥
+ततः साधु इति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ।वशिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
+ऊचुः च परम प्रीताः सर्वे दशरथम् वचः ।संभाराः संभ्रियंताम् ते तुरगः च विमुच्यताम् ॥१-८-११॥
+सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव ॥१-८-१२॥
+यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।ततः तुष्टोऽभवत् राजा श्रुत्वा तद् द्विज भाषितम् ॥१-८-१३॥
+अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह ॥१-८-१४॥
+समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ॥१-८-१५॥
+शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१-८-१६॥
+न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः ॥१-८-१७॥
+विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते ॥१-८-१८॥
+तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥
+पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम् ॥१-८-२०॥
+अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत् ॥१-८-२१॥
+ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
+विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ।ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
+उवाच दीक्षाम् विशत यक्षेऽहम् सुत क���रणात् ।तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
+एतत् श्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् ।श्रूयताम् तत् पुरा वृत्तम् पुराणे च मया श्रुतम् ॥१-९-१॥
+ऋत्विग्भिः उपदिष्टोऽयम् पुरा वृत्तो मया श्रुतः ।सनत्कुमारो भगवान् पूर्वम् कथितवान् कथाम् ॥१-९-२॥
+ऋषीणाम् सन्निधौ राजन् तव पुत्राअगमम् प्रति ।काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
+ऋष्यशृङ्ग इति ख्यातः तस्य पुत्रो भविष्यति ।स वने नित्य संवृद्धो मुनिर् वनचरः सदा ॥१-९-४॥
+न अन्यम् जानाति विप्रेन्द्रो नित्यम् पित्र अनुवर्तनात् ।द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
+लोकेषु प्रथितम् राजन् विप्रैः च कथितम् सदा ।तस्य एवम् वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
+अग्निम् शुश्रूषमाणस्य पितरम् च यशस्विनम् ।एतस्मिन् एव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
+आङ्गेषु प्रथितो राजा भविष्यति महाबलः ।तस्य व्यतिक्रमात् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
+अनावृष्टिः सुघोरा वै सर्वलोक भयाअवहा ।अनावृष्ट्याम् तु वृत्तायाम् राजा दुःख समन्वितः ॥१-९-९॥
+ब्राह्मणान् श्रुत संवृद्धान् च समानीय प्रवक्ष्यति ।भवन्तः श्रुत कर्माणो लोक चारित्र वेदिनः ॥१-९-१०॥
+समादिशन्तु नियमम् प्रायश्चित्तम् यथा भवेत् ।इति उक्ताः ते ततो राज्ञा सर्वे ब्राह्मण सत्तमाः ॥१-९-११॥
+वक्ष्यन्ति ते महीपालम् ब्राह्मणा वेद पारगाः ।विभाण्डक सुतम् राजन् सर्व उपायैः इह आनय ॥१-९-१२॥
+आनाय्य तु महीपाल ऋश्यशृङ्गम् सुसत्कृतम् ।विभाण्डक सुतम् राजन् ब्राह्मणम् वेद पारगम् ।प्रयच्छ कन्याम् शान्ताम् वै विधिना सुसमाहितः॥१-९-१३॥
+तेषाम् तु वचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते ।केन उपायेन वै शक्यम् इह आनेतुम् स वीर्यवान् ॥१-९-१४॥
+ततो राजा विनिश्चित्य सह मंत्रिभिः आत्मवान् ।पुरोहितम् अमात्याम् च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
+ते तु राज्ञो वचः श्रुत्वा व्यथिता विनत आननाः ।न गच्छेम ऋषेः भीता अनुनेष्यन्ति तम् नृपम् ॥१-९-१६॥
+वक्ष्ष्यन्ति चिंतयित्वा ते तस्य उपायाम् च तान् क्षमान् ।आनेष्यामो वयम् विप्रम् न च दोषो भविष्यति ॥१-९-१७॥
+एवम् अङ्गाधिपेन एव गणिकाभिः ऋषेः सुतः ।आनीतोऽवर्षयत् देव शान्ता च अस्मै प्रदीयते ॥१-९-१८॥
+ऋष्यशृङ्गः तु जा��ाता पुत्रान् तव विधास्यति ।सनत्कुमार कथितम् एतावत् व्याहृतम् मया ॥१-९-१९॥
+अथ हृष्टो दशरथः सुमंत्रम् प्रत्यभाषत ।यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन स उच्चताम् ॥१-९-२०॥
+सुमंत्रः चोदितो राज्ञा प्रोवाच इदम् वचः तदा ।यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन मंत्रिभिःतन्मे निगदितम् सर्वम् शृणु मे मंत्रिभिः सह ॥१-१०-१॥
+रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः ।उपायो निरपायो अयम् अस्माभिः अभिचिन्तितः ॥१-१०-२॥
+ऋष्यशृङ्गो वनचरः तपः स्वाध्याय संयुतः ।अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१-१०-३॥
+इन्द्रियार्थैः अभिमतैः नरचित्त प्रमाथिभि ।पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१-१०-४॥
+गणिकाः तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।प्रलोभ्य विविध उपायैः आनेष्यन्ति इह सत्कृताः ॥१-१०-५॥
+श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् ।पुरोहितो मंत्रिणः च तथा चक्रुः च ते तथा ॥१-१०-६॥
+वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महत् ।आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१-१०-७॥
+ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥
+न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥
+ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥
+ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥
+कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥
+अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥
+पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥
+इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥
+ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥
+गतानाम् तु ततः पूजाम् ऋषि पुत्रः चकार ह ।इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥
+प्रतिगृह्य तु ताम् पूजाम् सर्वा एव सम���त्सुकाः ।ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥
+अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥
+ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥
+तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥
+आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥
+गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥
+ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥
+मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥
+उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥
+चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥
+श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥
+तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥
+वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥
+अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥
+अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥
+एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।ऋष्यश्R^ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥
+भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
+इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥
+अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥
+पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
+अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥
+श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥
+प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥
+तम् च राजा दशरथो यशस् कामः कृतांलिः ।ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥
+यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥
+पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।वंश प्रतिष्ठानकराः सर्व बूतेषु विश्रुताः ॥१-११-१०॥
+एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
+स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥
+सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥
+स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
+अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥
+ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥
+सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥
+सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
+सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥
+मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥
+उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥
+स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥
+ननंदतुः दशरथो रोमपादः च वीर्यवान् ।ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
+पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥
+धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥
+तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥
+शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥
+प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
+अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥
+अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥
+पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥
+ततः काले बहु तिथे कस्मिन् चित् सुमनोहरे ।वसन्ते समनुप्राप्ते राज्ञो यष्टुम् मनोऽभवत् ॥१-१२-१॥
+ततः प्रणम्य शिरसा तम् विप्रम् देव वर्णिनम् ।यज्ञाय वरयामास संतानार्थम् कुलस्य च ॥१-१२-२॥
+तथेइति च स राजानम् उवाच वसुधाधिपम् ।संभाराः संभ्रियन्ताम् ते तुरगश्च विमुच्यताम् ॥१-१२-३॥
+सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।ततो अब्रवीत् नृपः वाक्यम् ब्राह्मणान् वेद पारगान् ॥१-१२-४॥
+सुमंत्र आवाहय क्ष्षिप्रम् ऋत्विजो ब्रह्म वादिनः ।सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ॥१-१२-५॥
+पुरोहितम् वसिष्ठम् च ये च अन्ये द्विज सत्तमाः ।ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ॥१-१२-६॥
+समानयत् स तान् सर्वान् समस्तान् वेद पारगान् ।तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ॥१-१२-७॥
+धर्मार्थ सहितम् युक्तम् श्लक्ष्णम् वचनम् अब्रवीत् ।मम तातप्य मानस्य पुत्रार्थम् नास्ति वै सुखम् ॥१-१२-८॥
+पुत्रार्थम् हयमेधेन यक्षयामि इति मतिर्मम ।तदहम् यष्टुम् इच्छामि हयमेधेन कर्मणा ॥१-१२-९॥
+ऋषिपुत्र प्रभावेण कामान् प्राप्स्यामि च अपि अहम् ।ततः साधु इति तद् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥
+वसिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखात् च्युतम् ।ऋष्यशृङ्ग पुरोगाः च प्रति ऊचुः नृपतिम् तदा ॥१-१२-११॥
+संभाराः संभ्रियम्ताम् ते तुरगः च विमुच्यताम् ।सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ॥१-१२-१���॥
+सर्वथा प्राप्यसे पुत्राम् चतुरो अमित विक्रमान् ।यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ॥१-१२-१३॥
+ततः प्रीतोऽभवत् राजा श्रुत्वा तु द्विज भाषितम् ।अमात्यान् अब्रवीत् राजा हर्षेण इदम् शुभ अक्षरम् ॥१-१२-१४॥
+गुरूणाम् वचनात् शीघ्रम् संभाराः संभ्रियन्तु मे ।समर्थ अधिष्टितः च अश्वः सः उपाध्यायो विमुच्यताम् ॥१-१२-१५॥
+सरयव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।शांतयः च अभिवर्थन्ताम् यथा कल्पम् यथा विधि ॥१-१२-१६॥
+शक्यः कर्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ।न अपराथो भवेत् कष्टो यद्य अस्मिन् क्रतु सत्तमे ॥१-१२-१७॥
+छिद्रम् हि मृगयन्त एते विद्वान्सो ब्रह्म राक्षसाः ।विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥
+तद् यथा विधि पूर्वम् क्रतुः एष समाप्यते ।तथा विधानम् क्रियताम् समर्थाः करणेषु इह ॥१-१२-१९॥
+तथा इति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।पार्थिव इन्द्रस्य तत् वाक्यम् यथा आज्ञप्तम् अकुर्वत ॥१-१२-२०॥
+ततो द्विजाः ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् ।अनुज्ञाताः ततः सर्वे पुनः जग्मुः यथा आगतम् ॥१-१२-२१॥
+गतेषु तेषु विप्रेषु मंत्रिणः तान् नराधिपः ।विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ॥१-१२-२२॥
+पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान् ॥१-१३-१॥
+अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम् ॥१-१३-२॥
+यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम् ॥१-१३-३॥
+भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः ॥१-१३-४॥
+तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१-१३-५॥
+ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान् ॥१-१३-६॥
+कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।गणकान् शिल्पिनः च एव तथा एव नट नर्तकान् ॥१-१३-७॥
+तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात् ॥१-१३-८॥
+इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।उपकार्याः क्रियन्ताम् च राज्ञो बहु ���ुणान्विताः ॥१-१३-९॥
+ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
+तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक् ॥१-१३-११॥
+वाजिवारण शलाः च तथा शय्या गृहाणि च ।भटानाम् महदावासम् वैदेशिक निवासिनाम् ॥१-१३-१२॥
+आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।तथा पौरजन्स्य अपि जनस्य बहु शोभनम् ॥१-१३-१३॥
+दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
+न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१-१३-१५॥
+तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च ॥१-१३-१६॥
+यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा ॥१-१३-१७॥
+ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते ॥१-१३-१८॥
+यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् ॥१-१३-१९॥
+निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः ॥१-१३-२०॥
+समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम् ॥१-१३-२१॥
+तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते ॥१-१३-२२॥
+तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह ॥१-१३-२३॥
+तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय ॥१-१३-२४॥
+अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय ॥१-१३-२५॥
+तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम् ॥१-१३-२६॥
+प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान् ॥१-१३-२७॥
+दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले ॥१-१३-२८���
+तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या ॥१-१३-२९॥
+वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१-१३-३०॥
+स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः ॥१-१३-३१॥
+ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१-१३-३२॥
+ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा ॥१-१३-३३॥
+अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः ॥१-१३-३४॥
+बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् ॥१-१३-३५॥
+उपयाता नर व्याघ्र राजानः तव शासनात् ।मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम ॥१-१३-३६॥
+यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात् ॥१-१३-३७॥
+सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
+तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
+ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा ॥१-१३-४०॥
+यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत् ॥१-१३-४१॥
+अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे ।सरय्वाः च उत्तरे तीरे राज्ञो यज्ञो अभ्यवर्तत ॥१-१४-१॥
+ऋष्यशृंगम् पुरस्कृत्य कर्म चक्रुः द्विजर्षभाः ।अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
+कर्म कुर्वंति विधिवत् याजका वेदपारगाः ।यथा विधि यथा न्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
+प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः ।चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः ॥१-१४-४॥
+अभिपूज्य तदा हृष्टाः सर्वे चक्रुः यथा विधि ।प्रातः सवन पूर्वाणि कर्माणि मुनिपुंगवाः ॥१-१४-५॥
+ऐन्द्रश्च विधिवत् दत्तो राजा च अभिषुतोऽनघः ।मध्यंदिनम् च सवनम् प्रावर्तत यथा क्रमम् ॥१-१४-६॥
+तृतीय सवनम् चैव राज्ञोऽस्य सुमहात्मनः ।चक्रुः ते शाश्त्रत��� दृष्ट्वा तथा ब्राह्मण पुंगवाः ॥१-१४-७॥
+आह्वान् चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।ऋष्यशृङ्गाअदौ मन्त्रैः शिक्षाक्षर समन्वितौ ॥१-१४-८॥
+गीतिभिः मधुरैः स्निग्धैः मन्त्र आह्वानैः यथार्हतः ।होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
+न च अहुतं आभूत् तत्र स्खलितम् वा न किंचन ।दृश्यते ब्रह्मवत् सर्वम् क्षेमयुक्तम् हि चक्रिरे ॥१-१४-१०॥
+न तेषु अहस्सु श्रान्तो वा क्षुधितो वा न दृश्यते ।न अविद्वान् ब्राह्मणः कश्चिन् न अशत अनुचरः तथा ॥१-१४-११॥
+ब्राह्मणा भुंजते नित्यम् नाथवन्तः च भुंजते ।तापसा भुंजते च अपि श्रमणाः चैव भुंजते ॥१-१४-१२॥
+वृद्धाः च व्याधिताः च एव स्त्री बालाः तथा एव च ।अनिशं भुंजमानानां न तृप्तिः उपलभ्यते ॥१-१४-१३॥
+दीयताम् दीयताम् अन्नम् वासांसि विविधानि च ।इति संचोदिताः तत्र तथा चक्रुः अनेकशः ॥१-१४-१४॥
+अन्न कूटाः च दृश्यन्ते बहवः पर्वत उपमाः ।दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
+नाना देशात् अनुप्राप्ताः पुरुषाः स्त्री गणाः तथा ।अन्न पानैः सुविहिताः तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
+अन्नम् हि विधिवत् स्वादु प्रशन्सन्ति द्विजर्षभाः ।अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः ॥१-१४-१७॥
+स्वलंकृताः च पुरुषा ब्राह्मणान् पर्यवेषयन् ।उपासन्ते च तान् अन्ये सुमृष्ट मणि कुण्डलाः ॥१-१४-१८॥
+कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।प्राहुः सुवाग्मिनो धीराः परस्पर जिगीषया ॥१-१४-१९॥
+दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।सर्व कर्माणि चक्रुः ते यथा शास्त्रं प्रचोदिताः ॥१-१४-२०॥
+न अषडङ्ग वित् अत्र आसीत् न अव्रतो न अबहुश्रुतः ।सदस्यः तस्य वै राज्ञो न अवाद कुशला द्विजाः ॥१-१४-२१॥
+प्राप्ते यूपः उच्छ्रये तस्मिन् षड् बैल्वाः खादिराः तथा ।तावन्तो बिल्व सहिताः पर्णिनः च तथा अपरे ॥१-१४-२२॥
+श्लेष्मातकमयः दिष्टो देवदारुमयः तथा ।द्वावेव तत्र विहितौ बाहु व्यस्त परिग्रहौ ॥१-१४-२३॥
+कारिताः सर्व एवैते शास्त्रज्ञैः यज्ञकोविदैः ।शोभाअर्थम् तस्य यज्ञस्य कांचन अलंकृत अभवन् ॥१-१४-२४॥
+एक विंशति यूपाः ते एक विंशत् अरत्नयः ।वासोभिः एक विंशद्भिः एकैकम् समलंकृताः ॥१-१४-२५॥
+विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।अष्ट आस्रयः सर्व एव श्लक्ष्ण रूप समन्विताः ॥१-१४-२६॥
+आच्छादिताः ते वासोभिः पुष्पैः गन्धैः च पूजिताः ।सप्त ऋषयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
+इष्टकाः च यथा न्यायम् कारिताः च प्रमाणतः ।चितोऽग्निः ब्राह्मणैः तत्र कुशलैः शिप्लकर्मणि ॥१-१४-२८॥
+सचित्यो राज सिंहस्य संचितः कुशलैः द्विजैः ।गरुडो रुक्मपक्षो वै त्रिगुणो अष्टा दशात्मकः ॥१-१४-२९॥
+नियुक्ताः तत्र पशवः तत् तत् उद्दिश्य दैवतम् ।उरगाः पक्षिणः च एव यथा शास्त्रम् प्रचोदिताः ॥१-१४-३०॥
+शामित्रे तु हयः तत्र तथा जलचराः च ये ।ऋषिभिः सर्वम् एवै तन् नियुक्तम् शास्त्रतः तदा ॥१-१४-३१॥
+पशूनाम् त्रिशतम् तत्र यूपेषु नियतम् तदा ।अश्व रत्नः उत्तमम् तस्य राज्ञो दशरथस्य ह ॥१-१४-३२॥
+कौसल्या तम् हयम् तत्र परिचर्य समंततः ।कृपाणैः विशशासः एनम् त्रिभिः परमया मुदा ॥१-१४-३३॥
+पतत्रिणा तदा सार्धम् सुस्थितेन च चेतसा ।अवसत् रजनीम् एकाम् कौसल्या धर्म काम्यया ॥१-१४-३४॥
+होता अध्वर्युः तथ उद्गाता हस्तेन समयोजयन् ।महिष्या परिवृत्त्या अथ वावाताम् अपराम् तथा ॥१-१४-३५॥
+पतत्रिणः तस्य वपाम् उद्धृत्य नियतेइन्द्रियः ।ऋत्विक् परम संपन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
+धूम गन्धम् वपायाः तु जिघ्रति स्म नराधिपः ।यथा कालम् यथा न्यायम् निर्णुदन् पापम् आत्मनः ॥१-१४-३७॥
+हयस्य यानि च अंगानि तानि सर्वाणि ब्राह्मणाः ।अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश ऋत्विजः ॥१-१४-३८॥
+प्लक्ष शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः ।अश्व मेधस्य यज्ञस्य वैतसो भागः इष्यते ॥१-१४-३९॥
+त्र्यहोऽश्व मेधः संख्यातः कल्प सूत्रेण ब्राह्मणैः ।चतुष्टोमम् अहः तस्य प्रथमम् परिकल्पितम् ॥१-१४-४०॥
+उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथोत्तरम् ।कारिताः तत्र बहवो विहिताः शास्त्र दर्शनात् ॥१-१४-४१॥
+ज्योतिष्टोम आयुषी च एवम् अतिरात्रौ विनिर्मितौ ।अभिजित् विश्वजित् च एवम् अप्तोर्यामो महाक्रतुः ॥१-१४-४२॥
+प्राचीम् होत्रे ददौ राजा दिशम् स्वकुल वर्धनःअध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् ॥१-१४-४३॥
+उद्गात्रे च तथा उदीचीम् दक्षिणैएषा विनिर्मिता ।अश्वमेधे महायज्ञे स्वयंभु विहिते पुरा ॥१-१४-४४॥
+क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।ऋत्विग्भ्यो हि ददौ राजा धराम् ताम् कुलवर्धनः ॥१-१४-४५॥
+एवम् दत्त्वा प्रहृष्टो अभूत् श्रीमान् इक्ष्वाकु नन्दन ।ऋत्विजः तु अब्रुवन् सर्वे राजानम् गत किल्बिषम् ॥१-१४-४६॥
+भवान् एव महीम् कृत्स्नाम् एको रक्षितुम् अर्हति ।न भूम्या कार्यम् अस्माकम् न हि शक्ताः स्म पालने ॥१-१४-४७॥
+रताः स्वाध्याय करणे वयम् नित्यम् हि भूमिप ।निष्क्रयम् किंचित् एव इह प्रयच्छतु भवान् इति ॥१-१४-४८॥
+मणि रत्नम् सुवर्णम् वा गावो यद् वा समुद्यतम् ।तत् प्रयच्छ नरश्रेष्ट धरण्या न प्रयोजनम् ॥१-१४-४९॥
+एवम् उक्तो नरपतिः ब्राह्मणैः वेद पारगैः ।गवाम् शत सहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
+दश कोटि सुवर्णस्य रजतस्य चतुर् गुणम् ।ऋत्विजः च ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
+ऋष्यशृन्गाय मुनये वसिष्ठाय च धीमते ।ततः ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः ॥१-१४-५२॥
+सुप्रीत मनसः सर्वे प्रत्यूचुः मुदिता भृशम् ।ततः प्रसर्पकेभ्यस्तु हिरण्यम् सुसमाहितः ॥१-१४-५३॥
+जांबूनदम् कोओटि संख्यम् ब्राह्मणेभ्यो ददौ तदा ।दरिद्राय द्विजाय अथ हस्त आभरणम् उत्तमम् ॥१-१४-५४॥
+कस्मै चित् याचमानाय ददौ राघव नंदनः ।ततः प्रीतेषु विधिवत् द्विजेषु द्विज वत्सलः ॥१-१४-५५॥
+प्रणामम् अकरोत् तेषाम् हर्ष व्याकुलित इन्द्रियः ।तस्य आशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
+उदारस्य नृवीरस्य धरण्याम् पतितस्य च ।ततः प्रीत मना रजाअ प्राप्य यज्ञम् अनुत्तमम् ॥१-१४-५७॥
+पाप अपहम् स्वर् नयनम् दुस्तरम् पार्थिवर्षभैः ।ततोऽब्रवीत् ऋश्य्शृंगम् राजा दशरथः तदा ॥१-१४-५८॥
+कुलस्य वर्धनम् त्वम् तु कर्तुम् अर्हसि सुव्रत ।तथेति च स राजानम् उवाच द्विजसत्तमः ।भविष्यन्ति सुता राजन् चत्वारः ते कुलोद्वहाः ॥१-१४-५९॥
+स तस्य वाक्यम् मधुरम् निशम्यप्रणम्य तस्मै प्रयतो नृपेन्द्र ।जगाम हर्षम् परमम् महात्मातम् ऋष्यश्R^ङ्गम् पुनरपि उवाच ॥१-१४-६०॥
+मेधावी तु ततो ध्यात्वा स किङ्चित् इदम् उत्तरम् ।लब्ध सङ्ज्ञः ततः तम् तु वेदज्ञो नृपम् अब्रवीत् ॥१-१५-१॥
+इष्टिम् तेऽहम् करिष्यामि पुत्रीयाम् पुत्र कारणात् ।अथर्व सिरसि प्रोक्तैः मन्त्रैः सिद्धाम् विधानतः ॥१-१५-२॥
+ततः प्राक्रमत् इदम् इष्टिम् ताम् पुत्रीयाम् पुत्र कारणात् ।जुहाव अग्नौ च तेजस्वी मन्त्र दृष्टेन कर्मणा ॥१-१५-३॥
+ततो देवाः स गन्धर्वाः सिद्धाः च परम ऋषयः ।भाग प्रतिग्रहार्थम् वै समवेता यथाविधि ॥१-१५-४॥
+ताः समेत्य यथा न्यायम् तस्मिन् सदसि देवताः ���अब्रुवन् लोक कर्तारम् ब्रह्माणम् वचनम् ततः ॥१-१५-५॥
+भगवन् त्वत् प्रसादेन रावणो नाम राक्षसः ।सर्वान् नो बाधते वीर्यात् शासितुम् तम् न शक्नुमः ॥१-१५-६॥
+त्वया तस्मै वरो दत्तः प्रीतेन भगवन् तदा ।मानयन्तः च तम् नित्यम् सर्वम् तस्य क्षमामहे ॥१-१५-७॥
+उद्वेजयति लोकान् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः ।शक्रम् त्रिदश राजानम् प्रधर्षयितुम् इच्छति ॥१-१५-८॥
+ऋषीन् यक्षान् स गन्धर्वान् असुरान् ब्राह्मणान् तथा ।अतिक्रामति दुर्धर्षो वर दानेन मोहितः ॥१-१५-९॥
+नैनम् सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।चलोर्मिमाली तम् दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
+तन् महन्नो भयम् तस्मात् राक्षसात् घोर दर्शनात् ।वधार्थम् तस्य भगवन् उपायम् कर्तुम् अर्हसि ॥१-१५-११॥
+एवम् उक्तः सुरैः सर्वैः चिन्तयित्वा ततोऽब्रवीत् ।हन्ता अयम् विदितः तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
+तेन गन्धर्व यक्षाणाम् देवतानाम् च रक्षसाम् ।अवध्योऽस्मि इति वागुक्ता तथेति उक्तम् च तन् मया ॥१-१५-१३॥
+न अकीर्तयत् अवज्ञानात् तत् रक्षो मानुषाम् तदा ।तस्मात् स मानुषात् वध्यो मृत्युः न अन्योऽस्य विद्यते ॥१-१५-१४॥
+एतत् श्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् ।देवा महर्षयः सर्वे प्रहृष्टाः ते अभवन् तदा ॥१-१५-१५॥
+एतस्मिन् अनन्तरे विष्णुः उपयातो महाद्युतिः ।श्ङ्ख चक्र गदा पाणिः पीत वासा जगत्पतिः ॥१-१५-१६॥
+वैनतेयम् समारूह्य भास्कर तोयदम् यथा ।तप्त हाटक केयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
+ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
+त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित काम्यया ।राज्ञो दशरथस्य त्वम् अयोध्य अधिपतेः विभोः ॥१-१५-१९॥
+धर्मज्ञस्य वदान्यस्य महर्षि सम तेजसः ।अस्य भार्यासु तिसृषु ह्री श्री कीर्ति उपमासु च ॥१-१५-२०॥
+विष्णो पुत्रत्वम् आगच्छ कृत्वा आत्मानम् चतुर्विधम् ।तत्र त्वम् मानुषो भूत्वा प्रवृद्धम् लोक कण्टकम् ॥१-१५-२१॥
+अवध्यम् दैवतैः विष्णो समरे जहि रावणम् ।स हि देवान् स गन्धर्वान् सिद्धान् च ऋषि सत्तमान् ॥१-१५-२२॥
+राक्षसो रावणो मूर्खो वीर्य उद्रेकेण बाधते ।ऋषयः च ततः तेन गन्धर्वा अप्सरसः तथा ॥१-१५-२३॥
+क्रीडयन्तो नन्दन वने रैउद्रेण विनिपातिताः ।वधार्थम् वयम् आयाताः त��्य वै मुनिभिः सह ॥१-१५-२४॥
+सिद्ध गन्धर्व यक्षाः च ततः त्वाम् श्ररणम् गताः ।त्वम् गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
+वधाय देव शतॄणाम् नृणाम् लोके मनः कुरु ।एवम् स्तुतस्तु देवेशो विष्णुः त्रिदशः पुंगवः ॥१-१५-२६॥
+पितामह पुरोगान् तान् सर्व लोक नमस्कृतःअब्रवीत् त्रिदशान् सर्वान् समेतान् धर्म संहितान् ॥१-१५-२७॥
+भयम् त्यजत भद्रम् वो हितार्थम् युधि रावणम् ।स पुत्र पौत्रम् स अमात्यम् स मित्र ज्ञाति बान्धवम् ॥१-१५-२८॥
+हत्वा क्रूरम् दुराधर्षम् देव ऋषीणाम् भयावहम् ।दश वर्ष सहस्राणि दश वर्ष शतानि च ॥१-१५-२९॥
+वत्स्यामि मानुषे लोके पालयन् पृध्वीम् इमाम् ।एवम् दत्वा वरम् देवो देवानाम् विष्णुः आत्मवान् ॥१-१५-३०॥
+मानुषे चिन्तयामास जन्मभूमिम् अथ आत्मनः ।ततः पद्म पलाशाक्षः कृत्वा आत्मानम् चतुर्विधम् ॥१-१५-३१॥
+पितरम् रोचयामास तदा दशरथम् नृपम् ।तदा देव ऋषि गन्धर्वाः स रुद्राः स अप्सरो गणाः ।स्तुतिभिः दिव्य रूपाभिः तुष्टुवुः मधुसूदनम् ॥१-१५-३२॥
+तम् उद्धतम् रावणम् उग्र तेजसम्प्रवृद्ध दर्पम् त्रिदशेश्वर वर द्विषम् ।विरावणम् साधु तपस्वि कण्टकम्तपस्विनाम् उद्धर तम् भयाअवहम् ॥१-१५-३३॥
+तमेव हत्वा स बलम् स बान्धवम्विरावणम् रावणम् उग्र पौरुषम् ।स्वर् लोकम् आगच्छ गत ज्वरः चिरम्सुरेन्द्र गुप्तम् गत दोष कल्मषम् ॥१-१५-३४॥
+ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-१६-१॥
+उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम् ॥१-१६-२॥
+एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१-१६-३॥
+स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः ॥१-१६-४॥
+सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात् ॥१-१६-५॥
+अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
+उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥
+इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥
+स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥
+स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥
+ततो वै यजमानस्य पावकात् अतुल प्रभम् ।प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥
+कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥
+शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥
+दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥
+दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥
+समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥
+ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥
+अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥
+इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥
+भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥
+तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥
+अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥
+ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥
+ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥
+हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥
+सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥
+कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥
+कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रा��्थ कारणात् ।प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥
+अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥
+ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥
+ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
+ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥
+पुत्रत्वम् तु गते विष्णौ राज्ञः तस्य महात्मनः ।उवाच देवताः सर्वाः स्वयंभूः भगवान् इदम् ॥१-१७-१॥
+सत्य संधस्य वीरस्य सर्वेषाम् नो हितैषिणः ।विष्णोः सहायान् बलिनः सृजध्वम् काम रूपिणः ॥१-१७-२॥
+माया विदः च शूराम् च वायु वेग समान् जवे ।नयज्ञान् बुद्धि संपन्नान् विष्णु तुल्य पराक्रमान् ॥१-१७-३॥
+असंहार्यान् उपायज्ञान् दिव्य संहनन अन्वितान् ।सर्व अस्त्र गुण संपन्नानन् अमृत प्राशनान् इव ॥१-१७-४॥
+अप्सरस्सु च मुख्यासु गन्धर्वाणाम् तनूषु च ।यक्ष पन्नग कन्यासु ऋक्ष विद्याधरीषु च ॥१-१७-५॥
+किंनरीणाम् च गात्रेषु वानरीनाम् तनूसु च ।सृजध्वम् हरि रूपेण पुत्रान् तुल्य पराक्रमान् ॥१-१७-६॥
+पूर्वम् एव मया सृष्टो जांबवान् ऋक्ष पुङ्गवः ।जृंभमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
+ते तथा उक्ताः भगवता तत् प्रति श्रुत्य शासनम् ।जनयामासुः एवम् ते पुत्रान् वानर रूपिणः ॥१-१७-८॥
+ऋषयः च महात्मानः सिद्ध विद्याधर उरगाः ।चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ॥१-१७-९॥
+वानरेन्द्रम् महेन्द्र आभम् इन्द्रः वालिनम् आत्मजम् ।सुग्रीवम् जनयामास तपनः तपताम् वरः ॥१-१७-१०॥
+बृहस्पतिः तु अजनयत् तारम् नाम महा कपिम् ।सर्व वानर मुख्यानाम् बुद्धिमन्तम् अनुत्तमम् ॥१-१७-११॥
+धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।विश्वकर्मा तु अजनयन् नलम् नाम महा कपिम् ॥१-१७-१२॥
+पावकस्य सुतः श्रीमान् नीलः अग्नि सदृश प्रभः ।तेजसा यशसा वीर्यात् अत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
+रूप द्रविण संपन्नौ अश्विनौ रूपसंमतौ ।मैन्दम् च द्विविदम् च एव जनयामासतुः स्वयम् ॥१-१७-१४॥
+वरुणो जनयामास सुषेणम् नाम वानरम् ।शरभम् जनयामास पर्ज��्यः तु महाबलः ॥१-१७-१५॥
+मारुतस्य औरसः श्रीमान् हनुमान् नाम वानरः ।वज्र संहननोपेतो वैनतेय समः जवे ॥१-१७-१६॥
+सर्व वानर मुख्येषु बुद्धिमान् बलवान् अपि ।ते सृष्टा बहु साहस्रा दशग्रीव वधे उद्यताः ॥१-१७-१७॥
+अप्रमेय बला वीरा विक्रान्ताः काम रूपिणः ।ते गज अचल संकाशा वपुष्मंतो महाबलाः ॥१-१७-१८॥
+ऋक्ष वानर गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे ।यस्य देवस्य यद् रूपम् वेषो यः च पराक्रमः ॥१-१७-१९॥
+अजायत समम् तेन तस्य तस्य पृथक् पृथक् ।गोलान्गूलेषु च उत्पन्नाः किंचिद् उन्नत विक्रमाः ॥१-१७-२०॥
+ऋक्षीषु च तथा जाता वानराः किंनरीषु च ।देवा महर्षि गन्धर्वाः तार्क्ष्य यक्षा यशस्विनः ॥१-१७-२१॥
+नागाः किम्पुरुषाः च एव सिद्ध विद्याधर उरगाः ।बहवो जनयामासुः हृष्टाः तत्र सहस्रशः ॥१-१७-२२॥
+चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ।वानरान् सु महाकायान् सर्वान् वै वन चारिणः ॥१-१७-२३॥
+अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च ।नाग कन्यासु च तदा गन्धर्वीणाम् तनूषु च ।काम रूप बलोपेता यथा काम विचारिणः ॥१-१७-२४॥
+सिंह शार्दूल सदृशा दर्पेण च बलेन च ।शिला प्रहरणाः सर्वे सर्वे पर्वत योधिनः ॥१-१७-२५॥
+नख दन्ष्ट्र आयुधाः सर्वे सर्वे सर्व अस्त्र कोविदाः ।विचाल येयुः शैलेन्द्रान् भेद येयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
+क्षोभ येयुः च वेगेन समुद्रम् सरिताम् पतिम् ।दार येयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा अर्णवन् ॥१-१७-२७॥
+नभस्थलम् विशेयुर् च गृह्णीयुर् अपि तोयदान् ।गृह्णीयुर् अपि मातंगान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
+नर्दमानाः च नादेन पात येयुः विहंगमान् ।ईदृशानाम् प्रसूतानि हरीणाम् काम रूपिणाम् ॥१-१७-२९॥
+शतम् शत सहस्राणि यूथपानाम् महात्मनाम् ।ते प्रधानेषु यूथेषु हरीणाम् हरियूथपाः ॥१-१७-३०॥
+बभूवुर् यूथप श्रेष्ठान् वीराम् च अजनयन् हरीन् ।अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ॥१-१७-३१॥
+अन्ये नाना विधान् शैलान् काननानि च भेजिरे ।सूर्य पुत्रम् च सुग्रीवम् शक्र पुत्रम् च वालिनम् ॥१-१७-३२॥
+भ्रातरौ उपतस्थुः ते सर्वे च हरि यूथपाअः ।नलम् नीलम् हनूमन्तम् अन्यांश्च हरि यूथपान् ॥१-१७-३३॥
+ते तार्क्ष्य बल संपन्नाः सर्वे युद्ध विशारदाः ।विचरन्तोऽर्दयन् सर्वान् सिंह व्याघ्र महोरगान् ॥१-१७-३४॥
+महाबलो महाबाहुः वाली विपुल विक्रमः ।जुगोप भुज वीर्येण ऋक्ष गोपुच्छ वानरान् ॥१-१७-३५॥
+तैः इयम् पृध्वी शूरैः सपर्वत वन अर्णवा ।कीर्णा विविध संस्थानैः नाना व्यंजन लक्षणैः ॥१-१७-३६॥
+तैः मेघ बृन्दाचल कूट संनिभैःमहाबलैः वानर यूथप अधिपैः ।बभूव भूः भीम शरीर रूपैःसमावृता राम सहाय हेतोः ॥१-१७-३७॥
+निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥
+समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥
+यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥
+श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
+गतेषु पृथिवीशेषु राजा दशरथः पुनः ।प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
+शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
+एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥
+ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
+नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥
+प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥
+विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥
+कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥
+भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
+अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥
+पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।सार्पे जातौ तु सौमित्री कुLईरे अभ्युदिते रवौ ॥१-१८-१५॥
+राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥
+जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥
+उत्सवः च महान् आसीत् ���योध्यायाम् जनाकुलः ।रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥
+गायनैः च विराविण्यो वादनैः च तथ अपरैः ।विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥
+प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥
+अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥
+सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
+ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥
+तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
+बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
+सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥
+इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥
+धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥
+रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥
+लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥
+मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥
+अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥
+प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥
+बभूव परम प्रीतो देवैः इव पितामहः ।ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥
+ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥
+पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥
+पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥
+चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।तस्य च���ंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥
+अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥
+शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
+संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥
+प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
+प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥
+प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥
+कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
+कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥
+दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥
+ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
+विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥
+उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥
+यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥
+तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥
+पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥
+यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥
+ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥
+शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥
+इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥
+कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥
+इति हृदय सुखम् निशम्य वाक्यम्श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।प्रथित गुण यशा गुणैः विशिष्टःपरम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥
+तत् शुर्त्वा राज सिंहस्य वाक्यम् अद्भुत विस्तरम् ।हृष्ट रोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥
+सदृशम् राज शार्दूल तव एव भुवि न अन्यतः ।महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः ॥१-१९-२॥
+यत् तु मे हृद् गतम् वाक्यम् तस्य कार्यस्य निश्चयम् ।कुरुष्व राज शार्दूल भव सत्य प्रतिश्रवः ॥१-१९-३॥
+अहम् नियमम् आतिष्ठे सिध्द्यर्थम् पुरुषर्षभ ।तस्य विघ्नकरौ द्वौ तु राक्षसौ काम रूपिणौ ॥१-१९-४॥
+व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाविमौ ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥
+तौ मांस रुधिर ओघेण वेदिम् ताम् अभ्यवर्षताम् ।अवधूते तथा भूते तस्मिन् नियम निश्चये ॥१-१९-६॥
+कृत श्रमो निरुत्साहः तस्मात् देशात् अपाक्रमे ।न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव ॥१-१९-७॥
+तथा भूता हि सा चर्या न शापः तत्र मुच्यते ।स्व पुत्रम् राज शार्दूल रामम् सत्य पराक्रमम् ॥१-१९-८॥
+काक पक्ष धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि ।शक्तो हि येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥
+राक्षसा ये विकर्तारः तेषाम् अपि विनाशने ।श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः ॥१-१९-१०॥
+त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति ।न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथम् च न ॥१-१९-११॥
+न च तौ राघवात् अन्यो हन्तुम् उत्सहते पुमान् ।वीर्य उत्सिक्तौ हि तौ पापौ काल पाश वशम् गतौ ॥१-१९-१२॥
+रामस्य राज शार्दूल न पर्याप्तौ महात्मनः ।न च पुत्र गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव ॥१-१९-१३॥
+अहम् ते प्रति जानामि हतौ तौ विद्धि राक्षसौ ।अहम् वेद्मि महात्मानम् रामम् सत्य पराक्रमम् ॥१-१९-१४॥
+वसिष्ठोऽपि महातेजा ये च इमे तपसि स्थिताः ।यदि ते धर्म लाभम् तु यशः च परमम् भुवि ॥१-१९-१५॥
+स्थिरम् इच्छसि राजेन्द्र रामम् मे दातुम् अर्हसि ।यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मंत्रिणः ॥१-१९-१६॥
+वसिष्ठ प्रमुखाः सर्वे ततो रामम् विसर्जय ।अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि ॥१-१९-१७॥
+दश रात्��म् हि यज्ञस्य रामम् राजीव लोचनम् ।न अत्येति कालो यज्ञस्य यथा अयम् मम राघव ॥१-१९-१८॥
+तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः ।इति एवम् उक्त्वा धर्मात्मा धर्मार्थ सहितम् वचः ॥१-१९-१९॥
+विरराम महातेजा विश्वामित्रो महामतिः ।स तन् निशम्य राजेन्द्रो विश्वामित्र वचः शुभम् ॥१-१९-२०॥
+शोकेन महता आविष्टः चचाल च मुमोह च ।लब्ध संज्ञः ततो उतथाय व्यषीदत भयान्वितः ॥१-१९-२१॥
+इति हृदय मनो विदारणम्मुनि वचनम् तद् अतीव शुश्रुवान् ।नरपतिः अभवत् महान् महात्माव्यथित मनाः प्रचचाल च असनात् ॥१-१९-२२॥
+तत् श्रुत्वा राज शार्दूलो विश्वामित्रस्य भाषितम् ।मुहूर्तम् इव निस्सज्ञः सज्ञावान् इदम् अब्रवीत् ॥१-२०-१॥
+ऊन षोडश वर्षो मे रामो राजीव लोचनः ।न युद्ध योग्यताम् अस्य पश्यामि सह राक्षसैः ॥१-२०-२॥
+इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः ।अनया सहितो गत्वा योद्ध अहम् तैर् निशाचरैः ॥१-२०-३॥
+इमे शूराः च विक्रान्ता भृत्याः मे अस्त्र विशारदाः ।योग्या रक्षोगणैः योद्धुम् न रामम् नेतुम् अर्हसि ॥१-२०-४॥
+अहम् एव धनुष्पाणिः गोप्ता समर मूर्धनि ।यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥१-२०-५॥
+निर्विघ्ना व्रत चर्या सा भविष्यति सुरक्षिता ।अहम् तत्र आगमिष्यामि न रामम् नेतुम् अर्हसि ॥१-२०-६॥
+बालो हि अकृत विद्यः च न च वेत्ति बलाबलम् ।न च अस्त्र बल संयुक्तो न च युद्ध विशारदः ॥१-२०-७॥
+न च असौ रक्षसा योग्यः कूट युद्धा हि राक्षसा ।विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे ॥१-२०-८॥
+जीवितुम् मुनि शार्दूल न रामम् नेतुम् अर्हसि ।यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत ॥१-२०-९॥
+चतुरंग समायुक्तम् मया सह च तम् नय ।षष्टिः वर्ष सहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
+कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि ।चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम ॥१-२०-११॥
+ज्येष्ठे धर्म प्रधाने च न रामम् नेतुम् अर्हसि ।किम् वीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते ॥१-२०-१२॥
+कथम् प्रमाणाः के च एतान् रक्षन्ति मुनिपुंगव ।कथम् च प्रति कर्तव्यम् तेषाम् रामेण रक्षसाम् ॥१-२०-१३॥
+मामकैः वा बलैः ब्रह्मन् मया वा कूट योधिनाम् ।सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे॥१-२०-१४॥
+स्थातव्यम् दुष्ट भावानाम् वीर्योत्सिक्ता हि राक्षसाः ।तस्य तद् वचनम् श्रुत्वा ���िश्वामित्रो अभ्यभाषत ॥१-२०-१५॥
+पौलस्त्य वंश प्रभवो रावणो नाम राक्षसः ।स ब्रह्मणा दत्त वरः त्रैलोक्यम् बाधते भृशम् ॥१-२०-१६॥
+महाबलो महावीर्यो राक्षसैः बहुभिः वृतः ।श्रूयते च महाराजा रावणो राक्षस अधिपः ॥१-२०-१७॥
+साक्षात् वैश्रवण भ्राता पुत्रो विश्रवसो मुनेः ।यदा न खलु यज्ञस्य विघ्न कर्ता महाबलः ॥१-२०-१८॥
+तेन संचोदितौ तौ तु राक्षसौ च महाबलौ ।मारीचः च सुबाहुः च यज्ञ विघ्नम् करिष्यतः ॥१-२०-१९॥
+इति उक्तो मुनिना तेन राजा उवाच मुनिम् तदा ।न हि शक्तो अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः ॥१-२०-२०॥
+स त्वम् प्रसादम् धर्मज्ञ कुरुष्व मम पुत्रके ।मम च एव अल्प भाग्यस्य दैवतम् हि भवान् गुरुः ॥१-२०-२१॥
+देव दानव गंधर्वा यक्षाः पतग पन्नगाः।न शक्ता रावणम् सोढुम् किम् पुनर् मानवा युधि ॥१-२०-२२॥
+स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः ।तेन च अहम् न शक्तोऽस्मि संयोद्धुम् तस्य वा बलैः ॥१-२०-२३॥
+सबलो वा मुनिश्रेष्ठ सहितो वा मम आत्मजैः ।कथम् अपि अमर प्रख्यम् संग्रामाणाम् अकोविदम् ॥१-२०-२४॥
+बालम् मे तनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् ।अथ काल उपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
+यज्ञ विघ्न करौ तौ ते न एव दास्यामि पुत्रकम् ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
+तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृत् गणः ।अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव ॥१-२०-२७॥
+इति नरपति जल्पनात् द्विजेन्द्रम्कुशिक सुतम् सुमहान् विवेश मन्युः ।सु हुत इव मखे अग्निः आज्य सिक्तःसमभवत् उज्वलितो महर्षि वह्निः ॥१-२०-२८॥
+तत् श्रुत्वा वचनम् तस्य स्नेह पर्याकुलाक्षरम् ।समन्युः कौशिको वाक्यम् प्रति उवाच महीपतिम् ॥१-२१-१॥
+पूर्वम् अर्थम् प्रति श्रुत्य प्रतिज्ञाम् हातुम् इच्छसि ।राघवाणाम् अयुक्तोऽयम् कुलस्य अस्य विपर्ययः ॥१-२१-२॥
+यद् इदम् ते क्षमम् राजन् गमिष्यामि यथा आगतम् ।मिथ्या प्रतिज्ञः काकुत्स्थ सुखी भव सु हृद् वृतः ॥१-२१-३॥
+तस्य रोष परीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना देवानाम् च भयम् ॥१-२१-४॥
+त्रस्त रूपम् तु विज्ञाय जगत्सर्वम् महान् ऋषिः ।नृपतिम् सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् ॥१-२१-५॥
+इक्ष्वाकूणाम् कुले जातः साक्षात् धर्म इव अपरः ।धृतिमान् सुव्रतः श्रीमान् न धर्मम् हातुम् अर्हसि ॥१-२१-६॥
+त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।स्व धर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि ॥१-२१-७॥
+प्रति श्रुत्य करिष्ये इति उक्तम् वाक्यम् अकुर्वतः ।इष्टापूर्त वधो भूयात् तस्मात् रामम् विसर्जय ॥१-२१-८॥
+कृतास्त्रम् अकृतास्त्रम् वा न एवम् शक्ष्यन्ति राक्षसाः ।गुप्तम् कुइशिक पुत्रेण ज्वलनेन अमृतम् यथा ॥१-२१-९॥
+एष विग्रहवान् धर्म एष वीर्यवताम् वरः ।एष विद्य अधिको लोके तपसः च परायणम् ॥१-२१-१०॥
+एषो अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे ।न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
+न देवा न ऋषयः के चित् न अमरा न च राक्षसाः ।गन्धर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-२१-१२॥
+सर्व अस्त्राणि कृशाश्वस्य पुत्राः परम धार्मिकाः ।कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति ॥१-२१-१३॥
+ते अपि पुत्रा कृशाश्वस्य प्रजापति सुता सुताः ।न एक रूपा महावीर्या दीप्तिमंतो जयावहाः ॥१-२१-१४॥
+जया च सुप्रभा च एव दक्ष कन्ये सुमध्यमे ।ते सूते अस्त्र शस्त्राणि शतम् परम भास्वरम् ॥१-२१-१५॥
+पंचाशतम् सुतान् लेभे जया लब्ध वरा वरान् ।वधायासुरसैन्यानामप्रमेयानरूपिणः - यद्वा -वधाय असुर सैन्यानाम् अप्रमेयान् अरूपिणः ॥१-२१-१६॥
+सुप्रभा अजनयत् च अपि पुत्रान् पंचाशतम् पुनः ।संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
+तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक आत्मजः ।अपूर्वाणाम् च जनने शक्तो भूयः च धर्मवित् ॥१-२१-१८॥
+तेन अस्य मुनि मुख्यस्य धर्मज्ञस्य महात्मनः ।न किंचिद् अस्ति अविदितम् भूतम् भव्यम् च राघव ॥१-२१-१९॥
+एवम् वीर्यो महातेजा विश्वामित्रो महा यशाः ।न राम गमने राजन् संशयम् गन्तुम् अर्हसि ॥१-२१-२०॥
+तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः ।तव पुत्र हितार्थाय त्वाम् उपेत्य अभि याचते ॥१-२१-२१॥
+इति मुनि वचनात् प्रसन्न चित्तोरघु वृषभः च मुमोद पार्थिव अग्र्यः ।गमनम् अभिरुरोच राघवस्यप्रथित यशाः कुशिक आत्मजाय बुध्या ॥१-२१-२२॥
+तथा वसिष्टे ब्रुवति राजा दशरथः स्वयम् ।प्रहृष्ट वदनो रामम् आजुहाव स लक्ष्मणम् ॥१-२२-१॥
+कृतः स्वस्त्ययनम् मात्रा पित्रा दशरथेन च ।पुरोधसा वसिष्ठेन मङ्गलैः अभिमंत्रितम् ॥१-२२-२॥
+स पुत्रम् मूर्ध्नि उपाघ्राय राजा दशरथः तदा ।ददौ कुशिक पुत्राय सुप्रीतेन अंतरात्मना ॥१-२२-३॥
+ततो वायुः सुख स्पर्शो नीरजस्को ववौ तदा ।विश्वामित्र गतम् रामम् दृष्ट्वा राजीव लोचनम् ॥१-२२-४॥
+पुष्प वृष्टिः महती आसीत् देव दुन्दुभि निःस्वनैः ।शङ्ख दुन्दुभि निर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
+विश्वामित्रो ययौ अग्रे ततो रामो महायशाः ।काक पक्ष धरो धन्वी तम् च सौमित्रिः अन्वगात् ॥१-२२-६॥
+कलापिनौ धनुष् पाणी शोभयानौ दिशो दश ।विश्वामित्रम् महात्मानम् त्रि शीर्षौ इव पन्नगौ ।अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ ॥१-२२-७॥
+तदा कुशिक पुत्रम् तु धनुष् पाणी स्वलंकृतौ ।बद्ध गोध अंगुलि त्राणौ खड्गवन्तौ महाद्युती ॥१-२२-८॥
+कुमारौ चारु वपुषौ भ्रातरौ राम लक्ष्मणौ ।अनुयातौ श्रिया दीप्तौ शोभयेताम् अनिन्दितौ ॥१-२२-९॥
+स्थाणुम् देवम् इव अचिन्त्यम् कुमारौ इव पावकी ।अध्यर्ध योजनम् गत्वा सरय्वा दक्षिणे तटे ॥१-२२-१०॥
+रामा इति मधुराम् वाणीम् विश्वामित्रः अभ्यभाषत ।गृहाण वत्स सलिलम् मा भूत् कालस्य पर्ययः ॥१-२२-११॥
+मंत्र ग्रामम् गृहाण त्वम् बलाम् अतिबलाम् तथा ।न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१२॥
+न च सुप्तम् प्रमत्तम् वा धर्ष इष्यन्ति नैरृताः ।न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश्चन ॥१-२२-१३॥
+त्रिषु लोकेषु वा राम न भवेत् सदृशः तव ।बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१४॥
+न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धि निश्चये ।न उत्तरे प्रति वक्तव्ये समो लोके तव अनघ ॥१-२२-१५॥
+एतत् विद्या द्वये लब्धे न भवेत् सदृशः तव ।बला च अतिबला चैव सर्व ज्ञानस्य मातरौ ॥१-२२-१६॥
+क्षुत् पिपासे न ते राम भविष्येते नरोत्तम ।बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१७॥
+गृहाण सर्व लोकस्य गुप्तये रघु नन्दन ।विद्या द्वयम् अधीयाने यशः च अथ भवेत् भुवि ।पितामह सुते हि एते विद्ये तेजः समन्विते ॥१-२२-१८॥
+प्रदातुम् तव काकुत्थ्स सदृअशः त्वम् हि पार्थिव ।कामम् बहुगुणाः सर्वे त्वयि एते न अत्र संशयः ॥१-२२-१९॥
+तपसा संभृते च एते बहु रूपे भविष्यतः ।ततो रामो जलम् स्पृष्ट्वा प्रहृष्ट वदनः शुचिः ॥१-२२-२०॥
+प्रति जग्राह ते विद्ये महर्षेर् भावित आत्मनः ।विद्या समुदितो रामः शुशुभे भीम विक्रमः ॥१-२२-२१॥
+सहस्र रश्मिः भग्वान् शरदीव दिवाकरः ।गुरु कार्याणि सर्वाणि नियुज्य कुशिक आत्मजे ।ऊषुः ताम् रजनीम् तत्र सरय्वाम् सुसुखम् त्रयः ॥१-२२-२२॥
+दशरथ नृइप सूनु सत्तमाभ्याम्तृण शयने अनुचिते तदा उषिताभ्याम् ।कुशिक सुत वचोऽनुलालिताभ्याम् ।सुखमिव सा विबभौ विभावरी च ॥१-२२-२३॥
+प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे ॥१-२३-१॥
+कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम् ॥१-२३-२॥
+तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम् ॥१-२३-३॥
+कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१-२३-४॥
+तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।ददृशा ते ततः तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥
+तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।बहु वर्ष सहस्राणि तप्यताम् परमम् तपः ॥१-२३-६॥
+तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१-२३-७॥
+कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१-२३-८॥
+तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः ॥१-२३-९॥
+कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।तपस्यंतम् इह स्थाणुम् नियमेन समाहितम् ॥१-२३-१०॥
+कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।धर्षयामास दुर्मेधा हुम् कृतः च महात्मना ॥१-२३-११॥
+अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः ॥१-२३-१२॥
+तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह ॥१-२३-१३॥
+अनङ्ग इति विख्यातः तदा प्रभृति राघव ।स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह ॥१-२३-१४॥
+तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते ॥१-२३-१५॥
+इह अद्य रजनीम् राम वसेम शुभ दर्शन ।पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम् ॥१-२३-१६॥
+अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम् ॥१-२३-१७॥
+स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा ॥१-२३-१८॥
+विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।अर्घ्यम् पाद्यम् तथा आतिथ��यम् निवेद्य कुशिकात्मजे ॥१-२३-१९॥
+राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन् ॥१-२३-२०॥
+यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
+न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।यद्वा -कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौरमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥
+ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ ।विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१-२४-१॥
+ते च सर्वे महात्मानो मुनयः संश्रित व्रताः ।उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१-२४-२॥
+आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः ।अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥१-२४-३॥
+विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च ।ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥१-२४-४॥
+तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् ।मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
+ज्ञातु कामो महातेजा सह रामः कनीयसा ।अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥१-२४-६॥
+वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः ।राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥१-२४-७॥
+कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।कैलास पर्वते राम मनसा निर्मितम् परम् ॥१-२४-८॥
+ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः ।तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१-२४-९॥
+सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता ।तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥१-२४-१०॥
+वारि संक्षोभजो राम प्रणामम् नियतः कुरु ।ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥१-२४-११॥
+तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ ।स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
+अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् ।अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥१-२४-१३॥
+भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः ।नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥१-२४-१४॥
+सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् ।धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥१-२४-१५॥
+संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् ।तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
+श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् ।एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥१-२४-१७॥
+मलदाः च करूषाः च देव निर्माण निर्मितौ ।पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
+क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् ।तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥१-२४-१९॥
+कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् ।इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥१-२४-२०॥
+शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे ।निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥१-२४-२१॥
+ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् ।इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१-२४-२२॥
+मलदाः च करूषाः च मम अंग मल धारिणौ ।साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१-२४-२३॥
+देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता ।एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥१-२४-२४॥
+मलदाः च करूषाः च मुदिता धन धान्यतः ।कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥१-२४-२५॥
+बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् ।ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
+मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः ।वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥१-२४-२७॥
+राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः ।इमौ जनपदौ नित्यम् विनाशयति राघव ॥१-२४-२८॥
+मलदांश्च करूषांश्च ताटका दुष्ट चारिणी ।सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥१-२४-२९॥
+अत एव च गन्तव्यम् ताटकाया वनम् यतः ।स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥१-२४-३०॥
+मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः ।न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥१-२४-३१॥
+यक्षिण्या घोरया राम उत्सादितम् असह्यया ।एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् ।यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥१-२४-३२॥
+अथ तस्य अप्रमेयस्य मुनेर् वचनम् उत्तमम् ।श्रुत्वा पुरुष शार्दूलः प्रत्युवाच शुभाम् गिरम् ॥१-२५-१॥
+अल्प वीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।कथम् नाग सहस्रस्य धारयति अबला बलम् ॥१-२५-२॥
+इति उक्त,म् वचनम् श्रुत्वा राघवस्य अमित ओजसा ।हर्षयन् श्लक्ष्णया वचा स लक्ष्मणम् अरिन्दमम् ॥१-२५-३॥
+विश्वामित्रोऽब्रवीत् वाक्यम् शृणु येन बलोत्कटा ।वर दान कृतम् वीर्यम् धारयति अबला बलम् ॥१-२५-४॥
+पूर्वम् आसीत् महा यक्षः सुकेतुर् नाम वीर्यवान् ।अनपत्यः शुभाचारः स च तेपे महत् तपः ॥१-२५-५॥
+पितामहः तु सुप्रीतः तस्य यक्षपतेः तदा ।कन्या रत्नम् ददौ राम ताटकाम् नाम नामतः ॥१-२५-६॥
+ददौ नाग सहस्रस्य बलम् च अस्याः पितामहः ।न तु एव पुत्रम् यक्षाय ददौ च असौ महायशाः ॥१-२५-७॥
+ताम् तु बालाम् विवर्धन्तीम् रूप यौवन शालिनीम् ।जंभ पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् ॥१-२५-८॥
+कस्यचित् तु अथ कालस्य यक्षी पुत्रम् व्यजायत ।मारीचम् नाम दुर्धर्षम् यः शापात् राक्षसोऽभवत् ॥१-२५-९॥
+सुन्दे तु निहते राम सा अगस्त्यम् ऋषि सत्तमम् ।ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति ॥१-२५-१०॥
+भक्षार्थम् जात संरम्भा गर्जन्ती सा अभ्यधावत ।आपतन्तीम् तु ताम् दृष्ट्वा अगस्त्यो भगवान् ऋषिः ॥१-२५-११॥
+राक्षसत्वम् भजस्व इति मारीचम् व्याजहार सः ।अगस्त्यः परम अमर्षः ताटकाम् अपि शप्तवान् ॥१-२५-१२॥
+पुरुषादी महायक्षी विरूपा विकृत आनना ।इदम् रूपम् विहायाशु दारुणम् रूपम् अस्तु ते ॥१-२५-१३॥
+सैषा शाप कृताम् अर्षा ताटका क्रोध मूर्छिता ।देशम् उत्सादयति एनम् अगस्त्या चरितम् शुभम् ॥१-२५-१४॥
+एनाम् राघव दुर्वृत्ताम् यक्षीम् परम दारुणाम् ।गो ब्राह्मण हितार्थाय जहि दुष्ट पराक्रमाम् ॥१-२५-१५॥
+न हि एनाम् शाप संसृष्टाम् कश्चित् उत्सहते पुमान् ।निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघु नन्दन ॥१-२५-१६॥
+न हि ते स्त्री वध कृते घृणा कार्या नरोत्तम ।चातुर् वर्ण्य हितार्थाम् हि कर्तव्यम् राज सूनुना ॥१-२५-१७॥
+नृशंसम् अनृशंसम् वा प्रजा रक्षण कारणात् ।पातकम् वा सदोषम् वा कर्तव्यम् रक्षता सदा ॥१-२५-१८॥
+राज्य भार नियुक्तानाम् एष धर्मः सनातनः ।अधर्म्याम् जहि काकुत्स्थ धर्मो हि अस्याम् न विद्यते ॥१-२५-१९॥
+श्रूयते हि पुरा शक्रो विरोचन सुताम् नृप ।पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत् ॥१-२५-२०॥
+विष्णुना च पुरा राम भृगु पत्नी पतिव्रता ।अनिन्द्रम् लोकम् इच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
+एतैः च अन्यैः च बहुभी राजपुत्रैः महात्मभिः ।अधर्म सहिता नार्यो हताः पुरुषसत्तमैः ।तस्माद् एनाम् घृणाम् त्यक्त्वा जहि मत् शासनान् नृप ॥१-२५-२२॥
+मुनेर् वचनम् अक्लीबम् श्रुत्वा नरवरात्मजः ।राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥
+पितुर् वचन निर्देशात् पितुर् वचन गौरवात् ।वचनम् कौशिकस्य इति कर्तव्यम् अविशङ्कया ॥१-२६-२॥
+अनुशिष्टो अस्मि अयोध्यायाम् गुरु मध्ये महात्मना ।पित्रा दशरथेन अहम् न अवज्ञेयम् च तद् वचः ॥१-२६-३॥
+सोऽहम् पितुर्वचः श्रुत्वा शासनाद् ब्रह्म वादिनः ।करिष्यामि न संदेहः ताटका वधम् उत्तमम् ॥१-२६-४॥
+गो ब्राह्मण हितार्थाय देशस्य च हिताय च ।तव चैव अप्रमेयस्य वचनम् कर्तुम् उद्यतः ॥१-२६-५॥
+एवम् उक्त्वा धनुर्मध्ये बध्वा मुष्टिम् अरिन्दमः ।ज्या घोषम् अकरोत् तीव्रम् दिशः शब्देन नादयन् ॥१-२६-६॥
+तेन शब्देन वित्रस्ताः ताटका वन वासिनः ।ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥
+तम् शब्दम् अभिनिध्याय राक्षसी क्रोध मूर्चिता ।श्रुत्वा च अभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिस्सृतः ॥१-२६-८॥
+ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत आननाम् ।प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सोऽभ्यभाषत ॥१-२६-९॥
+पश्य लक्ष्मण यक्षिण्या भैरवम् दारुणम् वपुः ।भिद्येरन् दर्शनात् अस्या भीरूणाम् हृदयानि च ॥१-२६-१०॥
+एताम् पश्य दुराधर्षाम् माया बल समन्विताम् ।विनिवृत्ताम् करोमि अद्य हृत कर्णाग्र नासिकाम् ॥१-२६-११॥
+न हि एनाम् उत्सहे हन्तुम् स्त्री स्वभावेन रक्षिताम् ।वीर्यम् च अस्या गतिम् च एव हन्यताम् इति मे मतिः ॥१-२६-१२॥
+एवम् ब्रुवाणे रामे तु ताटका क्रोध मूर्छिता ।उद्यम्य बाहूम् गर्जन्ती रामम् एव अभ्यधावत ॥१-२६-१३॥
+विश्वामित्रस्तु ब्रह्मर्षिः हुंकारेणा अभिभर्त्स्य ताम् ।स्वस्ति राघवयोः अस्तु जयम् च एव अभ्यभाषत ॥१-२६-१४॥
+उद् धुन्वाना रजो घोरम् ताटका राघवौ उभौ ।रजो मेघेन महता मुहूर्तम् सा व्यमोहयत् ॥१-२६-१५॥
+ततो मायाम् समास्थाय शिला वर्षेण राघवौ ।अवाकिरत् सुमहता ततः चुक्रोध राघवः ॥१-२६-१६॥
+शिला वर्षम् महत् तस्याः शर वर्षेण राघवः ।प्रतिवार्यो अपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥
+ततः च्छिन्न भुजाम् श्रान्ताम् अभ्याशे परिगर्जतीम् ।सौमित्रिः अकरोत् क्रोधात् हृत कर्णाग्र नासिकाम् ॥१-२६-१८॥
+काम रूपधरा सा तु कृत्वा रूपाणि अनेकशः ।अन्तर्धानम् गता यक्षी मोहयन्ति स्व मायया ॥१-२६-१९॥
+अश्म वर्षम् विमुंचन्ती भैरवम् विचचार सा।ततः तौ अश्म वर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
+दृष्ट्वा गाधि सुतः श्रीईमान् इदम् वचनम् अब्रवीत् ।��लम् ते घृणया राम पापा एषा दुष्ट चारिणी ॥१-२६-२१॥
+यज्ञ विघ्न करी यक्षी पुरा वर्धेत मायया ।वध्यताम् तावत् एव एषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
+रक्षांसि संध्या काले तु दुर्धर्षाणि भवन्ति हि ।इति उक्तः स तु ताम् यक्षीम् अश्म वृष्ट्या अभिवर्षणीम् ॥१-२६-२३॥
+दर्शयन् शब्द वेधित्वम् ताम् रुरोध स सायकैः ।सा रुद्धा बाण जालेन माया बल समन्विता ॥१-२६-२४॥
+अभि दुद्राव काकुत्स्थम् लक्षमणम् च विनेषुदी।ताम् आपतन्तीम् वेगेन विक्रान्ताम् अशनीम् इव ॥१-२६-२५॥
+शरेण उरसि विव्याध सा पपात ममार च ।ताम् हताम् भीम संकाशाम् दृष्ट्वा सुरपतिः तदा ॥१-२६-२६॥
+साधु साध्विति काकुत्स्थम् सुराः च अपि अभिपूजयन् ।उवाच परम प्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
+सुराः च सर्वे संहृष्टा विश्वामित्रम् अथ अब्रुवन् ।मुने कौशिक भद्रम् ते सह इन्द्राः सर्वे मरुद् गणाः ॥१-२६-२८॥
+तोषिताः कर्मणा अनेन स्नेहम् दर्शय राघवे ।प्रजापतेः कृशाश्वस्य पुत्रान् सत्य पराक्रमान् ॥१-२६-२९॥
+तपो बल भृतो ब्रह्मन् राघवाय निवेदय ।पात्रभूतः च ते ब्रह्मन् तव अनुगमने रतः ॥१-२६-३०॥
+कर्तव्यम् सुमहत् कर्म सुराणाम् राज सूनुना ।एवम् उक्त्वा सुराः सर्वे जग्मुर् हृष्टा विहायसम् ॥१-२६-३१॥
+विश्वामित्रम् पूजयन् ततः संध्या प्रवर्तते ।ततो मुनिवरः प्रीतः ताटका वध तोषितः ॥१-२६-३२॥
+मूर्ध्नि रामम् उपाघ्राय इदम् वचनम् अब्रवीत् ।इह अद्य रजनीम् राम वसाम शुभ दर्शन ॥१-२६-३३॥
+श्वः प्रभाते गमिष्यामः तद् आश्रम पदम् मम ।विश्वामित्रः वचः श्रुत्वा हृष्टो दशरधात्मजः ॥१-२६-३४॥
+उवास रजनीम् तत्र ताटकाया वने सुखम् ।मुक्त शापम् वनम् तत् च तस्मिन् एव तत् आहनि ।रमणीयम् विबभ्राज यथा चैत्र रथम् वनम् ॥१-२६-३५॥
+निहत्य ताम् यक्ष सुताम् स रामःप्रशस्यमानः सुर सिद्ध सन्घैः ।उवास तस्मिन् मुनिना सह एवप्रभात वेलाम् प्रति बोध्यमानः ॥१-२६-३६॥
+अथ ताम् रजनीम् उष्य विश्वामिरो महायशाः ।प्रहस्य राघवम् वाक्यम् उवाच मधुर स्वरम् ॥१-२७-१॥
+परितुष्टो अस्मि भद्रम् ते राजपुत्र महायशः ।प्रीत्या परमया युक्तो ददामि अस्त्राणि सर्वशः ॥१-२७-२॥
+देव असुर गणान् वा अपि स गन्धर्व उरगान् भुवि ।यैः अमित्रान् प्रसह्य आजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥
+तानि दिव्यानि भद्रम् ते ददामि अस्त्राणि सर्वशः ।दण्ड चक्रम् महत् दिव्यम् तव दास��यामि राघव ॥१-२७-४॥
+धर्म चक्रम् ततो वीर काल चक्रम् तथैव च ।विष्णु चक्रम् तथा अति उग्रम् ऐन्द्रम् चक्रम् तथैव च ॥१-२७-५॥
+वज्रम् अस्त्रम् नरश्रेष्ठ शैवम् शूलवरम् तथा ।अस्त्रम् ब्रह्मशिरः च एव ऐषीकम् अपि राघव ॥१-२७-६॥
+ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् ।गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे ॥१-२७-७॥
+प्रदीप्ते नरशार्दूल प्रयच्छामि नृपाअत्मज ।धर्म पाशम् अहम् राम काल पाशम् तथैव च ॥१-२७-८॥
+वारुणम् पाशम् अस्त्रम् च ददामि अहम् अनुत्तमम् ।अशनी द्वे प्रयच्छामि शुष्क आर्द्रे रघुनन्दन ॥१-२७-९॥
+ददामि च अस्त्रम् पैनाकम् अस्त्रम् नारायणम् तथा ।आग्नेयम् अस्त्रम् दयितम् शिखरम् नाम नामतः ॥१-२७-१०॥
+वायव्यम् प्रथमम् नाम ददामि तव च अनघ ।अस्त्रम् हयशिरः नाम क्रौञ्चम् अस्त्रम् तथैव च ॥१-२७-११॥
+शक्ति द्वयम् च काकुत्स्थ ददामि तव राघव ।कंकालम् मुसलम् घोरम् कापालम् अथ किन्किणीम् ॥१-२७-१२॥
+वधार्थम् राक्षसाम् यानि ददामि एतानि सर्वशः ।वैद्याधरम् महा अस्त्रम् च नन्दनम् नाम नामतः ॥१-२७-१३॥
+असि रत्नम् महाबाहो ददामि नृवरात्मज ।गान्धर्वम् अस्त्रम् दयितम् मोहनम् नाम नामतः ॥१-२७-१४॥
+प्रस्वापनम् प्रशमनम् दद्मि सौम्यम् च राघव ।वर्षणम् शोषणम् चैव संतापन विलापने ॥१-२७-१५॥
+मादनम् चैव दुर्धर्षम् कन्दर्प दयितम् तथा ।गान्धर्वम् अस्त्रम् दयितम् मानवम् नाम नामतः ॥१-२७-१६॥
+पैशाचम् अस्त्रम् दयितम् मोहनम् नाम नामतः ।प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥
+तामसम् नरशार्दूल सौमनम् च महाबलम् ।संवर्तम् चैव दुर्धर्षम् मौसलम् च नृपात्मज ॥१-२७-१८॥
+सत्यम् अस्त्रम् महाबाहो तथा मायामयम् परम् ।सौरम् तेजःप्रभम् नाम पर तेजो अपकर्षणम् ॥१-२७-१९॥
+सोम अस्त्रम् शिशिरम् नाम त्वाष्ट्रम् अस्त्रम् सुदारुरणम् ।दारुणम् च भगस्य अपि शितेषुम् अथ मानवम् ॥१-२७-२०॥
+एतान् राम महाबाहो काम रूपान् महाबलान् ।गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज ॥१-२७-२१॥
+स्थितः तु प्राङ्मुखो भूत्वा शुचिर् मुनिवरः तदा ।ददौ रामाय सुप्रीतो मंत्र ग्रामम् अनुत्तमम् ॥१-२७-२२॥
+सर्व संग्रहणम् एषाम् दैवतैः अपि दुर्लभम् ।तानि अस्त्राणि तदा विप्रो राघवाय न्यवेदत् ॥१-२७-२३॥
+जपतः तु मुनेः तस्य विश्वामित्रस्य धीमतः ।उपतस्थुः महा अर्हाणि सर्वाणि अस्त्राणि राघवम् ॥१-��७-२४॥
+ऊचुः च मुदिता रामम् सर्वे प्रांजलयः तदा ।इमे च परमोदार किंकराः तव राघव ॥१-२७-२५॥
+यद् यद् इच्छसि भद्रन् ते तत् सर्वम् करवाम वै ।ततो राम प्रसन्न आत्मा तैः इति उक्तो महाबलैः ॥१-२७-२६॥
+प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।मनसा मे भविष्यध्वम् इति तानि अभ्यचोदयत् ॥१-२७-२७॥
+ततः प्रीत मना रामो विश्वामित्रम् महामुनिम् ।अभिवाद्य महातेजा गमनाय उपचक्रमे ॥१-२७-२८॥
+प्रतिगृह्य ततः अस्त्राणि प्रहृष्ट वदनः शुचिः ।गच्छन् एव च काकुत्स्थो विश्वामित्रम् अथ अब्रवीत् ॥१-२८-१॥
+गृहीत अस्त्रो अस्मि भगवन् दुराधर्षः सुरैः अपि ।अस्त्राणाम् तु अहम् इच्छामि संहारम् मुनिपुंगव ॥१-२८-२॥
+एवम् ब्रुवति काकुत्स्थे विश्वामित्रो महा तपाः ।संहारान् व्याजहार अथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥
+सत्यवन्तम् सत्य कीर्तिम् धृष्टम् रभसम् एव च ।प्रतिहारतरम् नाम पराङ्मुखम् अवाङ्मुखम् ॥१-२८-४॥
+लक्ष्या अलक्ष्याः इमौ चैव दृढ नाभ सुनाभकौ ।दशाक्ष शतवक्त्रौ च दश शीर्ष शत उदरौ ॥१-२८-५॥
+पद्मनाभ महानाभौ दुन्दुनाभ स्वनाभकौ ।ज्योतिषम् शकुनम् चैव नैराश्य विमलौ उभौ ॥१-२८-६॥
+यौगंधर विनिद्रौ च दैत्य प्रमधनौ तथा ।शुचि बाहुर् महाबाहुर् निष्कलि विरुचर् तथासार्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथा ॥१-२८-७॥
+पित्र्यः सौमनसः चैव विधूत मकरौ उभौ ।परवीरम् रतिम् चैव धन धान्यौ च राघव ॥१-२८-८॥
+कामरूपम् कामरुचिम् मोहम् आवरणम् तथा ।जृंभकम् सर्पनाथम् च पन्थान वरणौ तथा ॥१-२८-९॥
+कृशाश्व तनयान् राम भास्वरान् काम रूपिणः ।प्रतीच्छ मम भद्रम् ते पात्र भूतोऽसि राघव ॥१-२८-१०॥
+बाढम् इति एव काकुत्स्थ प्रहृष्टेन अंतरात्मना ।दिव्य भास्वर देहाः च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥
+केचिद् अंगार सदृशाः केचिद् धूम उपमाः तथा ।चन्द्र अर्क सदृशाः केचित् प्रह्व अंजलि पुटाः तथा ॥१-२८-१२॥
+रामम् प्रांजलयो भूत्वा अब्रुवन् मधुर भाषिणः ।इमे स्म नरशार्दूल शाधि किम् करवाम ते ॥१-२८-१३॥
+गम्यताम् इति तान् आह यथा इष्टम् रघुनन्दनः ।मानसाः कार्य कालेषु साहाय्यम् मे करिष्यथ ॥१-२८-१४॥
+अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् ।एवम् अस्तु इति काकुत्स्थम् उक्त्वा जग्मुः यथाआगतम् ॥१-२८-१५॥
+स च तान् राघवो ज्ञात्वा विश्वामित्रम् महामुनिम् ।गच्छन् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-२८-१६॥
+किम् एतन् मेघ संकाशम् पर्वतस्य अविदूरतः ।वृक्ष खण्डम् इतः भाति परम् कौतूहलम् हि मे ॥१-२८-१७॥
+दर्शनीयम् मृगाअकीर्णम् मनोहरम् अतीव च ।नाना प्रकारैः शकुनैः वल्गुभाषैः अलंकृतम् ॥१-२८-१८॥
+निःसृताः स्म मुनिश्रेष्ठ कान्तारात् रोमहर्षणात् ।अनया तु अवगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥
+सर्वम् मे शंस भगवन् कस्य आश्रम पदम् तु इदम् ।संप्राप्ताः यत्र ते पापाः ब्रह्मघ्नाः दुष्ट चारिणः ॥१-२८-२०॥
+तव यज्ञस्य विघ्नाय दुरात्मनो महामुनेः ।भगवन् तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥
+रक्षितव्या क्रिया ब्रह्मन् मया वध्याः च राक्षसाः ।एतत् सर्वम् मुनिश्रेष्टः श्रोतुम् इच्छामि अहम् प्रभो ॥१-२८-२२॥
+अथ तस्य अप्रमेयस्य वचनम् परिपृच्छतः ।विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे ॥१-२९-१॥
+इह राम महाबाहो विष्णुर् देव नमस्कृत ।वर्षाणि सुबहूनि इह तथा युग शतानि च ॥१-२९-२॥
+तपः चरण योगार्थम् उवास सु महातपाः ।एष पूर्व आश्रमो राम वामनस्य महात्मनः ॥१-२९-३॥
+सिद्ध आश्रम इति ख्यातः सिद्धो हि अत्र महातपाः ।एतस्मिन् एव काले तु राजा वैरोचनिर् बलिः ॥१-२९-४॥
+निर्जित्य दैवत गणान् स इन्द्रान् स मरुद् गणान् ।कारयामास तद् राज्यम् त्रिषु लोकेषु विश्रुतः ॥१-२९-५॥
+यज्ञम् चकार सुमहान् असुरेन्द्रो महाबलः ।बलेः तु यजमानस्य देवाः साग्नि पुरोगमाः ।समागम्य स्वयम् चैव विष्णुम् ऊचुः इह आश्रमे ॥१-२९-६॥
+बलिः वैरोचनिः विष्णो यजते यज्ञम् उत्तमम् ।असमाप्त व्रते तस्मिन् स्व कार्यम् अभिपद्यताम् ॥१-२९-७॥
+ये च एनम् अभिवर्तन्ते याचितार इतः ततः ।यत् च यत्र यथावत् च सर्वम् तेभ्यः प्रयच्छति ॥१-२९-८॥
+स त्वम् सुर हितार्थाय माया योगम् उपाश्रितः ।वामनत्वम् गतो विष्णो कुरु कल्याणम् उत्तमम् ॥१-२९-९॥
+एतस्मिन् अनन्तरे राम काश्यपो अग्नि सम प्रभः ।अदित्या सहितः राम दीप्यमान इव ओजसा ॥१-२९-१०॥
+देवी सहायो भगवन् दिव्यम् वर्ष सहस्रकम् ।व्रतम् समाप्य वरदम् तुष्टाव मधुसूदनम् ॥१-२९-११॥
+तपोमयम् तपोराशिम् तपोमूर्तिम् तपात्मकम् ।तपसा त्वाम् सुतप्तेन पश्यामि पुरोषोत्तमम् ॥१-२९-१२॥
+शरीरे तव पश्यामि जगत् सर्वम् इदम् प्रभो ।त्वम् अनादिः अनिर्देश्यः त्वाम् अहम् शरणम् गतः ॥१-२९-१३॥
+तम् उवाच हरिः प्रीतः कश्यपम् धूत कल्मषम् ।वरम् वरय भद्रम् ते वर अर्हः असि मतो मम ॥१-२९-१४॥
+तत् श्रुत्वा वचनम् तस्य मारीचः कश्यपो अब्रवीत् ।अदित्या देवतानाम् च मम च एव अनुयाचितम् ॥१-२९-१५॥
+वरम् वरद सुप्रीतो दातुम् अर्हसि सुव्रत ।पुत्रत्वम् गच्छ भगवन् अदित्या मम च अनघ ॥१-२९-१६॥
+भ्राता भव यवीयान् त्वम् शक्रस्य असुरसूदन ।शोक आर्तानाम् तु देवानाम् साहाय्यम् कर्तुम् अर्हसि ॥१-२९-१७॥
+अयम् सिद्ध आश्रमो नाम प्रसादात् ते भविष्यति ।सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन् इतः ॥१-२९-१८॥
+अथ विष्णुर् महातेजाअ आदित्याम् समजायत ।वामनम् रूपम् आस्थाय वैरोचनिम् उपागमत् ॥१-२९-१९॥
+त्रीन् पादान् अथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।आक्रम्य लोकान् लोकार्थो सर्व लोक हिते रतः ॥१-२९-२०॥
+महेन्द्राय पुनः प्रादात् नियम्य बलिम् ओजसा ।त्रैलोक्यम् स महातेजाः चक्रे शक्र वशम् पुनः ॥१-२९-२१॥
+तेन एव पूर्वम् आक्रान्त आश्रमः श्रम नाशनः ।मया अपि भक्त्या तस्य एव वामनस्य उपभुज्यते ॥१-२९-२२॥
+एनम् आश्रमम् आयान्ति राक्षसा विघ्न कारिणः ।अत्र ते पुरुषव्याघ्र हन्तव्या दुष्ट चारिणः ॥१-२९-२३॥
+अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् ।तत् आश्रम पदम् तात तव अपि एतद् यथा मम ॥१-२९-२४॥
+इति उक्त्वा परम प्रीतो गृह्य रामम् स लक्ष्मणम् ।प्रविशन् आश्रम पदम् व्यरोचत महामुनिः ।शशी इव गत नीहारः पुनर्वसु समन्वितः ॥१-२९-२५॥
+तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रम निवासिनः ।उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् ॥१-२९-२६॥
+यथा अर्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते ।तथैव राज पुत्राभ्याम् अकुर्वन् अतिथि क्रियाम् ॥१-२९-२७॥
+मुहूर्तम् अथ विश्रान्तौ राज पुत्रौ अरिन्दमौ ।प्रांजली मुनि शार्दूलम् ऊचतू रघुनंदनौ ॥१-२९-२८॥
+अद्य एव दीक्षाम् प्रविश भद्रम् ते मुनिपुंगव ।सिद्धाश्रमो अयम् सिद्धः स्यात् सत्यम् अस्तु वचः तव ॥१-२९-२९॥
+एवम् उक्तो महातेजा विश्वामित्रो महानृषिः ।प्रविवेश तदा दीक्षाम् नियतो नियतेन्द्रियः ॥१-२९-३०॥
+कुमारौ एव ताम् रात्रिम् उषित्वा सुसमाहितौ ।प्रभात काले च उत्थाय पूर्वाम् संध्याम् उपास्य च ॥१-२९-३१॥
+प्रशुची परम् जाप्यम् समाप्य नियमेन च ।हुत अग्निहोत्रम् आसीनम् विश्वमित्रम् अवन्दताम् ॥१-२९-३२॥
+अथ तौ देश कालज्ञौ राजपुत्रौ अरिंदमौ ।देशे काले च वाक्यज्ञौ अब्रूताम् कौशिकम् वचः ॥१-३०-१॥
+भगवन् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ ।संरक्षणीयौ तौ ब्रूहि न अतिवर्तेत तत् क्षणम् ॥१-३०-२॥
+एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ ॥१-३०-३॥
+अद्य प्रभृति षट् रात्रम् रक्षतम् राघवौ युवाम् ।दीक्षाम् गतो हि येष मुनिर् मौनित्वम् च गमिष्यति ॥१-३०-४॥
+तौ तु तद् वचनम् श्रुत्वा राजपुत्रौ यशस्विनौ ।अनिद्रौ षट् अहोरात्रम् तपोवनम् अरक्षताम् ॥१-३०-५॥
+उपासाम् चक्रतुर् वीरौ यत्तौ परम धन्विनौ ।ररक्षतुर् मुनिवरम् विश्वामित्रम् अरिंदमौ ॥१-३०-६॥
+अथ काले गते तस्मिन् षष्ठे अहनि तदा आगते ।सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥
+रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया ।प्रजज्वाल ततो वेदिः स उपाध्याय पुरोहिता ॥१-३०-८॥
+स दर्भ चमस स्रुक्का स समित् कुसुमोच्चया ।विश्वामित्रेण सहिता वेदिः जज्वाल स ऋत्विजा ॥१-३०-९॥
+मंत्रवत् च यथा न्यायम् यज्ञो असौ संप्रवर्तते ।आकाशे च महान् शब्दः प्रादुर् आसीत् भयानकः ॥१-३०-१०॥
+आवार्य गगनम् मेघो यथा प्रावृषि दृश्यते ।तथा मायाम् विकुर्वाणौ राक्षसौ अभ्यधावताम् ॥१-३०-११॥
+मारीचः च सुबाहुः च तयोर् अनुचराः तथा ।आगम्य भीम संकाशा रुधिर ओघान् अवासृजन् ॥१-३०-१२॥
+ताम् तेन रुधिर ओघेण वेदीम् वीक्ष्य समुक्षिताम् ।सहसा अभिद्रुतो रामः तान् अपश्यत् ततो दिवि ॥१-३०-१३॥
+तौ आपतन्तौ सहसा दृष्ट्वा राजीव लोचनः ।लक्ष्मणम् तौ अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् ॥१-३०-१४॥
+पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशित अशनान् ।मानवास्त्र समाधूतान् अनिलेन यथा घनान् ॥१-३०-१५॥
+करिष्यामि न संदेहो न उत्सहे हन्तुम् ईदृशान् ।इति उक्त्वा वचनम् रामः चापे संधाय वेगवान् ॥१-३०-१६॥
+मानवम् परम उदारम् अस्त्रम् परम भास्वरम् ।चिक्षेप परम क्रुद्धो मारीच उरसि राघवः ॥१-३०-१७॥
+स तेन परमास्त्रेण मानवेन समाहितः ।संपूर्णम् योजन शतम् क्षिप्तः सागर संप्लवे ॥१-३०-१८॥
+विचेतनम् विघूर्णन्तम् शीतेषु बल पीडितम् ।निरस्तम् दृश्य मारीचम् रामो लक्ष्मणम् अब्रवीत् ॥१-३०-१९॥
+पश्य लक्ष्मण शीतेषुम् मानवम् मनु संहितम् ।मोहयित्वा नयति एनम् न च प्राणैर् व्ययुज्यत ॥१-३०-२०॥
+इमान् अपि वधिष्यामि निर्घृणान् दुष्ट चारिणः ।राक्षसान् पाप कर्मस्थान् यज्ञ घ्नान् रुधिर अशनान् ॥१-३०-२१॥
+इति उक्त्वा ल��्ष्मणम् च अशु लाघवम् दर्शयन् इव ।संगृह्य सुमहत् च अस्त्रम् आग्नेयम् रघुनंदनः ।सुबाहु उरसि चिक्षेप स विद्धः प्रापतत् भुवि ॥१-३०-२२॥
+शेषान् वायव्यम् आदाय निजघान महायशाः ।राघवः परमोदारो मुनीनाम् मुदम् आवहन् ॥१-३०-२३॥
+स हत्वा राक्षसान् सर्वान् यज्ञ घ्नान् रघुनंदनः ।ऋषिभिः पूजितः तत्र यथा इन्द्रो विजये पुरा ॥१-३०-२४॥
+अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥१-३०-२५॥
+कृतार्थो अस्मि महाबाहो कृतम् गुरु वचः त्वया ।सिद्धाश्रमम् इदम् सत्यम् कृतम् वीर महायशः ।स हि रामम् प्रशस्य एवम् ताभ्याम् संध्याम् उपागमत् ॥१-३०-२६॥
+अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ ।ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना ॥१-३१-१॥
+प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ ।विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः ॥१-३१-२॥
+अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् ।ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ ॥१-३१-३॥
+इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ ।आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् ॥१-३१-४॥
+एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः ।विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥१-३१-५॥
+मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् ॥१-३१-६॥
+त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि ।अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि ॥१-३१-७॥
+तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः ।अप्रमेय बलम् घोरम् मखे परम भास्वरम् ॥१-३१-८॥
+न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः ।कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः ॥१-३१-९॥
+धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः ।न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः ॥१-३१-१०॥
+तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः ।तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् ॥१-३१-११॥
+तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः ।याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः ॥१-३१-१२॥
+आयागभूतम् नृपतेः तस्य वेश्मनि राघव ।अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः ॥१-३१-१३॥
+एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा ।स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः ॥१-३१-१४॥
+स्वस्ति वो अस्तु गमिष्यामि ���िद्धः सिद्ध आश्रमात् अहम् ।उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् ॥१-३१-१५॥
+इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१-३१-१६॥
+तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् ।शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् ॥१-३१-१७॥
+मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः ।अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् ॥१-३१-१८॥
+निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः ।ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
+वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः ।ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः ॥१-३१-२०॥
+विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः ।रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च ॥१-३१-२१॥
+अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः ।अथ रामो महातेजा विश्वामित्रम् तपोधनम् ॥१-३१-२२॥
+पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः ।भगवन् कः नु अयम् देशः समृद्ध वन शोभितः ॥१-३१-२३॥
+श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः ।चोदितो राम वाक्येन कथयामास सुव्रतः ।तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः ॥१-३१-२४॥
+ब्रह्म योनिर् महान् आसीत् कुशो नाम महातपाः ।अक्लिष्ट व्रत धर्मज्ञः सज्जन प्रति पूजकः ॥१-३२-१॥
+स महात्मा कुलीनायाम् युक्तायाम् सुमहाबलान् ।वैदर्भ्याम् जनयाम् आस चतुरः सदृशान् सुतान् ॥१-३२-२॥
+कुशाम्बम् कुशनाभम् च आसूर्तरजसम् वसुम् ।दीप्ति युक्तान् महोत्साहान् क्षत्रधर्म चिकीर्षया ॥१-३२-३॥
+तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।क्रियताम् पालनम् पुत्रा धर्म प्राप्यथ पुष्कलम् ॥१-३२-४॥
+कुशस्य वचनम् श्रुत्वा चत्वारो लोक सत्तमाः ।निवेशम् चक्रिरे सर्वे पुराणाम् नृ वराः तदा ॥१-३२-५॥
+कुशाम्बः तु महातेजाः कौशांबीम् अकरोत् पुरीम् ।कुशनाभः तु धर्मात्मा पुरम् चक्रे महोदयम् ॥१-३२-६॥
+असूर्तरजसो राम धर्मारण्यम् महामतिः ।चक्रे पुरवरम् राजा वसुर् नाम गिरिव्रजम् ॥१-३२-७॥
+एषा वसुमती नाम वसोः तस्य महात्मनः ।एते शैलवराः पंच प्रकाशन्ते समंततः ॥१-३२-८॥
+सुमागधी नदी रम्या मागधान् विश्रुता आययौ ।पंचानाम् शैल मुख्यानाम् मध्ये माला इव शोभते ॥१-३२-९॥
+सा एषा हि मागधी राम वसोः तस्य महात्मनः ।पूर्व अभिचरिता राम सुक्षेत्रा सस्य मालिनी ॥१-३२-१०॥
+कुशनाभः तु राजर्षिः कन्या शतम् अनुत्तमम् ।जनयामास धर्मात्मा घृताच्याम् रघु नंदन ॥१-३२-११॥
+ताः तु यौवन शालिन्यो रूपवत्यः स्वलंकृताः ।उद्यान भूमिम् आगम्य प्रावृषि इव शतह्रदाः ॥१-३२-१२॥
+गायंत्यो नृत्यमानाः च वादयंत्यः च राघव ।आमोदम् परमम् जग्मुर् वर आभरण भूषिताः ॥१-३२-१३॥
+अथ ताः चारु सर्व अंग्यो रूपेण अप्रतिमा भुवि ।उद्यान भूमिम् आगम्य तारा इव घन अन्तरे ॥१-३२-१४॥
+ताः सर्वगुण संपन्ना रूप यौवन संयुताः ।दृष्ट्वा सर्वात्मको वायुर् इदम् वचनम् अब्रवीत् ॥१-३२-१५॥
+अहम् वः कामये सर्वा भार्या मम भविष्यथ ।मानुषः त्यज्यताम् भावो दीर्घम् आयुर् अवाप्स्यथ ॥१-३२-१६॥
+चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः ।अक्षयम् यौवनम् प्राप्ता अमर्यः च भविष्य्थ ॥१-३२-१७॥
+तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट कर्मणः ।अपहास्य ततो वाक्यम् कन्या शतम् अथ अब्रवीत् ॥१-३२-१८॥
+अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर सत्तम ।प्रभावज्ञाः च ते सर्वाः किम् अर्थम् अवमन्यसे ॥१-३२-१९॥
+कुशनाभ सुताः देवम् समस्ता सुर सत्तम ।स्थानात् च्यावयितुम् देवम् रक्षामः तु तपो वयम् ॥१-३२-२०॥
+मा भूत् स कालो दुर्मेधः पितरम् सत्य वादिनम् ।अवमन्यस्व स्व धर्मेण स्वयम् वरम् उपास्महे ॥१-३२-२१॥
+पिता हि प्रभुर् अस्माकम् दैवतम् परमम् च सः ।यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
+तासाम् तु वचनम् श्रुत्वा हरिः परम कोपनः ।प्रविश्य सर्व गात्राणि बभंज भगवान् प्रभुः ॥१-३२-२३॥
+ताः कन्या वायुना भग्ना विविशुर् नृपतेः गृहम् ।प्रविश्य च सुसंभ्रान्ताः स लज्जाः स अस्र लोचन ॥१-३२-२४॥
+स च ता दयिता भग्नाः कन्याः परम शोभनाः ।दृष्ट्वा दीनाः तदा राजा संभ्रांत इदम् अब्रवीत् ॥१-३२-२५॥
+किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते ।कुब्जाः केन कृताः सर्वाः चेष्टन्त्यो न अभिभाषथ ।एवम् राजा विनिःश्वस्य समाधिम् संदधे ततः ॥१-३२-२६॥
+तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः ।शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत ॥१-३३-१॥
+वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते ॥१-३३-२॥
+पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः ।पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव ॥१-३३-३॥
+तेन पाप अनुबन्धेन वचनम् न प्रतीच्छता ।एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् ॥१-३३-४॥
+तासाम् तु वचनम् श्रुत्वा राजा परम धार्मिकः ।प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् ॥१-३३-५॥
+क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत् कृतम् ।ऐकमत्यम् उपागम्य कुलम् च आवेक्षितम् मम ॥१-३३-६॥
+अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा ।दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः ॥१-३३-७॥
+यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः ।क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः ॥१-३३-८॥
+क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् ।विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः ॥१-३३-९॥
+मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः ।देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१-३३-१०॥
+एतस्मिन् एव काले तु चूली नाम महाद्युतिः ।ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् ॥१-३३-११॥
+तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते ।सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा ॥१-३३-१२॥
+सा च तम् प्रणता भूत्वा शुश्रूषण परायणा ।उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः ॥१-३३-१३॥
+स च ताम् काल योगेन प्रोवाच रघु नंदन ।परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१-३३-१४॥
+परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् ।उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् ॥१-३३-१५॥
+लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतो महातपाः ।ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१-३३-१६॥
+अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ।ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१-३३-१७॥
+तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् ।ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् ॥१-३३-१८॥
+स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा ।कांपिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
+स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः ।ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा ॥१-३३-२०॥
+तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः ।ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना ॥१-३३-२१॥
+यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन ।ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा ॥१-३३-२२॥
+स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः ।युक्ताः परमया लक्ष्म्या बभौ कन्या शतम् तद�� ॥१-३३-२३॥
+स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः ॥१-३३-२४॥
+कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः ।सदारम् प्रेषयामास स उपाध्याय गणम् तदा ॥१-३३-२५॥
+सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् ।यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत ।स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१-३३-२६॥
+कृत उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् ॥१-३४-१॥
+इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् ।उवाच परमोदारः कुशो ब्रह्मसुतः तदा ॥१-३४-२॥
+पुत्रः ते सदृशः पुत्र भविष्यति सुधार्मिकः ।गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् ॥१-३४-३॥
+एवम् उक्त्वा कुशो राम कुशनाभम् महीपतिम् ।जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् ॥१-३४-४॥
+कस्यचित् तु अथ कालस्य कुशनाभस्य धीमतः ।जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः ॥१-३४-५॥
+स पिता मम काकुत्स्थ गाधिः परम धार्मिकः ।कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन ॥१-३४-६॥
+पूर्वजा भगिनी च अपि मम राघव सुव्रता ।नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
+सशरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी ।कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
+दिव्या पुण्य उदका रम्या हिमवंतम् उपाश्रिता ।लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम ॥१-३४-९॥
+ततो अहम् हिमवत् पार्श्वे वसामि नियतः सुखम् ।भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन ॥१-३४-१०॥
+सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।पतिव्रता महाभागा कौशिकी सरिताम् वरा ॥१-३४-११॥
+अहम् हि नियमात् राम हित्वा ताम् समुपागतः ।सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा ॥१-३४-१२॥
+एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तिता ।देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि ॥१-३४-१३॥
+गतो अर्ध रात्रः काकुत्स्थ कथाः कथयतो मम ।निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः ॥१-३४-१४॥
+निष्पन्दाः तरवः सर्वे निलीना मृग पक्षिणः ।नैशेन तमसा व्याप्ता दिशः च रघुनंदन ॥१-३४-१५॥
+शनैः विसृज्यते संध्या नभो नेत्रैः इव आवृतम् ।नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते ॥१-३४-१६॥
+उत्तिष्ठते च शीतांशुः शशी लोक तमो नुदः ।ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
+नैशानि सर्व भूतानि प्रचरंति ततः ततः ।यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः ॥१-३४-१८॥
+एवम् उक्त्वा महातेजा विरराम महामुनिः ।साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् ॥१-३४-१९॥
+कुशिकनाम् अयम् वंशो महान् धर्मपरः सदा ।ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम ॥१-३४-२०॥
+विशेषेण भवान् एव विश्वामित्र महायशः ।कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव ॥१-३४-२१॥
+मुदितैः मुनि शार्दूलैः प्रशस्तः कुशिक आत्मजः ।निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् ॥१-३४-२२॥
+रामो अपि सह सौमित्रिः किंचित् आगत विस्मयः ।प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते ॥१-३४-२३॥
+उपास्य रात्रि शेषम् तु शोणा कूले महर्षिभिः ।निशायाम् सुप्रभातायाम् विश्वामित्रो अभ्यभाषत ॥१-३५-१॥
+सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय ॥१-३५-२॥
+तत् श्रुत्वा वचनम् तस्य कृत्वा पौर्व आह्णिक क्रियः ।गमनम् रोचयामास वाक्यम् च इदम् उवाच ह ॥१-३५-३॥
+अयम् शोणः शुभ जलो गाधः पुलिन मण्डितः ।कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
+एवम् उक्तः तु रामेण विश्वामित्रो अब्रवीत् इदम् ।एष पंथा मया उद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
+एवम् उक्त्वा महर्षयो विश्वमित्रेण धीमता ।पश्यन्तः ते प्रयाता वै वनानि विविधानि च ॥१-३५-६॥
+ते गत्वा दूरम् अध्वानम् गते अर्ध दिवसे तदा ।जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर् मुनि सेविताम् ॥१-३५-७॥
+ताम् दृष्ट्वा पुण्य सलिलाम् हंस सारस सेविताम् ।बभूवुर् मुनयः सर्वे मुदिता सह राघवाः ॥१-३५-८॥
+तस्याः तीरे ततः चक्रुः ते आवास परिग्रहम् ।ततः स्नात्वा यथा न्यायम् संतर्प्य पितृ देवताः ॥१-३५-९॥
+हुत्वा चैव अग्निहोत्राणि प्राश्य च अमृतवत् हविः ।विविशुर् जाह्नवी तीरे शुभा मुदित मानसाः ॥१-३५-१०॥
+विश्वामित्रम् महात्मानम् परिवार्य समंततः ।विष्टिताः च यथा न्यायम् राघवो च यथा अर्हम् ।संप्रहृष्ट मना रामो विश्वामित्रम् अथ अब्रवीत् ॥१-३५-११॥
+भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रि पथ गाम् नदीम् ।त्रैलोक्यम् कथम् आक्रम्य गता नद नदीपतिम् ॥१-३५-१२॥
+चोदितो राम वाक्येन विश्वामित्रो महामुनिः ।वृद्धिम् जन्म च गंगाया वक्तुम् एव उपचक्रमे ॥१-३५-१३॥
+शैलेन्द्रो हिमवान् राम धातूनाम् आकरो महान् ।तस्य कन्या द्वयम् राम रूपेण अप्रतिमम् भुवि ॥१-३५-१४॥
+या मेरु दुहिता राम तयोर् माता सुमध्यमा ।नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
+तस्याम् गंग इयम् अभवत् ज्येष्ठा हिमवतः सुता ।उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव ॥१-३५-१६॥
+अथ ज्येष्ठाम् सुराः सर्वे देव कार्य चिकीर्षया ।शैलेन्द्रम् वरयामासुः गंगाम् त्रि पथ गाम् नदीम् ॥१-३५-१७॥
+ददौ धर्मेण हिमवान् तनयाम् लोक पावनीम् ।स्वच्छंद पथ गाम् गंगाम् त्रैलोक्य हित काम्यया ॥१-३५-१८॥
+प्रतिगृह्य त्रिलोक अर्थम् त्रिलोक हित कांक्षिणः ।गंगाम् आदाय ते अगच्छन् कृतार्थेन अंतरात्मना ॥१-३५-१९॥
+या च अन्या शैल दुहिता कन्या आसीत् रघुनंदन ।उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना ॥१-३५-२०॥
+उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् ।रुद्राय अप्रतिरूपाय उमाम् लोक नमस्कृताम् ॥१-३५-२१॥
+एते ते शैल राजस्य सुते लोक नमस्कृते ।गंगा च सरिताम् श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
+एतत् ते सर्वम् आख्यातम् यथा त्रि पथ गामिनी ।खम् गता प्रथमम् तात गतिम् गतिमताम् वर ॥१-३५-२३॥
+स एषा सुर नदी रम्या शैलेन्द्र तनया तदा ।सुर लोकम् समारूढा विपापा जल वाहिनी ॥१-३५-२४॥
+उक्त वाक्ये मुनौ तस्मिन् उभौ राघव लक्ष्मणौ ।प्रतिनंद्य कथाम् वीरौ ऊचतुः मुनि पुंगवम् ॥१-३६-१॥
+धर्म युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।दुहितुः शैल राजस्य ज्येष्ठाय वक्तुम् अर्हसि ।विस्तरम् विस्तरज्ञो असि दिव्य मानुष संभवम् ॥१-३६-२॥
+त्रीन् पथो हेतुना केन पावयेत् लोक पावनी ।कथम् गङ्गा त्रिपथगा विश्रुता सरित् उत्तमा ॥१-३६-३॥
+त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१-३६-४॥
+निखिलेन कथाम् सर्वाम् ऋषि मध्ये न्यवेदयत् ।पुरा राम कृत उद्वाहः शिति कण्ठो महा तपाः ॥१-३६-५॥
+दृष्ट्वा च भगवान् देवीम् मैथुनाय उपचक्रमे ।तस्य संक्रीडमानस्य महादेवस्य धीमतः ।शितिकण्ठस्य देवस्य दिव्यम् वर्ष शतम् गतम् ॥१-३६-६॥
+न च अपि तनयो राम तस्याम् आसीत् परंतप ।सर्वे देवाः समुद्युक्ताः पितामह पुरोगमाः ॥१-३६-७॥
+यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति ।अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१-३६-८॥
+देव देव महादेव लोकस्य अस्य हिते रत ।सुराणाम् प्रण���पातेन प्रसादम् कर्तुम् अर्हसि ॥१-३६-९॥
+न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।ब्राह्मेण तपसा युक्तो देव्या सह तपः चर ॥१-३६-१०॥
+त्रैलोक्य हित काम अर्थम् तेजः तेजसि धारय ।रक्ष सर्वान् इमान् लोकान् न अलोकम् कर्तुम् अर्हसि ॥१-३६-११॥
+देवतानाम् वचः श्रुत्वा सर्व लोक महेश्वरः ।बाढम् इति अब्रवीत् सर्वान् पुनः च इदम् उवाच ह ॥१-३६-१२॥
+धारयिष्यामि अहम् तेजः तेजसि एव सह उमया ।त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु ॥१-३६-१३॥
+यद् इदम् क्षुभितम् स्थानात् मम तेजो हि अनुत्तमम् ।धारयिष्यति कः तत् मे ब्रुवन्तु सुर सत्तमाः ॥१-३६-१४॥
+एवम् उक्ताः ततो देवाः प्रत्यूचुर् वृषभ ध्वजम् ।यत् तेजः क्षुभितम् हि अद्य तद् धरा धारयिष्यति ॥१-३६-१५॥
+एवम् उक्तः सुर पतिः प्रमुमोच महाबलः ।तेजसा पृथिवी येन व्याप्ता स गिरि कानना ॥१-३६-१६॥
+ततो देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् ।आविश त्वम् महातेजो रौद्रम् वायु समन्वितः ॥१-३६-१७॥
+तद् अग्निना पुनर् व्याप्तम् संजातम् श्वेत पर्वतम् ।दिव्यम् शरवणम् चैव पावक आदित्य संनिभम् ॥१-३६-१८॥
+यत्र जातो महातेजाः कार्तिकेयो अग्नि संभवः ।अथ उमाम् च शिवम् चैव देवाः स ऋषि गणाः तदा ॥१-३६-१९॥
+पूजयामासुः अत्यर्थम् सुप्रीत मनसः ततः ।अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत्।समन्युः अशपत् सर्वान् क्रोध संरक्त लोचना ।यस्मात् निवारिता च अहम् संगता पुत्र काम्यया ॥१-३६-२०॥
+अपत्यम् स्वेषु दारेषु न उत्पदयितुम् अर्हथ ।अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१-३६-२१॥
+एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि ।अवने न एक रूपा त्वम् बहु भार्या भविष्यसि ॥१-३६-२२॥
+न च पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता ।प्राप्स्यसि त्वम् सुदुर्मेधे मम पुत्रम् अनिच्छती ॥१-३६-२३॥
+तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा ।गमनाय उपचक्राम दिशम् वरुण पालिताम् ॥१-३६-२४॥
+स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।हिमवत् प्रभवे शृंगे सह देव्या महेश्वरः ॥१-३६-२५॥
+एष ते विस्तरो राम शैल पुत्र्या निवेदितः ।गन्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण ॥१-३६-२६॥
+तप्यमाने तदा देवे स इन्द्राः स अग्नि पुरोगमाः ।सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् ॥१-३७-१॥
+ततो अब्रुवन् सुराः सर्वे भगवंतम् पितामहम् ।प्रणिपत्य सुराः रा��� स इन्द्राः स अग्नि पुरोगमाः ॥१-३७-२॥
+येन सेनापतिः देव दत्तो भगवता पुरा ।स तपः परम् आस्थाय तप्यते स्म सह उमया ॥१-३७-३॥
+यत् अत्र अनंतरम् कार्यम् लोकानाम् हित काम्यया ।संविधत्स्व विधानज्ञ त्वम् हि नः परमा गतिः ॥१-३७-४॥
+देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ।सान्त्वयन् मधुरैः वाक्यैः त्रिदशान् इदम् अब्रवीत् ॥१-३७-५॥
+शैल पुत्र्या यत् उक्तम् तत् न प्रजाः स्वासु पत्निषु ।तस्या वचनम् अक्लिष्टम् सत्यम् एव न संशयः ॥१-३७-६॥
+इयम् आकाश गंगा यस्याम् पुत्रम् हुताशनः ।जनयिष्यति देवानाम् सेनापतिम् अरिंदमम् ॥१-३७-७॥
+ज्येष्ठा शैलेन्द्र दुहिता मानयिष्यति तम् सुतम् ।उमायाः तत् बहुमतम् भविष्यति न संशयः ॥१-३७-८॥
+तत् श्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन ।प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥१-३७-९॥
+ते गत्वा परमम् राम कैलासम् धातु मण्डितम् ।अग्निम् नियोजयामासुः पुत्रार्थम् सर्व देवताः ॥१-३७-१०॥
+देव कार्यम् इदम् देव समाधत्स्व हुताशन ।शैल पुत्र्याम् महातेजो गंगायाम् तेज उत्सृज ॥१-३७-११॥
+देवतानाम् प्रतिज्ञाय गंगाम् अभ्येत्य पावकः ।गर्भम् धारय वै देवि देवतानाम् इदम् प्रियम् ॥१-३७-१२॥
+इति एतत् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् ।स तस्या महिमाम् दृष्ट्वा समंतात् अवकीर्यत ॥१-३७-१३॥
+समंततः तदा देवीम् अभ्यषिंचत पावकः ।सर्व स्रोतांसि पूर्णानि गंगाया रघुनन्दन ॥१-३७-१४॥
+तम् उवाच ततो गंगा सर्व देव पुरोगमम् ।अशक्ता धारणे देव तेजः तव समुद्धतम् ॥१-३७-१५॥
+दह्यमाना अग्निना तेन संप्रव्यथित चेतना ।अथ अब्रवीत् इदम् गंगाम् सर्व देव हुताशनः ॥१-३७-१६॥
+इह हैमवते पार्श्वे गर्भो अयम् संनिवेश्यताम् ।श्रुत्वा तु अग्नि वचो गंगा तम् गर्भम् अतिभास्वरम् ॥१-३७-१७॥
+उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदा अनघ ।यत् अस्या निर्गतम् तस्मात् तप्त जांबूनद प्रभम् ॥१-३७-१८॥
+कांचनम् धरणीम् प्राप्तम् हिरण्यम् अतुल प्रभम् ।ताम्रम् कार्ष्णायसम् चैव तैक्ष्ण्यात् एव अभिजायत ॥१-३७-१९॥
+मलम् तस्य अभवत् तत्र त्रपु सीसकम् एव च ।तत् एतत् धरणीम् प्राप्य नाना धातुः अवर्धत ॥१-३७-२०॥
+निक्षिप्त मात्रे गर्भे तु तेजोभिः अभिरंजितम् ।सर्वम् पर्वत संनद्धम् सौवर्णम् अभवत् वनम् ॥१-३७-२१॥
+जातरूपम् इति ख्यातम् तदा प्रभृति राघव ।सुवर्णम् पुरुषव्याघ्र हुताशन सम प्रभम् ।तृण वृक्ष लता गुल्मम् सर्वम् भवति कांचनम् ॥१-३७-२२॥
+तम् कुमारम् ततो जातम् स इन्द्राः सह मरुद् गणाः ।क्षीर संभावन अर्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
+ताः क्षीरम् जात मात्रस्य कृत्वा समयम् उत्तमम् ।ददुः पुत्रो अयम् अस्माकम् सर्वासाम् इति निश्चिताः ॥१-३७-२४॥
+ततः तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।पुत्रः त्रैलोक्य विख्यातो भविष्यति न संशयः ॥१-३७-२५॥
+तेषाम् तत् वचनम् श्रुत्वा स्कन्नम् गर्भ परिस्रवे ।स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा अनलम् ॥१-३७-२६॥
+स्कंद इति अब्रुवन् देवाः स्कन्नम् गर्भ परिस्रवात् ।कार्तिकेयम् महाबाहुम् काकुत्स्थ ज्वलन उपमम् ॥१-३७-२७॥
+प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानाम् अनुत्तमम् ।षण्णाम् षड् आननो भूत्वा जग्राह स्तनजम् पयः ॥१-३७-२८॥
+गृहीत्वा क्षीरम् एक अह्ना सुकुमार वपुः तदा ।अजयत् स्वेन वीर्येण दैत्य सैन्य गणान् विभुः ॥१-३७-२९॥
+सुर सेना गण पतिम् अभ्यषिंचत् महाद्युतिम् ।ततः तम् अमराः सर्वे समेत्य अग्नि पुरोगमाः ॥१-३७-३०॥
+एष ते राम गंगाया विस्तरो अभिहितो मया ।कुमार संभवः चैव धन्यः पुण्यः तथैव च ॥१-३७-३१॥
+भक्तः च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।आयुष्मान् पुत्र पौत्रः च स्कन्द सालोक्यताम् व्रजते ॥१-३७-३२॥
+ताम् कथाम् कौशिको रामे निवेद्य मधुर अक्षरम् ।पुनः एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१-३८-१॥
+अयोध्या अधिपतिः वीरः पूर्वम् आसीत् नराधिपः ।सगरो नाम धर्मात्मा प्रजाकामः स च अप्रजः ॥१-३८-२॥
+वैदर्भ दुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्य वादिनी ॥१-३८-३॥
+अरिष्ठनेमि दुहिता सुपर्ण भगिनी तु सा ।द्वितीया सगरस्य आसीत् पत्नी सुमति संज्ञिता ॥१-३८-४॥
+ताभ्याम् सह महाराजा पत्नीभ्याम् तप्तवान् तपः ।हिमवंतम् समासाद्य भृगु प्रस्रवणे गिरौ ॥१-३८-५॥
+अथ वर्ष शते पूर्णे तपसा आराधितो मुनिः ।सगराय वरम् प्रादाद् भृगुः सत्यवताम् वरः ॥१-३८-६॥
+अपत्य लाभः सुमहान् भविष्यति तव अनघ ।कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
+एका जनयिता तात पुत्रम् वंशकरम् तव ।षष्टिम् पुत्र सहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
+भाषमाणम् महात्मानम् राज पुत्र्यौ प्रसाद्य तम् ।ऊचतुः परम प्रीते कृतांजलि पुटे तदा ॥१-३८-९॥
+एकः कस्याः सुतो ब्रह्मन् ��ा बहून् जनयिष्यति ।श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचः तव ॥१-३८-१०॥
+तयोः तत् वचनम् श्रुत्वा भृगुः परमधार्मिकः ।उवाच परमाम् वाणीम् स्वच्छन्दो अत्र विधीयताम् ॥१-३८-११॥
+एको वंश करो वा अस्तु बहवो वा महाबलाः ।कीर्तिमन्तो महोत्साहाः का वा कम् वरम् इच्छति ॥१-३८-१२॥
+मुनेः तु वचनम् श्रुत्वा केशिनी रघुनंदन ।पुत्रम् वंश करम् राम जग्राह नृप संनिधौ ॥१-३८-१३॥
+षष्टिम् पुत्र सहस्राणि सुपर्ण भगिनी तदा ।महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
+प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य च ।जगाम स्व पुरम् राजा सभार्या रघु नन्दन ॥१-३८-१५॥
+अथ काले गते तस्मिन् ज्येष्ठा पुत्रम् व्यजायत ।असमंज इति ख्यातम् केशिनी सगरात्मजम् ॥१-३८-१६॥
+सुमतिः तु नरव्याघ्र गर्भ तुंबम् व्यजायत ।षष्टिः पुत्र सहस्राणि तुंब भेदात् विनिःसृताः ॥१-३८-१७॥
+घृत पूर्णेषु कुंभेषु धात्र्यः तान् समवर्धयन् ।कालेन महता सर्वे यौवनम् प्रतिपेदिरे ॥१-३८-१८॥
+अथ दीर्घेण कालेन रूप यौवनशालिनः ।षष्टिः पुत्र सहस्राणि सगरस्य अभवन् तदा ॥१-३८-१९॥
+स च ज्येष्ठो नरश्रेष्ठ सगरस्य आत्म संभवः ।बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥१-३८-२०॥
+प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै ।एवम् पाप समाचारः सज्जन प्रतिबाधकः ॥१-३८-२१॥
+पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् ।तस्य पुत्रो अंशुमान् नाम असमंजस्य वीर्यवान् ॥१-३८-२२॥
+सम्मतः सर्व लोकस्य सर्वस्य अपि प्रियम् वदः ।ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
+सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता ।स कृत्वा निश्चयम् राजा स उपाध्याय गणः तदा ।यज्ञ कर्मणि वेदज्ञो यष्टुम् समुपचक्रमे ॥१-३८-२४॥
+विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम् ॥१-३९-१॥
+श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१-३९-२॥
+तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव ॥१-३९-३॥
+श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥
+विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥
+स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः ॥१-३९-६॥
+अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१-३९-७॥
+उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥
+हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥
+तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥
+षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः ॥१-३९-११॥
+मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥
+समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥
+यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥
+दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥
+ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥
+गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।योजनायाम् अविस्तारम् एकैको धरणी तलम् ।बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥
+शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥
+नागानाम् वध्यमानानाम् असुराणाम् च राघव ।राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥
+योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥
+एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥
+ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥
+ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥
+भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥
+अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥
+देवतानाम् वचः श्रुत्वा भगवान् वै पितामहः ।प्रत्युवाच सुसंत्रस्तान् कृतान्त बल मोहितान् ॥१-४०-१॥
+यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः।महिषी माधवसय स एषा स एव भगवन् प्रभुः॥१-४०-२॥
+कापिलम् रूपम् आस्थाय धारयत्य अनिशम् धराम् ।तस्य कोपाग्निना दग्धा भविष्यंति नृपात्मजा ॥१-४०-३॥
+पृथिव्याः च अपि निर्भेदो दृष्ट एव सनातनः ।सगरस्य च पुत्राणाम् विनाशो दीर्घ दर्शिनाम् ॥१-४०-४॥
+पितामह वचः श्रुत्वा त्रयः त्रिंशत् अरिन्दमः ।देवाः परम संहृष्टाः पुनर् जग्मुर् यथा आगतम् ॥१-४०-५॥
+सगरस्य च पुत्राणाम् प्रादुर् आसीत् महास्वनः ।पृथिव्याम् भिद्यमानायाम् निर्घात सम निःवनः ॥१-४०-६॥
+ततो भित्त्वा महीम् सर्वाम् कृत्वा च अपि प्रदक्षिणम् ।सहिताः सगराः सर्वे पितरम् वाक्यम् अब्रुवन् ॥१-४०-७॥
+परिक्रांता मही सर्वा सत्त्ववन्तः च सूदिताः ।देव दानव रक्षांसि पिशाच उरग पन्नगाः ॥१-४०-८॥
+न च पश्यामहे अश्वम् ते अश्व हर्तारम् एव च ।किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम् ॥१-४०-९॥
+तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् राज सत्तमः ।समन्युः अब्रवीत् वाक्यम् सगरो रघुनंदन ॥१-४०-१०॥
+भूयः खनत भद्रम् वो विभेद्य वसुधा तलम्अश्व हर्तारम् आसाद्य कृतार्थाः च निवर्तत ॥१-४०-११॥
+पितुर् वचनम् आसाद्य सगरस्य महात्मनः ।षष्टिः पुत्र सहस्राणि रसातलम् अभिद्रवन् ॥१-४०-१२॥
+खन्यमाने ततः तस्मिन् ददृशुः पर्वत उपमम् ।दिशा गजम् विरूपाक्षम् धारयंतम् महीतलम् ॥१-४०-१३॥
+स पर्वत वनाम् कृत्स्नाम् पृथिवीम् रघुनंदन ।धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥
+यदा पर्वणि काकुत्स्थ विश्रमार्थम् महागजः ।खेदात् चालयते शीर्षम् भूमि कम्पः तदा भवेत् ॥१-४०-१५॥
+ते तम् प्रदक्षिणम् कृत्वा दिशा पालम् महागजम् ।मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् ॥१-४०-१६॥
+ततः पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः ।दक्षिणस्याम् अपि दिशि ददृशुः ते महागजम् ॥१-४०-१७॥
+महा पद्मम् महात्मानम् सुमहा पर्वतोपमम् ।शिरसा धारयंतम् गाम् विस्मयम् जग्मुर् उत्तमम् ॥१-४०-१८॥
+ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः ।षष्टिः पुत्र सहस्राणि पश्चिमाम् बिभिदुर् दिशम् ॥१-४०-१९॥
+पश्चिमायाम् अपि दिशि महांतम् अ���लोपमम् ।दिशा गजम् सौमनसम् ददृशुः ते महा बलाः ॥१-४०-२०॥
+ते तम् प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् ।खनंतः समुपक्रांता दिशम् सोमवतीम् तदा ॥१-४०-२१॥
+उत्तरस्याम् रघुश्रेष्ठ ददृशुर् हिम पाण्डुरम् ।भद्रम् भद्रेण वपुषा धारयंतम् महीम् इमाम् ॥१-४०-२२॥
+समालभ्य ततः सर्वे कृत्वा च एनम् प्रदक्षिणम् ।षष्टिः पुत्र सहस्राणि बिभिदुर् वसुधा तलम् ॥१-४०-२३॥
+ततः प्राक् उत्तराम् गत्वा सागराः प्रथिताम् दिशम् ।रोषात् अभ्यखनन् सर्वे पृथिवीम् सगर आत्मजाः ॥१-४०-२४॥
+ते तु सर्वे महत्मानो भिमवेग महबलाः ।ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् ॥१-४०-२५॥
+हयम् च तस्य देवस्य चरन्तम् अविदूरतः ।प्रहर्षम् अतुलम् प्रप्तः सर्वे ते रघुनंदन ॥१-४०-२६॥
+ते तम् हय हरम् ज्ञात्वा क्रोध पर्याकुल ईक्षणाः ।खनित्र लांगला धर नाना वृक्ष शिला धराः ॥१-४०-२७॥
+अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठ इति च अब्रुवन् ।अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि ॥१-४०-२८॥
+दुर्मेधः त्वम् हि संप्राप्तान् विद्धि नः सगरात्मजान् ।श्रुत्वा तत् वचनम् तेषाम् कपिलो रघुनंदन ॥१-४०-२९॥
+रोषेण महता आविष्टो हुम् कारम् अकरोत् तदा ।ततः तेन अप्रमेयेण कपिलेन महात्मना ।भस्म राशी कृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥
+पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥
+शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥
+अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥
+अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
+एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥
+स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥
+देव दानव रक्षोभिः पिशाच पतग उरगैः ।पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥
+स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥
+दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।आसमंज कृतार्थः त्वम् सह अश्व��� शीघ्रम् एष्यसि ॥१-४१-९॥
+तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥
+तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥
+तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥
+स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥
+यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥
+स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥
+विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥
+स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥
+कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥
+गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥
+भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥
+निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥
+सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥
+ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥
+तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥
+स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥
+अगत्वा निश्चयम् राजा कालेन महता महान् ।त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥
+कालधर्मम् गते राम सगरे प्रकृती जनाः ।राजानम् रोचयामासुर् अम्शुमन्तम् सुधार्मिकम् ॥१-४२-१॥
+स राजा सुमहान् आसीत् अंशुमान् रघुनंदन ।तस्य पुत्रो महान् आसीत् दिलीप इति विश्रुतः ॥१-४२-२॥
+तस्मै राज्यम् समादिश्य दिलीपे रघुन���दन ।हिमवत् शिखरे रम्ये तपः तेपे सुदारुणम् ॥१-४२-३॥
+द्वा त्रिंशत् सहस्राम् वर्षाणि सुमहा यशाः ।तपोवन गतो राजा स्वर्गम् लेभे तपोधनः ॥१-४२-४॥
+दिलीपः तु महातेजाः श्रुत्वा पैतामहम् वधम् ।दुःख उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत ॥१-४२-५॥
+कथम् गंगा अवतरणम् कथम् तेषां जलक्रिया ।तारयेयम् कथम् च एतान् इति चिंतापरो अभवत् ॥१-४२-६॥
+तस्य चिंतयतो नित्यम् धर्मेण विदित आत्मनः ।पुत्रो भगीरथो नाम जज्ञे परम धार्मिकः ॥१-४२-७॥
+दिलीपः तु महातेजा यज्ञैः बहुभिः इष्टवान् ।त्रिंशत् वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-४२-८॥
+अगत्वा निश्चयम् राजा तेषाम् उद्धरणम् प्रति ।व्याधिना नर शार्दूल काल धर्मम् उपेयिवान् ॥१-४२-९॥
+इन्द्रलोकम् गतो राजा स्व अर्जितेन एव कर्मणा ।रज्ये भगीरथम् पुत्रम् अभिषिच्य नरर्षभः ॥१-४२-१०॥
+भगीरथः तु राजर्षिः धार्मिको रघुनंदन ।अनपत्यो महारजाः प्रजा कामः स च प्रजाः ॥१-४२-११॥
+मंत्रिषु आधाय तत् रज्यम् गङ्ग अवतरणे रतः।तपो दीर्घम् समातिष्ठत् गोकर्णे रघुनंदन ॥१-४२-१२॥
+ऊर्ध्व बाहुः पंच तपा मास आहारो जितेइन्द्रियः ।तस्य वर्ष सहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
+अतीतानि महबहो तस्य राज्ञो महात्मनः ।सुप्रीतो भगवान् ब्रह्मा प्रजानाम् पतिः ईश्वरः ॥१-४२-१४॥
+ततः सुर गणैः सार्धम् उपागम्य पितामहः ।भगीरथम् महात्मानम् तप्यमानम् अथ अब्रवीत् ॥१-४२-१५॥
+भगीरथ महाराज प्रीतः ते अहम् जनाधिप ।तपसा च सुतप्तेन वरम् वरय सुव्रत ॥१-४२-१६॥
+तम् उवाच महातेजाः सर्वलोक पितामहम् ।भगीरथो महाबाहुः कृत अंजलिपुटः स्थितः ॥१-४२-१७॥
+यदि मे भगवान् प्रीतो यदि अस्ति तपसः फलम् ।सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः ॥१-४२-१८॥
+गन्गायाः सलिल क्लिन्ने भस्मनि एषाम् महात्मनाम् ।स्वर्गम् गच्छेयुर् अत्यंतम् सर्वे मे प्रपितामहाः ॥१-४२-१९॥
+देव याचे ह संतत्यै न अवसीदेत् कुलम् च नः ।इक्ष्वाकूणाम् कुले देव एष मे अस्तु वरः परः ॥१-४२-२०॥
+उक्त वाक्यम् तु राजानम् सर्वलोक पितामहः ।प्रत्युवाच शुभाम् वाणीम् मधुरम् मधुर अक्षराम् ॥१-४२-२१॥
+मनोरथो महान् एष भगीरथ महारथ ।एवम् भवतु भद्रम् ते इक्ष्वाकु कुल वर्धन ॥१-४२-२२॥
+इयम् हैमवती ज्येष्ठा गंगा हिमवतः सुता ।ताम् वै धारयितुम् राजन् हरः तत्र नियुज्यताम् ॥१-४२-२३॥
+गंगायाः पतनम् राजन् पृथिवी न सहिष्य���े ।ताम् वै धारयितुम् राजन् न अन्यम् पश्यामि शूलिनः ॥१-४२-२४॥
+तम् एवम् उक्त्वा राजानम् गंगाम् च आभाष्य लोककृत् ।जगाम त्रिदिवम् देवैः सर्वैः सह मरुत् गणैः ॥१-४२-२५॥
+देव देवे गते तस्मिन् सो अंगुष्ठ अग्र निपीडिताम् ।कृत्वा वसुमतीम् राम वत्सरम् समुपासत ॥१-४३-१॥
+अथ संवत्सरे पूर्णे सर्व लोक नमस्कृतः ।उमापतिः पशुपती राजानम् इदम् अब्रवीत् ॥१-४३-२॥
+प्रीतः ते अहम् नरश्रेष्ठ करिष्यामि तव प्रियम् ।शिरसा धारयिष्यामि शैलराज सुताम् अहम् ॥१-४३-३॥
+ततो हैमवती ज्येष्ठा सर्व लोक नमस्कृता ।तदा सा अति महत् रूपम् कृत्वा वेगम् च दुःसहम् ॥१-४३-४॥
+आकाशात् अपतत् राम शिवे शिव शिरस्य् उत ।अचिन्तयः च सा देवी गंग परम दुर्धरा ॥१-४३-५॥
+विशामि अहम् हि पातालम् स्त्रोतसा गृह्य शंकरम् ।तस्याः वलेपनम् ज्ञत्व क्रुद्धः तु भगवन् हरः ॥१-४३-६॥
+तिरोभावयितुम् बुद्धिम् चक्रे त्रिनयनः तदा ।सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥
+हिमवत् प्रतिमे राम जटा मण्डल गह्वरे ।सा कथंचित् महीम् गंतुम् न अशक्नोत् यत्नम् आस्थिता ॥१-४३-८॥
+न एव सा निर्गमम् लेभे जटा मण्डल अंततः ।तत्र एव आबंभ्रमत् देवी संवत्सर गणान् बहून् ॥१-४३-९॥
+ताम् अपश्यन् पुनः तत्र तपः परमम् आस्थितः ।स तेन तोषितः च असीत् अत्यंतम् रघुनंदन ॥१-४३-१०॥
+विससर्ज ततो गंगाम् हरो बिन्दु सरः प्रति ।तस्यम् विसृउज्यमानायाम् सप्त स्रोतंसि जज्ञिरे ॥१-४३-११॥
+ह्लादिनी पावनी चैव नलिनी च तथा एव च ।तिस्रः प्राचीम् दिशम् जग्मुः गंगाः शिव जलाः शुभाः ॥१-४३-१२॥
+सुचक्षुः च एव सीता च सिन्धुः च एव महानदी ।तिस्रः एता दिशम् जग्मुः प्रतीचीम् तु शुभ उदकाः ॥१-४३-१३॥
+सप्तमी च अन्वगात् तासम् भगीरथ रथम् तदा ।भगीरथो अपि रजर्षि दिव्यम् स्यंदनम् आस्थितः ॥१-४३-१४॥
+प्रायात् अग्रे महातेजा गंग तम् च अपि अनुव्रजत् ।गगनात् शंकर शिरः ततो धरणिम् आगता ॥१-४३-१५॥
+असर्पत जलम् तत्र तीव्र शब्द पुरस्कृतम् ।मत्स्य कच्छप संघैः च शिशुमार गणैः तथा ॥१-४३-१६॥
+पतद्भिः पतितैः च एव व्यरोचत वसुंधरा ।ततो देव ऋषि गंधर्वा यक्ष सिद्ध गणाः तथा ॥१-४३-१७॥
+व्यलोकयन्त ते तत्र गगनात् गाम् गताम् तदा ।विमानैः नगर आकारैः हयैः गज वरैः तथा ॥१-४३-१८॥
+पारिप्लव गताः च अपि देवताः तत्र विष्ठिताः ।तत् अद्भुततमम् लोके गंगा अवतरम् उत्तमम् ॥१-४३-१९॥
+दिद��क्षवो देव गणाः समीयुः अमित ओजसः ।संपतद्भिः सुर गणैः तेषाम् च आभरण ओजसा ॥१-४३-२०॥
+शत आदित्यम् इव आभाति गगनम् गत तोयदम् ।शिंशुमार उरग गणैः मीनैः अपि च चंचलैः ॥१-४३-२१॥
+विद्युद्भिः इव विक्षिप्तैः आकाशम् अभवत् तदा ।पाण्डुरैः सलिल उत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥
+शारद अभ्रैः इव आक्रीणम् गगनम् हंस संप्लवैः ।क्वचित् द्रुततरम् याति कुटिलम् क्वचित् आयतम् ॥१-४३-२३॥
+विनतम् क्वचित् उद्धूतम् क्वचित् याति शनैः शनैः ।सलिलेन एव सलिलम् क्वचित् अभ्याहतम् पुनः ॥१-४३-२४॥
+मुहुर् ऊर्ध्व पथम् गत्वा पपात वसुधाम् पुनः ।तत् शंकर शिरो भ्रष्टम् भ्रष्टम् भूमि तले पुनः ॥१-४३-२५॥
+व्यरोचत तदा तोयम् निर्मलम् गत कल्मषम् ।तत्र ऋषि गण गन्धर्वा वसुधा तल वासिनः १-४३-२६भव अंग पतितम् तोयम् पवित्रम् इति पस्पृशुः ।शापात् प्रपतिता ये च गगनात् वसुधा तलम् ॥१-४३-२६॥
+कृत्वा तत्र अभिषेकम् ते बभूवुः गत कल्मषाः ।धूत पापाः पुनः तेन तोयेन अथ शुभ अन्विता ॥१-४३-२७॥
+पुनः आकाशम् आविश्य स्वान् लोकान् प्रतिपेदिरे ।मुमुदे मुदितो लोकः तेन तोयेन भास्वता ॥१-४३-२८॥
+कृत अभिषेको गंगायाम् बभूव गत कल्मषः ।भगीरथो राजर्षिः दिव्यम् स्यंदनम् आस्थितः ॥१-४३-२९॥
+प्रायात् अग्रे महाराजाः तम् गंगा पृष्ठतो अन्वगात् ।देवाः स ऋषि गणाः सर्वे दैत्य दानव राक्षसाः ॥१-४३-३०॥
+गन्धर्व यक्ष प्रवराः स किंनर महोरगाः ।सर्पाः च अप्सरसो राम भगीरथ रथ अनुगाः ॥१-४३-३१॥
+गंगाम् अन्वगमन् प्रीताः सर्वे जल चराः च ये ।यतो भगीरथो राजा ततो गंगा यशस्विनी ॥१-४३-३२॥
+जगाम सरिताम् श्रेष्ठा सर्व पाप प्रणाशिनी ।ततो हि यजमानस्य जह्नोः अद्भुत कर्मणः ॥१-४३-३३॥
+गंग संप्लावयामास यज्ञ वाटम् महत्मनः ।तसया वलेपनम् ज्ञत्व कृद्धो जह्नुः च राघव ॥१-४३-३४॥
+अपिबत् तु जलम् सर्वम् गंगयाः परम अद्भुतम् ।ततो देवाः स गंघर्व ऋषयः च सु विस्मिताः ॥१-४३-३५॥
+पूजयन्ति महत्मनम् जह्नुम् पुरुष सत्तमम् ।गंगम् च अपि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३६॥
+ततः तुष्टः महातेजाः श्रोत्राभ्याम् असृउजत् प्रभुः ।तस्मात् जह्नु सुता गंग प्रोच्यते जाह्नवी इति च ॥१-४३-३७॥
+जगाम च पुनः गंग भगीरथ रथ अनुगा ।सागरम् च अपि संप्रप्ता सा सरित् प्रवरा तदा ॥१-४३-३८॥
+रसातलम् उपागच्छत् सिद्ध्यर्थम् तस्य कर्मणः ।भगीरथो अपि रजार्षि गंगम् आदाय यत्नतः ॥१-४३-३९॥
+पितमहान् भस्म क्रुतम् अपश्यत् गत चेतनः ।अथ तत् भस्मनाम् राशिम् गंग सलिलम् उत्तमम् ।प्लावयत् पूत पाप्मानः स्वर्गम् प्रप्ता रघु उत्तम ॥१-४३-४०॥
+स गत्वा सागरम् राजा गंगया अनुगतस् तदा ।प्रविवेश तलम् भूमेः यत्र ते भस्मसात् कृताः ॥१-४४-१॥
+भस्मनि अथ आप्लुते राम गंगाइआः सलिलेन वै ।सर्व लोक प्रभुः ब्रह्मा राजानम् इदम् अब्रवीत् ॥१-४४-२॥
+तारिता नरशार्दूल दिवम् याताः च देववत् ।षष्टिः पुत्र सहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
+सागरस्य जलम् लोके यावत् स्थास्यति पार्थिव ।सगरस्य आत्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
+इयम् च दुहिता ज्येष्ठा तव गंगा भविष्यति ।त्वत् कृतेन च नाम्ना अथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
+गंगा त्रिपथगा नाम दिव्या भागीरथी इति च ।त्रीन् पथो भावयन्ति इति तस्मत् त्रिपथगा स्मृता ॥१-४४-६॥
+पितामहानाम् सर्वेषाम् त्वम् अत्र मनुजाधिप ।कुरुष्व सलिलम् राजन् प्रतिज्ञाम् अपवर्जय ॥१-४४-७॥
+पूर्वकेण हि ते राजन् तेन अतियशसा तदा ।धर्मिणाम् प्रवरेण अथ न एष प्राप्तो मनोरथः ॥१-४४-८॥
+तथैव अंशुमता वत्स लोके अप्रतिम तेजसा ।गंगाम् प्रार्थयता नेतुम् प्रतिज्ञा न अपवर्जिता ॥१-४४-९॥
+राजर्षिणा गुणवता महर्षि सम तेजसा ।मत् तुल्य तपसा चैव क्षत्र धर्म स्थितेन च ॥१-४४-१०॥
+दिलीपेन महाभाग तव पित्रा अतितेजसा ।पुनर् न शकिता नेतुम् गंगाम् प्रार्थयत अनघ ॥१-४४-११॥
+सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।प्राप्तो असि परमम् लोके यशः परम संमतम् ॥१-४४-१२॥
+तत् च गंगा अवतरणम् त्वया कृतम् अरिन्दम ।अनेन च भवान् प्राप्तो धर्मस्य आयतनम् महत् ॥१-४४-१३॥
+प्लावयस्व त्वम् आत्मानम् नरोत्तम सदा उचिते ।सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
+पितामहानाम् सर्वेषाम् कुरुष्व सलिलक्रियाम् ।स्वस्ति ते अस्तु गमिष्यामि स्वम् लोकम् गम्यताम् नृप ॥१-४४-१५॥
+इति एवम् उक्त्वा देवेशः सर्वलोक पितामहः ।यथा आगतम् तथा अगच्छत् देव लोकम् महायशाः ॥१-४४-१६॥
+भगीरथः तु राजर्षिः कृत्वा सलिलम् उत्तमम् ।यथाक्रमम् यथान्यायम् सागराणाम् महायशाः ॥१-४४-१७॥
+कृतोदकः शुची राजा स्वपुरम् प्रविवेश ह ।समृद्धार्थो नरश्रेष्ठ स्वराज्यम् प्रशशास ह ॥१-४४-१८॥
+प्रमुमोद च लोकः तम् नृपम् आसाद्य राघव ।नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥१-��४-१९॥
+एष ते राम गंगाया विस्तरो अभिहितो मया ।स्वस्ति प्राप्नुहि भद्रम् ते संध्या कालो अतिवर्तते ॥१-४४-२०॥
+धन्यम् यशस्यम् आयुष्यम् पुत्र्यम् स्वर्ग्यम् अथ अपि च ।यः श्रावयति विप्रेषु क्षत्रियेषु इतेरेषु च ॥१-४४-२१॥
+इदम् आKयनम् आयुश्यम् गंगा अवतरणम् शुभम् ॥१-४४-२२॥
+यः श्रुणोति च काकुत्स्थ सर्वान् कामान् अवाप्नुयात् ।सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिः च वर्धते ॥१-४४-२३॥
+विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४५-१॥
+अति अद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।गंगा अवतरणम् पुण्यम् सागरस्य अपि पूरणम् ॥१-४५-२॥
+क्षण भूत इव नौ रात्रिः संवृत्त इयम् परंतप ।इमाम् चिंतयतोः सर्वम् निखिलेन कथाम् तव ॥१-४५-३॥
+तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह ।जगाम चिंतयान् अस्य विश्वामित्र कथाम् शुभाम् ॥१-४५-४॥
+ततः प्रभाते विमले विश्वामित्रम् तपोधनम्।उवाच राघवो वाक्यम् कृत आह्निकम् अरिन्दमः ॥१-४५-५॥
+गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् ।तराम सरितम् श्रेष्टम् पुण्यम् त्रि पथ गाम् नदीम् ॥१-४५-६॥
+नौः एषा हि सुख आस्तीर्णा ऋषीणाम् पुण्य कर्मणाम् ।भगवंतम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता ॥१-४५-७॥
+तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः ।संतारम् कारयामास स ऋषि संघस्य कौशिकः ॥१-४५-८॥
+उत्तरम् तीरम् आसाद्य संपूज्य ऋषि गणम् ततः ।गंगा कूले निविष्टाः ते विशालाम् ददृशुः पुरीम् ॥१-४५-९॥
+ततो मुनि वरः तूर्णम् जगाम सह राघवः ।विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग उपमाम् तदा ॥१-४५-१०॥
+अथ रामो महाप्राज्ञो विश्वामित्रम् महामुनिम् ।पप्रच्छ प्रांजलिः भूत्वा विशालाम् उत्तमाम् पुरीम् ॥१-४५-११॥
+कतमो राज वंशो अयम् विशालायाम् महामुने ।श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे ॥१-४५-१२॥
+तस्य तत् वचनम् श्रुत्वा रामस्य मुनिपुंगवः ।आख्यातुम् तत् समारेभे विशालस्य पुरातनम् ॥१-४५-१३॥
+श्रूयताम् राम शक्रस्य कथाम् कथयतः श्रुताम् ।अस्मिन् देशे हि यत् वृत्तम् शृणु तत्त्वेन राघव ॥१-४५-१४॥
+पूर्वम् कृत युगे राम दितेः पुत्रा महाबलाः ।अदितेः च महाभागा वीर्यवन्तः सुधार्मिकाः ॥१-४५-१५॥
+ततः तेषाम् नरव्याघ्रः बुद्धिः आसीत् महात्मनाम् ।अमरा विर्जराः चैव कथम् स्यामो निरामया��� ॥१-४५-१६॥
+तेषाम् चिंतयताम् तत्र बुद्धिः आसीत् विपश्चिताम् ।क्षीर उद मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै ॥१-४५-१७॥
+ततो निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम् ।मन्थानम् मन्दरम् कृत्वा ममन्थुर् अमित ओजसः ॥१-४५-१८॥
+अथ वर्ष सहस्रेण योक्त्र सर्प शिरांसि च ।वमन्तो अति विषम् तत्र ददंशुर् दशनैः शिलाः ॥१-४५-१९॥
+उत्पपाताम् अग्नि संकाशम् हालाहल महाविषम् ।तेन दग्धम् जगत् सर्वम् स देव असुर मानुषम् ॥१-४५-२०॥
+अथ देवा महादेवम् शंकरम् शरणार्थ्तिनः ।जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहि इति तुष्टुवुः ॥१-४५-२१॥
+एवम् उक्{]तः ततो देवैः देवेश्वरः प्रभुः ।प्रादुर् आसीत् ततो अत्र एव शंख चक्र धरो हरिः ॥१-४५-२२॥
+उवाच एनम् स्मितम् कृत्वा रुद्रम् शूलधरम् हरिः ।दैवतैः मध्यमानो तु तत् पूर्वम् समुपस्थितम् ॥१-४५-२३॥
+तत् त्वदीयम् सुरश्रेष्ठः सुराणाम् अग्रतो हि यत् ।अग्र पूजामि इह स्थित्वा गृहाण इदम् विषम् प्रभो ॥१-४५-२४॥
+इति उक्त्वा च सुरश्रेष्ठः तत्र एव अंतर्धीयत ।देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तु शारङ्गिणः ॥१-४५-२५॥
+हालाहलम् विषम् घोरम् संजग्राह अमृत उपमम् ।देवान् विसृउज्य देवेशो जगाम भगवान् हरः ॥१-४५-२६॥
+ततो देव असुराः सर्वे ममन्थू रघुनंदन ।प्रविवेश अथ पातालम् मन्थानः पर्वतोत्तमः ॥१-४५-२७॥
+ततो देवाः स गन्धर्वाः तुष्टुवुः मधुसूदनम् ।त्वम् गतिः सर्व भूतानाम् विशेषेण दिवौकसाम् ॥१-४५-२८॥
+पालय अस्मान् महाबाहो गिरिम् उद्धर्तुम् अर्हसि ।इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः ॥१-४५-२९॥
+पर्वतम् पृष्टतः कृत्वा शिश्ये तत्र उदधौ हरिः ।पर्वत अग्रम् तु लोकात्मा हस्तेन आक्रम्य केशवः ॥१-४५-३०॥
+देवानाम् मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ।अथ वर्ष सहस्रेण आयुर्वेदमयः पुमान् ॥१-४५-३१॥
+उदतिष्ठत् सुधर्मात्मा स दण्ड स कमण्दुलुः ।पूर्वम् धन्वन्तरिर् नाम अप्सराः च सु वर्चसः ॥१-४५-३२॥
+अप्सु निर्मथनात् एव रसात् तस्मात् वर स्त्रियः ।उत्पेतुः मनुज श्रेष्ठ तस्मात् अप्सरसो अभवन् ॥१-४५-३३॥
+षष्टिः कोट्यो अभवन् तासाम् अप्सराणाम् सुवर्चसाम् ।असंख्येयाः तु काकुत्स्थ याः तासाम् परिचारिकाः ॥१-४५-३४॥
+न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव दानवाः ।अप्रतिग्रहणात् एव ता वै साधारणाः स्मृताः ॥१-४५-३५॥
+वरुणस्य ततः कन्या व��रुणी रघुनंदन ।उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥१-४५-३६॥
+दितेः पुत्रा न ताम् राम जगृहुर् वरुण आत्मजाम् ।अदितेः तु सुता वीर जगृहुः ताम् अनिंदिताम् ॥१-४५-३७॥
+असुराः तेन दैतेयाः सुराः तेन अदितेः सुताः ।हृष्टाः प्रमुदिताः च आसन् वारुणी ग्रहणात् सुराः ॥१-४५-३८॥
+उच्चैःश्रवा हय श्रेष्ठो मणि रत्नम् च कौस्तुभम् ।उदतिष्ठन् नरश्रेष्ठ तथैव अमृतम् उत्तमम् ॥१-४५-३९॥
+अथ तस्य कृते राम महान् आसीत् कुल क्षयः ।अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन् ॥१-४५-४०॥
+एकताम् अगमन् सर्वे असुरा राक्षसैः सह ।युद्धम् आसीत् महाघोरम् वीर त्रैलोक्य मोहनम् ॥१-४५-४१॥
+यदा क्षयम् गतम् सर्वम् तदा विष्णुः महाबलः ।अमृतम् सः अहरत् तूर्णम् मायाम् आस्थाय मोहिनीम् ॥१-४५-४२॥
+ये गता अभिमुखम् विष्णुम् अक्षरम् पुरुषोत्तमम् ।संपिष्टाः ते तदा युद्धे बिष्णुना प्रभ विष्णुना ॥१-४५-४३॥
+अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्निरे ।अस्मिन् घोरे महायुद्धे दैतेया अदित्यायोः भृशम् ॥१-४५-४४॥
+निहत्य दिति पुत्रान् तु राज्यम् प्राप्य पुरंदरः ।शशास मुदितो लोकान् स ऋषि संघान् स चारणान् ॥१-४५-४५॥
+हतेषु तेषु पुत्रेषु दितिः परम दुःखिता ।मारीचम् काश्यपम् राम भर्तारम् इदम् अब्रवीत् ॥१-४६-१॥
+हत पुत्रा अस्मि भगवन् तव पुत्रैः महाबलैः ।शक्र हन्तारम् इच्छामि पुत्रम् दीर्घ तपो अर्जितम् ॥१-४६-२॥
+सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि ।ईश्वरम् शक्र हन्तारम् त्वम् अनुज्ञातुम् अर्हसि ॥१-४६-३॥
+तस्याः तत् वचनम् श्रुत्वा मारीचः काश्यपः तदा ।प्रत्युवाच महातेजा दितिम् परम दुःखिताम् ॥१-४६-४॥
+एवम् भवतु भद्रम् ते शुचिः भव तपोधने ।जनयिष्यसि पुत्रम् त्वम् शक्र हन्तारम् आहवे ॥१-४६-५॥
+पूर्णे वर्ष सहस्रे तु शुचिः यदि भविष्यसि ।पुत्रम् त्रैलोक्य हन्तारम् मत्तः त्वम् जनयिष्यसि ॥१-४६-६॥
+एवम् उक्त्वा महा तेजाः पाणिना स ममार्ज ताम् ।तम् आलभ्य ततः स्वस्ति इति उक्त्वा तपसे ययौ ॥१-४६-७॥
+गते तस्मिन् नरश्रेष्ठ दितिः परम हर्षिता ।कुशप्लवम् सामासाद्य तपः तेपे सुदारुणम् ॥१-४६-८॥
+तपः तस्याम् हि कुर्वत्याम् परिचर्याम् चकार ह ।सहस्राक्षो नरश्रेष्ठ परया गुण संपदा ॥१-४६-९॥
+अग्निम् कुशान् काष्ठम् अपः फलम् मूलम् तथैव च ।न्यवेदयत् सहस्राक्षो यच् च अन्यत् अपि कान्क्षितम् ॥१-४६-१०॥
+गात्र संवाहनैः चैव श्रम अपनयनैः तथा ।शक्रः सर्वेषु कालेषु दितिम् परिचचार ह ॥१-४६-११॥
+पूर्णे वर्ष सहस्रे दश ऊने रघुनंदन ।दितिः परम संहृष्टा सहस्राक्षम् अथ अब्रवीत् ॥१-४६-१२॥
+तपः चरन्त्या वर्षाणि दश वीर्यवताम् वर ।अवशिष्टानि भद्रम् ते भ्रातरम् द्रक्ष्यसे ततः ॥१-४६-१३॥
+यम् अहम् त्वत् कृते पुत्र तम् आधास्ये जय उत्सुकम् ।त्रैलोक्य विजयम् पुत्र सह भोक्ष्यसि विज्वरः ॥१-४६-१४॥
+याचितेन सुरश्रेष्ट पित्रा तव माहात्मना ।वरो वर्ष सस्र अन्ते मम दत्तः सुतम् प्रति ॥१-४६-१५॥
+इति उक्त्वा च दितिः तत्र प्राप्ते मध्यन्दिन ईश्वरे ।निद्रया पहृता देवी पादौ कृत्वाथ शीर्षतः ॥१-४६-१६॥
+दृष्ट्वा ताम् अशुचिम् शक्रः पादयोः कृत मूर्धजाम् ।शिरः स्थाने कृतौ पादौ जहास च मुमोद च ॥१-४६-१७॥
+तस्याः शरीर विवरम् प्रविवेश पुरंदरः ।गर्भम् च सप्तधा राम चिच्छेद परम आत्मवान् ॥१-४६-१८॥
+भिद्यमानः ततो गर्भो वज्रेण शत पर्वणा ।रुरोद सुस्वरम् राम ततो दितिः अबुध्यत ॥१-४६-१९॥
+मा रुदो मा रुदः च इति गर्भम् शक्रो अभ्यभाषत ।बिभेद च महातेजा रुदन्तम् अपि वासवः ॥१-४६-२०॥
+न हन्तव्यम् न हन्तव्यम् इति एवम् दितिः अब्रवीत् ।निष्पपात ततः शक्रो मातुर् वचन गौरवात् ॥१-४६-२१॥
+प्रांजलिः वज्र सहितो दितिम् शक्रो अभ्यभाषत ।अशुचिः देवि सुप्ता असि पादयोः कृत मूर्धजा॥१-४६-२२॥
+तत् अन्तरम् अहम् लब्ध्वा शक्र हन्तारम् आहवे ।अभिन्दम् सप्तधा देवि तन् मे त्वम् क्षन्तुम् अर्हसि ॥१-४६-२३॥
+सप्तधा तु कृते गर्भे दितिः परम दुःखिता ।सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया अब्रवीत् ॥१-४७-१॥
+मम अपराधात् गर्भो अयम् सप्तधा शकली कृतः ।न अपराधो हि देव ईश तव अत्र बलसूदन ॥१-४७-२॥
+प्रियम् त्वत् कृतम् इच्छामि मम गर्भ विपर्यये ।मरुताम् सप्त सप्तानाम् स्थानपाला भवन्तु ते ॥१-४७-३॥
+वात स्कंधा इमे सप्त चरन्तु दिवि पुत्रक ।मारुता इति विख्याता दिव्यरूपा मम आत्मजाः ॥१-४७-४॥
+ब्रह्म लोकम् चरतु एक इन्द्र लोकम् तथा अपरः ।दिव्य वायुः इति ख्यातः तृतीयो अपि महायशाः ॥१-४७-५॥
+चत्वारः तु सुरश्रेष्ठ दिशो वै तव शासनात् ।संचरिष्यन्ति भद्रम् ते कलेन हि मम आत्मजाः ॥१-४७-६॥
+त्वत् कृतेन एव नाम्ना वै मारुता इति विश्रुताः ।तस्याः तत् वचनम् श्रुत्वा सहस्राक्षः पुरंदरः ॥१-४७-७॥
+उवाच प्रांजलिः वाक्यम् दित��म् बलसूदनः ।सर्वम् एतत् यथा उक्तम् ते भविष्यति न संशयः ॥१-४७-८॥
+विचरिष्यन्ति भद्रम् ते देवरूपाः तव आत्मजाः ।एवम् तौ निश्चयम् कृत्वा माता पुत्रौ तपोवने ॥१-४७-९॥
+जग्मतुः त्रिदिवम् राम कृतार्थौ इति नः श्रुतम् ।एष देशः स काकुत्स्थ महेन्द्रात् अद्युषितः पुरा ॥१-४७-१०॥
+दितिम् यत्र तपः सिद्धाम् एवम् परिचचार सः ।इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परम धार्मिकः ॥१-४७-११॥
+अलंबुषायाम् उत्पन्नो विशाल इति विश्रुतः ।तेन च आसीत् इह स्थाने विशाले इति पुरी कृता ॥१-४७-१२॥
+विशालस्य सुतो राम हेमचन्द्रो महाबलः ।सुचन्द्र इति विख्यातो हेमचन्द्रात् अनंतरः ॥१-४७-१३॥
+सुचन्द्र तनयो राम धूम्र अश्व इति विश्रुतः ।धूम्राश्व तनयः च अपि सृंजयः समपद्यत ॥१-४७-१४॥
+सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।कुशाश्वः सहदेवस्य पुत्रः परम धार्मिकः ॥१-४७-१५॥
+कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।सोमदत्तस्य पुत्रः तु काकुत्स्थ इति विश्रुतः ॥१-४७-१६॥
+तस्य पुत्रो महातेजाः सम्प्रति एष पुरीम् इमाम् ।आवसत् परम प्रख्यः सुमतिः नाम दुर्जयः ॥१-४७-१७॥
+इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।दीर्घ आयुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१-४७-१८॥
+इह अद्य रजनीम् एकाम् सुखम् स्वप्स्यामहे वयम् ।श्वः प्रभाते नरश्रेष्ठ जनकम् द्रष्टुम् अर्हसि ॥१-४७-१९॥
+सुमतिः तु महातेजा विश्वामित्रम् उपागतम् ।श्रुत्वा नर वर श्रेष्ठः प्रत्यागच्छन् महायशाः ॥१-४७-२०॥
+पूजाम् च परमाम् कृत्वा स उपाध्यायः सबान्धवः ।प्रांजलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४७-२१॥
+धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे विषयम् मुने ।संप्राप्तो दर्शनम् चैव न अस्ति धन्यतरो मम ॥१-४७-२२॥
+पृष्ट्वा तु कुशलम् तत्र परस्पर समागमे ।कथाअन्ते सुमतिः वाक्यम् व्याजहार महामुनिम् ॥१-४८-१॥
+इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ।गज सिंह गती वीरौ शार्दूल वृषभ उपमौ ॥१-४८-२॥
+पद्म पत्र विशालाक्षौ खड्ग तूणी धनुर् धरौ ।अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-४८-३॥
+यदृच्छया एव गाम् प्राप्तौ देवलोकात् इव अमरौ ।कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-४८-४॥
+भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ।परस्परेण सदृशौ प्रमाण इन्गित चेष्टितैः ॥१-४८-५॥
+किम् अर्थम् च नर श्रेष��ठौ सम्प्राप्तौ दुर्गमे पथि ।वर आयुध धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-४८-६॥
+तस्य तद् वचनम् श्रुत्वा यथा वृत्तम् न्यवेदयत् ।सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ॥१-४८-७॥
+विश्वामित्र वचः श्रुत्वा राजा परम विस्मितः ॥१-४८-८॥
+च्अतिथी परमौ प्राप्तम् पुत्रौ दशरथस्य तौ ।पूजयामास विधिवत् सत्कार अर्हौ महाबलौ ॥१-४८-९॥
+ततः परम सत्कारम् सुमतेः प्राप्य राघवौ ।उष्य तत्र निशाम् एकाम् जग्मतुः मिथिलाम् ततः ॥१-४८-१०॥
+ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् ।साधु साधु इति शंसन्तो मिथिलाम् समपूजयन् ॥१-४८-११॥
+मिथिल उपवने तत्र आश्रमम् दृश्य राघवः ।पुराणम् निर्जनम् रम्यम् पप्रच्छ मुनि पुंगवम् ॥१-४८-१२॥
+इदम् आश्रम संकाशम् किम् नु इदम् मुनि वर्जितम् ।श्रोतुम् इच्छामि भगवन् कस्य अयम् पूर्व आश्रमः ॥१-४८-१३॥
+तत् श्रुता राघवेण उक्तम् वाक्यम् वाक्य विशारदः ।प्रति उवाच महातेजा विश्वमित्रो महामुनिः ॥१-४८-१४॥
+हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ।यस्य एतत् आश्रम पदम् शप्तम् कोपान् महात्मना ॥१-४८-१५॥
+गौतमस्य नरश्रेष्ठ पूर्वम् आसीत् महात्मनः ।आश्रमो दिव्य संकाशः सुरैः अपि सुपूजितः ॥१-४८-१६॥
+स च अत्र तप आतिष्ठत् अहल्या सहितः पुरा ।वर्ष पूगानि अनेकानि राजपुत्र महायशः ॥१-४८-१७॥
+तस्य अन्तरम् विदित्वा तु सहस्राक्षः शची पतिः ।मुनि वेष धरो भूत्वा अहल्याम् इदम् अब्रवीत् ॥१-४८-१८॥
+ऋतु कालम् प्रतीक्षन्ते न अर्थिनः सुसमाहिते ।संगमम् तु अहम् इच्छामि त्वया सह सुमध्यमे ॥१-४८-१९॥
+मुनि वेषम् सहस्राक्षम् विज्ञाय रघुनंदन ।मतिम् चकार दुर्मेधा देव राज कुतूहलात् ॥१-४८-२०॥
+अथ अब्रवीत् सुरश्रेष्ठम् कृतार्थेन अंतरात्मना ।कृतार्था अस्मि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो ॥१-४८-२१॥
+आत्मानम् माम् च देवेश सर्वदा रक्ष गौतमात् ।इन्द्रः तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् ॥१-४८-२२॥
+सुश्रोणि परितुष्टो अस्मि गमिष्यामि यथा आगतम् ।एवम् संगम्य तु तया निश्चक्राम उटजात् ततः ॥१-४८-२३॥
+स संभ्रमात् त्वरन् राम शन्कितो गौतमम् प्रति ।गौतमम् स ददर्श अथ प्रविशंतम् महामुनिम् ॥१-४८-२४॥
+देव दानव दुर्धर्षम् तपो बल समन्वितम् ।तीर्थ उदक परिक्लिन्नम् दीप्यमानम् इव अनलम् ॥१-४८-२५॥
+गृहीत समिधम् तत्र स कुशम् मुनि पुंगवम् ।दृष्ट्वा सुर पतिः त्रस्तो विषण्ण वदनो अभवत् ॥१-४८-२६॥
+अथ दृष्ट्वा सहस्राक्षम् मुनि वेष धरम् मुनिः ।दुर्वृत्तम् वृत्त संपन्नो रोषात् वचनम् अब्रवीत् ॥१-४८-२७॥
+मम रूपम् समास्थाय कृतवान् असि दुर्मते ।अकर्तव्यम् इदम् यस्मात् विफलः त्वम् भविष्यति ॥१-४८-२८॥
+गौतमेन एवम् उक्तस्य स रोषेण महात्मना ।पेततुः वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात् ॥१-४८-२९॥
+तथा शप्त्वा च वै शक्रम् भार्याम् अपि च शप्तवान् ।इह वर्ष सहस्राणि बहूनि निवषिस्यसि ॥१-४८-३०॥
+वायु भक्षा निराहारा तप्यन्ती भस्म शायिनी ।अदृश्या सर्व भूतानाम् आश्रमे अस्मिन् वषिस्यसि ॥१-४८-३१॥
+यदा तु एतत् वनम् घोरम् रामो दशरथ आत्मजः ।आगमिष्यति दुर्धर्षः तदा पूता भविष्यसि ॥१-४८-३२॥
+तस्य आतिथ्येन दुर्वृत्ते लोभ मोह विवर्जिता ।मत् सकाशे मुदा युक्ता स्वम् वपुः धारयिष्यसि ॥१-४८-३३॥
+एवम् उक्त्वा महातेजा गौतमो दुष्ट चारिणीम् ।इमम् आश्रमम् उत्सृज्य सिद्ध चारण सेविते ।हिमवत् शिखरे रम्ये तपः तेपे महातपाः ॥१-४८-३४॥
+अफलः तु ततः शक्रो देवान् अग्नि पुरोगमान् ।अब्रवीत् त्रस्त नयनः सिद्ध गन्धव चारणान् ॥१-४९-१॥
+कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः ।क्रोधम् उत्पाद्य हि मया सुर कार्यम् इदम् कृतम् ॥१-४९-२॥
+अफलो अस्मि कृतः तेन क्रोधात् सा च निराकृता ।शाप मोक्षेण महता तपो अस्य अपहृतम् मया ॥१-४९-३॥
+तत् माम् सुरवराः सर्वे स ऋषि संघाः स चारणाः ।सुर कार्य करम् यूयम् सफलम् कर्तुम् अर्हथ ॥१-४९-४॥
+शतक्रतोः वचः श्रुत्वा देवाः स अग्नि पुरोगमाः ।पितृ देवान् उपेत्य आहुः सह सर्वैः मरुत् गणैः ॥१-४९-५॥
+अयम् मेषः सवृषणः शक्रो हि अवृषणः कृतः ।मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत ॥१-४९-६॥
+अफलः तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति ।भवताम् हर्षणार्थाय ये च दास्यन्ति मानवाः ।अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् ॥१-४९-७॥
+अग्नेः तु वचनम् श्रुत्वा पितृ देवाः समागताः ।उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥१-४९-८॥
+तदा प्रभृति काकुत्स्थ पितृ देवाः समागताः ।अफलान् भुंजते मेषान् फलैः तेषाम् अयोजयन् ॥१-४९-९॥
+इन्द्रः तु मेष वृषणः तदा प्रभृति राघव ।गौतमस्य प्रभावेन तपसा च महात्मनः ॥१-४९-१०॥
+तत् आगच्छ महातेज आश्रमम् पुण्य कर्मणः ।तारय एनाम् महाभागाम् अहल्याम् देव रूपिणीम् ॥१-४९-११॥
+विश्वामित्र वचः ���्रुत्वा राघवः सह लक्ष्मणः ।विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह ॥१-४९-१२॥
+ददर्श च महाभागाम् तपसा द्योतित प्रभाम् ।लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर असुरैः ॥१-४९-१३॥
+प्रयत्नात् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव ।धूमेन अभिपरीत अंगीम् दीप्ताअम् अग्नि सिखाम् इव ॥१-४९-१४॥
+स तुषार आवृताम् स अभ्राम् पूर्ण चन्द्र प्रभाम् इव ।मध्ये अंभसो दुराधर्षाम् दीप्ताम् सूर्य प्रभाम् इव ॥१-४९-१५॥
+सस् हि गौतम वाक्येन दुर्निरीक्ष्या बभूव ह ।त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम् ॥१-४९-१६॥
+शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता।राघवौ तु ततः तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥
+स्मरंती गौतम वचः प्रतिजग्राह सा च तौ।पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सुसमाहिता ।प्रतिजग्राह काकुत्स्थो विधि दृष्टेन कर्मणा ॥१-४९-१८॥
+पुष्प वृष्टिः महती आसीत् देव दुंदुभि निस्वनैः ।गन्धर्व अप्सरसाम् च एव महान् आसीत् समुत्सवः ॥१-४९-१९॥
+साधु साधु इति देवाः ताम् अहल्याम् समपूजयन् ।तपो बल विशुद्ध अंगीम् गौतमस्य वश अनुगाम् ॥१-४९-२०॥
+गौतमो अपि महातेजा अहल्या सहितः सुखी ।रामम् सम्पूज्य विधिवत् तपः तेपे महातपाः ॥१-४९-२१॥
+रामो अपि परमाम् पूजाम् गौतमस्य महामुनेः ।सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततः ॥१-४९-२२॥
+ततः प्राक् उत्तराम् गत्वा रामः सौमित्रिणा सह ।विश्वामित्रम् पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-५०-१॥
+रामः तु मुनि शार्दूलम् उवाच सह लक्ष्मणः ।साध्वी यज्ञ समृद्धिः हि जनकस्य महात्मनः ॥१-५०-२॥
+बहूनि इह सहस्राणि नाना देश निवासिनाम् ।ब्राह्मणानाम् महाभाग वेद अध्ययन शालिनाम् ॥१-५०-३॥
+ऋषि वाटाः च दृश्यन्ते शकटी शत संकुलाः ।देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम् ॥१-५०-४॥
+रामस्य वचनम् श्रुत्वा विश्वामित्रो महामुनिः ।निवेशम् अकरोत् देशे विविक्ते सलिल आयुते ॥१-५०-५॥
+विश्वामित्रम् अनुप्राप्तम् श्रुत्वा नृपवरः तदा ।शतानंदम् पुरस्कृत्य पुरोहितम् अनिन्दितम् ॥१-५०-६॥
+प्रति उज्जगाम सहसा विनयेन समन्वितः ।ऋत्विजो अपि महात्मानः तु अर्घ्यम् आदाय स त्वरम् ॥१-५०-७॥
+विश्वामित्राय धर्मेण ददौ धर्म पुरस्कृतम् ।प्रतिगृह्य तु ताम् पूजाम् जनकस्य महात्मनः ॥१-५०-८॥
+पप्रच्छ कुशलम् राज्ञो यज्ञस्य च निरामयम् ।स ताम् �� अथ मुनीन् पृष्ट्वा स उपाध्याय पुरोधसः ॥१-५०-९॥
+यथा अर्हम् ऋषिभिः सर्वैः समागच्छत् प्रहृष्टवत् ।अथ राजा मुनि श्रेष्ठम् कृत अंजलिः अभाषत ॥१-५०-१०॥
+आसने भगवान् आस्ताम् सह एभिः मुनि सत्तमैः ।जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥१-५०-११॥
+पुरोधा ऋत्विजः चैव राजा च सह मंत्रिभिः ।आसनेषु यथा न्यायम् उपविष्टान् समन्ततः ॥१-५०-१२॥
+दृष्ट्वा स नृपतिः तत्र विश्वामित्रम् अथ अब्रवीत् ।अद्य यज्ञ समृद्धिः मे सफला दैवतैः कृता ॥१-५०-१३॥
+अद्य यज्ञ फलम् प्राप्तम् भगवद् दर्शनात् मया ।धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनि पुंगव ॥१-५०-१४॥
+यज्ञ उपसदनम् ब्रह्मन् प्राप्तो असि मुनिभिः सह ।द्वादश अहम् तु ब्रह्मर्षे दीक्षाम् आहुः मनीषिणः ॥१-५०-१५॥
+ततो भाग अर्थिनो देवान् द्रष्टुम् अर्हसि कौशिक ।इति उक्त्वा मुनि शार्दूलम् प्रहृष्ट वदनः तदा ॥१-५०-१६॥
+पुनः तम् परिपप्रच्छ प्रांजलिः प्रयतो नृपः ।इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ॥१-५०-१७॥
+गज तुल्य गती वीरौ शार्दूल वृषभ उपमौ ।पद्म पत्र विशाल अक्षौ खड्ग तूणी धनुर् धरौ ।अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-५०-१८॥
+यदृच्छया एव गाम् प्राप्तौ देव लोकात् इव अमरौ ।कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-५०-१९॥
+वर आयुध धरौ वीरौ कस्य पुत्रौ महामुने ।भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ॥१-५०-२०॥
+परस्परस्य सदृशौ प्रमाण इन्गित चेष्टितैः ।काक पक्ष धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-५०-२१॥
+तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः ।न्यवेदयत् अमेय आत्मा पुत्रौ दशरथस्य तौ ॥१-५०-२२॥
+सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ।तत्र आगमनम् अव्यग्रम् विशालायाः च दर्शनम् ॥१-५०-२३॥
+अहल्या दर्शनम् चैव गौतमेन समागमम् ।महाधनुषि जिज्ञासाम् कर्तुम् आगमनम् तथा ॥१-५०-२४॥
+एतत् सर्वम् महातेजा जनकाय महात्मने ।निवेद्य विरराम अथ विश्वामित्रो महामुनिः ॥१-५०-२५॥
+तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः ।हृष्ट रोमा महातेजाः शताअनन्दो महातपाः ॥१-५१-१॥
+गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।राम संदर्शनात् एव परम् विस्मयम् आगतः ॥१-५१-२॥
+एतौ निषण्णौ संप्रेक्ष्य सुख आसीनौ नृपात्मजौ ।शताअनंदो मुनिश्रेष्ठम् विश्वामित्रम् अथ अब्रवीत् ॥१-५१-३॥
+अपि ते मुनि शार्दूल मम माता यशस्विनी ।दर्शिता राज पुत्राय तपो दीर्घम् उपागता ॥१-५१-४॥
+अपि रामे महातेजो मम माता यशस्विनी ।वन्यैः उपाहरत् पूजाम् पूजा अर्हे सर्व देहिनाम् ॥१-५१-५॥
+अपि रामाय कथितम् यथा वृत्तम् पुरातनम् ।मम मातुः महातेजो दैवेन दुरनुष्ठितम् ॥१-५१-६॥
+अपि कौशिक भद्रम् ते गुरुणा मम संगता ।माता मम मुनिश्रेष्ठ राम संदर्शनात् इतः ॥१-५१-७॥
+अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।इह आगतो महातेजाः पूजाम् प्राप्य महात्मनः ॥१-५१-८॥
+अपि शांतेन मनसा गुरुः मे कुशिकात्मज ।इह आगतेन रामेण पूजितेन अभिवादितः ॥१-५१-९॥
+तत् श्रुत्वा वचनम् तस्य विश्वामित्रो महामुनिः ।प्रति उवाच शतानंदम् वाक्यज्ञो वाक्य कोविदम् ॥१-५१-१०॥
+न अतिक्रान्तम् मुनिश्रेष्ठ यत् कर्तव्यम् कृतम् मया ।संगता मुनिना पत्नी भार्गवेण इव रेणुका ॥१-५१-११॥
+तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः ।शतानंदो महातेजा रामम् वचनम् अब्रवीत् ॥१-५१-१२॥
+स्वागतम् ते नरश्रेष्ठ दिष्ट्या प्राप्तो असि राघव ।विश्वामित्रम् पुरस्कृत्य महर्षिम् अपराजितम् ॥१-५१-१३॥
+अचिन्त्य कर्मा तपसा ब्रह्मर्षिः अमित प्रभः ।विश्वामित्रो महातेजा - वेद्म्य - वेत्सि एनम् परमाम् गतिम् ॥१-५१-१४॥
+न अस्ति धन्यतरो राम त्वत्तो अन्यो भुवि कश्चन ।गोप्ता कुशिक पुत्रः ते येन तप्तम् महत् तपः ॥१-५१-१५॥
+श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः ।यथा बलम् यथा तत्त्वम् तत् मे निगदतः शृणु ॥१-५१-१६॥
+राजा अभूत् एष धर्मात्मा दीर्घ कालम् अरिन्दमः ।धर्मज्ञः कृत विद्यः च प्रजानाम् च हिते रतः ॥१-५१-१७॥
+प्रजापति सुतः तु आसीत् कुशो नाम महीपतिः ।कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१-५१-१८॥
+कुशनाभ सुतः तु आसीत् गाधिः इति एव विश्रुतः ।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१-५१-१९॥
+विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।बहु वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-५१-२०॥
+कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।अक्षौहिणी परिवृतः परिचक्राम मेदिनीम् ॥१-५१-२१॥
+नगराणि च राष्ट्रानि सरितः च तथा गिरीन् ।आश्रमान् क्रमशो राजा विचरन् आजगाम ह ॥१-५१-२२॥
+वसिष्ठस्य आश्रम पदम् नाना पुष्प लता द्रुमम् ।नाना मृग गण आकीर्णम् सिद्ध चारण सेवितम् ॥१-५१-२३॥
+देव दानव गन्धर्वैः किन्नरैः उपशोभितम् ।प्रशांत हरिण आकीर्णम् द्विज संघ निषेवितम् ॥१-५१-२४॥
+ब्रह्म ऋषि गण संकीर्णम् देव ऋषि गण सेवितम् ।तपः चरण संसिद्धैः अग्नि कल्पैः महात्मभिः ॥१-५१-२५॥
+सततम् संकुलम् श्रीमत् ब्रह्म कल्पैः महात्मभिः ।अब् भक्षैः वायु भक्षैः च शीर्ण पर्ण अशनैः तथा ॥१-५१-२६॥
+फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा -फल मूल अशनैः दान्तैः जित दोषैः जित इन्द्रियैः ।ऋषिभिः वालखिल्यैः च जप होम परायणैः ॥१-५१-२७॥
+अन्यैः वैखानसैः चैव समंतात् उपशोभितम् ।वसिष्ठस्य आश्रम पदम् ब्रह्म लोकम् इव अपरम् ।ददर्श जयताम् श्रेष्ठ विश्वामित्रो महाबलः ॥१-५१-२८॥
+तम् दृष्ट्वा परम प्रीतो विश्वामित्रो महाबलः ।प्रणतो विनयात् वीरो वसिष्ठम् जपताम् वरम् ॥१-५२-१॥
+स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना ।आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह ॥१-५२-२॥
+उपविष्टाय च तदा विश्वामित्राय धीमते ।यथा न्यायम् मुनि वरः फल मूलम् उपाहरत् ॥१-५२-३॥
+प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज सत्तमः ।तपो अग्नि होत्र शिष्येषु कुशलम् पर्यपृच्छत ॥१-५२-४॥
+विश्वामित्रो महातेजा वनस्पति गणे तथा ।सर्वत्र कुशलम् च आह वसिष्ठो राज सत्तमम् ॥१-५२-५॥
+सुख उपविष्टम् राजानम् विश्वामित्रम् महातपाः ।पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥१-५२-६॥
+कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रंजयन् ।प्रजाः पालयसे राजन् राज वृत्तेन धार्मिक ॥१-५२-७॥
+कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने ।कच्चित् ते विजिताः सर्वे रिपवो रिपु सूदन ॥१-५२-८॥
+कच्चित् बले च कोशे च मित्रेषु च परंतप ।कुशलम् ते नर व्याघ्र पुत्र पौत्रे तथा अनघ ॥१-५२-९॥
+सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् ।विश्वामित्रो महातेजा वसिष्ठम् विनय अन्वितम् ॥१-५२-१०॥
+कृत्वा तौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः तदा ।मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम् ॥१-५२-११॥
+ततो वसिष्ठो भगवान् कथा अन्ते रघुनंदन ।विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव ॥१-५२-१२॥
+आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महाबल ।तव च एव अप्रमेयस्य यथा अर्हम् संप्रतीच्छ मे ॥१-५२-१३॥
+सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया कृताम् ।राजन् त्वम् अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१-५२-१४॥
+एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः ।कृतम् इति अब्रवीत् राजा पूजा व���क्येन मे त्वया ॥१-५२-१५॥
+फल मूलेन भगवन् विद्यते यत् तव आश्रमे ।पाद्येन आचमनीयेन भगवद् दर्शनेन च ॥१-५२-१६॥
+सर्वथा च महाप्राज्ञ पूजा अर्हेण सुपूजितः ।नमस्ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा ॥१-५२-१७॥
+एवम् ब्रुवन्तम् राजानम् वसिष्ठः पुनः एव हि ।न्यमंत्रयत धर्मात्मा पुनः पुनः उदार धीः ॥१-५२-१८॥
+बाढम् इति एव गाधेयो वसिष्ठम् प्रत्युवाच ह ।यथा प्रियम् भगवतः तथा अस्तु मुनि सत्तम ॥१-५२-१९॥
+एवम् उक्तः तथा तेन वसिष्ठो जपताम् वरः ।आजुहाव ततः प्रीतः कल्माषीम् धूत कल्मषः ॥१-५२-२०॥
+एहि एहि शबले क्षिप्रम् शृणु च अपि वचो मम ।सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो अस्मि अहम् ।भोजनेन महा अर्हेण सत्कारम् संविधत्स्व मे ॥१-५२-२१॥
+यस्य यस्य यथा कामम् षड् रसेषु अभिपूजितम् ।तत् सर्वम् काम धुक् दिव्ये अभिवर्ष कृते मम ॥१-५२-२२॥
+रसेन अन्नेन पानेन लेह्य चोष्येण संयुतम् ।अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर ॥१-५२-२३॥
+एवम् उक्ता वसिष्ठेन शबला शत्रु सूदन ।विदधे कामधुक् कामान् यस्य यस्य ईप्सितम् यथा ॥१-५३-१॥
+इक्षून् मधून् तथा लाजान् मैरेयान् च वर आसवान् ।पानानि च महाअर्हाणि भक्ष्यान् च उच्च अवचान् तथा ॥१-५३-२॥
+उष्ण आढ्यस्य ओदनस्य अपि राशयः पर्वतोपमाः ।मृष्ट अन्नानि च सूपाः च दधि कुल्याः तथैव च ॥१-५३-३॥
+नाना स्वादु रसानाम् च खाण्डवनाम् - षाडबानाम् - तथैव च ।भाजनानि -भोजनानि - सुपूर्णानि गौडानि च सहस्रशः ॥१-५३-४॥
+सर्वम् आसीत् सुसंतुष्टम् हृष्ट पुष्ट जन आयुतम् ।विश्वामित्र बलम् राम वसिष्ठेन सुतर्पितम् ॥१-५३-५॥
+विश्वामित्रो अपि राजर्षिः हृष्ट पुष्टः तदा अभवत् ।स अन्तः पुर वरो राजा स ब्राह्मण पुरोहितः ॥१-५३-६॥
+स अमात्यो मंत्रि सहितः स भृत्यः पूजितः तदा ।युक्तः परम हर्षेण वसिष्ठम् इदम् अब्रवीत् ॥१-५३-७॥
+पूजितो अहम् त्वया ब्रह्मन् पूज अर्हेण सुसत्कृतः ।श्रूयताम् अभिधास्यामि वाक्यम् वाक्य विशारद ॥१-५३-८॥
+गवाम् शत सहस्रेण दीयताम् शबला मम ।रत्नम् हि भगवन् एतत् रत्न हारी च पार्थिवः ॥१-५३-९॥
+तस्मात् मे शबलाम् देहि मम एषा धर्मतो द्विज ।एवम् उक्तः तु भगवान् वसिष्ठो मुनि सत्तमः ॥१-५३-१०॥
+विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।न अहम् शत सहस्रेण न अपि कोटि शतैः गवाम् ॥१-५३-११॥
+राजन् दास्यामि शबलाम् राशिभी रजतस्य वा ।न परि���्यागम् अर्हा इयम् मत् सकाशात् अरिन्दम ॥१-५३-१२॥
+शाश्वती शबला मह्यम् कीर्तिर् आत्मवतो यथा ।अस्याम् हव्यम् च कव्यम् च प्राण यात्रा तथैव च ॥१-५३-१३॥
+आयत्तम् अग्नि होत्रम् च बलिः होमः तथैव च ।स्वाहा कार वषट् कारौ विद्याः च विविधाः तथा ॥१-५३-१४॥
+आयत्तम् अत्र राज ऋषे सर्वम् एतन् न संशयः ।सर्वस्वम् एतत् सत्येन मम तुष्टि करी तथा ॥१-५३-१५॥
+कारणैः बहुभी राजन् न दास्ये शबलाम् तव ।वसिष्ठेन एवम् उक्तः तु विश्वामित्रो अब्रवीत् तदा ॥१-५३-१६॥
+संरब्धतरम् अत्यर्थम् वाक्यम् वाक्य विशारदः ।हैरण्य कक्ष्या ग्रैवेयान् सुवर्ण अंकुश भूषितान् ॥१-५३-१७॥
+ददामि कुंजराणाम् ते सहस्राणि चतुर् दश ।हैरण्यानाम् रथानाम् च श्वेत अश्वानाम् चतुर् युजाम् ॥१-५३-१८॥
+ददामि ते शतानि अष्टौ किन्किणीक विभूषितान् ।हयानाम् देश जातानाम् कुल जानाम् महौजसाम् ।सहस्रम् एकम् दश च ददामि तव सुव्रत ॥१-५३-१९॥
+नाना वर्ण विभक्तानाम् वयःस्थानाम् तथैव च ।ददामि एकाम् गवाम् कोटिम् शबला दीयताम् मम ॥१-५३-२०॥
+यावत् इच्छसि रत्नानि हिरण्यम् वा द्विजोत्तम ।तावत् ददामि ते सर्वम् दीयताम् शबला मम ॥१-५३-२१॥
+एवम् उक्तः तु भगवान् विश्वामित्रेण धीमता ।न दास्यामि इति शबलाम् प्राह राजन् कथंचन ॥१-५३-२२॥
+एतदेव हि मे रत्नम् एतदेव हि मे धनम् ।एतदेव हि सर्वस्वम् एतदेव हि जीवितम् ॥१-५३-२३॥
+दर्शः च पौर्ण मासः च यज्ञाः चैव आप्त दक्षिणाः ।एतदेव हि मे राजन् विविधाः च क्रियाः तथा ॥१-५३-२४॥
+अतो मूलाः क्रियाः सर्वा मम राजन् न संशयः ।बहूना किम् प्रलापेन न दास्ये काम दोहिनीम् ॥१-५३-२५॥
+कामधेनुम् वसिष्ठो अपि यदा न त्यजते मुनिः ।तदा अस्य शबलाम् राम विश्वामित्रो अन्वकर्षत ॥१-५४-१॥
+नीयमाना तु शबला राम राज्ञा महात्मना ।दुःखिता चिन्तयामास रुदंती शोक कर्शिता ॥१-५४-२॥
+परित्यक्ता वसिष्ठेन किम् अहम् सुमहात्मना ।या अहम् राज भृतैः दीना ह्रियेयम् भृश दुःखिता ॥१-५४-३॥
+किम् मया अपकृतम् तस्य महर्षेः भावित आत्मनः ।यन् माम् अनागसम् भक्ताम् इष्टाम् त्यजति धार्मिकः ॥१-५४-४॥
+इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः ।जगाम वेगेन तदा वसिष्ठम् परम ओजसम् ॥१-५४-५॥
+निर्धूय ताम् तदा भृत्यान् शतशः शत्रुसूदन ।जगाम अनिल वेगेन पाद मूलम् महात्मनः ॥१-५४-६॥
+शबला सा रुदन्ती च क्रोशन्ती च इदम् अब्रवीत् ।वसिष्ठस्य ��ग्रतः स्थित्वा मेघ निःस्वना ॥१-५४-७॥
+भगवन् किम् परित्यक्ता त्वया अहम् ब्रह्मणः सुत ।यस्मात् राज भटा माम् हि नयन्ते त्वत् सकाशतः ॥१-५४-८॥
+एवम् उक्तः तु ब्रह्मर्षिर् इदम् वचनम् अब्रवीत् ।शोक संतप्त हृदयाम् स्व सारम् इव दुःखिताम् ॥१-५४-९॥
+न त्वाम् त्यजामि शबले न अपि मे अपकृतम् त्वया ।एष त्वाम् नयते राजा बलात् मत्तः महाबलः ॥१-५४-१०॥
+न हि तुल्यम् बलम् मह्यम् राजा तु अद्य विशेषतः ।बली राजा क्षत्रियः च पृथिव्याः पतिः एव च ॥१-५४-११॥
+इयम् अक्षौहिणी पूर्णा गज वाजि रथ आकुला ।हस्ति ध्वज समाकीर्णा तेन असौ बलवत्तरः ॥१-५४-१२॥
+एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।वचनम् वचनज्ञा सा ब्रह्मर्षिम् अतुल प्रभम् ॥१-५४-१३॥
+न बलम् क्षत्रियस्य आहुः ब्राह्मणो बलवत्तरः ।ब्रह्मन् ब्रह्म बलम् दिव्यम् क्षत्रात् तु बलवत्तरम् ॥१-५४-१४॥
+अप्रमेय बलम् तुभ्यम् न त्वया बलवत्तरः ।विश्वामित्रो महावीर्यः तेजः तव दुरासदम् ॥१-५४-१५॥
+नियुङ्क्ष्व माम् महातेजः त्वत् ब्रह्म बल संभृताम् ।तस्य दर्पम् बलम् यत्नम् नाशयामि दुरात्मनः ॥१-५४-१६॥
+इति उक्तः तु तया राम वसिष्ठः सुमहायशाः ।सृजस्व इति तदा उवाच बलम् पर बल अर्दनम् ॥१-५४-१७॥
+तस्य तत् वचनम् श्रुत्वा सुरभिः सा असृजत् तदा ।तस्या हुंभा रव उत्सृष्टाः पह्लवाः शतशो नृप ॥१-५४-१८॥
+नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः ।स राजा परम क्रुद्धः क्रोध विस्फारित ईक्षणः ॥१-५४-१९॥
+पह्लवान् नाशयामास शस्त्रैः उच्चावचैः अपि ।विश्वामित्र अर्दितान् दृष्ट्वा पह्लवान् शतशः तदा ॥१-५४-२०॥
+भूय एव असृजत् घोरान् शकान् यवन मिश्रितान् ।तैः आसीत् संवृता भूमिः शकैः यवन मिश्रितैः ॥१-५४-२१॥
+प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसन्निभैः ।यद्वा -प्रभावद्भिः महावीर्यैः हेम किंजल्क संनिभैः ।दीर्घासिपट्टिशधरैर्हेमवर्णाम्बराअवृतैः।यद्वा -दीर्घ असि पट्टिश धरैः हेम वर्ण अंबर आवृतैः ॥१-५४-२२॥
+निर्दग्धम् तत् बलम् सर्वम् प्रदीप्तैः इव पावकैः ।ततो अस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।तैः तैः यवन कांभोजा बर्बराः च अकुली कृताः ॥१-५४-२३॥
+ततः तान् आकुलान् दृष्ट्वा विश्वामित्र अस्त्र मोहितान् ।वसिष्ठः चोदयामास काम धुक् सृज योगतः ॥१-५५-१॥
+तस्या हुंकारतो जाताः कांबोजा रवि सन्निभाः ।ऊधसः तु अथ संजाताः पह्लवाः शस्त��र पाणयः ॥१-५५-२॥
+योनि देशात् च यवनः शकृ देशात् शकाः तथा ।रोम कूपेषु म्लेच्छाः च हारीताः स किरातकाः ॥१-५५-३॥
+तैः तत् निषूदितम् सैन्यम् विश्वमित्रस्य तत् क्षणात् ।स पदाति गजम् स अश्वम् स रथम् रघुनंदन ॥१-५५-४॥
+दृष्ट्वा निषूदितम् सैन्यम् वसिष्ठेन महात्मना ।विश्वामित्र सुतानाम् तु शतम् नाना विध आयुधम् ॥१-५५-५॥
+अभ्यधावत् सुसंक्रुद्धम् वसिष्ठम् जपताम् वरम् ।हुम् कारेण एव तान् सर्वान् निर्ददाह महान् ऋषिः ॥१-५५-६॥
+ते स अश्व रथ पादाता वसिष्ठेन महात्मना ।भस्मी कृता मुहूर्तेन विश्वामित्र सुताः तदा ॥१-५५-७॥
+दृष्ट्वा विनाशितान् पुत्रान् बलम् च सुमहा यशाः ।स व्रीडः चिंतया आविष्टो विश्वामित्रो अभवत् तदा ॥१-५५-८॥
+समुद्र इव निर्वेगो भग्न दंष्ट्र इव उरगः ।उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥१-५५-९॥
+हत पुत्र बलो दीनो लून पक्ष इव द्विजः ।हत सर्व बल उत्साहो निर्वेदम् समपद्यत ॥१-५५-१०॥
+स पुत्रम् एकम् राज्याय पालय इति नियुज्य च ।पृथिवीम् क्षत्र धर्मेण वनम् एव अन्वपद्यत ॥१-५५-११॥
+स गत्वा हिमवत् पार्श्वम् किंनर उरग सेवितम् ।महादेव प्रसाद अर्थम् तपः तेपे महातपाः ॥१-५५-१२॥
+केनचित् तु अथ कालेन देवेशो वृषभ ध्वजः ।दर्शयामास वरदो विश्वामित्रम् महामुनिम् ॥१-५५-१३॥
+किम् अर्थम् तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।वरदो अस्मि वरो यः ते कांक्षितः सो अभिधीयताम् ॥१-५५-१४॥
+एवम् उक्तः तु देवेन विश्वामित्रो महातपाः ।प्रणिपत्य महादेवम् विश्वामित्रो अब्रवीत् इदम् ॥१-५५-१५॥
+यदि तुष्टो महादेव धनुर् वेदो मम अनघ ।सा अंग उप अंग उपनिषदः स रहस्यः प्रदीयताम् ॥१-५५-१६॥
+यानि देवेषु च अस्त्राणि दानवेषु महर्षिषु ।गंधर्व यक्ष रक्षस्सु प्रतिभांतु मम अनघ ॥१-५५-१७॥
+तव प्रसादात् भवतु देवदेव मम ईप्सितम् ।एवम् अस्तु इति देवेशो वाक्यम् उक्त्वा गतः तदा ॥१-५५-१८॥
+प्राप्य च अस्त्राणि देवेशात् विश्वामित्रो महाबलः ।दर्पेण महता युक्तो दर्पपूर्णो अभवत् तदा ॥१-५५-१९॥
+विवर्धमानो वीर्येण समुद्र इव पर्वणि ।हतम् मेने तदा राम वसिष्ठम् ऋषि सत्तमम् ॥१-५५-२०॥
+ततो गत्वा आश्रमपदम् मुमोच अस्त्राणि पार्थिवः ।यैः तत् तपो वनम् सर्वम् निर्दग्धम् च अस्त्र तेजसा ॥१-५५-२१॥
+उदीर्यमाणम् अस्त्रम् तत् विश्वामित्रस्य धीमतः ।दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दि���ः ॥१-५५-२२॥
+वसिष्ठस्य च ये शिष्याः ये च वै मृग पक्षिणः ।विद्रवन्ति भयात् भीता नाना दिक्भ्यः सहस्रशः ॥१-५५-२३॥
+वसिष्ठस्य आश्रमपदम् शून्यम् आसीत् महात्मनः ।मुहूर्तम् इव निःशब्दम् आसीत् ईरिण संनिभम् ॥१-५५-२४॥
+वदतो वै वसिष्ठस्य मा भै इति मुहुर्मुहुः ।नाशयामि अद्य गाधेयम् नीहारम् इव भास्करः ॥१-५५-२५॥
+एवम् उक्त्वा महातेजा वसिष्ठो जपताम् वरः ।विश्वामित्रम् तदा वाक्यम् स रोषम् इदम् अब्रवीत् ॥१-५५-२६॥
+आश्रमम् चिर संवृद्धम् यत् विनाशितवान् असि ।दुराचारो हि यत् मूढ तस्मात् त्वम् न भविष्यसि ॥१-५५-२७॥
+इति उक्त्वा परम क्रुद्धो दण्डम् उद्यम्य सत्वरः ।विधूम इव काल अग्निः यम दण्डम् इव अपरम् ॥१-५५-२८॥
+एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः ।आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् ॥१-५६-१॥
+ब्रह्मदण्डम् समुद्यम्य काल दण्डम् इव अपरम् ।वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् ॥१-५६-२॥
+क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय ।नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज ॥१-५६-३॥
+क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् ।पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन ॥१-५६-४॥
+तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् ।ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा ॥१-५६-५॥
+वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ।ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः ॥१-५६-६॥
+मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा ।जृंभणम् मदानम् चैव संतापन विलापने ॥१-५६-७॥
+शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् ।ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च ॥१-५६-८॥
+पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा ।दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च ॥१-५६-९॥
+धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च ।वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा ॥१-५६-१०॥
+शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा ।वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् ॥१-५६-११॥
+त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् ।एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन ॥१-५६-१२॥
+वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् ।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१-५६-१३॥
+तेषु शांतेषु ब्रह्मास्त्रम् क्षिप��तवान् गाधि नंदनः ।तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः ॥१-५६-१४॥
+देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः ।त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते ॥१-५६-१५॥
+तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा ।वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव ॥१-५६-१६॥
+ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः ।त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् ॥१-५६-१७॥
+रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः ॥१-५६-१८॥
+प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः ।विधूम इव काल अग्निः यम दण्ड इव अपरः ॥१-५६-१९॥
+ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् ।अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा ॥१-५६-२०॥
+निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः ।प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः ॥१-५६-२१॥
+एवम् उक्तो महातेजाः शमम् चक्रे महातपाः ।विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् ॥१-५६-२२॥
+धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् ।एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे ॥१-५६-२३॥
+तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः ।तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् ॥१-५६-२४॥
+ततः त्रिशंकोः वचनम् श्रुत्वा क्रोध समन्वितम् ।ऋषि पुत्र शतम् राम राजानम् इदम् अब्रवीत् ॥१-५८-१॥
+प्रत्याख्यातो असि दुर्बुद्धे गुरुणा सत्य वादिना ।तम् कथम् समतिक्रम्य शाखा अन्तरम् उपेयिवान् ॥१-५८-२॥
+इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।न च अतिक्रमितुम् शक्यम् वचनम् सत्य वादिनः ॥१-५८-३॥
+अशक्यम् इति स उवाच वसिष्ठो भगवान् ऋषिः ।तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन ॥१-५८-४॥
+बालिशः त्वम् नर श्रेष्ठ गम्यताम् स्व पुरम् पुनः ।याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव ॥१-५८-५॥
+अवमानम् कथम् कर्तुम् तस्य शक्षायामहे वयम् ।तेषाम् तद् वचनम् श्रुत्वा क्रोध पर्याकुल अक्षरम् ॥१-५८-६॥
+स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत् ।प्रत्याख्यातो भगवता गुरु पुत्रैः तथैव हि ॥१-५८-७॥
+अन्याम् गतिम् गमिष्यामि स्वस्ति वो अस्तु तपो धनाः ।ऋषि पुत्राः तु तत् श्रुत्वा वाक्यम् घोर अभिसंहितम् ॥१-५८-८॥
+शेपुः परम संक्रुद्धाः चण्डालत्वम् गमिष्यसि ।इति उक्त्वा ते महात्मानो विविशुः स्वम् स्वम् आश्रमम् ॥१-५८-९॥
+अथ रात्र्याम् व्यतीतायाम् राजा चण्डालताम् गतः ।नील वस्त्र धरो नीलः परुषो ध्वस्त मूर्धजः ॥१-५८-१०॥
+चित्य माल्य अनुलेपः च आयस आभरणो अभवत् ।तम् दृष्ट्वा मंत्रिणः सर्वे त्यज्य चण्डाल रूपिणम् ॥१-५८-११॥
+प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिनः ।एको हि राजा काकुत्स्थ जगाम परम आत्मवान् ॥१-५८-१२॥
+दह्यमानो दिवा रात्रम् विश्वामित्रम् तपो धनम् ।विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफली कृतम् ॥१-५८-१३॥
+चण्डाल रूपिणम् राम मुनिः कारुण्यम् आगतः ।कारुण्यात् स महातेजा वाक्यम् परम धार्मिकः ॥१-५८-१४॥
+इदम् जगाद भद्रम् ते राजानम् घोर दर्शनम् ।किम् आगमन कार्यम् ते राजपुत्र महाबल ॥१-५८-१५॥
+अयोध्या अधिपते वीर शापात् चण्डालताम् गतः ।अथ तत् वाक्यम् आकर्ण्य राजा चण्डालताम् गतः ॥१-५८-१६॥
+अब्रवीत् प्रांजलिः वाक्यम् वाक्यज्ञो वाक्य कोविदम् ।प्रत्याख्यातो अस्मि गुरुणा गुरु पुत्रैः तथा एव च ॥१-५८-१७॥
+अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः ।स शरीरो दिवम् यायामि इति मे सौम्य दर्शन ॥१-५८-१८॥
+मया च इष्टम् क्रतु शतम् तत् च न अवाप्यते फलम् ।अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ॥१-५८-१९॥
+कृच्छ्रेषु अपि गतः सौम्य क्षत्र धर्मेण ते शपे ।यज्ञैः बहु विधैः इष्टम् प्रजा धर्मेण पालिताः ॥१-५८-२०॥
+गुरवः च महात्मानः शील वृत्तेन तोषिताः ।धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः ॥१-५८-२१॥
+परितोषम् न गच्छन्ति गुरवो मुनिपुंगव ।दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् ॥१-५८-२२॥
+दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः ।तस्य मे परम आर्तस्य प्रसादम् अभिकांक्षतः ।कर्तुम् अर्हसि भद्रम् ते दैव उपहत कर्मणः ॥१-५८-२३॥
+न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे ।दैवम् पुरुष कारेण निवर्तयितुम् अर्हसि ॥१-५८-२४॥
+ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः ।विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना ॥१-५७-१॥
+स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव ।तताप परमम् घोरम् विश्वामित्रो महातपाः ॥१-५७-२॥
+फल मूल अशनो दान्तैः चचार महत् तपः ।अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः ॥१-५७-३॥
+हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः ।पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः ॥१-५७-४॥
+अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज ॥१-५७-५॥
+अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे ।एवम् उक्त्वा महातेजा जगाम सह दैवतैः ॥१-५७-६॥
+त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः ।विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः ॥१-५७-७॥
+दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् ।तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः ॥१-५७-८॥
+देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् ।एवम् निश्चित्य मनसा भूय एव महातपाः ॥१-५७-९॥
+तपः चचार काकुत्स्थ परमम् परम आत्मवान् ।एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः ॥१-५७-१०॥
+त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः ।तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव ॥१-५७-११॥
+गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् ।वसिष्ठम् स समाहूय कथयामास चिन्तितम् ॥१-५७-१२॥
+अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना ।प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम् ॥१-५७-१३॥
+ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः ।वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे ॥१-५७-१४॥
+त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् ।वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः ॥१-५७-१५॥
+सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् ।अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः ॥१-५७-१६॥
+अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः ।शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः ॥१-५७-१७॥
+प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना ।यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ ॥१-५७-१८॥
+गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये ।शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥१-५७-१९॥
+ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः ।स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम् ॥१-५७-२०॥
+प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः ।गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन ॥१-५७-२१॥
+इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम ॥१-५७-२२॥
+उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः ।अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम् ॥१-५९-१॥
+इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुध��र्मिकम् ।शरणम् ते भविष्यामि मा भैषीः नृप पुंगव ॥१-५९-२॥
+अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः ।यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः ॥१-५९-३॥
+गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते ।अनेन सह रूपेण स शरीरो गमिष्यसि ॥१-५९-४॥
+हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर ।यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः ॥१-५९-५॥
+एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् ।व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात् ॥१-५९-६॥
+सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह ।सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया ॥१-५९-७॥
+स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् ।यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः ॥१-५९-८॥
+तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् ।तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया ॥१-५९-९॥
+आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः ।ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम् ॥१-५९-१०॥
+ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् ।श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः ॥१-५९-११॥
+सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् ।वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम् ॥१-५९-१२॥
+यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव ।क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१-५९-१३॥
+कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः ।ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम् ॥१-५९-१४॥
+कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः ।एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः ॥१-५९-१५॥
+वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः ।तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः ॥१-५९-१६॥
+क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् ।यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम् ॥१-५९-१७॥
+भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः ।अद्य ते काल पाशेन नीता वैवस्तव क्षयम् ॥१-५९-१८॥
+सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः ।श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः ॥१-५९-१९॥
+विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् ।महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत् ॥१-५९-२०॥
+दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति ।प्राण अतिपात निरतो निरनुक्रोशताम् गतः ॥१-५९-२१॥
+दीर्घ कालम् म��� क्रोधात् दुर्गतिम् वर्तयिष्यति ।एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः ।विरराम महातेजा ऋषि मध्ये महामुनिः ॥१-५९-२२॥
+तपो बल हतान् ज्ञात्वा वासिष्ठान् स महोदयान् ।ऋषि मध्ये महातेजा विह्वामित्रो अभ्यभाषत ॥१-६०-१॥
+अयम् इक्ष्वाकु दायादः त्रिशंकुः इति विश्रुतः ।धर्मिष्ठः च वदान्यः च माम् चैव शरणम् गतः ॥१-६०-२॥
+स्वेन अनेन शरीरेण देव लोक जिगीषया ।यथा अयम् स्व शरीरेण देव लोकम् गमिष्यति ॥१-६०-३॥
+तथा प्रवर्त्यताम् यज्ञो भवद्भिः च मया सह ।विश्वामित्र वचः श्रुत्वा सर्व एव महर्षयः ॥१-६०-४॥
+ऊचुः समेताः सहसा धर्मज्ञा धर्म संहितम् ।अयम् कुशिक दायादो मुनिः परम कोपनः ॥१-६०-५॥
+यत् आह वचनम् सम्यक् एतत् कार्यम् न संशयः ।अग्नि कल्पो हि भगवान् शापम् दास्यति रोषितः ॥१-६०-६॥
+तस्मात् प्रवर्त्यताम् यज्ञः स शरीरो यथा दिवम् ।गच्छेत् इक्ष्वाकु दायादो विश्वामित्रस्य तेजसा ॥१-६०-७॥
+ततः प्रवर्त्यताम् यज्ञः सर्वे समधितिष्ठत ।एवम् उक्त्वा महर्षयः संजह्रुः ताः क्रियाः तदा ॥१-६०-८॥
+याजकः च महातेजा विश्वामित्रो अभवत् क्रतौ ।ऋत्विजः च आनुपूर्व्येण मंत्रवत् मंत्र कोविदाः ॥१-६०-९॥
+चक्रुः सर्वाणि कर्माणि यथा कल्पम् यथा विधि ।ततः कालेन महता विश्वामित्रो महातपाः ॥१-६०-१०॥
+चकार आवाहनम् तत्र भाग अर्थम् सर्व देवताः ।न अभ्यागमन् तदा भाग अर्थम् सर्व देवताः ॥१-६०-११॥
+ततः कोप समाविष्टो विश्वमित्रो महामुनिः ।स्रुवम् उद्यम्य स क्रोधः त्रिशंकुम् इदम् अब्रवीत् ॥१-६०-१२॥
+पश्य मे तपसो वीर्यम् स्व आर्जितस्य नर ईश्वर ।एष त्वाम् स्व शरीरेण नयामि स्वर्गम् ओजसा ॥१-६०-१३॥
+दुष्प्रापम् स्व शरीरेण दिवम् गच्छ नर अधिप ।स्वार्जितम् किंचित् अपि अस्ति मया हि तपसः फलम् ॥१-६०-१४॥
+राजन् त्वम् तेजसा तस्य स शरीरो दिवम् व्रज ।उक्त वाक्ये मुनौ तस्मिन् स शरीरो नर ईश्वरः ॥१-६०-१५॥
+दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा ।स्वर्ग लोकम् गतम् दृष्ट्वा त्रिशंकुम् पाक शासनः ॥१-६०-१६॥
+सह सर्वैः सुर गणैः इदम् वचनम् अब्रवीत् ।त्रिशंको गच्छ भूयः त्वम् न असि स्वर्ग कृत आलयः ॥१-६०-१७॥
+गुरु शाप हतो मूढ पत भूमिम् अवाग् शिराः ।एवम् उक्तो महेन्द्रेण त्रिशंकुः अपतत् पुनः ॥१-६०-१८॥
+विक्रोशमानः त्राहि इति विश्वामित्रम् तपो धनम् ।तत् श्रुत्वा वचनम् तस्य क्रोशमानस्य कौश���कः ॥१-६०-१९॥
+रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत् ।ऋषि मध्ये स तेजस्वी प्रजापतिः इव अपरः ॥१-६०-२०॥
+सृजन् दक्षिण मार्गस्थान् सप्त ऋषीन् अपरान् पुनः ।नक्षत्र वंश परंपरम् असृजत् क्रोध मूर्छितः ॥१-६०-२१॥
+दक्षिणाम् दिशम् आस्थाय मुनि मध्ये महायशाः ।सृष्ट्वा नक्षत्र वंशम् च क्रोधेन कलुषी कृतः ॥१-६०-२२॥
+अन्यम् इंद्रम् करिष्यामि लोको वा स्यात् अनिंद्रकः ।दैवतानि अपि स क्रोधात् स्रष्टुम् समुपचक्रमे ॥१-६०-२३॥
+ततः परम संभ्रान्ताः स ऋषि संघाः सुर असुराः ।विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः ॥१-६०-२४॥
+अयम् राजा महाभाग गुरु शाप परिक्षतः ।स शरीरो दिवम् यातुम् न अर्हति एव तपो धन ॥१-६०-२५॥
+तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि पुंगवः ।अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व देवताः ॥१-६०-२६॥
+स शरीरस्य भद्रम् वः त्रिहन्कोः अस्य भूपतेः ।आरोहणम् प्रतिज्ञातम् न अनृतम् कर्तुम् उत्सहे ॥१-६०-२७॥
+स्वर्गो अस्तु स शरीरस्य त्रिशंकोः अस्य शाश्वतः ।नक्षत्राणि च सर्वाणि मामकानि ध्रुवाणि अथ ॥१-६०-२८॥
+यावत् लोका धरिष्यन्ति तिष्ठन्ति एतानि सर्वशः ।यत् कृतानि सुराः सर्वे तत् अनुज्ञातुम् अर्हथ ॥१-६०-२९॥
+एवम् उक्ताः सुराः सर्वे प्रति ऊचुः मुनि पुंगवम् ।एवम् भवतु भद्रम् ते तिष्ठन्तु एतानि सर्वशः ॥१-६०-३०॥
+गगने तानि अनेकानि वैश्वानर पथात् बहिः ।नक्षत्राणि मुनि श्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥१-६०-३१॥
+अवाग् शिराः त्रिशंकुः च तिष्ठतु अमर संनिभः ।अनुयास्यन्ति च एतानि ज्योतीन्षि नृप सत्तमम् ॥१-६०-३२॥
+कृतार्थम् कीर्तिमन्तम् च स्वर्ग लोक गतम् यथा ।विश्वामित्रः तु धर्मात्मा सर्व देवैः अभिष्टुतः ॥१-६०-३३॥
+ऋषि मध्ये महातेजा बाढम् इति आह देवताः ।ततो देवा महात्मानो ऋषयः च तपो धनाः ।जग्मुः यथा आगतम् सर्वे यज्ञस्य अन्ते नरोत्तम ॥१-६०-३४॥
+विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् ।अब्रवीत् नरशार्दूल सर्वान् तान् वन वासिनः ॥१-६१-१॥
+महाविघ्नः प्रवृत्तो अयम् दक्षिणाम् आस्थितो दिशम् ।दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः ॥१-६१-२॥
+पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः ।सुखम् तपः चरिष्यामः परम् तत् हि तपो वनम् ॥१-६१-३॥
+एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः ।तप उग्रम् दुराधर्षम् तेपे मूल फल अशनः ॥१-६१-४॥
+एतस्मिन् एव काले तु अयोध्या अधिपतिः महान् ।अंबरीष इति ख्यातो यष्टुम् समुपचक्रमे ॥१-६१-५॥
+तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह ।प्रणष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् ॥१-६१-६॥
+पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात् ।अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर ॥१-६१-७॥
+प्रायः चित्तम् महत् हि एतत् नरम् वा पुरुषर्षभ ।आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते ॥१-६१-८॥
+उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः ॥१-६१-९॥
+देशान् जनपदान् तान् तान् नगराणि वनानि च ।आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१-६१-१०॥
+स पुत्र सहितम् तात स भार्यम् रघुनंदन ।भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह ॥१-६१-११॥
+तम् उवाच महातेजाः प्रणम्य अभिप्रसाद्य च ।महर्षिम् तपसा दीप्तम् राजर्षिः अमित प्रभः ॥१-६१-१२॥
+पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः ।गवाम् शत सहस्रेण विक्रीणीषे सुतम् यदि ॥१-६१-१३॥
+पशोः अर्थे महाभाग कृत कृत्यो अस्मि भार्गव ।सर्वे परिगता देशा यज्ञियम् न लभे पशुम् ॥१-६१-१४॥
+दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम ।एवम् उक्तो महातेजा ऋचीकः तु अब्रवीत् वचः ॥१-६१-१५॥
+न अहम् ज्येष्ठम् नर श्रेष्ठ विक्रीणीयाम् कथंचन ।ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम् ॥१-६१-१६॥
+उवाच नर शार्दूलम् अंबरीषम् इदम् वचः ।अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः ॥१-६१-१७॥
+मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो ।तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव ॥१-६१-१८॥
+प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।मातॄणाम् च कनीयांसः तस्मात् रक्षे कनीयसम् ॥१-६१-१९॥
+उक्त वाक्ये मुनौ तस्मिन् मुनि पत्न्याम् तथैव च ।शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत् ॥१-६१-२०॥
+पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् ।विक्रेतम् मध्यमम् मन्ये राजपुत्र नयस्व माम् ॥१-६१-२१॥
+अथ राजा महाबाहो वाक्य अन्ते ब्रह्म वादिनः ।हिरण्यस्य सुवर्णस्य कोटिभी रत्न राशिभिः ॥१-६१-२२॥
+गवाम् शत सहस्रेण शुनःशेपम् नरेश्वरः ।गृहीत्वा परम प्रीतो जगाम रघुनंदन ॥१-६१-२३॥
+अंबरीषः तु राजर्षी रथम् आरोप्य सत्वरः ।शुनःशेपम् महातेजा जगाम आशु महायशाः ॥१-६१-२४॥
+शुनःशेपम् नरश्रेष्ठ गृहीत्वा त��� महायशाः ।व्यश्रामत् पुष्करे राजा मध्याह्ने रघुनंदन ॥१-६२-१॥
+तस्य विश्रममाणस्य शुनःशेपो महायशाः ।पुष्करम् ज्येष्ठम् आगम्य विश्वामित्रम् ददर्श ह ॥१-६२-२॥
+तप्यन्तम् ऋषिभिः सार्थम् मातुलम् परम आतुरः ।विषण्ण वदनो दीनः तृष्णया च श्रमेण च ॥१-६२-३॥
+पपात अन्के मुने राम वाक्यम् च इदम् उवाच ह ।न मे अस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥१-६२-४॥
+त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनिपुंगव ।त्राता त्वम् हि नरश्रेष्ठ सर्वेषाम् त्वम् हि भावनः ॥१-६२-५॥
+राजा च कृतकार्यः स्यात् अहम् दीर्घ आयुः अव्ययः ।स्वर्ग लोकम् उपाश्नीयाम् तपः तप्त्वा हि अनुत्तमम् ॥१-६२-६॥
+स मे नाथो हि अनाथस्य भव भव्येन चेतसा ।पिता इव पुत्रम् धर्माअत्मन् त्रातुम् अर्हसि किल्बिषात् ॥१-६२-७॥
+तस्य तत् वचनम् श्रुत्वा विश्वामित्रो महातपाः ।सान्त्वयित्वा बहु विधम् पुत्रान् इदम् उवाच ह ॥१-६२-८॥
+यत् कृते पितरः पुत्रान् जनयन्ति शुभ अर्थिनः ।पर लोक हित अर्थाय तस्य कालो अयम् आगतः ॥१-६२-९॥
+अयम् मुनि सुतो बालो मत्तः शरणम् इच्छति ।अस्य जीवित मात्रेण प्रियम् कुरुत पुत्रकाः ॥१-६२-१०॥
+सर्वे सुकृत कर्माणः सर्वे धर्म परायणाः ।पशु भूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत ॥१-६२-११॥
+नाथनान् च शुनःशेपो यज्ञः च अविघ्नतो भवेत् ।देवताः तर्पिताः च स्युः मम च अपि कृतम् वचः ॥१-६२-१२॥
+मुनेः तु वचनम् श्रुत्वा मधुष्यन्द आदयः सुताः ।स अभिमानम् नरश्रेष्ठ स लीलम् इदम् अब्रुवन् ॥१-६२-१३॥
+कथम् आत्म सुतान् हित्वा त्रायसे अन्य सुतम् विभो ।अकार्यम् इव पश्यामः श्व मांसम् इव भोजने ॥१-६२-१४॥
+तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् मुनिपुंगवः ।क्रोध संरक्त नयनो व्याहर्तुम् उपचक्रमे ॥१-६२-१५॥
+निःसाध्वसम् इदम् प्रोक्तम् धर्मात् अपि विगर्हितम् ।अतिक्रम्य तु मत् वाक्यम् दारुणम् रोम हर्षणम् ॥१-६२-१६॥
+श्व मांस भोजिनः सर्वे वासिष्ठा इव जातिषु ।पूर्णम् वर्ष सहस्रम् तु पृथिव्याम् अनुवत्स्यथ ॥१-६२-१७॥
+कृत्वा शाप समायुक्तान् पुत्रान् मुनिवरः तदा ।शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम् ॥१-६२-१८॥
+पवित्र पाशैर् बद्धो रक्त माल्य अनुलेपनः ।वैष्णवम् यूपम् आसाद्य वाग्भिः अग्निम् उदाहर ॥१-६२-१९॥
+इमे च गाथे द्वे दिव्ये गायेथा मुनि पुत्रक ।अंबरीषस्य यज्ञे अस्मिन् ततः सिद्धिम् अ���ाप्स्यसि ॥१-६२-२०॥
+शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।त्वरया राज सिंहम् तम् अंबरीषम् उवाच ह ॥१-६२-२१॥
+राज सिंह महाबुद्धे शीघ्रम् गच्छावहे वयम् ।निवर्तयस्व राजेन्द्र दीक्षाम् च समुदाहर ॥१-६२-२२॥
+तत् वाक्यम् ऋषि पुत्रस्य श्रुत्वा हर्ष समन्वितः ।जगाम नृपतिः शीघ्रम् यज्ञ वाटम् अतन्द्रितः ॥१-६२-२३॥
+सदस्य अनुमते राजा पवित्र कृत लक्षणम् ।पशुम् रक्त अंबरम् कृत्वा यूपे तम् समबन्धयत् ॥१-६२-२४॥
+स बद्धो वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ ।इन्द्रम् इन्द्र अनुजम् चैव यथावत् मुनि पुत्रकः ॥१-६२-२५॥
+ततः प्रीतः सहस्र अक्षो रहस्य स्तुति तोषितः ।दीर्घम् आयुः तदा प्रादात् शुनःशेपाय राघव ॥१-६२-२६॥
+स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।फलम् बहु गुणम् राम सहस्राक्ष प्रसादजम् ॥१-६२-२७॥
+विश्वामित्रो अपि धर्मात्मा भूयः तेपे महातपाः ।पुष्करेषु नरश्रेष्ठ दश वर्ष शतानि च ॥१-६२-२८॥
+पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।अभ्यागच्चन् सुराः सर्वे तपः फल चिकीर्षवः ॥१-६३-१॥
+अब्रवीत् सु महातेजा ब्रह्मा सु रुचिरम् वचः ।ऋषिः त्वम् असि भद्रम् ते स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२॥
+तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।विश्वामित्रो महातेजा भूयः तेपे महत् तपः ॥१-६३-३॥
+ततः कालेन महता मेनका परम अप्सराः ।पुष्करेषु नर श्रेष्ठ स्नातुम् समुपचक्रमे ॥१-६३-४॥
+ताम् ददर्श महातेजा मेनकाम् कुशिक आत्मजः ।रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा ॥१-६३-५॥
+दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे ॥१-६३-६॥
+अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत् ॥१-६३-७॥
+तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव ॥१-६३-८॥
+विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥
+स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन ॥१-६३-१०॥
+सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।अहो रात्रा अपदेशेन गताः संवत्सरा दश ॥१-६३-११॥
+काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥
+भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः ॥१-६३-१३॥
+उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः ॥१-६३-१४॥
+कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।तस्य वर्ष सहस्राणि घोरम् तप उपासतः ॥१-६३-१५॥
+उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः ॥१-६३-१६॥
+महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ॥१-६३-१७॥
+अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः ॥१-६३-१८॥
+महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः ॥१-६३-१९॥
+प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२०॥
+यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः ॥१-६३-२१॥
+यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥
+ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः ॥१-६३-२३॥
+शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत् ॥१-६३-२४॥
+तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।संतापः सुमहान् आसीत् सुराणाम् वासवस्य च ॥१-६३-२५॥
+रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च ॥१-६३-२६॥
+सुर कार्यम् इदम् रंभे कर्तव्यम् सुमहत् त्वया ।लोभनम् कौशिकस्य इह काम मोह समन्वितम् ॥१-६४-१॥
+तथा उक्ता स अप्सरा राम सहस्राक्षेण धीमता ।व्रीडिता प्रांजलिः वाक्यम् प्रत्युवाच सुर ईश्वरम् ॥१-६४-२॥
+अयम् सुर पते घोरो विश्वामित्रो महामुनिः ।क्रोधम् उत्स्रच्यते घोरम् मयि देव न संशयः ॥१-६४-३॥
+ततो हि मे भयम् देव प्रसादम् कर्तुम् अर्हसि ।एवम् उक्तः तया राम स भयम् भीतया तदा ॥१-६४-४॥
+ताम् उवाच सहस्राक्षो वेपमानाम् कृतांजलिम् ।मा भैषी रंभे भद्रम् ते कुरुष्व मम शासनम् ॥१-६४-५॥
+कोकिलो हृदय ग्राही माधवे रुचिर द्रुमे ।अहम् कंदर्प सहितः स्थास्यामि तव पार्श्वतः ॥१-६४-६॥
+त्वम् हि रूपम् बहु गुणम् कृत्वा परम भास्वरम् ।तम् ऋषिम् कौशिकम् रंभे भेदयस्व तपस्विनम् ॥१-६४-७॥
+सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम् ।लोभयामास ललिता विश्वामित्रम् शुचि स्मिता ॥१-६४-८॥
+कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।संप्रहृष्टेन मनसा स एनाम् अन्वैक्षत ॥१-६४-९॥
+अथ तस्य च शब्देन गीतेन अप्रतिमेन च ।दर्शनेन च रंभाया मुनिः संदेहम् आगतः ॥१-६४-१०॥
+सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः ।रंभाम् क्रोध समाविष्टः शशाप कुशिक आत्मजः ॥१-६४-११॥
+यत् माम् लोभयसे रंभे काम क्रोध जय एषिणम् ।दश वर्ष सहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-१२॥
+ब्राह्मणः सुमहातेजाः तपो बल समन्वितः ।उद्धरिष्यति रंभे त्वाम् मत् क्रोध कलुषी कृताम् ॥१-६४-१३॥
+एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः ।अशक्नुवन् धारयितुम् कोपम् संतापम् आगतः ॥१-६४-१४॥
+तस्य शापेन महता रम्भा शैली तदा अभवत् ।वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१५॥
+कोपेन स महातेजाः तपो अपहरणे कृते ।इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः ॥१-६४-१६॥
+बभूव अस्य मनः चिंता तपो अपहरणे कृते ।न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥
+अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥
+तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥
+न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥
+अथ हैमवतीम् राम दिशम् त्यक्त्वा महामुनिः ।पूर्वाम् दिशम् अनुप्राप्य तपः तेपे सुदारुणम् ॥१-६५-१॥
+मौनम् वर्ष सहस्रस्य कृत्वा व्रतम् अनुत्तमम् ।चकार अप्रतिमम् राम तपः परम दुष्करम् ॥१-६५-२॥
+पूर्णे वर्ष सहस्रे तु काष्ठ भूतम् महामुनिम् ।विघ्नैः बहुभिः आधूतम् क्रोधो न अंतरम् आविशत् ॥१-६५-३॥
+सः कृत्वा निश्चयम् राम तप आतिष्टत् अव्ययम् ।तस्य वर्ष सहस्रस्य व्रते पूर्णे महाव्रतः ॥१-६५-४॥
+भोक्तुम् आरब्धवान् अन्नम् तस्मिन् काले रघूत्तम ।इन्द्रो द्विजातिः भूत्वा तम् सिद्ध अन्नम् अयाचत् ॥१-६५-५॥
+तस्मैः दत्त्वा तदा सिद्धम् सर्वम् विप्राय निश्चितः ।निःषेषिते अन्ने भगवान् अभुक्त्वा इव महातपाः ॥१-६५-६॥
+न किंचित् अवदत् विप्रम् मौन व्रतम् उपास्थितः ।तथा एव आसीत् पुनः मौनम् अनुच्छ्वासम् चकार ह ॥१-६५-७॥
+अथ वर्ष सहस्रम् च न उच्छ्वसन् मुनिपुंगवः ।तस्य अनुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥१-६५-८॥
+त्रै लोक्यम् येन संभ्रांतम् आतापितम् इव अभवत् ।ततो देवर्षि गन्धर्वाः पन्नग उरग राक्षसाः ॥१-६५-९॥
+मोहिता तपसा तस्य तेजसा मंदरश्मयः ।कश्मल उपहताः सर्वे पितामहम् अथ अब्रुवन् ॥१-६५-१०॥
+बहुभिः कारणैः देव विश्वामित्रो महामुनिः ।लोभितः क्रोधितः चैव तपसा च अभिवर्धते ॥१-६५-११॥
+न हि अस्य वृजिनम् किंचित् दृश्यते सूक्ष्मम् अपि अथ ।न दीयते यदि तु अस्य मनसा यत् अभीप्सितम् ॥१-६५-१२॥
+विनाशयति त्रैलोक्यम् तपसा स चर अचरम् ।व्याकुलाः च दिशः सर्वा न च किंचित् प्रकाशते ॥१-६५-१३॥
+सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।प्रकंपते च वसुधा वायुः वाति इह संकुलः ॥१-६५-१४॥
+ब्रह्मन् नप्रतिजानीमो नास्तिको जायते जनः ।सम्मूढम् इव त्रैलोक्यम् संप्रक्षुभित मानसम् ॥१-६५-१५॥
+भास्करो निष्प्रभः चैव महर्षेः तस्य तेजसा ।बुद्धिम् न कुरुते यावत् नाशे देव महामुनिः ॥१-६५-१६॥
+तावत् प्रसादो भगवान् अग्नि रूपो महाद्युतिः ।काल अग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम् ॥१-६५-१७॥
+देव राज्यम् चिकीर्षेत दीयताम् अस्य यत् मतम् ।ततः सुर गणाः सर्वे पितामह पुरोगमाः ॥१-६५-१८॥
+विश्वामित्रम् महात्मानम् वाक्यम् मधुरम् अब्रुवन् ।ब्रह्मर्षे स्वागतम् ते अस्तु तपसा स्म सु तोषिताः ॥१-६५-१९॥
+ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक ।दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुद् गणः ॥१-६५-२०॥
+स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथा सुखम् ।पितामह वचः श्रुत्वा सर्वेषाम् त्रिदिव ओकसाम् ॥१-६५-२१॥
+कृत्वा प्रणामम् मुदितो व्याजहार महामुनिः ।ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुः तथैव च ॥१-६५-२२॥
+आऊं कारो अथ वषट् कारो वेदाः च वरयन्तु माम् ।क्षत्र वेदविदाम् श्रेष्ठो ब्रह्म वेदविदाम् अपि ॥१-६५-२३॥
+ब्रह्म पुत्रो वसिष्ठो माम् एवम् वदतु देवताः ।यदि अयम् परमः कामः कृतो यान्तु सुरर्षभाः ॥१-६५-२४॥
+ततः प्रसादितो देवैः वसिष्ठो जपताम् वरः ।सख्यम् चकार ब्रह्मर्षिः एवम् अस्तु इति च अब्रवीत् ॥१-६५-२५॥
+ब्रह्मर्षिः त्वम् न संदेहः सर्वम् संपद्यते तव ।इति उक्त्वा देवताः च अपि सर्वा जग्मुः यथा आगतम् ॥१-६५-२६॥
+विश्वामित्रो अपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् ।पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम् ॥१-६५-२७॥
+कृत कामो महीम् सर्वाम् चचार तपसि स्थितः ।एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना ॥१-६५-२८॥
+एष राम मुनि श्रेष्ठ एष विग्रहवान् तपः ।एष धर्मः परो नित्यम् वीर्यस्य एष परायणम् ॥१-६५-२९॥
+एवम् उक्त्वा महातेजा विरराम द्विजोत्तमः ।शतानंद वचः श्रुत्वा राम लक्ष्मण संनिधौ ॥१-६५-३०॥
+जनकः प्रांजलिः वाक्यम् उवाच कुशिकाअत्मजम् ।धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनिपुंगव ॥१-६५-३१॥
+यज्ञम् काकुत्स्थ सहितः प्राप्तवान् असि कौशिक ।पावितो अहम् त्वया ब्रह्मन् दर्शनेन महामुने ॥१-६५-३२॥
+गुणा बहु विधाः प्राप्ताः तव संदर्शनात् मया ।विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत्तपः ॥१-६५-३३॥
+श्रुतम् मया महातेजो रामेण च महात्मना ।सदस्यैः प्राप्य च सदः श्रुताः ते बहवो गुणाः ॥१-६५-३४॥
+अप्रमेयम् तपः तुभ्यम् अप्रमेयम् च ते बलम् ।अप्रमेया गुणाः चैव नित्यम् ते कुशिकात्मज ॥१-६५-३५॥
+तृप्तिः आश्चर्य भूतानाम् कथानाम् न अस्ति मे विभो ।कर्म कालो मुनि श्रेष्ठ लम्बते रवि मण्डलम् ॥१-६५-३६॥
+श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि माम् पुनः ।स्वागतम् जपताम् श्रेष्ठ माम् अनुज्ञातुम् अर्हसि ॥१-६५-३७॥
+एवम् उक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।विससर्ज आशु जनकम् प्रीतम् प्रीतिमान् तदाअ ॥१-६५-३८॥
+एवम् उक्त्वा मुनि श्रेष्ठम् वैदेहो मिथिला अधिपः ।प्रदक्षिणम् चकार आशु स उपाध्यायः स बांधवः ॥१-६५-३९॥
+विश्वामित्रो अपि धर्मात्मा सह रामः स लक्ष्मणः ।स्वम् वासम् अभिचक्राम पूज्यमानो महर्षिभिः ॥१-६५-४०॥
+ततः प्रभाते विमले कृत कर्मा नराधिपः ।विश्वामित्रम् महात्मानम् आजुहाव स राघवम् ॥१-६६-१॥
+तम् अर्चयित्वा धर्माअत्मा शास्त्र दृष्टेन कर्मणा ।राघवौ च महात्मानौ तदा वाक्यम् उवाच ह ॥१-६६-२॥
+भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ ।भवान् आज्ञापयतु माम् आज्ञाप्यो भवता हि अहम् ॥१-६६-३॥
+एवम् उक्तः स धर्मात्मा जनकेन महात्मना ।प्रत्युवाच मुनिर् वीरम् वाक्यम् वाक्य विशारदः ॥१-६६-४॥
+पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक विश्रुतौ ।द्रष्टु कामौ धनुः श्रेष्ठम् यत् एतत् त्वयि तिष्ठति ॥१-६६-५॥
+एतत् दर्शय भद्रम् ते कृत कामौ नृप आत्मजौ ।दर्शनात् अस्य धनुषो यथा इष्टम् प्रतियास्यतः ॥१-६६-६॥
+एवम् उक्तः तु जनकः प्रत्युवाच महामुनिम् ।श्रूयताम् अस्य धनुषो यत् अर्थम् इह तिष्ठति ॥१-६६-७॥
+देवरात इति ख्यातो निमेः ज्येष्ठो मही पतिः ।न्यासो अयम् तस्य भगवन् हस्ते दत्तो महात्मना ॥१-६६-८॥
+दक्ष यज्ञ वधे पूर्वम् धनुः आयम्य वीर्यवान् ।रुद्रः तु त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत् ॥१-६६-९॥
+यस्मात् भाग अर्थिनो भागान् न अकल्पयत मे सुराः ।वर अंगानि महाअर्हाणि धनुषा शातयामि वः ॥१-६६-१०॥
+ततो विमनसः सर्वे देवा वै मुनिपुंगव ।प्रसादयन्ति देवेशम् तेषाम् प्रीतो अभवत् भवः ॥१-६६-११॥
+प्रीति युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् ।तत् एतत् देवदेवस्य धनू रत्नम् महात्मनः ॥१-६६-१२॥
+न्यासभूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभो ।अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता मम ॥१-६६-१३॥
+क्षेत्रम् शोधयता लब्ध्वा नाम्ना सीता इति विश्रुता ।भू तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा ॥१-६६-१४॥
+वीर्य शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा ।भूतलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् ॥१-६६-१५॥
+वरयामासुः आगम्य राजानो मुनिपुंगव ।तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् ॥१-६६-१६॥
+वीर्य शुल्का इति भगवन् न ददामि सुताम् अहम् ।ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥
+मिथिलाम् अभ्युपागम्य वीर्यम् जिज्ञासवः तदा ।तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम् ॥१-६६-१८॥
+न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा ।तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने ॥१-६६-१९॥
+प्रत्याख्याता नृपतयः तन् निबोध तपोधन ।ततः परम कोपेन राजानो मुनिपुंगव ॥१-६६-२०॥
+अरुन्धन् मिथिलाम् सर्वे वीर्य संदेहम् आगताः ।आत्मानम् अवधूतम् ते विज्ञाय मुनिपुंगव ॥१-६६-२१॥
+रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम् ।ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः ॥१-६६-२२॥
+साधनानि मुनिश्रेष्ठ ततो अहम् भृश दुःखितः ।ततो देव गणान् सर्वान् तपसा अहम् प्रसादयम् ॥१-६६-२३॥
+ददुः च परम प्रीताः चतुरंग बलम् सुराः ।ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥
+अवीर्या वीर्य संदिग्धा स अमात्याः पाप कारिणः ।तत् एतत् मुनिशा��्दूल धनुः परम भास्वरम् ॥१-६६-२५॥
+राम लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत ।यदि अस्य धनुषो रामः कुर्यात् आरोपणम् मुने ।सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् ॥१-६६-२६॥
+जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥
+ततः स राजा जनकः सचिवान् व्यादिदेश ह ।धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥
+जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥
+नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥
+ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥
+इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥
+तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥
+इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥
+न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः ।गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥
+क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥
+तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥
+विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥
+महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥
+इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥
+बाढम् इति एव तम् राजा मुनिः च समभाषत ।लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥
+पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥
+आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् ।तत् बभंज धनुर् मध्ये नरश्रेष्ठो महायशाः ॥१-६७-१७॥
+तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।भूमि कंपः च सुमहान् पर्वतस्य इव दीर्यतः ॥१-६७-१८॥
+निपेतुः च नराः सर्वे तेन शब्देन मोहिताः ।व्रजयित्वा मुनि वरम् रा��ानम् तौ च राघवौ ॥१-६७-१९॥
+प्रति आश्वस्तो जने तस्मिन् राजा विगत साध्वसः ।उवाच प्रांजलिः वाक्यम् वाक्यज्ञो मुनिपुंगवम् ॥१-६७-२०॥
+भगवन् दृष्ट वीर्यो मे रामो दशरथ आत्मजः ।अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥
+जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥
+मम सत्या प्रतिज्ञा सा वीर्य शुल्का इति कौशिक ।सीता प्राणैः बहुमता देया रामाय मे सुता ॥१-६७-२३॥
+भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः ॥१-६७-२४॥
+राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥
+मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥
+कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः ।अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥
+जनकेन समादिष्टा दूताः ते क्लान्त वाहनाः ।त्रि रात्रम् उषिता मार्गे ते अयोध्याम् प्राविशन् पुरीम् ॥१-६८-१॥
+ते राज वचनात् गत्वा राजवेश्म प्रवेशिताः ।ददृशुः देव संकाशम् वृद्धम् दशरथम् नृपम् ॥१-६८-२॥
+बद्ध अंजलि पुटाः सर्वे दूता विगत साध्वसाः ।राजानम् प्रश्रितम् वाक्यम् अब्रुवन् मधुर अक्षरम् ॥१-६८-३॥
+मैथिलो जनको राजा स अग्नि होत्र पुरस्कृतः ।मुहुर् मुहुर् मधुरया स्नेह संरक्तया गिरा ॥१-६८-४॥
+कुशलम् च अव्ययम् चैव स उपाध्याय पुरोहितम् ।जनकः त्वाम् महाराज पृच्छते स पुरः सरम् ॥१-६८-५॥
+पृष्ट्वा कुशलम् अव्यग्रम् वैदेहो मिथिलाधिपः ।कौशिक अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत् ॥१-६८-६॥
+पूर्वम् प्रतिज्ञा विदिता वीर्य शुल्का मम आत्मजा ।राजानः च कृत अमर्षा निर्वीर्या विमुखी कृताः ॥१-६८-७॥
+सा इयम् मम सुता राजन् विश्वामित्र पुरस्कृतैः ।यदृच्छया आगतैः वीरैः निर्जिता तव पुत्रकैः ॥१-६८-८॥
+तत् च रत्नम् धनुर् दिव्यम् मध्ये भग्नम् महात्मना ।रामेण हि महाबाहो महत्याम् जन संसदि ॥१-६८-९॥
+अस्मै देया मया सीता वीर्य शुल्का महात्मने ।प्रतिज्ञाम् तर्तुम् इच्छामि तत् अनुज्ञातुम् अर्हसि ॥१-६८-१०॥
+स उपाध्यायो महाराज पुरोहित पुरस्कृतः ।शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ ॥१-६८-११॥
+प्रतिज्ञाम् मम राजेन्द्र निर्वर्तयितुम् अर्हसि ।पुत्रयोः उभयोः एव प्रीतिम् त्वम् अपि लप्स्यसे ॥१-६८-१२॥
+एवम् विदेह अधिपतिः मधुरम् वाक्यम् अब्रवीत् ।विश्वामित्र अभ्यनुज्ञातः शताअनन्द मते स्थितः ॥१-६८-१३॥
+दूत वाक्यम् तु तत् श्रुत्वा राजा परम हर्षितः ।वसिष्ठम् वामदेवम् च मंत्रिणः च एवम् अब्रवीत् ॥१-६८-१४॥
+गुप्तः कुशिक पुत्रेण कौसल्य आनन्द वर्धनः ।लक्ष्मणेन सह भ्रात्रा विदेहेषु वसति असौ ॥१-६८-१५॥
+दृष्ट वीर्यः तु काकुत्स्थो जनकेन महात्मना ।संप्रदानम् सुतायाः तु राघवे कर्तुम् इच्छति ॥१-६८-१६॥
+यदि वो रोचते वृत्तम् जनकस्य महात्मनः ।पुरीम् गच्छामहे शीघ्रम् मा भूत् कालस्य पर्ययः ॥१-६८-१७॥
+मंत्रिणो बाढम् इति आहुः सह सर्वैः महर्षिभिः ।सु प्रीतः च अब्रवीत् राजा श्वः यात्रा इति च मंत्रिणः ॥१-६८-१८॥
+मंत्रिणः तु नरेन्द्रस्य रात्रिम् परम सत्कृताः ।ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥१-६८-१९॥
+ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः ।राजा दशरथो हृष्टः सुमंत्रम् इदम् अब्रवीत् ॥१-६९-१॥
+अद्य सर्वे धन अध्यक्षा धनम् आदाय पुष्कलम् ।व्रजंति अग्रे सु विहिता नाना रत्न समन्विताः ॥१-६९-२॥
+चतुरंग बलम् च अपि शीघ्रम् निर्यातु सर्वशः ।मम आज्ञा समकालम् च यानम् युग्मम् अनुत्तमम् ॥१-६९-३॥
+वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः ।मार्कण्डेयः च दीर्घायुः ऋषिः कात्यायनः तथा ॥१-६९-४॥
+एते द्विजाः प्रयान्तु अग्रे स्यंदनम् योजयस्व मे ।यथा काल अत्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥१-६९-५॥
+वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी ।राजानम् ऋषिभिः सार्धम् व्रजंतम् पृष्ठतो अन्वगात् ॥१-६९-६॥
+गत्वा चतुर् अहम् मार्गम् विदेहान् अभ्युपेयिवान् ।राजा तु जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत् ॥१-६९-७॥
+ततो राजानम् आसाद्य वृद्धम् दशरथम् नृपम् ।जनको मुदितो राजा हर्षम् च परमम् ययौ ॥१-६९-८॥
+उवाच वचनम् श्रेष्ठो नरश्रेष्ठम् मुदा अन्वितम् ।स्वागतम् ते नरश्रेष्ठः दिष्ट्या प्राप्तो असि राघव ॥१-६९-९॥
+पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य निर्जिताम् ।दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः ॥१-६९-१०॥
+सह सर्वैः द्विज श्रेष्ठैः देवैः इव शतक्रतुः ।दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम् ॥१-६९-११॥
+रा���वैः सह संबंधात् वीर्य श्रेष्ठैः महात्मभिः ।श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुम् अर्हसि ॥१-६९-१२॥
+यज्ञस्य अन्ते नरश्रेष्ठ विवाहम् ऋषि सत्तमैः ।तस्य तत् वचनम् श्रुत्वा ऋषि मध्ये नराधिपः ॥१-६९-१३॥
+वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाच महीपतिम् ।प्रतिग्रहो दातृ वशः श्रुतम् एतत् मया पुरा ॥१-६९-१४॥
+यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् ।तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य वादिनः ॥१-६९-१५॥
+श्रुत्वा विदेह अधिपतिः परम् विस्मयम् आगतः ।ततः सर्वे मुनि गणाः परस्पर समागमे ॥१-६९-१६॥
+हर्षेण महता युक्ताः ताम् निशाम् अवसन् सुखम् ।अथ रामो महातेजा लक्ष्मणेन समम् ययौ ॥१-६९-१७॥
+विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन् ।राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१-६९-१८॥
+उवास परम प्रीतो जनकेन सुपूजितः ।जनको अपि महातेजाः क्रिया धर्मेण तत्त्ववित् ।यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह ॥१-६९-१९॥
+यस्मिन् तु दिवसे राजा चक्रे गो दानम् उत्तमम् ।तस्मिन् तु दिवसे शूरो युधाजित् समुपेयिवान् ॥१-७३-१॥
+पुत्रः केकय राजस्य साक्षात् भरत मातुलः ।दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत् ॥१-७३-२॥
+केकय अधिपती राजा स्नेहात् कुशलम् अब्रवीत् ।येषाम् कुशलकामो असि तेषाम् संप्रति अनामयम् ॥१-७३-३॥
+स्वस्रीयम् मम राजेन्द्र द्रष्टु कामो महीपतिः ।तत् अर्थम् उपयातो अहम् अयोध्याम् रघुनंदन ॥१-७३-४॥
+श्रुत्वा तु अहम् अयोध्यायाम् विवाह अर्थम् तव आत्मजान् ।मिथिलाम् उपयातान् तु त्वया सह महीपते ॥१-७३-५॥
+त्वरया अभुपयातो अहम् द्रष्टु कामः स्वसुः सुतम् ।अथ राजा दशरथः प्रिय अतिथिम् उपस्थितम् ॥१-७३-६॥
+दृष्ट्वा परम सत्कारैः पूजार्हम् समपूजयत् ।ततः ताम् उषितो रात्रिम् सह पुत्रैः महात्मभिः ॥१-७३-७॥
+प्रभाते पुनः उत्थाय कृत्वा कर्माणि तत्त्ववित् ।ऋषीन् तदा पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-७३-८॥
+युक्ते मुहूर्ते विजये सर्व आभरण भूषितैः ।भ्रातृभिः सहितो रामः कृत कौतुक मंगलः ॥१-७३-९॥
+वसिष्ठम् पुरतः कृत्वा महर्षीन् अपरान् अपि ।वशिष्टःओ भगवान् एत्य वैदेहम् इदम् अब्रवीत् ॥१-७३-१०॥
+राजा दशरथो राजन् कृत कौतुक मन्गलैः ।पुत्रैः नर वर श्रेष्ठ दातारम् अभिकांक्षते ॥१-७३-११॥
+दातृ प्रतिग्रहीतृभ्याम् सर्व अर्थाः संभवन्ति हि ।स���वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् ॥१-७३-१२॥
+इति उक्तः परम उदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यम् परम धर्मवित् ॥१-७३-१३॥
+कः स्थितः प्रतिहारो मे कस्य आज्ञा संप्रतीक्ष्यते ।स्व गृहे को विचारो अस्ति यथा राज्यम् इदम् तव ॥१-७३-१४॥
+कृत कौतुक सर्वस्वा वेदि मूलम् उपागताः ।मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेः इव अर्चिषः ॥१-७३-१५॥
+सद्यो अहम् त्वत् प्रतीक्षो अस्मि वेद्याम् अस्याम् प्रतिषितः ।अविघ्नम् कुरुताम् राजा किम् अर्थम् हि विलम्ब्यते ॥१-७३-१६॥
+तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा ।प्रवेशयामास सुतान् सर्वान् ऋषि गणान् अपि ॥१-७३-१७॥
+ततो राजा विदेहानाम् वशिष्ठम् इदम् अब्रवीत् ।कारयस्व ऋषे सर्वान् ऋषिभिः सह धार्मिक ॥१-७३-१८॥
+रामस्य लोक रामस्य क्रियाम् वैवाहिकीम् प्रभो ।तथा इति उक्त्वा तु जनकम् वशिष्टःओ भगवान् ऋषिः ॥१-७३-१९॥
+विश्वामित्रम् पुरस्कृत्य शतानंदम् च धार्मिकम् ।प्रपा मध्ये तु विधिवत् वेदीम् कृत्वा महातपाः ॥१-७३-२०॥
+अलम् चकार ताम् वेदीम् गन्ध पुष्पैः समंततः ।सुवर्ण पालिकाभिः च चित्र कुम्भैः च स अंकुरैः ॥१-७३-२१॥
+अंकुर आढ्यैः शरावैः च धूप पात्रैः स धूपकैः ।शंख पात्रैः श्रुवैः स्रुग्भिः पात्रैः अर्घ्यादि पूजितैः ॥१-७३-२२॥
+लाज पूर्णैः च पात्रीभिः रक्षितैः अपि संस्कृतैः ।दर्भैः समैः समास्तीर्य विधिवत् मंत्र पुरस्कृतम् ॥१-७३-२३॥
+अग्निम् आधाय तम् वेद्याम् विधि मंत्र पूर्वकम् ।जुहाव अग्नौ महातेजा वशिष्ठो मुनिपुंगव ॥१-७३-२४॥
+ततः सीताम् समानीय सर्व आभरण भुषिताम् ।समक्षम् अग्नेः संस्थाप्य राघव अभिमुखे तदा ॥१-७३-२५॥
+अब्रवीत् जनको राजा कौसल्य आनंद वर्धनम् ।इयम् सीता मम सुता सह धर्म चरी तव ॥१-७३-२६॥
+प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना ।पतिव्रता महभागा छाय इव अनुगता सदा ॥१-७३-२७॥
+इति उक्त्वा प्राक्षिपत् राजा मंत्र पूतम् जलम् तदा ।साधु साधु इति देवानाम् ऋषीणाम् वदताम् तदा ॥१-७३-२८॥
+देव दुंदुभि निर्घोषः पुष्प वर्षम् महान् अभूत् ।एवम् दत्त्वा सुताम् सीताम् मंत्र उदक पुरस्कृताम् ॥१-७३-२९॥
+अब्रवीत् जनको राजा हर्षेण अभिपरिप्लुत ।लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया ॥१-७३-३०॥
+प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः ।तम् एवम् उक्त्वा जनको भरतम् च अभ्यभाषत ॥१-७३-३१॥
+गृहाण पाणिम् माण्डव्याः पाणिना रघुनंदन ।शत्रुघ्नम् च अपि धर्माअत्मा अब्रवीत् मिथिलेश्वरः ॥१-७३-३२॥
+श्रुतकीर्तेः महाबाहो पाणिम् गृह्णीष्व पाणिना ।सर्वे भवन्तः सौम्याः च सर्वे सुचरित व्रताः ॥१-७३-३३॥
+पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ।जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन् ॥१-७३-३४॥
+चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ।अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च ॥१-७३-३५॥
+ऋषीन् चैव महात्मानः सह भार्या रघु उद्वहाः ।यथा उक्तेन तथा चक्रुः विवाहम् विधि पूर्वकम् ॥१-७३-३६॥
+पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः।यद्वा -पुष्प वृष्टिः महति आसीत् अंतरिक्षात् सु भास्वरा ।दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः ॥१-७३-३७॥
+ननृतुः च अप्सरः संघा गन्धर्वाः च जगुः कलम् ।विवाहे रघु मुख्यानाम् तद् अद्भुतम् अदृश्यत ॥१-७३-३८॥
+ईदृशे वर्तमाने तु तूर्य उद्घुष्ट निनादिते ।त्रिः अग्निम् ते परिक्रम्य ऊहुः भार्या महौजसः ॥१-७३-३९॥
+अथ उपकार्याम् जग्मुः ते स दारा रघुनंदनाः ।राजा अपि अनुययौ पश्यन् स ऋषि संघः स बान्धवः ॥१-७३-४०॥
+अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः ।आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् ॥१-७४-१॥
+विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् ।आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥
+अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥
+कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥
+ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ॥१-७४-५॥
+ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥
+प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः ॥१-७४-७॥
+ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः ।गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् ॥१-७४-८॥
+घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः ।भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥
+तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत ।असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः ॥१-७४-१०॥
+किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः ॥१-७४-११॥
+उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् ॥१-७४-१२॥
+मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह ॥१-७४-१३॥
+कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः ॥१-७४-१४॥
+भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा ॥१-७४-१५॥
+स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः ॥१-७४-१६॥
+ददर्श भीम संकाशम् जटा मण्डल धारिणम् ।भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् ॥१-७४-१७॥
+कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् ।ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः ॥१-७४-१८॥
+स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् ।प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् ॥१-७४-१९॥
+तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् ।वसिष्ठ प्रमुखा विप्रा जप होम परायणाः ॥१-७४-२०॥
+संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति ॥१-७४-२१॥
+पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः ।क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् ॥१-७४-२२॥
+एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम दर्शनम् ।ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् ॥१-७४-२३॥
+प्रतिगृह्य तु ताम् पूजाम् ऋषि दत्ताम् प्रतापवान् ।रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत ॥१-७४-२४॥
+राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम् ।धनुषो भेदनम् चैव निखिलेन मया श्रुतम् ॥१-७५-१॥
+तत् अद्भुतम् अचिंत्यम् च भेदनम् धनुषः तथा ।तत् श्रुत्वा अहम् अनुप्राप्तो धनुर् गृह्य अपरम् शुभम् ॥१-७५-२॥
+तत् इदम् घोर संकाशम् जामदग्न्यम् महत् धनुः ।पूरयस्व शरेण एव स्व बलम् दर्शयस्व च ॥१-७५-३॥
+तत् अहम् ते बलम् दृष्ट्वा धनुषो अपि अस्य पूरणे ।द्वंद्व युद्धम् प्रदास्यामि वीर्य श्लाघ्यम् अहम् तव ॥१-७५-४॥
+तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा ।विष���्ण वदनो दीनः प्रांजलिः वाक्यम् अब्रवीत् ॥१-७५-५॥
+क्षत्र रोषात् प्रशांतः त्वम् ब्राह्मणः च महातपाः ।बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि ॥१-७५-६॥
+भार्गवाणाम् कुले जातः स्वाध्याय व्रत शालिनाम् ।सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्ष्द् इप्तवान् असि ॥१-७५-७॥
+स त्वम् धर्म परो भूत्वा काश्यपाय वसुंधराम् ।दत्त्वा वनम् उपागम्य महेन्द्र कृत केतनः ॥१-७५-८॥
+मम सर्व विनाशाय संप्राप्तः त्वम् महामुने ।न च एकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥१-७५-९॥
+ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान् ।अनादृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत ॥१-७५-१०॥
+इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक अभिपूजिते ।दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥१-७५-११॥
+अनिसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे ।त्रिपुर घ्नम् नरश्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया ॥१-७५-१२॥
+इदम् द्वितीयम् दुर्धर्षम् विष्णोर् दत्तम् सुरोत्तमैः ।तत् इदम् वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-१३॥
+समान सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम् ।तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१-७५-१४॥
+शिति कण्ठस्य विष्णोः च बल अबल निरीक्षया ।अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः ॥१-७५-१५॥
+विरोधम् जनयामास तयोः सत्यवताम् वरः ।विरोधे तु महत् युद्धम् अभवत् रोम हर्षणम् ॥१-७५-१६॥
+शिति कण्ठस्य विष्णोः च परस्पर जय एषिणोः ।तदा तु जृम्भितम् शैवम् धनुः भीम पराक्रमम् ॥१-७५-१७॥
+हुम् कारेण महादेवः स्तम्भितो अथ त्रिलोचनः ।देवैः तदा समागम्य स ऋषि सन्घैः स चारणैः ॥१-७५-१८॥
+याचितौ प्रशमम् तत्र जग्मतुः तौ सुर उत्तमौ ।जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु पराक्रमैः ॥१-७५-१९॥
+अधिकम् मेनिरे विष्णुम् देवाः स ऋषि गणाः तदा ।धनू रुद्रः तु संक्रुद्धो विदेहेषु महायशाः ॥१-७५-२०॥
+देवरातस्य राज ऋषेः ददौ हस्ते स सायकम् ।इदम् च वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-२१॥
+ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम् ।ऋचीकः तु महातेजाः पुत्रस्य अप्रतिकर्मणः ॥१-७५-२२॥
+पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः ।न्यस्त शस्त्रे पितरि मे तपो बल समन्विते ॥१-७५-२३॥
+अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः ।वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् ।क्षत्रम् उत्सादयन् रोषात् जातम् जातम् अनेकशः ॥१-७५-२४॥
+पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने ।यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य कर्मणे ॥१-७५-२५॥
+दत्त्वा महेन्द्र निलयः तपो बल समन्वितः ।श्रुत्वा तु धनुषो भेदम् ततो अहम् द्रुतम् आगतः ॥१-७५-२६॥
+तत् एवम् वैष्णवम् राम पितृ पैतामहम् महत् ।क्षत्र धर्मम् पुरस् कृत्य गृह्णीष्व धनुर् उत्तमम् ॥१-७५-२७॥
+योजयस्व धनुः श्रेष्ठे शरम् पर पुरम् जयम् ।यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततः ॥१-७५-२८॥
+श्रुत्वा तत् जामदग्न्यस्य वाक्यम् दाशरथिः तदा ।गौरवात् यंत्रित कथः पितू रामम् अथ अब्रवीत् ॥१-७६-१॥
+कृतवान् अस्मि यत् कर्म श्रुतवान् असि भार्गव ।अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः ॥१-७६-२॥
+वीर्य हीनम् इव अशक्तम् क्षत्र धर्मेण भार्गव ।अवजानासि मे तेजः पश्य मे अद्य पराक्रमम् ॥१-७६-३॥
+इति उक्त्वा राघवः क्रुद्धो भार्गवस्य वर आयुधम् ।शरम् च प्रतिजग्राह हस्तात् लघु पराक्रमः ॥१-७६-४॥
+आरोप्य स धनू रामः शरम् सज्यम् चकार ह ।जामदग्न्यम् ततो रामम् रामः क्रुद्धो अब्रवीत् इदम् ॥१-७६-५॥
+ब्राह्मणो असि इति पूज्यो मे विश्वामित्र कृतेन च ।तस्मात् शक्तो न ते राम मोक्तुम् प्राण हरम् शरम् ॥१-७६-६॥
+इमाम् वा त्वत् गतिम् राम तपो बल समार्जितान् ।लोकान् अप्रतिमान् वा अपि हनिष्यामि यत् इच्छसि ॥१-७६-७॥
+न हि अयम् वैष्णवो दिव्यः शरः पर पुरंजयः ।मोघः पतति वीर्येण बल दर्प विनाशनः ॥१-७६-८॥
+वर आयुध धरम् रामम् द्रष्टुम् स ऋषि गणाः सुराः ।पितामहम् पुरस्कृत्य समेताः तत्र सर्वशः ॥१-७६-९॥
+गंधर्व अप्सरसः चैव सिद्ध चारण किन्नराः ।यक्ष राक्षस नागाः च तत् द्रष्टुम् महत् अद्भुतम् ॥१-७६-१०॥
+जडी कृते तदा लोके रामे वर धनुर् धरे ।निर्वीर्यो जामदग्न्यो असौ रमो रामम् उदैक्षत ॥१-७६-११॥
+तेजोभिः हत वीर्यत्वात् जामदग्न्यो जडी कृतः ।रामम् कमल पत्र अक्षम् मन्दम् मन्दम् उवाच ह ॥१-७६-१२॥
+काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा ।विषये मे न वस्तव्यम् इति माम् काश्यपो अब्रवीत् ॥१-७६-१३॥
+सो अहम् गुरु वचः कुर्वन् पृथिव्याम् न वसे निशाम् ।तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१-७६-१४॥
+तम् इमाम् मत् गतिम् वीर हन्तुम् न अर्हसि राघव ।मनो जवम् गमिष्यामि महेन्द्रम् पर्वत उत्तमम् ॥१-७६-१५॥
+लोकाः तु अप्रतिमा र��म निर्जिताः तपसा मया ।जहि तान् शर मुख्येन मा भूत् कालस्य पर्ययः ॥१-७६-१६॥
+अक्षय्यम् मधु हन्तारम् जानामि त्वाम् सुरेश्वरम् ।धनुषो अस्य परामर्शात् स्वस्ति ते अस्तु परंतप ॥१-७६-१७॥
+एते सुर गणाः सर्वे निरीक्षन्ते समागताः ।त्वाम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥१-७६-१८॥
+न च इयम् तव काकुत्स्थ व्रीडा भवितुम् अर्हति ।त्वया त्रैलोक्य नाथेन यत् अहम् विमुखी कृतः ॥१-७६-१९॥
+शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सु व्रत ।शर मोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२०॥
+तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।रामो दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम् ॥१-७६-२१॥
+स हतान् दृश्य रामेण स्वान् लोकान् तपसा आर्जितान् ।जामदग्न्यो जगाम आशु महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२२॥
+ततो वि तिमिराः सर्वा दिशा च उपदिशः तथा ।सुराः स ऋषि गणाः रामम् प्रशशंसुः उदायुधम् ॥१-७६-२३॥
+रामम् दाशरथिम् रामो जामदग्न्यः प्रशस्य च ।ततः प्रदक्षिणी कृत्य जगाम आत्म गतिम् प्रभुः ॥१-७६-२४॥
+गते रामे प्रशांत आत्मा रामो दाशरथिः धनुः ।वरुणाय अप्रमेयाय ददौ हस्ते महायशाः ॥१-७७-१॥
+अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् ।पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥१-७७-२॥
+जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी ।अयोध्या अभिमुखी सेना त्वया नाथेन पालिता ॥१-७७-३॥
+रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् ।बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम् ॥१-७७-४॥
+गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥१-७७-५॥
+चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् ।पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥१-७७-६॥
+सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् ।राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥१-७७-७॥
+सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् ।पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥१-७७-८॥
+पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः ।प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥१-७७-९॥
+ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः ।कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥
+वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः ।ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥१-७७-११॥
+कुशध्वज सुते च उभे जगृहुः नृप योषितः ।मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥१-७७-१२॥
+देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् ।अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥१-७७-१३॥
+रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥१-७७-१४॥
+शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः ।कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥१-७७-१५॥
+भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन ।अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥
+त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव ।श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥१-७७-१७॥
+गमनाय अभिचक्राम शत्रुघ्न सहितः तदा ।आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥१-७७-१८॥
+मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ ।युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥१-७७-१९॥
+स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह ।गते च भरते रामो लक्ष्मणः च महाबलः ॥१-७७-२०॥
+पितरम् देव संकाशम् पूजयामासतुः तदा ।पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥१-७७-२१॥
+चकार रामः सर्वाणि प्रियाणि च हितानि च ।मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥१-७७-२२॥
+गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत ।एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥१-७७-२३॥
+रामस्य शील वृत्तेन सर्वम् विषय वासिनः ।तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥१-७७-२४॥
+स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः ।रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥१-७७-२५॥
+मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः ।प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥१-७७-२६॥
+गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते ।तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥१-७७-२७॥
+अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा ।तस्य भूयो विशेषेण मैथिली जनक आत्मजा ।देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥१-७७-२८॥
+तया स राज ऋषि सुतो अभिकामयासमेयिवान् उत्तम राज कन्यया ।अतीव रामः शुशुभे मुदा अन्वितोविभुः श्रिया विष्णुः इव अमर ईश्वरः ॥१-७७-२९॥
+गच्छता मातुलकुलं भरतेन तदाऽनघः ।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥
+स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥
+त���्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥
+राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥
+सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥
+तेषामपि महातेजा रामो रतिकरः पितुः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥
+स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥
+कौसल्या शुशुभे पुत्रेणामिततेजसा ।यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥
+स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥
+स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥
+कथंचिदुपकारेण कृतेनै केन तुष्यति ।न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥
+शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥
+बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥
+न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥
+सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥
+कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥
+नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥
+अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥
+स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥
+सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥
+कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥
+धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥
+निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥
+दृढभक्��िः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥
+शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥
+सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥
+श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥
+वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥
+धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥
+अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥
+एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥
+बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥
+गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥
+लोकपालोपमं नाथमकामयत मेदिनी ।एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥
+दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥
+प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥
+कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥
+मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥
+महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥
+अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥
+शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥
+निश्चित्य सचिवैः सार्धं युवराजममन्यत ।दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥
+संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥
+लोके रामस्य बुबुधे संप्रियत्��ं महात्मनः ।आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥
+प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥
+समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥
+त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥
+ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥
+ततः प्रविविशुः शेष राजानो लोकसम्मताः ।अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥
+राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।स लब्धमानैर्विनयान्वितैर्नृपैः ।पुरालयै र्जानपदैश्च मानवैः ।उपोपविष्टैर्नृतो बभौ ।सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥
+ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥
+दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥
+राजलक्षणयुक्तेन कान्तेनानुपमेन च ।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥
+विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥
+सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥
+मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥
+इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥
+प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥
+राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥
+सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥
+अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥
+तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥
+अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥
+अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥
+यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥
+यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥
+इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥
+स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥
+तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥
+समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥
+अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥
+इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥
+इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥
+श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥
+कथं नु मयि धर्मेण पृथिवीमनुशासति ।भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥
+ते तमूचुर्महात्मानं पौरजानपदैः सह ।बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥
+गुणान् गुणवतो देव देवकल्पस्य धीमतः ।प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥
+दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥
+रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥
+प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥
+धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥
+मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥
+बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥
+देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥
+गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥
+द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥
+गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥
+पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥
+निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥
+इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥
+उत्सवेषु च सर्वेषु पितेव परितुष्यति ।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥
+स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥
+उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥
+रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥
+शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥
+हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥
+शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥
+तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥
+वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥
+बलमारोग्यमायुश्च रामस्य विदितात्मनः ।देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥
+आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥
+स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥
+तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥
+पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।तं देवदेवोपममात्मजं ते ।सर्वस्य लोकस्य हिते निविष्टम् ।हिताय नः क्ष्हिप्रमुदारजुष्टं ।मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥
+तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥
+अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥
+इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥
+चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥
+राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥
+वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥
+तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥
+आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥
+शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥
+चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥
+शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥
+उपस्थापयत प्रातरग्न्यगारं महीपतेः ।यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥
+अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥
+प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥
+सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥
+सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥
+आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥
+कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥
+उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥
+महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥
+चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥
+यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥
+रामः कृतात्मा भवता शीघ्रमानीयतामिति ।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥
+रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥
+प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥
+उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥
+प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥
+दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥
+रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥
+न ततर्प समायान्तं पश्यमानो नराधिपः ।अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥
+पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥
+आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥
+नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥
+गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥
+दिदेश राजा रुचिरं रामाय परमासनम् ।तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥
+स्वयेव प्रभया मेरुमुदये विमलो रविः ।तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥
+विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥
+अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥
+उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥
+उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥
+तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥
+गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥
+कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥
+अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥
+तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥
+तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥
+त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥
+व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥
+ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।ते चापि पौरा नृपतेर्वचस्त ।च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥
+गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥
+श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥
+अथान्तर्गृहमासाद्य राजा दशरथस्तदा ।सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥
+प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥
+द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥
+प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् ।यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥
+तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति ।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥
+इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥
+तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥
+प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः ।ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥
+प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।प्रदिश्��� चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥
+राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥
+जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥
+अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥
+न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् ।अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥
+अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥
+अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् ।सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥
+अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥
+प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥
+तद्यावदेव मे चेतो न विमुञ्चति राघव ।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥
+अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥
+ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥
+तस्मात्त्वयादप्रभृति निशेयं नियतात्मना ।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥
+सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥
+विप्रोषितश्च भरतो यावदेव पुरादितः ।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥
+कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥
+किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥
+इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥
+प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने ।तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥
+तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥
+प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा ।सीता चानायिता श्रुत्वा प्रि��ं रामाभिषेचनम् ॥२-४-३१॥
+तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥
+श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥
+तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥
+अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥
+सीतया प्युपवस्तव्या रजनीयं मया सह ।एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥
+यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥
+एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥
+वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥
+कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक ।येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥
+अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥
+इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥
+लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् ।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥
+सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च ।जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥
+इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥
+सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥
+गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥
+तथेति च स राजानमुक्त्वा वेदविदां वरः ।स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥
+उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥
+स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥
+तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥
+अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषि��ः ।ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥
+सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥
+प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥
+प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥
+इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥
+ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥
+सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥
+हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥
+स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥
+बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥
+जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥
+सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥
+तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥
+प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥
+एवं तं जनसंबाधं राजमार्गं पुरोहितः ।व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥
+सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥
+तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥
+तेन चैव तदा तुल्यं सहासीनाः सभासदः ।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥
+गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥
+तमग्र्यवेष्प्रमदाजनाकुलं ।महेन्द्रवेश्मप्रतिमं निवेशनम् ।विदीपयंश्चारु विवेश पार्थिवः ।शशीव तारागणसंकुलं नभः ॥२-५-२६॥
+गते पुरोहिते रामः स्नातो नियतमानसः ।सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥
+प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।महते दैवतायाज्यं जुह���व ज्वलितानले ॥२-६-२॥
+शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥
+वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥
+एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥
+तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥
+तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥
+तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा ।अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥
+कृतोपवासं तु तदा वैदेह्या सह राघवम् ।अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥
+ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥
+सिताभ्रशिखराभेषु देवतायतनेषु च ।चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥
+नानापण्यसमृद्धेषु वणिजामापणेषु च ।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥
+सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥
+नटनर्तकसंघानां गायकानां च गायताम् ।मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥
+रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥
+बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥
+कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥
+प्रकाशकरणार्धं च निशागमनशञ्कया ।दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥
+अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥
+समेत्य संघशः सर्वे चत्वरेषु सभासु च ।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥
+अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥
+सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥
+आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघ���ः ॥२-६-२३॥
+चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥
+एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥
+ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥
+जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥
+ततस्तदिन्द्रक्षयसन्निभं पुरं ।दिदृक्षुभिर्जानपदै रुपागतैः ।समन्ततः सस्वनमाकुलं बभौ ।समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥
+जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥
+सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥
+पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥
+माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥
+संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥
+प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥
+प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥
+उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥
+अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥
+विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥
+श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥
+धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥
+सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥
+उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥
+अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥
+एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥
+कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥
+मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥
+सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥
+अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥
+सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥
+तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥
+नराधिपकुले जाता महिषी त्वं महीपतेः ।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥
+धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥
+उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥
+अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥
+शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥
+यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥
+पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥
+सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥
+मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥
+अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥
+दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥
+इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥
+रामे वा भरते वाहं विशेषं नोपलक्षये ।तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥
+न मे परं किञ्चि दितस्त्वयापि न ।प्रियं प्रियार्हे सुवचं वचो वरम् ।तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥
+मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥
+हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥
+मनसा प्रहसामि त्वां देवि दुःखार्धिता सती ।यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥
+शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥
+भरतादेव रामस्य राज्यसाधारणाद्भयम् ।तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥
+लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥
+प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि ।राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥
+विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥
+सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥
+प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥
+एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि ।पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥
+हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥
+तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥
+धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि ।रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥
+भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥
+भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥
+सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥
+यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः ।कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥
+राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥
+कैकेयीवचनं श्रुत्वा मन्थरा भृश��ुःखिता ।दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥
+अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥
+भविता राघवो राजा राघवस्यानु यः सुतः ।राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥
+न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥
+तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥
+असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति ।अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥
+साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥
+ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥
+बाल एव हि मातुल्यं भरतो नायितस्त्वया ।सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥
+भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः ।लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥
+श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः ।सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥
+गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥
+तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥
+तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥
+एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥
+स ते सुखोचितो बालो रामस्य सहजो रिपुः ।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥
+अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥
+दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥
+यदा हि रामः पृथिवीमवाप्स्यति ।प्रभूतरत्नाकरशैलपत्तनाम् ।तदा गमिष्यस्यशुभं पराभवं ।सहैव दीना भरतेन भामिनि ॥२-८-३८॥
+यदा हि रामः पृथिवीमवाप्स्यति ।ध्रुवं प्रणष्टो भरतो भविष्यति ।अतो हि संचिन्तय राज्यमात्मजे ।पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥
+एवमुक्ता तु कैकेयी कोपेन ज्वल���तानना ।दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥
+अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥
+इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥
+एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥
+हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥
+किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥
+मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥
+श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥
+कथय त्वं ममोपायं केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥
+एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥
+तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥
+दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥
+स शम्बर इति ख्यातः शतमायो महासुरः ।ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥
+तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥
+तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥
+अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥
+तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥
+गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥
+कथैषा तव तु स्नेहान्मनसा धार्यते मया ।रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥
+तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥
+चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥
+क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥
+मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥
+दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥
+न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥
+न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥
+मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥
+यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥
+यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥
+रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥
+चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥
+रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥
+एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥
+येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥
+सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥
+रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥
+हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥
+कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥
+त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥
+नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥
+त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥
+अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ��परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥
+विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥
+जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥
+आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥
+सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥
+मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥
+अभिषिक्ते च भरते राघवे च वनं गते ।जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥
+लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥
+कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥
+चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥
+तवापि कुब्जायाः सर्वाभरणभूषिताः ।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥
+इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥
+गतोदके सेतुबन्दो न कल्याणि विधीयते ।उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥
+तथा प्रोत्साहिता देवी गता मन्थरया सह ।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥
+अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥
+ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥
+इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥
+न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥
+अथो पुनस्तां महिषीं महीक्षितो ।वचोभिरत्यर्थ महापराक्रमैः ।उवाच कुब्जा भरतस्य मातरं ।हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥
+प्रपत्स्यते राज्यमिदं हि राघवो ।यदि ध्रुवं त्वं स सुता च तप्स्यसे ।अतो हि कल्याणि यतस्व तत्तथा ।यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥
+तथातिविद्धा महिषि तु कुब्जया ।समाहता वागिषुभिर्मुहुर्मुहुः ।विधाय हस्तौ हृदयेऽतिविस्मिता ।श्शंस कुब्जां कुपिता ���ुनः पुनः ॥२-९-६२॥
+यमस्य वा मां विषयं गतामितो ।निशाम्य कुब्जे प्रतिवेदयिष्यसि ।वनं गते वा सुचिराय राघवे ।समृद्धकामो भरतो भविष्यति ॥२-९-६३॥
+अहं हि वै नास्तरणानि न स्रजो ।न चन्दनं नाञ्जनपानभोजनम् ।न किंचिदिच्छामि न चेह जीवितं ।न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥
+अथैतदुक्त्वा वचनं सुदारुणं ।न्धाय सर्वाभरणानि भामिनी ।असंवृतामास्तरणेन मेदिनीं ।तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥
+उदीर्णसंरम्भतमोवृतानना ।तदावमुक्तोत्तममूल्यभूषणा ।नरेन्द्रपत्नी विमना बभूव सा ।तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥
+विदर्शिता यदा देवी कुब्जया पापया भृशम् ।तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥२-१०-१॥
+निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी ।मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२-१०-२॥
+सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥२-१०-३॥
+मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥२-१०-४॥
+बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥२-१०-५॥
+संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे ।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥२-१०-६॥
+अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।तया तान्यपविद्धानि माल्यान्याभरणानि च ॥२-१०-७॥
+अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥२-१०-८॥
+एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी ।आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥२-१०-९॥
+उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् ।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥२-१०-१०॥
+प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी ।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥२-१०-११॥
+पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥२-१०-१२॥
+वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥२-१०-१३॥
+दान्तराजत सौवर्णवेदिकाभिस्समायुतम् ।नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥२-१०-१४॥
+दान्तराजतसौवर्णैः संवृतं परमासनैः ।विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥२-१०-१५॥
+उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥२-१०-१६॥
+न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥२-१०-१७॥
+अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।न ही तस्य पुरा देवी तां वेLआमत्यवर्तत ॥२-१०-१८॥
+न च राजा गृहं शून्यं प्रविवेश कदाचन ।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥२-१०-१९॥
+यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।प्रतीहारी त्वथोवाच संत्रस्ता तु क्R^ताञ्जलिः ॥२-१०-२०॥
+देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता ।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२-१०-२१॥
+विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः ।तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२-१०-२२॥
+प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२-१०-२३॥
+अपापः पापसङ्कल्पां ददर्श धरणीतले ।लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२-१०-२४॥
+किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२-१०-२५॥
+क्रेणुमिव दिग्धेन विद्धां मृगयुना वने ।महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२-१०-२६॥
+परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२-१०-२७॥
+न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।देवि केनाभिशप्तासि केन वासि विमानिता ॥२-१०-२८॥
+यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु ।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२-१०-२९॥
+सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥२-१०-३०॥
+कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥२-१०-३१॥
+मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥२-१०-३२॥
+अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥२-१०-३३॥
+अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।न ते किम्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥२-१०-३४॥
+आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥२-१०-३५॥
+करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥२-१०-३६॥
+प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२-१०-३७॥
+तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् ।ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥२-१०-३८॥
+किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने ।तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥२-१०-३९॥
+तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् ।तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥२-१०-४०॥
+परिपीडयितुं भूयो भर्तारमुपचक्रमे ।
+तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥
+नास्मि विप्रकृता देव केन चिन्नावमानिता ।अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥
+प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥
+तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥
+अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥
+तेनाजय्येन मुख्येन राघवेण महात्मना ।शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥
+यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥
+आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥
+भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥
+बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥
+सा तदर्थमना देवी तमभिप्रायमागतम् ।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥
+तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥
+यथा क्रमेण शपसि वरं मम ददासि च ।तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥
+चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥
+निशाचराणि भूतानि गृहेषु गृहदेवताः ।यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥
+सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥
+इति देवी महेष्वासं परिगृह्यभिशस्य च ।ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥
+स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥
+तत्र चापि मया देव यत्त्वं समभिरक्षितः ।जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥
+तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥
+तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥
+वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥
+ततः परमुवाचेदं वरदं काममोहितम् ।वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
+तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥
+अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
+तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
+चीराजिनजटाधारी रामो भवतु तापसः ।भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
+एष मे परमः कामो दत्तमेव वरं वृणे ।अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥
+स राजराजो भव स्त्यसंगरः ।कुलं च शीलं च हि रक्ष जन्म च ।परत्र वासे हि वद्न्त्यनुत्तमं ।तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥
+ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥
+किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥
+इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥
+व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥
+मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥
+मोहमापेदिवान्भूयः शोकोपहतचेतनः ।चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥
+कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥
+किम् कृतम् तव रामेण पापं पापे मयापि वा ।त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥
+अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।जीवलोको यदा सर्वो रामस्या�� गुणस्तवम् ॥२-१२-९॥
+अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥
+अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥
+जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥
+अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥
+न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥
+अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥
+अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥
+स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥
+तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥
+इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥
+न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥
+ननु ते राघवस्तुल्यो भरतेन महात्मना ।बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥
+तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥
+अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥
+रोचयस्यभिरामस्य रामस्य शुभलोचने ।तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥
+रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥
+शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥
+बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥
+सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥
+सत्येन लोकान् जयति दीनान् दानेन राघवः ।गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥
+सत्य��् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥
+तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥
+न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥
+क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥
+मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥
+पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥
+अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥
+इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥
+पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥
+यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥
+यदा समेता बहवस्त्वया राजर्षयस्सह ।कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥
+यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥
+किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥
+शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥
+सागरः समयम् कृत्वान वेलामतिवर्तते ।समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥
+स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥
+भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥
+अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥
+एकाहमपि पश्येयम् यद्यहम् राममातरम् ।अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥
+भरतेनात्मना चाहम् शपे ते मनुजाधिप ।यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥
+एतावदुक्त���वा वचनम् कैकेयी विरराम ह ।विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥
+श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥
+नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥
+ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥
+स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥
+नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥
+दीनया तु गिरा राजा इति होवाच कैकयिम् ।अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥
+भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥
+कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥
+विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥
+यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥
+किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥
+रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥
+मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥
+कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥
+बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥
+परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥
+यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥
+किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥
+भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥
+न मया सत्कृता देवि सत्कारार्हा कृते तव ।इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥
+अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥
+सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥
+माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥
+हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥
+चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥
+न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥
+रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥
+गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥
+धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥
+दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥
+अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥
+बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥
+यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥
+भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥
+स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥
+प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥
+स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥
+मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥
+मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।मृते ��यि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥
+इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥
+दुःखान्यसहती देवी मामेवानुमरिष्यति ।कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥
+प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥
+इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥
+मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥
+मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥
+त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥
+सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥
+पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥
+अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥
+भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥
+काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥
+रामस्यारण्यगवनम् भरतस्यैव मातरम् ।धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥
+न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।अनर्थभावेऽ र्थपरे नृशम्से ।ममानुतापाय निविष्टभावे ।किमप्रियम् पश्यसि मन्निमित्तम् ।हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥
+परित्यजेयुः पितरो हि पुत्रान् ।भार्याः वतीम्श्चापि कृतानुरागाः ।कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥
+अहम् पुनर्देवकुमाररूप ।मलकृतम् तम् सुतमाव्रजन्तम् ।नन्दामि पश्यन्नपि दर्शनेन ।भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥
+विनापि सूर्येण भवेत्प्रवृत्ति ।रवर्ष्ता वज्रधरेण वापि ।रामम् तु गच्छन्तमितः समीक्ष्य ।जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥
+विनाशकामामहिताममित्रा ।मावासयम् मृत्युमिवात्मनस्त्वम् ।चिरम् बताङ्केन धृतासि सर्पी ।महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥
+मया च रामेण सलक्ष्मणेन ।प्रशास्तु हीनो भरतस्त्वया सह ।पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥
+नृशम्सवृत्ते व्यसनप्रहारिणि ।प्रसह्य वाक्यम् यदिहाद्य भाषसे ।न नाम ते केन मुखात्पतन्त्यधो ।विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥
+न किम्चिदाहाहितमप्रियम् वचो ।न वेत्ति रामः परुशाणि Bहाषितुम् ।कथन्नु रामे ह्यभिरामवादिनि ।ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥
+प्रताम्य वा प्रज्वल वा प्रणश्य वा ।सहस्रशो वा स्फुटिता महीम् व्रज ।न ते करिष्यमि वचः सुदारुणम् ।ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥
+क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥
+न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।विनात्मजेनात्मवतः कुतो रतिः ।ममाहितम् देवि न क् कर्तुमर्हसि ।स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥
+स भूमिपलो विलपन्ननाथवत् ।स्त्रीया गृहीतो हृदयेऽतिमात्रया ।पपात देव्याश्चरणौ प्रसारिता ।पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥
+अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥
+अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी ।पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥
+त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥
+एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥
+म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥
+स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥
+कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥
+अपुत्रेण मया पुत्रः श्रमेण महता महान् ।रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥
+शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥
+कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥
+सुखानाम���चितस्यैव दुःखैरनुचितस्य च ।दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥
+यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥
+नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥
+अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥
+अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥
+राज्ञो विलपमानस्य न व्यभासत शर्वरी ।तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥
+विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥
+अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥
+न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥
+प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥
+प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥
+कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥
+लभतामसितापाङ्गे यशः परमवाप्नुहि ।मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥
+प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।विशुद्ध भावस्य सु दुष्ट भावा ।दीनस्य ताम्राश्रुकलस्य राज्ञः ।श्रुत्वा विचित्रम् करुणम् विलापम् ।भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥
+ततः स राजा पुनर् एव मूर्चितः ।प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।समीक्ष्य पुत्रस्य विवासनम् प्रति ।क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥
+इतीव राज्ञो व्य्थितस्य सा निशा ।जगाम घोरं स्वसतो मनस्विनः ।विबोध्यमानः प्रतिबोधनं तदा ।निवारयामास स राजसत्तमः ॥२-१३-२६॥
+पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥
+पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥
+आहुः सत्यम् हि परमम् धर्मम् धर्��विदो जनाः ।सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥
+सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥
+तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥
+सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥
+स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥
+सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥
+धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥
+समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥
+एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥
+उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥
+विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥
+यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥
+प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥
+रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥
+त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥
+न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥
+तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥
+ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥
+किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥
+स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२��॥
+स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥
+धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥
+ततः प्रभातां र्जनीमुदिते च दिवाकरे ।पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥
+वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥
+सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥
+संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥
+चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥
+ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥
+तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥
+वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥
+तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥
+वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥
+औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥
+क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥
+चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥
+श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥
+केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥
+सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥
+पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥
+अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥
+पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥
+स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥
+न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥
+वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥
+सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।यथा नन्दति तेजस्वी सागरो भास्करोदये ।प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥
+इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥
+सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥
+ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥
+बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥
+विराजमानो वपुषा मेरोरिव दिवाकरः ।सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥
+वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥
+बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥
+पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥
+क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥
+यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥
+इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥
+ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥
+वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥
+प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥
+तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥
+प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।तद्गच्छ त्वरितं सूत राजप��त्रं यशस्विनम् ॥२-१४-६३॥
+राममानय भद्रं ते नात्र कार्या विचारणा ।स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥
+निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥
+व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥
+निर्जगाम महाबाहो राघवस्य दिदृक्षया ।सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥
+निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।ततः पुरस्तत्सासा विनिर्गतो ।महीपतीन् द्वारगतो विलोकयन् ।ददर्श पौरान् विविधान्महाधना ।नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥
+ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥
+अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥
+उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥
+कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥
+रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥
+याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥
+ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥
+पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥
+वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥
+सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
+सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥
+प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥
+वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥
+तथाजातीयमादाय राजपुत्राभिषेचन्म् ।ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥
+अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥
+यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥
+अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥
+गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥
+राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥
+सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥
+शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥
+आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥
+वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥
+बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥
+दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥
+प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥
+किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥
+इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥
+निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥
+हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥
+अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥
+रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥
+काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥
+मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥
+गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।सारसैश्च मयूरैश्च विनदद्भिर्विराज���तम् ॥२-१५-३५॥
+सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥
+चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥
+मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥
+उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥
+महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥
+स वाजियुक्तेन रथेन सारथि ।र्नराकुलं राजकुलम् विराजयन् ।वरूथिना रामगृहाभिपातिना ।पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥
+ततस्समासाद्य महाधनं महत् ।प्रहृष्टरोमा स बभूव सारथिः ।मृगैर्मयूरैश्च समाकुलोल्बणं ।गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥
+स तत्र कैलासनिभाः स्वलंकृताः ।प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।प्रियान् वरान् राममते स्थितान् बहून् ।व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥
+स तत्र शुश्राव च हर्षयुक्ता ।रामाभिषेकार्थकृता जनानां ।नरेम्द्रसूनोरभिमंगLआर्थाः ।सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥
+महेंद्रसद्मप्रतिमं तु वेश्म ।रामस्य रम्यं मृगमुच्चं ।विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥
+उपस्थितै रञ्जलिकारिभिश्च ।सोपायनैर्जानपदैर्जनैश्च ।कोट्या परार्धैश्च विमुक्तयानैः ।समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥
+ततो महामेघमहीधराभं ।प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।रामोपवाह्याम् रुचिरम् ददर्श ।शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥
+स्वलंकृतान् सास्वरथान् सकुम्जरा ।नमात्यमुखयाम्श्च ददर्श वल्लभान् ।व्यपोह्य सूतः सहितान्समंततः ।समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥
+ततोऽद्रिकूटाचलमेघसन्नि भं ।महाविमानोपमवेश्मसंयुतम् ।अवार्यमाणः प्रविवेश सारथिः ।प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥
+स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥
+प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥
+तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥
+ते समीक्ष्य समा���ान्तम् राम प्रिय चिकीर्षवः ।सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥
+प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥
+ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥
+प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥
+तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
+वराह रुधिर आभेण शुचिना च सुगन्धिना ।अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
+स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥
+तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥
+प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥
+कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥
+एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥
+देवि देवः च देवी च समागम्य मद् अन्तरे ।मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥
+लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥
+सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥
+दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥
+यादृशी परिषत् तत्र तादृशो दूताअगतः ।ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥
+हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥
+पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥
+राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥
+दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥
+पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।वरुणः पश्चिम��माशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥
+अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥
+पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥
+अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
+ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥
+मेघनादमसम्बाधम् मणिहेमविभूशितम् ।मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
+करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
+प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
+निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
+जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
+तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
+अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
+खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
+सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
+कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
+वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
+पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
+अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
+रोहिणीव शशाङ्केन रामसम्योगमाप या ।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
+शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।स राघवः तत्र कथा प्रलापम् ।शुश्राव लोकस्य समागतस्य ।आत्म अधिकारा विविधाः च वाचः ।प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥
+एष श्रियम् गच्चति राघवो अद्य।राज प्रसादात् विपुलाम् गमिष्यन् ।एते वयम् सर्व समृद्ध कामा।येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥
+लाभो जनस्य अस्य यद् एष सर्वम् ।प्रपत्स्यते राष्ट्रम् इदम् चिराय ।स घोषवद्भिः च हयैः सनागैः ।पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥
+स घोषवद्भिश्च हयैः सनागैः ।पुरस्सरैः स्वस्तिकसूतमागधैः ।महीयमानः प्रवरैः च वादकैः ।अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥
+करेणु मातन्ग रथ अश्व सम्कुलम् ।महा जन ओघैः परिपूर्ण चत्वरम् ।पभूतरत्नम् बहुपण्यसम्चयम् ।ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥
+स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः ।पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥
+अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् ।स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥
+राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् ।चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥
+उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च ।अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥
+शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् ।सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥
+ददर्श तं राजपथं दिवि देवपथम् यथा ।दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥
+नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् ।आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥
+यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ ।पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥
+अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय ।यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥
+ततः सुखतरम् सर्वे रामे वत्स्याम राजनि ।अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥
+यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ।ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥
+यथा अभिषेको रामस्य राज्येन अमित तेजसः ।एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥
+आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् ।न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥
+नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे ।यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥
+निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते ।सर्वेषाम् स हि धर्म आत्मा ���र्णानाम् कुरुते दयाम् ॥२-१७-१५॥
+चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः ।चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥
+प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः ।स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥
+प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः ।आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥
+वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः ।तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥
+राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ।स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥
+पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥
+सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् ।तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा ।जनः स सर्वो मुदितः न्Rप आत्मजे ।प्रतीक्षते तस्य पुनः स्म निर्गमम् ।यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥
+स ददर्श आसने रामः निषण्णम् पितरम् शुभे ।कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥
+स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् ।ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥
+राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः ।शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥
+तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् ।रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥
+इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् ।निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥
+ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् ।उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥
+अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् ।बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥
+चिन्तयाम् आस च तदा रामः पित्R हिते रतः ।किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥
+अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति ।तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥
+स दीनैव शोक आर्तः विषण्ण वदन द्युतिः ।कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥
+कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता ।कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥
+अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः ।विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥
+शारीरः मानसो वा अपि कच्चित् एनम् न बाधते ।सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥
+कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने ।शत्रुघ्ने वा महा सत्त्वे मात्RRणाम् वा मम अशुभम् ॥२-१८-१४॥
+अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः ।मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥
+यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः ।कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥
+कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम ।उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥
+एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः ।किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥
+एवमुक्ता तु कैकेयी राघवेण महात्मना ।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥
+न राजा कुपितो राम व्यसनम् नास्य किम्चन ।किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥
+प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते ।तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥
+एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च ।स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥
+अतिसृज्य ददानीति वरम् मम विशाम्पतिः ।स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥
+धर्मूलमिदम् राम विदितम् च सतामपि ।तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥
+यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् ।करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥
+यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥
+एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥
+अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः ।अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥
+भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे ।नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥
+तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् ।करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥
+तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् ।उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥
+पुरा देव असुरे युद्धे पित्रा ते मम राघव ।रक्षितेन वरौ दत्तौ सशल���येन महा रणे ॥२-१८-३२॥
+तत्र मे याचितः राजा भरतस्य अभिषेचनम् ।गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥
+यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि ।आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥
+स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥
+भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् ।त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥
+सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः ।अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥
+भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् ।नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥
+एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः ।शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥
+एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन ।सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥
+इतीव तस्यां परुषम् वदन्त्याम् ।नचैव रामः प्रविवेश शोकम् ।प्रविव्यधे चापि महानुभावो ।राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥
+तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् ।श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् ॥२-१९-१॥
+एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः ।जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् ॥२-१९-२॥
+इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः ।न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः ॥२-१९-३॥
+मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः ।यास्यामि भव सुप्रीता वनम् चीर जटा धरः ॥२-१९-४॥
+हितेन गुरुणा पित्रा क्Rतज्ञेन न्Rपेण च ।नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् ॥२-१९-५॥
+अलीकम् मानसम् तु एकम् ह्Rदयम् दहति इव मे ।स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् ॥२-१९-६॥
+अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च ।ह्Rष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः ॥२-१९-७॥
+किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः ।तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् ॥२-१९-८॥
+तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः ।वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति ॥२-१९-९॥
+गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् अद्य एव न्Rप शासनात् ॥२-१९-१०॥
+दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः ।अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश ॥२-१९-११॥
+सा ह्Rष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी ।प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् ॥२-१९-१२॥
+एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् उपावर्तयितुम् नराः ॥२-१९-१३॥
+तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् ।राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि ॥२-१९-१४॥
+व्रीडा अन्वितः स्वयम् यच् च न्Rपः त्वाम् न अभिभाषते ।न एतत् किम्चिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् ॥२-१९-१५॥
+यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् ।पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा ॥२-१९-१६॥
+धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः ।मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते ॥२-१९-१७॥
+रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः ।कशया इव आहतः वाजी वनम् गन्तुम् क्Rत त्वरः ॥२-१९-१८॥
+तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् ।श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् ॥२-१९-१९॥
+न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे ।विद्धि माम् Rषिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् ॥२-१९-२०॥
+यद् अत्रभवतः किम्चित् शक्यम् कर्तुम् प्रियम् मया ।प्राणान् अपि परित्यज्य सर्वथा क्Rतम् एव तत् ॥२-१९-२१॥
+न हि अतः धर्म चरणम् किम्चित् अस्ति महत्तरम् ।यथा पितरि शुश्रूषा तस्य वा वचन क्रिया ॥२-१९-२२॥
+अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् ।वने वत्स्यामि विजने वर्षाणि इह चतुर् दश ॥२-१९-२३॥
+न नूनम् मयि कैकेयि किम्चित् आशम्ससे गुणम् ।यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती ॥२-१९-२४॥
+यावन् मातरम् आप्Rच्चे सीताम् च अनुनयाम्य् अहम् ।ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् ॥२-१९-२५॥
+भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा ।तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः ॥२-१९-२६॥
+स रामस्य वचः श्रुत्वा भ्Rशम् दुह्ख हतः पिता ।शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् ॥२-१९-२७॥
+वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा ।कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः ॥२-१९-२८॥
+स रामः पितरम् क्Rत्वा कैकेयीम् च प्रदक्षिणम् ।निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्Rज् जनम् ॥२-१९-२९॥
+तम् बाष्प परिपूर्ण अक्षः प्Rष्ठतः अनुजगाम ह ।��क्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः ॥२-१९-३०॥
+आभिषेचनिकम् भाण्डम् क्Rत्वा रामः प्रदक्षिणम् ।शनैः जगाम सापेक्षो द्Rष्टिम् तत्र अविचालयन् ॥२-१९-३१॥
+न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति ।लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा ॥२-१९-३२॥
+न वनम् गन्तु कामस्य त्यजतः च वसुम्धराम् ।सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया ॥२-१९-३३॥
+प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते ।विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् ॥२-१९-३४॥
+धारयन् मनसा दुह्खम् इन्द्रियाणि निग्Rह्य च ।प्रविवेश आत्मवान् वेश्म मातुर प्रिय शम्सिवान् ॥२-१९-३५॥
+सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।नालक्षयत् रामस्य किम्चिदाकारमानने ॥२-१९-३६॥
+उचितम् च महाबाहुर्न जहौ हर्षमात्मनः ।शारदः समुदीर्णाम्शुश्चन्द्रस्तेज इवात्मजम् ॥२-१९-३७॥
+वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् ।मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥२-१९-३८॥
+तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥२-१९-३९॥
+प्रविश्य वेश्म अतिभ्Rशम् मुदा अन्वितम् ।समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् ।न चैव रामः अत्र जगाम विक्रियाम् ।सुह्Rज् जनस्य आत्म विपत्ति शन्कया ॥२-१९-४०॥
+तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥
+क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥
+कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥
+न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥
+अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥
+इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥
+स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥
+रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥
+सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।उपविष्ट��् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥
+द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥
+प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥
+प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥
+वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥
+कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥
+सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥
+प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥
+देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥
+लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥
+ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥
+सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥
+स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥
+तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥
+व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥
+सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥
+दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥
+स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥
+देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥
+गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।विष्टरासनयोग्यो हि का��ोऽयम् मामुपस्थितः ॥२-२०-२८॥
+चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥
+भरताय महा राजो यौवराज्यम् प्रयच्चति ।माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥
+स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥
+सा निकृत्तैव सालस्य यष्टिः परशुना वने ।पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥
+ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥
+उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥
+सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥
+यदि पुत्र न जायेथा मम शोकाय राघव ।न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥
+एकएव हि वन्ध्यायाः शोको भवति मानवः ।अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥
+न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥
+सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥
+अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥
+त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥
+अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥
+यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥
+नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥
+दश सप्त च वर्षाणि तव जातस्य राघव ।असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥
+तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥
+अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥
+उपवासैः च योगैः च बहुभिः च परिश्रमैः ।दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥
+स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥
+मम एव नूनम् मरणम् न विद्यते ।न च अवकाशो अस्ति यम क्षये मम ।यद् अन्तको अद्य एव न माम् जिहीर्षति ।प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥
+स्थिरम् हि नूनम् हृदयम् मम आयसम् ।न भिद्यते यद् भुवि न अवदीर्यते ।अनेन दुःखेन च देहम् अर्पितम् ।ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥
+इदम् तु दुःखम् यद् अनर्थकानि मे।व्रतानि दानानि च सम्यमाः च हि ।तपः च तप्तम् यद् अपत्य कारणात् ।सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥
+यदि हि अकाले मरणम् स्वया इच्चया ।लभेत कश्चित् गुरु दुःख कर्शितः ।गता अहम् अद्य एव परेत सम्सदम् ।विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥
+अथापि किम् जीवित मद्य मे वृथा ।त्वया विना च्न्द्रनिभाननप्रभ ।अनुव्रजिष्यामि वनम् त्वयैव गौः ।सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥
+भृशम् असुखम् अमर्षिता तदा ।बहु विललाप समीक्ष्य राघवम् ।व्यसनम् उपनिशाम्य सा महत् ।सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥
+तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥
+न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥
+विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥
+न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥
+न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥
+देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥
+तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥
+यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥
+मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥
+निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥
+भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥
+प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥
+गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥
+बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥
+त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥
+अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥
+दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥
+हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥
+एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥
+भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥
+न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥
+धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥
+शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥
+यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥
+त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥
+यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥
+ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥
+विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥
+न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥
+ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥
+अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥
+जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥
+एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥
+न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥
+नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥
+तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥
+ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥
+तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥
+मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥
+धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥
+सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥
+सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥
+तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥
+तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥
+अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥
+तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥
+शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥
+त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥
+अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥
+एतद्वच स्तस्य निशम्य माता ।सुधर्म्यमव्यग्रमविक्लबम् च ।मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥
+यथैव ते पुत्र पिता तथाहम् ।गुरुः स्वधर्मेण सुहृत्तया च ।न त्वानुजानामि न मांविहाय ।सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥
+किम् जीवितेनेह विना त्वया मे ।लोकेन वा किम् स्वधयाऽमृतेन ।श्रेयो मुहूर्तम् तव सन्निधानम् ।ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥
+नरैरिवोल्काभिरपोह्यमानो ।महागजोऽध्वानमनुप्रविष्टः ।भूयः प्रजज्वाल विलापमेवम् ।निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥
+स मातरम् चैव विसम्ज्ञकल्पा ।मार्तम् च सौमित्रि मभिप्रतप्तम् ।धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥
+अहम् हि ते लक्ष्मण नित्यमेव ।जानामि भक्तिम् च पराक्रमम् च ।मम त्वभिप्राय मसन्निरीक्ष्य ।मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥
+धर्मार्थकामाः खलु तात लोके ।समीक्षिता धर्मफलोदयेषु ।ते तत्र सर्वे स्युरसम्शयम् मे ।भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥
+यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।धर्मो यतः स्यात् तदुपक्रमेत ।द्वेष्यो भवत्यर्थपरो हि लोके ।कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥
+गुरुश्च राजा च पिता च वृद्धः ।क्रोधात्प्रहर्ष द्यदि वापि कामात् ।यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥
+सवै न शक्नोमि पितुः प्रतिज्ञा ।मिमामकर्तुम् सकलम् यथावत् ।स ह्यवयोस्तत गुरुर्नियोगे ।देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥
+तस्मिन् पुनर्जीवति धर्मराजे ।विशेषतः स्वे पथि वर्तमाने ।देवी मया सार्थमितोऽपगच्छेत् ।कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥
+सा मानुमन्यस्व वनम् व्रजन्तम् ।कुरुष्व नः स्वस्त्ययनानि देवि ।यथा समाप्ते पुनराव्रजेयम् ।यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥
+यशो ह्यहम् केवलराज्यकारणात् ।न पृष्ठतः कर्तुमलम् महोदयम् ।अदीर्घकाले न तु देवि जीविते ।वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥
+प्रसादयन् नर वृषभः स मातरम् ।पराक्रमाज्जिगमिषुरेव दोम्डकान् ।अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥
+अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥
+आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥
+निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥
+उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥
+सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥
+यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥
+तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥
+न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥
+सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥
+तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥
+अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥
+मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥
+मयि चीर अजिन धरे जटा मण्डल धारिणि ।गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥
+बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥
+कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥
+कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥
+जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥
+सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥
+कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥
+यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥
+कश्चित् ���ैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥
+सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥
+ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥
+असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥
+एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥
+तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥
+एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥
+अथवा किम् ममैतेन राजद्रव्यमयेन तु ।उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥
+मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥
+न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।माता यवीयस्य् अतिशन्कनीया ।दैव अभिपन्ना हि वदन्ति अनिष्टम् ।जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥
+इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः ।श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥
+तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ ।निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥
+तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा ।बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥
+अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः ।तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥
+अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् ।अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥
+धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया ।कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥
+यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः ।किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति ।पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥
+सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥
+तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः ।यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव ।तयोः प्रागेव ��त्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥
+लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् ।नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥
+येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते ।स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥
+कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः ।करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥
+यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् ।तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥
+मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः ।तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥
+यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥
+विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते ।वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥
+दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् ।न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥
+द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च ।दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥
+अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः ।यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥
+अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् ।प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥
+लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् ।न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥
+यैः विवासः तव अरण्ये मिथो राजन् समर्थितः ।अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥
+अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव ।अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥
+मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा ।प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥
+ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् ।आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥
+पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते ।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥
+स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया ।न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥
+प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् ।राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥
+मन्गलैः अभिषि���्चस्व तत्र त्वम् व्याप्Rतः भव ।अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥
+न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे ।न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥
+अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् ।न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥
+असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा ।प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥
+खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे ।हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥
+खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः ।पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥
+बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने ।कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥
+बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् ।विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥
+अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति ।राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥
+अद्य चन्दन सारस्य केयूरा मोक्षणस्य च ।वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥
+अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥
+ब्रवीहि को अद्य एव मया वियुज्यताम् ।तव असुह्Rद् प्राण यशः सुह्Rज् जनैः ।यथा तव इयम् वसुधा वशे भवेत् ।तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥
+विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् ।स लक्ष्मणम् राघव वम्श वर्धनः ।उवाच पित्र्ये वचने व्यवस्थितम् ।निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥
+तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने ।कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥२-२४-१॥
+अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः ।मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२-२४-२॥
+यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते ।कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥२-२४-३॥
+क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् ।गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥२-२४-४॥
+नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् ।लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥२-२४-५॥
+अयम् तु मामात्मभवस्तवादर्शनमारुतः ।विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥२-२४-६॥
+चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः ।कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥२-२४-७॥
+त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् ।प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥२-२४-८॥
+कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति ।अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥२-२४-९॥
+तथा निगदितम् मात्रा तत् वाक्यम् पुरुष Rषभः ।श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम्।कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते ।भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥२-२४-१०॥
+भर्तुः किल परित्यागो नृशम्सः केवलम् स्त्रियाः ।स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥२-२४-११॥
+यावज् जीवति काकुत्स्थः पिता मे जगती पतिः ।शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥२-२४-१२॥
+एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना ।तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥२-२४-१३॥
+एवम् उक्तः तु वचनम् रामः धर्मभ्Rताम् वरः ।भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥२-२४-१४॥
+मया चैव भवत्या च कर्तव्यम् वचनम् पितुः ।राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥२-२४-१५॥
+इमानि तु महा अरण्ये विह्Rत्य नव पन्च च ।वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥२-२४-१६॥
+एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा ।उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥२-२४-१७॥
+आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् ।नय माम् अपि काकुत्स्थ वनम् वन्यम् म्Rगीम् यथा ॥२-२४-१८॥
+यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ।ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२-२४-१९॥
+जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च ।भवत्या मम चैव अद्य राजा प्रभवति प्रभुः ।भरतः च अपि धर्मात्मा सर्व भूत प्रियम् वदः ॥२-२४-२०॥
+भवतीम् अनुवर्तेत स हि धर्म रतः सदा ।यथा मयि तु निष्क्रान्ते पुत्र शोकेन पार्थिवः ॥२-२४-२१॥
+यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२-२४-२२॥
+श्रमम् न अवाप्नुयात् किम्चित् अप्रमत्ता तथा कुरु ।दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२-२४-२३॥
+राज्ञो वृद्धस्य सततम् हितम् चर समाहिता ।व्रत उपवास निरता या नारी परम उत्तमा ॥२-२४-२४॥
+भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् ।भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२-२४-२५॥
+अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२-२४-२६॥
+एष धर्मः पुरा द्Rष्टः लोके वेदे श्रुतः स्म्Rतः ।अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२-२४-२७॥
+पूज्याः ते मत् क्Rते देवि ब्राह्मणाः चैव सुव्रताः ।एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२-२४-२८॥
+प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ।प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥२-२४-२९॥
+यदि धर्मभ्Rताम् श्रेष्ठो धारयिष्यति जीवितम् ।एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥२-२४-३०॥
+कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् ।गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥२-२४-३१॥
+विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः ।गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥२-२४-३२॥
+पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥२-२४-३३॥
+पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् ।कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥२-२४-३४॥
+यस्त्वा सम्चोदयति मे वच आच्चिद्य राघव ।गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥२-२४-३५॥
+नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा ।अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥२-२४-३६॥
+यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् ।तथा हि रामम् वन वास निश्चितम् ।ददर्श देवी परमेण चेतसा ।उवाच रामम् शुभ लक्षणम् वचो।बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥२-२४-३७॥
+सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि ।चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥
+न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम ।श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥
+यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च ।सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥
+येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥
+यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता ।तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥
+पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा ।सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥२-२५-६॥
+समित्कुशपवित्राणि वेद्यश्चायतनानि च ।स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥
+पतङ्गाः पन्नगाः सिम्हास्त��वाम् रक्षन्तु नरोत्तम ।स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥
+स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा ।ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥
+ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः ।दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥
+स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः ।स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥
+सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः ।याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥
+स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः ।शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥
+द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च ।नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥
+अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् ।ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥
+कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥
+तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥
+क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् ।प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥२-२५-१८॥
+सरी सृपाः च कीटाः च मा भूवन् गहने तव ।महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥
+महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥
+मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह ।आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥
+सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक ।स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥
+सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः ।गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥
+पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् ।अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥
+उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन ।सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥
+ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् ।इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥
+स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना ।ज्वलनम् स���ुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥
+हावयामास विधिना राममङ्गलकारणात् ।घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥
+उपसम्पादयामास कौसल्या पमाङ्गना ।उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥
+हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् ।मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥
+वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥
+दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् ।यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥
+वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् ।यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥
+अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् ।अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥
+अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥
+यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥
+मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः ।इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥
+गन्दाम्श्चापि समालभ्य राममायतलो चना ।ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥
+चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च ।उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥
+वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया ।आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥
+अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् ।अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥
+पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि ।प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥
+द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् ।भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥
+द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः ।मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥
+पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः ।मया अर्चिता देव गणाः शिव आदयो ।महर्षयो भूत महा असुर उरगाः ।अभिप्रयातस्य वनम् चिराय ते।हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥
+इति इव च अश्रु प्रतिपूर्ण लोचना।समाप्य च स्वस्त्ययनम् यथा विधि ।प्रदक्षिणम् चैव चकार राघवम् ।पुन��� पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥
+तथा तु देव्या स कृत प्रदक्षिणो ।निपीड्य मातुः चरणौ पुनः पुनः ।जगाम सीता निलयम् महा यशाः ।स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥
+अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥
+विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥
+वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥
+देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥
+प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥
+अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥
+ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥
+विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥
+अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥
+न ते शत शलाकेन जल फेन निभेन च ।आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥
+व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥
+वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥
+न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥
+न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥
+चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥
+न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥
+न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥
+अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्��ते ॥२-२६-१८॥
+इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥
+कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥
+राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥
+तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥
+चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥
+सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥
+ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥
+न अपि त्वम् तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥
+तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥
+अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥
+याते च मयि कल्याणि वनम् मुनि निषेवितम् ।व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥
+काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥
+माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥
+वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥
+भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥
+विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥
+आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥
+औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥
+सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥
+अहम् गमिष्यामि महा वनम् प्रिये ।त्वया हि वस्तव्यम् इह एव भामिनि ।यथा व्यलीकम् कुरुषे न कस्यचित् ।तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥
+एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥
+किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥
+आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥
+भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥
+न पिता न आत्मजो न आत्मा न माता न सखी जनः ।इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥
+यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥
+ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥
+प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥
+अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥
+अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥
+सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥
+शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥
+त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥
+सह त्वया गमिश्यामि वसमद्य न सम्शयः ।नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥
+फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥
+इच्चामि सरितः शैलान् पल्वलानि वनानि च ।द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥
+हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥
+अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥
+एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥
+स्वर्गे अपि च विना वासो भविता यदि राघव ।त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥
+अहम् गमिष्यामि वनम् सुदुर्गमम् ।मृग आयुतम् वानर वारणैः युतम् ।वने निवत्स्यामि यथा पितुर् गृहे ।तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥
+अनन्य भावाम् अनुरक्त चेतसम् ।त्वया वियुक्ताम् मरणाय निश्चिताम् ।नयस्व माम् साधु कुरुष्व याचनाम् ।न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥
+तथा ब्रुवाणाम् अपि धर्म वत्सलो ।न च स्म सीताम् नृ वरः निनीषति ।उवाच च एनाम् बहु सम्निवर्तने ।वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥
+सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥
+सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥
+सीते महा कुलीना असि धर्मे च निरता सदा ।इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥
+सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥
+सीते विमुच्यताम् एषा वन वास कृता मतिः ।बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥
+हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥
+गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥
+क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥
+सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥
+लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥
+सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥
+अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥
+उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥
+देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥
+कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥
+उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥
+यथालब्ध���न कर्तव्यः सन्तोष्स्तेन मैथिलि ।यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥
+अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥
+सरी सृपाः च बहवो बहु रूपाः च भामिनि ।चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥
+नदी निलयनाः सर्पा नदी कुटिल गामिनः ।तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥
+पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥
+द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥
+कायक्लेशाश्च बहवो भयानि विविधानि च ।अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥
+क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥
+तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥
+वनम् तु नेतुम् न कृता मतिस् तदा ।बभूव रामेण यदा महात्मना ।न तस्य सीता वचनम् चकार तत् ।ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥
+एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता ।प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥
+ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति ।गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥
+मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा ।पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥
+अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥
+त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया ।त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥
+न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव ।सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥
+पति हीना तु या नारी न सा शक्ष्यति जीवितुम् ।कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥
+अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् ।पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥
+लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे ।वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥
+आदेशो वन वासस्य प्राप्तव्यः स मया किल ।सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥
+कृत आदेशा भविष्यामि गमिष्यामि सह त्वया ।कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥
+वन वासे हि जानामि दुह्खानि बहुधा किल ।प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥
+कन्यया च पितुर् गेहे वन वासः श्रुतः मयाभिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥
+प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो ।गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥
+कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव ।वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥
+शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा ।भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥
+प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया ।श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥
+इह लोके च पितृभिर् या स्त्री यस्य महा मते ।अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥
+एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् ।न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥
+भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् ।नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥
+यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि ।विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥
+एवम् बहु विधम् तम् सा याचते गमनम् प्रति ।न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥
+एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता ।स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥
+चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् ।ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥
+सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥
+सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥
+किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥
+अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥
+किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥
+द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रता��् ।सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥
+न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥
+स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥
+यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥
+स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥
+न च मे भविता तत्र कश्चित् पथि परिश्रमः ।पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥
+कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥
+महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥
+शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥
+पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥
+न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥
+न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥
+यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥
+अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥
+पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥
+इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥
+इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥
+सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥
+तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥
+तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥
+ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥
+न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥
+तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥
+यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥
+धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥
+न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥
+एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥
+अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥
+यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥
+न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥
+स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥
+देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥
+स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥
+मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥
+सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥
+सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥
+आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥
+ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥
+भूषणानि महार्हाणि वरवस्त्राणि यानि च ।रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥
+शयनीयानि यानानि मम चान्यानि यानि च ।देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥
+अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥
+ततः प्रहृष्टा परिपूर्ण मानसा ।यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुम् अन्गना ।प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥
+एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः ।बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् ॥२-३१-१॥
+स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः ।सीतामुवाचातियशाम् राघवम् च महाव्रतम् ॥२-३१-२॥
+यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् ।अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः ॥२-३१-३॥
+मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः ॥२-३१-४॥
+न देवलोकाक्रमणम् नामरत्वमहम् वृणे ।ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना ॥२-३१-५॥
+एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः ।रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् ॥२-३१-६॥
+अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।किमिदानीम् पुनरिदम् क्रियते मे निवारणम् ॥२-३१-७॥
+यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।एतदिच्छामि विज्ञातुम् सम्शयो हि ममानघ ॥२-३१-८॥
+ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः ।स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् ॥२-३१-९॥
+स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः ।प्रियः प्राणसमो वशो भ्राता चापि सखा च मे ॥२-३१-१०॥
+मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् ।को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् ॥२-३१-११॥
+अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव ।स काम पाश पर्यस्तः महा तेजा मही पतिः ॥२-३१-१२॥
+सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता ।दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् ॥२-३१-१३॥
+न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् ।भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः ॥२-३१-१४॥
+तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा ।सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर ॥२-३१-१५॥
+एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता ।धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् ॥२-३१-१६॥
+एवम् कुरुष्व सौमित्रे मत्क्R^ते रघुनन्दन ।अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् ॥२-३१-१७॥
+एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् ॥२-३१-१८॥
+तव एव तेजसा वीर भरतः पूजयिष्यति ।कौसल्याम् च सुमित्राम् च प्रयतः न अत्र सम्शयः ॥२-३१-१९॥
+कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् ।यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् ॥२-३१-२०॥
+तदात्मभरणे चैव मम मातुस्तथैव च ।पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी ॥२-३१-२१॥
+कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते ।कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते ॥२-३१-२२॥
+धनुर् आदाय सशरम् खनित्र पिटका धरः ।अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् ॥२-३१-२३॥
+आहरिष्यामि ते नित्यम् मूलानि च फलानि च ।वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् ॥२-३१-२४॥
+भवाम्स् तु सह वैदेह्या गिरि सानुषु रम्स्यते ।अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते ॥२-३१-२५॥
+रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् ॥२-३१-२६॥
+ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।जनकस्य महा यज्ञे धनुषी रौद्र दर्शने ॥२-३१-२७॥
+अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ ।आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ ॥२-३१-२८॥
+सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि ।स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण ॥२-३१-२९॥
+स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः ।इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् ॥२-३१-३०॥
+तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् ।रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् ॥२-३१-३१॥
+तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् ।काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण ॥२-३१-३२॥
+अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् ।ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप ॥२-३१-३३॥
+वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः ।तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् ॥२-३१-३४॥
+वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् ।त्वम् आनय आशु प्रवरम् द्विजानाम् ।अभिप्रयास्यामि वनम् समस्तान् ।अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥२-३१-३५॥
+ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥
+तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥
+ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥
+तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥
+जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
+अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥
+हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥
+अङ्गदानि विचित्राणि केयूराणि शुभानि च ।पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥
+पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥
+नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥
+इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥
+अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥
+अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥
+तर्पयस्व महाबाहो गोसहसरैश्च मानद ।सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥
+कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
+तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥
+सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥
+पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
+नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
+शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥
+मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥
+अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥
+ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥
+अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥
+लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥
+इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥
+ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥
+ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥
+तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥
+तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥
+अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥
+स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥
+भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥
+स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥
+तमुवाच ततो रामः परिहाससमन्वितम् ।गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥
+स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥
+स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥
+तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥
+उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥
+इदम् हि तेजस्तव यद्धुरत्ययम् ।तदेव जिज्ञासितु मिच्छता मया ।इमम् भवानर्थमभिप्रचोदितो ।वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥
+ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।धनम् हि यद्यन्मम विप्रकारणात् ।भवत्सु सम्यक्र्पतिपादनेन त ।न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥
+तत स्सभार्य स्त्रिजटो महामुनि ।र्गवामनीकम् प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृम्हणी ।स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥
+स चापि रामः प्रतिपूर्णमानसो ।महद्धनम् धर्मबलैरुपार्जितम् ।नियोजयामास सुहृज्जनेऽचिरा ।द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥
+द्विजः सुहृद्भृत्यजनोऽथवा तदा ।दरिद्रभिक्षाचरणश्च योऽभवत् ।न तत्र कश्चिन्न बभूव तर्पितो ।यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥
+दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥
+ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥
+ततः प्रासाद हर्म्याणि विमान शिखराणि च ।अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥
+न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥
+पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥
+यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥
+ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥
+या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥
+अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥
+अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥
+निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥
+आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥
+तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥
+पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥
+मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युत��ः ।पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥
+ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥
+उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥
+समुद्धृत निधानानि परिध्वस्त अजिराणि च ।उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥
+रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥
+अपेतोदकधूमानि हीनसम्मार्जनानि च ।प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥
+दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥
+वनम् नगरम् एव अस्तु येन गच्चति राघवः ।अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥
+बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥
+इति एवम् विविधा वाचो नाना जन समीरिताः ।तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥
+प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥
+इत्येवम् विविधा वाचो नानाजनसमीरिताः।शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥
+स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥
+विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥
+प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।अनार्त रूपः प्रहसन्न् इव अथ।जगाम रामः पितरम् दिदृक्षुः ।पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥
+तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।रामः गमिष्यन् वनम् आर्त रूपम् ।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥
+पितुर्निदेशेन तु धर्मवत्सलो ।वन प्रवेशे कृत बुद्धि निश्चयः ।स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥
+ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥
+स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥
+उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।तटा��मिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥
+आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥
+तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥
+अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥
+स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥
+गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥
+स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥
+सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥
+सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥
+एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥
+अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥
+आगतेषु च दारेषु समवेक्ष्य मही पतिः ।उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥
+स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥
+स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥
+सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥
+तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥
+स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥
+तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥
+अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥
+आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन ���ाम् ॥२-३४-२२॥
+लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥
+अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥
+प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥
+अहम् राघव कैकेय्या वर दानेन मोहितः ।अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥
+एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥
+भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥
+नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥
+रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥
+श्रेयसे वृद्धये तात पुनर् आगमनाय च ।गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥
+न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥
+अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥
+मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥
+दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥
+न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥
+पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥
+न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥
+अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥
+प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥
+इयम् सराष्ट्रा सजना धन धान्य समाकुला ।मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥
+वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।यस्तुष्टेन वर��� दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
+दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
+चतुर्दश समा वत्स्ये वने वनचरैः सह ।मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
+न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥
+अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥
+न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥
+त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥
+न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥
+अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥
+मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥
+पिता हि दैवतम् तात देवतानामपि स्मृतम् ।तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥
+चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥
+येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥
+पुरम् च राष्ट्रम् च मही च केवला ।मया निसृष्टा भरताय दीयताम् ।अहम् निदेशम् भवतः अनुपालयन् ।वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥
+मया निसृष्टाम् भरतः महीम् इमाम् ।सशैल खण्डाम् सपुराम् सकाननाम् ।शिवाम् सुसीमाम् अनुशास्तु केवलम् ।त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥
+न मे तथा पार्थिव धीयते मनो ।महत्सु कामेषु न च आत्मनः प्रिये ।यथा निदेशे तव शिष्ट सम्मते ।व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥
+तत् अद्य न एव अनघ राज्यम् अव्ययम् ।न सर्व कामान् न सुखम् न मैथिलीम् ।न जीवितम् त्वाम् अनृतेन योजयन् ।वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥
+फलानि मूलानि च भक्षयन् वने ।गिरीमः च पश्यन् सरितः सराम्सि च ।वनम् प्रविश्य एव विचित्र पादपम् ।सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥
+एवम् स राजा व्यसनाभिपन्नः ।शोकेन दुःखेन च ताम्यमानः ।आलिङ्ग्�� पुत्रम् सुविनष्टसम्ज्ञो ।मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥
+देव्यस्ततः सम्रुरुदुः समेता ।स्ताम् वर्जयित्वा नरदेवपत्नीम् ।रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥
+ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥
+लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥
+मनः समीक्षमाणश्च सूतो दशरथस्य सः ।कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥
+वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥
+यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥
+न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥
+यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥
+मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥
+यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥
+राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥
+न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥
+नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥
+का प्रीती राज्यलाभेन तव देवि भविष्यति ।तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥
+आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥
+महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥
+आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥
+अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥
+तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।पितुस्ते वरदः कश्चिद्ददौ वर���नुत्तमम् ॥२-३५-१८॥
+सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥
+ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥
+तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥
+नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥
+माता ते पितरम् देवि ततह् केकयमब्रवीत् ।शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥
+प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥
+ततः स वरदह् साधु राजानम् प्रत्यभाषत ।म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥
+स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥
+तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥
+सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥
+नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥
+मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥
+न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥
+ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥
+परिवादो हि ते देवि महान्लोके चरिष्यति ।यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥
+स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥
+रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥
+इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥
+नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥
+ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया ।सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः ॥२-३६-१॥
+सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः ।रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् ॥२-३६-२॥
+रूप आजीवा च शालिन्यो वणिजः च महा धनाः ।शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः ॥२-३६-३॥
+ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः ।तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय ॥२-३६-४॥
+आयुधानि च मुख्यानि नागराः शकटानि च ।अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः ॥२-३६-५॥
+निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु ।नदीः च विविधाः पश्यन् न राज्यम् सम्स्मरिष्यति ॥२-३६-६॥
+धान्य कोशः च यः कश्चित् धन कोशः च मामकः ।तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने ॥२-३६-७॥
+यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः ।ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने ॥२-३६-८॥
+भरतः च महा बाहुर् अयोध्याम् पालयिष्यति ।सर्व कामैः पुनः श्रीमान् रामः सम्साध्यताम् इति ॥२-३६-९॥
+एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् ।मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत ॥२-३६-१०॥
+सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् ।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥२-३६-११॥
+राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव ।निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते ॥२-३६-१२॥
+कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् ।राजा दशरथो वाक्यम् उवाच आयत लोचनाम् ॥२-३६-१३॥
+वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते ।अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः ॥२-३६-१४॥
+तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना ।कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ॥२-३६-१५॥
+तव एव वम्शे सगरः ज्येष्ठम् पुत्रम् उपारुधत् ।असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति ॥२-३६-१६॥
+एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् ।व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत ॥२-३६-१७॥
+तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः ।शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् ॥२-३६-१८॥
+असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥२-३६-१९॥
+तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् ।असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन ॥२-३६-२०॥
+तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् ।ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् ॥२-३६-२���॥
+क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः ।सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते ॥२-३६-२२॥
+स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप ।तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया ॥२-३६-२३॥
+तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् ।यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता ॥२-३६-२४॥
+स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् ।दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२-३६-२५॥
+इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः ।रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते ॥२-३६-२६॥
+न हि कम्चन पश्यामो राघवस्यागुणम् वयम् ।दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् ॥२-३६-२७॥
+अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे ।तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् ॥२-३६-२८॥
+अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च ।निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् ॥२-३६-२९॥
+तदलम् देवि रामस्य श्रिया विहतया त्वया ।लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने ॥२-३६-३०॥
+श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः ।शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥२-३६-३१॥
+एतद्वचो नेच्छ्सि पापवृत्ते ।हितम् न जानासि ममात्मनो वा ।आस्थाय मार्गम् कृपणम् कुचेष्टा ।चेष्टा हि ते साधुपदादपेता ॥२-३६-३२॥
+अनुव्रजिष्याम्य् अहम् अद्य रामम् ।राज्यम् परित्यज्य सुखम् धनम् च ।सह एव राज्ञा भरतेन च त्वम् ।यथा सुखम् भुन्क्ष्व चिराय राज्यम् ॥२-३६-३३॥
+महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥
+त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥
+यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥
+तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥
+खनित्र पिटके च उभे मम आनयत गच्चतः ।चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥
+अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥
+स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥
+लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥
+अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥
+सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥
+अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥
+कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥
+कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥
+तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥
+रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥
+उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥
+पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥
+लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥
+कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी ।धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥
+तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥
+चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥
+अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥
+न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥
+आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥
+अथ यास्यति वैदेही वनम् रामेण सम्गता ।वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥
+अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥
+भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥
+ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।त्वमेका शाधि दुर्वृत्��ा प्रजानामहिते स्थिता ॥२-३७-२८॥
+न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥
+न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥
+यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥
+तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥
+द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥
+अथोत्तमान्याभरणानि देवि ।देहि स्नुषायै व्यपनीय चीरम् ।न चीरमस्याः प्रविधीयतेति ।न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥
+एकस्य रामस्य वने निवास ।स्त्वया वृतह् केकयराजपुत्रि ।विभूषितेयम् प्रतिकर्मनित्या ।वसत्वरण्ये सह राघवेण ॥२-३७-३५॥
+यानैश्च मुख्यैः परिचारकैश्च ।सुसम्वृता गच्छतु राजपुत्री ।वस्रैश्च सर्वैः सहितैर्विधानै ।र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥
+तस्मिम्स्तथा जल्पति विप्रमुख्ये ।गुरौ नृपस्याप्रतिमप्रभावे ।नैव स्म सीता विनिवृत्तभावा ।प्रियस्य भर्तुः प्रतिकारकामा ॥२-३७-३७॥
+तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् ।प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥२-३८-१॥
+तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२-३८-२॥
+स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् ।कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥२-३८-३॥
+सुकुमारी च बाला च सततम् च सुखोचिता ।नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥२-३८-४॥
+इयम् हि कश्यापकरोति किम्चि ।त्तपस्विनी राजवरस्य कन्या ।या चीरमासाद्य जनस्य मध्ये ।स्थिता विसम्ज्ञा श्रमणीव काचित् ॥२-३८-५॥
+चीराण्यसास्या जनकस्य कन्या ।नेयम् प्रतिज्ञा मम दत्तपूर्वा ।यथासुखम् गच्छतु राजपुत्री ।वनम् सम्ग्रा सह सर्वर्त्नैः ॥२-३८-६॥
+अजीवनार्हेण मया नृशम्सा ।कृता प्रतिज्ञा नियमेन तावत् ।त्वया हि बाल्यात् प्रतिपन्नमेतत् ।त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥२-३८-७॥
+रामेण यदि ते पा पे किम्चित्कृतमशोभनम् ।अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥२-३८-८॥
+मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।���पकारम् कमिह ते करोति जनकात्मजा ॥२-३८-९॥
+ननु पर्याप्तम् एतत् ते पापे राम विवासनम् ।किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥२-३८-१०॥
+प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता ।रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥२-३८-११॥
+तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि ।मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥२-३८-१२॥
+इतीव राजा विलपन्महात्मा ।शोकस्य नान्तम् स ददर्श किम्चित् ।भृशातुरत्वाच्च पपात भूमौ ।तेनैव पुत्रव्यसनेन मग्नः ॥२-३८-१३॥
+एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् ।अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥२-३८-१४॥
+इयम् धार्मिक कौसल्या मम माता यशस्विनी ।वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥२-३८-१५॥
+मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् ।अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥२-३८-१६॥
+पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता ।माम् हि सम्चिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥२-३८-१७॥
+इमाम् महा इन्द्र उपम जात गर्भिनीम् ।तथा विधातुम् जनमीम् मम अर्हसि ।यथा वनस्थे मयि शोक कर्शिता ।न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥२-३८-१८॥
+रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् ।समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥
+न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् ।न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥
+स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः ।विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥
+मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः ।प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥
+न तु एव अनागते काले देहाच् च्यवति जीवितम् ।कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥
+मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् ।विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥
+एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः ।स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥
+एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह ।राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥
+सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः ।नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥
+औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत���तमैः ।प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥
+एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते ।पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥
+राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः ।योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥
+तम् रथम् राज पुत्राय सूतः कनक भूषितम् ।आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥
+राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये ।उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥
+वासाम्सि च महा अर्हाणि भूषणानि वराणि च ।वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥
+नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः ।प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥
+सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥
+व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥
+ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥
+असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः ।भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥
+एष स्वभावो नारीणामनुभूय पुरा सुखम् ।अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥
+असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा ।युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥
+न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः ।स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥
+साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे ।स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥
+स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम ।तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥
+विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् ।कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥
+करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् ।अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥
+न माम् असज् जनेन आर्या समानयितुम् अर्हति ।धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥
+न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः ।न अपतिः सुखम् एधते या ���्यात् अपि शत आत्मजा ॥२-३९-२९॥
+मितम् ददाति हि पिता मितम् माता मितम् सुतः ।अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥
+सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा ।आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥
+सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् ।शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥
+ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् ।रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥
+अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम ।क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥
+सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च ।सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥
+एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः ।त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥
+ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः ।धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥
+सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् ।तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥
+वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् ।शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥
+जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः ।मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥
+मुरज पणव मेघ घोषव ।द्दशरथ वेश्म बभूव यत् पुरा ।विलपित परिदेवन आकुलम् ।व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥
+अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः ।उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥
+तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह ।राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥
+अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥
+तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् ।हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥
+सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने ।रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥
+व्यसनी वा समृद्धो वा गतिर् एष तव अनघ ।एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥
+इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् ।दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥
+��क्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् ।सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥
+रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् ।अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥
+ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् ।विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥
+रथम् आरोह भद्रम् ते राज पुत्र महा यशः ।क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥
+चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया ।तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥
+तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा ।आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥
+तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च ।रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥
+वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च ।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥
+तथैवायुधजालानि भ्रातृभ्याम् कवचानि च ।रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥
+सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥
+प्रयाते तु महा अरण्यम् चिर रात्राय राघवे ।बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥
+तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् ।हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥
+ततः सबाल वृद्धा सा पुरी परम पीडिता ।रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥
+पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः ।बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥
+सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः ।मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥
+आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् ।यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥
+कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् ।न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥
+अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् ।भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥
+महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् ।एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥
+एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् ।अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥
+अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥
+शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः ।यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥
+पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ ।परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥
+स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥
+रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा ।उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥
+निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥
+रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् ।प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥
+सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् ।मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥
+दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् ।निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥
+ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः ।नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥
+हा राम इति जनाः केचित् राम माता इति च अपरे ।अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥
+अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् ।राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥
+स बद्ध इव पाशेन किशोरो मातरम् यथा ।धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥
+पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ ।दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥
+न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः ।मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥
+प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥
+तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् ।क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥
+रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् ।असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥
+तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः ।सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥
+न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि ।चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् ���ब्रवीत् ॥२-४०-४७॥
+रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् ।व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥
+न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् ।मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥
+यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् ।इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥
+तेषाम् वचः सर्व गुण उपपन्नम् ।प्रस्विन्न गात्रः प्रविषण्ण रूपः ।निशम्य राजा कृपणः सभार्यो ।व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥
+तस्मिम्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ ।आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा ॥२-४१-१॥
+अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः ।यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति ॥२-४१-२॥
+न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् ।क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति ॥२-४१-३॥
+कौसल्यायाम् महा तेजा यथा मातरि वर्तते ।तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति ॥२-४१-४॥
+कैकेय्या क्लिश्यमानेन राज्ञा सम्चोदितः वनम् ।परित्राता जनस्य अस्य जगतः क्व नु गच्चति ॥२-४१-५॥
+अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् ।धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति ॥२-४१-६॥
+इति सर्वा महिष्यः ता विवत्साइव धेनवः ।रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः ॥२-४१-७॥
+स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः ।पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः ॥२-४१-८॥
+न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत ।व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् ॥२-४१-९॥
+व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥
+त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि ।दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥
+नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः ।विशाखाः च सधूमाः च नभसि प्रचकाशिरे ॥२-४१-१२॥
+कालिकानिलवेगेन महोदधिरिवोत्थितः ।रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् ॥२-४१-१३॥
+दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः ।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥
+अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् ।आहारे वा विहारे वा न कश्चित् अकरोन् मनः ॥२-४१-१५॥
+शोकपर्यायसन्तप्तः सत��ं दीर्घमुच्छ्वसन् ।अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् ॥२-४१-१६॥
+बाष्प पर्याकुल मुखो राज मार्ग गतः जनः ।न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः ॥२-४१-१७॥
+न वाति पवनः शीतः न शशी सौम्य दर्शनः ।न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् ॥२-४१-१८॥
+अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा ।सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् ॥२-४१-१९॥
+ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः ।शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा ॥२-४१-२०॥
+ततः तु अयोध्या रहिता महात्मना ।पुरम्दरेण इव मही सपर्वता ।चचाल घोरम् भय भार पीडिता ।सनाग योध अश्व गणा ननाद च ॥२-४१-२१॥
+यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥
+यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥
+न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥
+तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥
+ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥
+कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥
+ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥
+अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥
+भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥
+अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥
+हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥
+निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥
+विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥
+वाहनानाम् च मुख्��ानाम् वहताम् तम् मम आत्मजम् ।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥
+स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥
+उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥
+उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥
+द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥
+सकामा भव कैकेयि विधवा राज्यम् आवस ।कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥
+अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥
+सकामा भवकैकेयि विधवा राज्य मावस ।न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥
+इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥
+शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥
+महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥
+अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥
+कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥
+इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥
+ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥
+पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥
+तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥
+सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥
+अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥
+रामम् मे���नुगता दृष्टिरद्यापि न निवर्तते ।न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥
+तम् रामम् एव अनुविचिन्तयन्तम् ।समीक्ष्य देवी शयने नर इन्द्रम् ।उप उपविश्य अधिकम् आर्त रूपाउप ।विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥
+ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥
+राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥
+विवास्य रामम् सुभगा लब्ध कामा समाहिता ।त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥
+अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥
+पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥
+गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥
+वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥
+ते रत्न हीनाः तरुणाः फल काले विवासिताः ।कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥
+अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥
+श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥
+कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥
+कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥
+कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥
+प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥
+कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥
+कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥
+निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥
+सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृ��ा ।कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥
+न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥
+न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥
+अयम् हि माम् दीपयते समुत्थितः ।तनूज शोक प्रभवो हुत अशनः ।महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥
+विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥
+तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥
+यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥
+शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥
+वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥
+अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥
+कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥
+व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥
+शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥
+शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥
+ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥
+स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥
+यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥
+या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥
+सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥
+दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥
+पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥
+दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥
+कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥
+धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥
+निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥
+शिरसा चरणावेतौ वन्दमानमनिन्दिते ।पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥
+पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥
+मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् ।क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥
+त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥
+नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥
+अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् ।मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥
+पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥
+अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् ।मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥
+आश्वासयन्ती विविधैश्च वाक्यै ।र्वाक्योपचारे कुशलानाद्या ।रामस्य ताम् मातरमेवमुक्त्वा ।देवी सुमित्राविरराम रामा ॥२-४४-३०॥
+निशम्य तल् लक्ष्मण मातृ वाक्यम् ।रामस्य मातुर् नर देव पत्न्याः ।सद्यः शरीरे विननाश शोकः ।शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥
+अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥
+निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥
+अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।बभूव गु�� सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥
+स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥
+अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥
+या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥
+स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥
+ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥
+स हि राज गुणैः युक्तः युव राजः समीक्षितः ।अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥
+न च तप्येद् यथा च असौ वन वासम् गते मयि ।महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥
+यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥
+बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥
+ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥
+वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥
+कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥
+धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥
+एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥
+पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥
+द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥
+गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥
+ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥
+वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥
+अनवाप्त आतपत्रस्य रश्मि सम्तापितस्��� ते ।एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥
+या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥
+हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥
+न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥
+याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥
+बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥
+भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥
+अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥
+निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥
+एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥
+ततः सुमन्त्रोऽपि रथाद्विमुच्य ।श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।पीतोदकाम्स्तोयपरिप्लुताङ्गा ।नचारयद्वै तमसाविदूरे ॥२-४५-३३॥
+ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥
+इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥
+पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥
+अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥
+अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥
+पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥
+भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥
+भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥
+त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।अन्वेष्टव्या हि ���ैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥
+अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥
+एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥
+सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥
+उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥
+ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥
+सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥
+जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥
+गो कुल आकुल तीरायाः तमसायाः विदूरतः ।अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥
+उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥
+अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥
+यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥
+यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥
+अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥
+पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥
+अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥
+अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥
+सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥
+अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥
+तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥
+स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥
+मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥
+मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥
+रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥
+तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।तदा ससीतौ रघवम्शवर्धनौ ।प्रचोदयामास ततस्तुरम्गमान् ।स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥
+ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ ।उदङ्मुखम् तम् तु रथम् चकार स ।प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥
+प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥
+शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥
+ते विषादार्तवदना रहितास्तेन धिमता ।कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥
+धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥
+कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥
+यो नः सदा पालयति पिता पुत्रानिवौरसान् ।कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥
+इहैव निधनम् यामो महाप्रस्थानमेव वा ।रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥
+सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥
+किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥
+सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥
+निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥
+इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥
+ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥
+रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥
+ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥
+आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥
+एषा रामेण नगरी रहिता नातिशोभते ।आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥
+चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥
+ते तानि वेश्मानि महाधनानि ।दुःखेन दुःखोपहता विशन्तः ।नैव प्रजज्ञुः स्वजनम् जनम् वा ।निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥
+तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
+अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥
+स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥
+न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥
+नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥
+गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥
+किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥
+एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥
+आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥
+शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥
+काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥
+विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥
+अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥
+प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।विदर्शयन्तः विविधान् भूयः चित्रामः च निर्��रान् ॥२-४८-१४॥
+पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥
+स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥
+पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥
+वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥
+युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥
+को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥
+कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥
+यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥
+कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥
+या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥
+उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥
+न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥
+ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥
+मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥
+पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
+पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
+नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥
+तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥
+इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥
+नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥
+उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥
+तथा स्त्रियो राम निमित्तम् आतुरा ।यथा सुते भ्रातरि वा विवासिते ।विलप्य दीना रुरुदुर् विचेतसः ।सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥
+प्रशान्तगीतोत्सव नृत्तवादना ।व्यपास्तहर्षा पिहितापणोदया ।तदा ह्ययोध्या नगरी बभूव सा ।महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥
+रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥
+तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥
+ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
+शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
+हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
+या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥
+कथम् नाम महाभागा सीता जनकनन्दिनी ।सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥
+अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥
+एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥
+ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥
+गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥
+गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥
+स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥
+सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥
+कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥
+न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
+राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥
+स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥
+विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥
+आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥
+निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥
+ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥
+अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥
+तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥
+तथा विलपताम् तेषामतृप्तानाम् च राघवः ।अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥
+ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥
+उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥
+लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥
+मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥
+तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥
+आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥
+देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥
+देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥
+जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥
+क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥
+देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥
+हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥
+क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥
+क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥
+व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥
+देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥
+फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥
+विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥
+समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥
+ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥
+अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥
+द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥
+लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥
+रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥
+सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥
+तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥
+स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥
+ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥
+तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥
+ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥
+स्वागतम् ते महा बाहो तव इयम् अखिला मही ।वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥
+भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥
+गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥
+अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥
+भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥
+अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥
+कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥
+अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥
+एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥
+अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥
+ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥
+तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥
+गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥
+तथा शयानस्य ततः अस्य धीमतः ।यशस्विनो दाशरथेर् महात्मनः ।अदृष्ट दुह्खस्य सुख उचितस्य सा ।तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥
+तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥
+इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥
+उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥
+न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥
+अस्य प्रसादात् आशम्से लो��े अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥
+सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥
+न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥
+लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥
+कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥
+यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥
+यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
+अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥
+विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥
+कौसल्या चैव राजा च तथैव जननी मम ।न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥
+जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥
+अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥
+कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥
+विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥
+अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥
+सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥
+रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
+रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
+आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥
+अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥
+अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥
+परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥
+तथा हि सत्यम् ब्रुवति प्रजा हिते ।नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।मुमोच बाष्पम् व्यसन अभिपीडितः ।ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥
+प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥
+भास्कर उदय कालो अयम् गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥
+बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥
+विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥
+स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥
+अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥
+तम् निशम्य समादेशम् गुहामात्यगणो महान् ।उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥
+ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥
+तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥
+अथोवाच महातेजा रामो गुहमिदम् वचः ।कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥
+ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥
+रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥
+ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।स्पृशन् करेणोत्तमदक्षिणेन ।सुमन्त्र शीघ्रम् पुनरेव याहि ।राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥
+निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥
+आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥
+न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥
+न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उ��यः ।मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥
+सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥
+वयम् खलु हता राम ये तया अपि उपवन्चिताः ।कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥
+इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥
+ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥
+इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥
+शोक उपहत चेताः च वृद्धः च जगती पतिः ।काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥
+यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥
+एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥
+यद्यथा स महा राजो न अलीकम् अधिगच्चति ।न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥
+अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥
+न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥
+चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥
+एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
+आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥
+ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥
+भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥
+भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥
+यथा च तव कैकेयी सुमित्रा च अविशेषतः ।तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥
+तातस्य प्रियकामेन यौवराज्यमपेक्षता ।लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥
+निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥
+यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥
+कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥
+सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥
+दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥
+दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥
+दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥
+आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥
+अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥
+असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥
+मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥
+तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥
+यदि मे याचमानस्य त्यागम् एव करिष्यसि ।सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥
+भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥
+तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥
+प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥
+इमे चापि हया वीर यदि ते वनवासिनः ।परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥
+तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥
+न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥
+वन वासे ��्षयम् प्राप्ते मम एष हि मनो रथः ।यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥
+चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥
+भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥
+एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥
+जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥
+नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥
+परितुष्टा हि सा देवि वन वासम् गते मयि ।राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥
+एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥
+मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥
+इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥
+नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥
+सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
+जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
+लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
+तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥
+ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥
+अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥
+ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥
+स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥
+आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।सीताम् च आरो���य अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥
+स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥
+अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥
+राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥
+आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥
+अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥
+ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥
+मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥
+पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
+चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
+ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥
+त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥
+सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
+गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥
+सुराघटसहस्रेण माम्सभूतोदनेन च ।यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥
+यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥
+पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥
+तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥
+तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥
+अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥
+अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।अग्र��ः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥
+पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥
+न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥
+प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥
+श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥
+गतम् तु गन्गा पर पारम् आशु ।रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥
+स लोकपालप्रतिमप्रभाववाम् ।स्तीर्त्वा महात्मा वरदो महानदीम् ।ततः समृद्धान् शुभसस्यमालिनः ।क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥
+तौ तत्र हत्वा चतुरः महा मृगान् ।वराहम् ऋश्यम् पृषतम् महा रुरुम् ।आदाय मेध्यम् त्वरितम् बुभुक्षितौ।वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥
+स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥
+अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥
+जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥
+रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥
+स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥
+ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥
+सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥
+अनाथः चैव वृद्धः च मया चैव विनाकृतः ।किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥
+इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥
+को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥
+सुखी बत सभार्यः च भरतः केकयी सुतः ।मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ��२-५३-११॥
+स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥
+अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥
+मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥
+अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥
+मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥
+अहम् एको गमिष्यामि सीतया सह दण्डकान् ।अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥
+क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥
+नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥
+मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥
+मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥
+मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥
+शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥
+अल्प भाग्या हि मे माता कौसल्या रहिता मया ।शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥
+एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥
+अधर्म भय भीतः च पर लोकस्य च अनघ ।तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥
+एतत् अन्यच् च करुणम् विलप्य विजने बहु ।अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥
+विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥
+ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥
+न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥
+न च सीता त्वया हीना न च अहम् अपि राघव ।मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३��॥
+न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥
+ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥
+स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।निशम्य च एवम् वन वासम् आदरात् ।समाः समस्ता विदधे परम् तपः ।प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥
+ततस्तु तस्मिन् विजने वने तदा ।महाबलौ राघववम्शवर्धनौ ।न तौ भयम् सम्भ्रममभ्युपेयतु ।र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥
+ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥
+यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
+ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥
+यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥
+प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥
+नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥
+दारूणि परिभिन्नानि वनजैः उपजीविभिः ।भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥
+धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥
+रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥
+ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥
+स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
+हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥
+न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥
+भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥
+पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥
+पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥
+तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥
+नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥
+मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥
+प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥
+चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥
+अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥
+एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥
+भगवन्न् इताअसन्नः पौर जानपदो जनः ।सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
+आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥
+एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥
+एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥
+दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
+गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥
+यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥
+ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥
+प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥
+स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥
+तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥
+सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥
+प्रभातायाम् रजन्याम् तु भरद्वाज���् उपागमत् ।उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥
+शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥
+रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥
+वासमौपयिकम् मन्ये तव राम महाबल ।नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
+मयूरनादाभिरुतो गजराजनिषेवितः ।गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
+पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
+विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
+चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।र्विनादितम् तम् वसुधा धरम् शिवम् ।मृगैः च मत्तैः बहुभिः च कुन्जरैः ।सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥
+उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥
+तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥
+ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥
+गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।काLइन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥
+अथासाद्य तु काLइन्न्धीम् शीघ्रस्रोतसमापगाम् ।तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
+तत्र यूयम् प्लवम् कृत्वा तरताम्शुमतीम् नदीम् ।ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
+विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥
+समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
+पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
+रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
+अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
+कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।इति तौ ��ुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
+सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
+तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
+शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
+चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
+ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
+प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
+ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
+स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
+स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
+तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
+तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
+श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
+नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
+इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
+दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
+पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
+तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
+मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
+अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
+सीतावचनसम्रब्द अनयामास लक्स्मणः ।विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
+रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
+बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।विहृत्य ते बर्हिणपूगनादिते ।शुभे वने वानरवारणायुते ।समम् नदीवप्रमुपेत्य सम्मतम् ।निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥
+अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥
+सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥
+स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥
+ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥
+ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥
+आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥
+पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥
+पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥
+एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥
+मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥
+समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥
+ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥
+तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥
+मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥
+मनयश्च महात्मानो वसन्त्य शिलोच्चये ।अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥
+इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥
+तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥
+ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥
+लक्ष्मण आनय दारूणि दृढानि च वराणि च ।कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥
+तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥
+ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥
+ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥
+मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥
+भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥
+इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥
+स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥
+तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥
+अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥
+रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् ॥२-५६-२९॥
+इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥
+वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥
+जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥
+वेदिस्थलविधानानि चैत्यान्यायतनानि च ।आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥
+वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥
+तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥
+ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।यथा प्रदेशम् सुकृताम् निवाताम् ।वासाय सर्वे विविशुः समेताः ।सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥
+अनेक नाना मृग पक्षि सम्कुले ।विचित्र पुष्प स्तबलैः द्रुम���ः युते ।वन उत्तमे व्याल मृग अनुनादिते ।तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥
+सुरम्यम् आसाद्य तु चित्र कूटम् ।नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।ननन्द हृष्टः मृग पक्षि जुष्टाम् ।जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥
+कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥
+भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥
+अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥
+स वनानि सुगन्धीनि सरितः च सराम्सि च ।पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥
+ततः साय अह्न समये तृतीये अहनि सारथिः ।अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥
+स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥
+कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥
+इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥
+सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥
+तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥
+ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥
+शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥
+दान यज्ञ विवाहेषु समाजेषु महत्सु च ।न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥
+किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥
+वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥
+स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥
+सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥
+हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥
+आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥
+ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥
+सह रामेण निर्यातः विना रामम् इह आगतः ।सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥
+यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥
+सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥
+स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥
+अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥
+स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥
+ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥
+सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥
+इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥
+अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥
+देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥
+सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥
+एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥
+ततः तम् अन्तः पुर नादम् उत्थितम् ।समीक्ष्य वृद्धाः तरुणाः च मानवाः ।स्त्रियः च सर्वा रुरुदुः समन्ततः ।पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥
+प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥
+तदा सूतो महाराज कृताञ्जलिरुपस्थितः।राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
+वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-��॥
+राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥
+क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥
+दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥
+यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥
+व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥
+सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥
+सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥
+किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥
+आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥
+इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥
+अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥
+सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥
+सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥
+माता च मम कौसल्या कुशलम् च अभिवादनम् ।अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥
+धर्मनित्या यथाकालमग्न्यगारपरा भव ।देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥
+अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥
+कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥
+भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥
+वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥
+अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥
+अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।मात���व मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥
+इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥
+लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥
+राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥
+यदि प्रव्राजितः रामः लोभ कारण कारितम् ।वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥
+इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥
+असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥
+अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥
+सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥
+सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥
+जानकी तु महा राज निःश्वसन्ती तपस्विनी ।भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥
+अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥
+उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥
+तथैव रामः अश्रु मुखः कृत अन्जलिः ।स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।तथैव सीता रुदती तपस्विनी ।निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥
+मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥
+उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥
+गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥
+विषये ते महा राज माम व्यसन कर्शिताः ।अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥
+उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥
+न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-���॥
+लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥
+जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥
+अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥
+प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥
+देव राजरथम् दृष्ट्वा विना राममिहागतम् ।दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥
+हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥
+आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥
+न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥
+अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
+निरानन्दा महा राज राम प्रव्राजन आतुला ।कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥
+सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥
+कैकेय्या विनियुक्तेन पाप अभिजन भावया ।मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥
+न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥
+भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥
+सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥
+यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥
+अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥
+वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥
+लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥
+अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।इमाम् अवस्थाम् आपन्नो न इह पश���यामि राघवम् ॥२-५९-२६॥
+हा राम राम अनुज हा हा वैदेहि तपस्विनी ।न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥
+स तेन राजा दुःखेन भृशमर्पितचेतनः ।अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥
+रामशोकमहाभोगः सीताविरहपारगः ।श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
+बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
+ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
+यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥
+अशोभनम् यो अहम् इह अद्य राघवम् ।दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥
+इति विलपति पार्थिवे प्रनष्टे ।करुणतरम् द्विगुणम् च राम हेतोः ।वचनम् अनुनिशम्य तस्य देवी ।भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥
+ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥
+नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥
+निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥
+बाष्प वेगौपहतया स वाचा सज्जमानया ।इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥
+त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥
+लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥
+विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥
+न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥
+नगर उपवनम् गत्वा यथा स्म रमते पुरा ।तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥
+बाला इव रमते सीता बाल चन्द्र निभ आनना ।रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥
+तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥
+परि पृच्चति वैदेही ग्रामामः च नगराणि च ।गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
+रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥
+इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥
+ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥
+अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥
+सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥
+अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥
+नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥
+गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥
+न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥
+विधूय शोकम् परिहृष्ट मानसा ।महर्षि याते पथि सुव्यवस्थिताः ।वने रता वन्य फल अशनाः पितुः ।शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥
+तथा अपि सूतेन सुयुक्त वादिना ।निवार्यमाणा सुत शोक कर्शिता ।न चैव देवी विरराम कूजितात् ।प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥
+वनम् गते धर्म परे रामे रमयताम् वरे ।कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥
+यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
+कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥
+सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥
+भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥
+गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥
+महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥
+पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥
+वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥
+यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥
+यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥
+भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥
+तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥
+ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥
+एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥
+न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥
+हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥
+तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥
+न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥
+नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥
+नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥
+स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥
+द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥
+गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥
+तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥
+हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।हतः तथा आत्मा सह मन्त्रिभिः च ।हता सपुत्रा अस्मि हताः च पौराः ।सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥
+इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।निशम्य राजा अपि मुमोह दुह्खितः ।ततः स शोकम् प्रविवेश पार्थिवः ।स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥
+एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥
+चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥
+स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥
+तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥
+अमनाः तेन शोकेन राम शोकेन च प्रभुः ।द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥
+दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥
+प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥
+भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥
+सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥
+तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥
+स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥
+प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥
+न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥
+जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥
+शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥
+शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥
+दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥
+वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥
+तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥
+एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् ��चः ।मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥
+तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥
+प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥
+राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥
+सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥
+स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥
+स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥
+यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥
+गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥
+कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥
+अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥
+सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥
+लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥
+तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥
+यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥
+देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥
+उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥
+उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥
+क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥
+पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥
+पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥
+आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥
+तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥
+निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
+तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
+अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
+अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
+शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
+तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥
+तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥
+प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥
+ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥
+जटा भार धरस्य एव वल्कल अजिन वाससः ।को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥
+एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥
+नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥
+तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥
+वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥
+तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥
+तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥
+तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
+अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥
+स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥
+किम् तव अपकृतम् राजन् वने निवसता मया ।जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥
+एकेन खलु बाणेन मर्मणि अभिहते मयि ।द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥
+तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥
+न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥
+जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥
+पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥
+इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥
+विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥
+सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥
+दुःखितस्य च दीनस्य मम शोकातुरस्य च ।लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥
+ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥
+सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥
+न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥
+इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
+तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥
+जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।मर्म व्रणम् सम्ततम् उच्चसन्तम् ।ततः सरय्वाम् तम् अहम् शयानम् ।समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥
+वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥
+तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।ए���ः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥
+ततः तम् घटम् आदय पूर्णम् परम वारिणा ।आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥
+तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
+तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥
+शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥
+पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥
+यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥
+यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥
+त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥
+मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥
+मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥
+क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥
+भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥
+ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥
+गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥
+भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥
+ततस्तस्यैव वचनादुपेत्य परितप्यतः ।स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥
+स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥
+अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥
+स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥
+सबाष्पपूर्णवदनो निःश्वसन् शोककर्���ितः ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥
+यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥
+क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥
+सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥
+अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥
+नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
+रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥
+अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥
+तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥
+न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥
+न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥
+कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥
+को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥
+कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥
+इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥
+तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥
+उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥
+ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥
+दातुमर्हति धर्मात्मा लोकपालो महायशाः ।ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥
+अपापो असि यथा पुत्र निहतः पाप कर्मणा ।तेन सत्येन गच्च आशु ये लोकाः शस्त��र योधिनाम् ॥२-६४-४१॥
+यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥
+याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥
+या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
+गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥
+न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥
+एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥
+स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥
+आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥
+स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥
+एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥
+स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥
+अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥
+त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥
+पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥
+अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥
+त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥
+एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥
+तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥
+तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥
+तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥
+चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥
+एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥
+दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥
+यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥
+चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥
+अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥
+तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥
+न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥
+पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥
+सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥
+निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥
+कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥
+चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥
+अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥
+हा राघव महा बाहो हा मम आयास नाशन ।हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥
+हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥
+इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥
+यथा तु दीनम् कथयन् नर अधिपः ।प्रियस्य पुत्रस्य विवासन आतुरः ।गते अर्ध रात्रे भृश दुह्ख पीडितः ।तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥
+अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
+सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥
+राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥
+ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥
+तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥
+व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥
+ततः शुचि समाचाराः पर्युपस्थान कोविदः ।स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥
+हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥
+मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥
+सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥
+ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥
+अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥
+तथाप्युचितवृत्तास्ता विनयेन नयेन च ।न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥
+ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
+प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
+यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
+प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
+न व्यराजत कौसल्या तारेव तिमिरावृता ।कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
+न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
+सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
+करेणवैव अरण्ये स्था��� प्रच्युत यूथपाः ।तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
+कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
+हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
+न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
+आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
+रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
+येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
+सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
+बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।यशस्विनम् सम्परिवार्य पत्नयः ।भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥
+तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
+कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
+सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
+विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
+भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
+न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
+अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
+स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
+विदेह राजस्य सुता तहा सीता तपस्विनी ।दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
+नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष���यति ॥२-६६-१०॥
+वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
+साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
+ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
+तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
+न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
+तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
+बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
+हा महाराज रामेण सततम् प्रियवादिना ।विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
+कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
+स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
+त्वया तेन च वीरेण विना व्यसनमोहिताः ।कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
+यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
+ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
+निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
+बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
+गत प्रभा द्यौर् इव भास्करम् विना ।व्यपेत नक्षत्र गणा इव शर्वरी ।निवृत्तचारः सहसा गतो रविः ।प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
+ऋते तु पुत्राद्दहनम् महीपते ।र्नरोचयन्ते सुहृदः समागताः ।इतीव तस्मिन् शयने न्यवेशय ।न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
+गतप्रभा द्यौरिव भास्करम् विना ।व्यपेतनक्षत्रगणेव शर्वरी ।पुरी बभासे रहिता मह आत्मना ।न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
+नराः च नार्यः च समेत्य सम्घशो ।विगर्हमाणा भरतस्य मातरम् ।तदा नगर्याम् नर देव सम्क्षये ।बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥
+आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥
+व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥
+मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
+एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥
+अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥
+स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥
+उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥
+इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥
+न अराजले जन पदे विद्युन् माली महा स्वनः ।अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥
+न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥
+अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥
+न अराजके जन पदे कारयन्ति सभाम् नराः ।उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥
+न अराजके जन पदे यज्ञ शीला द्विजातयः ।सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥
+न अराजके जनपदे महायज्ञेषु यज्वनः ।ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥
+न अराजके जन पदे प्रभूत नट नर्तकाः ।उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥
+न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥
+न अराजके जनपदे उद्यानानि समागताः ।सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥
+न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥
+न अराकजे जन पदे धनवन्तः सुरक्षिताः ।शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥
+न अराजके जनपदे बद्दघण्टा विषाणीनः ।आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-���०॥
+न अराजके जनपदे शरान् सम्ततमस्यताम् ।श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥
+न अराजके जन पदे वणिजो दूर गामिनः ।गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥
+न अराजके जन पदे चरति एक चरः वशी ।भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥
+न अराजके जन पदे योग क्षेमम् प्रवर्तते ।न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥
+न अराजके जनपदे हृष्टैः परमवाजिभिः ।नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥
+न अराजके जनपदे नराः शास्त्रविशारदाः ।सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥
+न अराजके जनपदे माल्यमोदकदक्षिणाः ।देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥
+न अराजके जनपदे चन्दनागुरुरूषिताः ।राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥
+यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥
+ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥
+न अराजके जन पदे स्वकम् भवति कस्यचित् ।मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥
+येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥
+यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥
+राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥
+यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥
+अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥
+जीवति अपि महा राजे तव एव वचनम् वयम् ।न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥
+स नः समीक्ष्य द्विज वर्य वृत्तम् ।नृपम् विना राज्यम् अरण्य भूतम् ।कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥
+तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥
+यद् असौ मातुल कुले पुरे राज गृहे सुखी ।भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
+तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥
+गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥
+एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥
+पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥
+पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥
+मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥
+कौशेयानि च वस्त्राणि भूषणानि वराणि च ।क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥
+दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥
+ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥
+न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥
+ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
+सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥
+ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥
+निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥
+अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥
+अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥
+विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
+पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥
+ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥
+भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।भर्तुः च वम्शस्य परिग्रह ���र्थम् ।अहेडमानाः त्वरया स्म दूता ।रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥
+याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥
+व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥
+तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥
+वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥
+स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥
+तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥
+एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥
+स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥
+प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥
+ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥
+स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
+औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
+अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥
+पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥
+त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥
+प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥
+एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥
+नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥
+एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।शुष्��ति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥
+न पश्यामि भयस्थानम् भयम् चैवोपधारये ।भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
+जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।अनेक रूपाम् अवितर्किताम् पुरा ।भयम् महत् तद्द् हृदयान् न याति मे ।विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥
+भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
+समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥
+पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥
+इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥
+अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥
+प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥
+कच्चित् सुकुशली राजा पिता दशरथो मम ।कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥
+आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥
+कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥
+आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥
+एवम् उक्ताः तु ते दूता भरतेन महात्मना ।ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥
+कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥
+भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥
+एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥
+राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥
+भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥
+गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।मातरम् कुशलम् ���्रूयाः पितरम् च परम् तप ॥२-७०-१७॥
+पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥
+तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥
+रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥
+तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥
+ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥
+अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥
+स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥
+बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥
+स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥
+अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥
+स माता महमापृच्च्य मातुलम् च युधाजितम् ।रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥
+रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥
+बलेन गुप्तः भरतः महात्मा ।सह आर्यकस्य आत्म समैः अमात्यैः ।आदाय शत्रुघ्नम् अपेत शत्रुर् ।गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥
+स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
+ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
+एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
+सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
+सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
+वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।य���ुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
+शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
+राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
+भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
+स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
+तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
+तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
+सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
+वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
+हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
+एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
+भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
+अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
+अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
+अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
+भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
+समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
+समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
+अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
+निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
+जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
+स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
+सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
+प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
+किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
+निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
+तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
+भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
+द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
+सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
+अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
+आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
+असम्यतकवाटानि श्रीविहीनानि सर्वशः ।बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
+अनाशितकुटुम्बानि प्रभाहीनजनानि च ।अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
+अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
+देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
+दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
+देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
+मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
+इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
+ताम् शून्य शृन्ग अट�� वेश्म रथ्याम् ।रजो अरुण द्वार कपाट यन्त्राम् ।दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
+बहूनि पश्यन् मनसो अप्रियाणि ।यानि अन्न्यदा न अस्य पुरे बभूवुः ।अवाक् शिरा दीन मना नहृष्टः ।पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
+अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
+अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
+स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
+सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
+अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
+आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥
+एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
+अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
+यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
+राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
+शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
+राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
+पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
+तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
+या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
+तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
+हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
+ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
+एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
+तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
+बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
+तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
+मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
+उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
+दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
+स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
+अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
+तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
+अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
+न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
+क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
+यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
+पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
+धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
+पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
+राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
+इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
+सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
+तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
+क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
+तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
+स हि राज सुतः पुत्र चीर वासा महा वनम् ।दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
+तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
+कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
+कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
+अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
+एवमुक्ता तु कैकेयी भरतेन महात्मना ।उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
+न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
+न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
+याचितः ते पिता राज्यम् रामस्य च विवासनम् ।स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
+रामः च सह सौमित्रिः प्रेषितः सह सीतया ।तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
+पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
+त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
+त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।सम्काल्य राजानम् अदीन सत्त्वम् ।आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥
+श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥
+किम् नुण्कार्��म् हतस्य इह मम राज्येन शोचतः ।विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥
+दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥
+कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥
+मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥
+त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥
+विनाशितो महाराजः पिता मे धर्मवत्सलः ।कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥
+कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥
+ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥
+तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥
+तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥
+अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥
+लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥
+अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥
+तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥
+सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥
+अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥
+न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥
+उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥
+अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥
+न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।ग���िम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥
+सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥
+तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥
+तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥
+न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥
+एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥
+निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥
+इति एवम् उक्त्वा भरतः महात्मा ।प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।शोक आतुरः च अपि ननाद भूयः ।सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥
+ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥
+राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥
+किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥
+भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥
+यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥
+त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥
+मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥
+कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥
+न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
+यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥
+यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥
+कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।कृत्वा ���म् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥
+किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥
+अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥
+अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥
+ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥
+अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥
+इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥
+निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥
+ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥
+भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥
+एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥
+शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
+एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥
+मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥
+यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥
+सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
+यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥
+एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥
+अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥
+आनाययित्वा तनयम् कौसल्याया महा द्य��तिम् ।स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥
+न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥
+सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥
+अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥
+इति नागैव अरण्ये तोमर अन्कुश चोदितः ।पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥
+सम्रक्त नेत्रः शिथिल अम्बरः तदा ।विधूत सर्व आभरणः परम्तपः ।बभूव भूमौ पतितः नृप आत्मजः ।शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥
+दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
+सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
+अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥
+वनवासम् न जानामि रामस्यहम् महात्मनः ।विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥
+तथैव क्रोशतः तस्य भरतस्य महात्मनः ।कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥
+आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥
+एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥
+स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥
+ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
+रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
+इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥
+प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥
+क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥
+अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।अग्नि होत्रम् ���ुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥
+कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥
+इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥
+इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥
+पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥
+एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥
+आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥
+कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥
+प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥
+कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥
+परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥
+बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥
+सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥
+हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥
+उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥
+मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥
+पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥
+गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥
+विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥
+अकर्ता ह्यक���तज्ञश्च त्यक्तात्मा निरपत्रपः ।लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥
+पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥
+अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥
+मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥
+राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥
+लाक्षया मधुमाम्सेन लोहेन च विषेण च ।सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥
+सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥
+कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥
+पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥
+यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥
+सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥
+उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥
+यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥
+देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥
+सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥
+अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥
+बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥
+आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥
+मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥
+ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।अतिवर��तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥
+धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥
+विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥
+पानीयदूषके पापम् तथैव विषदायके ।यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥
+ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥
+तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥
+भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥
+विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥
+तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥
+मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥
+दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥
+इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥
+एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥
+लालप्यमानस्य विचेतनस्य ।प्रनष्ट बुद्धेः पतितस्य भूमौ ।मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥
+तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥
+अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥
+वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥
+उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
+सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥
+किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥
+क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥
+योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥
+विधवा पृथिवी राजम्स् त्वया हीना न राजते ।हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥
+एवम् विलपमानम् तम् भरतम् दीन मानसम् ।अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥
+प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥
+तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥
+ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥
+शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥
+हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥
+चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
+गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥
+तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥
+शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥
+प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥
+क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥
+ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥
+कृत उदकम् ते भरतेन सार्धम् ।नृप अन्गना मन्त्रि पुरोहिताः च ।पुरम् प्रविश्य अश्रु परीत नेत्रा ।भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥
+ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
+ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
+बास्तिकम् बहु शुक्लम् च गाः च अप�� शतशः तथा ।दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
+ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
+विललाप महा बाहुर् भरतः शोक मूर्चितः ।शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
+चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
+तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
+ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
+पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
+उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
+अन्त काले निपतितम् ययातिम् ऋषयो यथा ।शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
+विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
+स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
+वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
+क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
+प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
+विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
+किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
+अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
+भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
+धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
+वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।त्रयोदशोऽयम् दिवसः पितुर्वृत्तस���य ते विभो ॥२-७७-२२॥
+सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
+तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
+श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
+वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
+अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
+अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥
+गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥
+बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥
+पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥
+इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥
+लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥
+मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥
+ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥
+यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥
+शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥
+तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥
+एवम् उक्ता च तेन आशु सखी जन समावृता ।गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥
+ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥
+अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥
+सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।कौसल्याम् शरणम् यामः सा हि नो अ���्तु ध्रुवा गतिः ॥२-७८-१५॥
+स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥
+तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥
+तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥
+स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥
+तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥
+ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥
+हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥
+इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥
+भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥
+सा पाद मूले कैकेय्या मन्थरा निपपात ह ।निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥
+शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।समीक्ष्य कुब्जाम् भरतस्य माता ।शनैः समाश्वासयद् आर्त रूपाम् ।क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥
+ततः प्रभात समये दिवसे अथ चतुर्दशे ।समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥
+गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥
+त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥
+आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥
+राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥
+आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥
+ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥
+रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८���
+युज्यताम् महती सेना चतुर् अन्ग महा बला ।आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥
+आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥
+तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥
+न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥
+क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥
+एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥
+एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥
+अनुत्तमम् तत् वचनम् नृप आत्मज ।प्रभाषितम् सम्श्रवणे निशम्य च ।प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥
+ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।सामात्याः सपरिषदो वियात शोकाः ।पन्थानम् नर वर भक्तिमान् जनः च ।व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥
+अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
+कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
+कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥
+स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥
+ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥
+लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥
+अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥
+अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥
+अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥
+बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।ब��भिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥
+अचिरेण एव कालेन परिवाहान् बहु उदकान् ।चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥
+निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥
+ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
+चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥
+आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
+यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥
+नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥
+बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
+प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
+विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥
+जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥
+सचन्द्र तारा गण मण्डितम् यथा ।नभः क्षपायाम् अमलम् विराजते ।नर इन्द्र मार्गः स तथा व्यराजत ।क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥
+ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
+सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
+स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
+ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
+पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
+तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
+यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
+इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
+तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
+शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
+स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
+ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
+सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
+ततः हलहला शब्दो महान् समुदपद्यत ।रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
+ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
+ह्रदैव तिमि नाग सम्वृतः ।स्तिमित जलो मणि शन्ख शर्करः ।दशरथ सुत शोभिता सभा ।सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
+ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥
+आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥
+सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥
+राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥
+तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥
+रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥
+पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥
+उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥
+तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥
+स बाष्प कलया वाचा कल हम्स स्वरः युवा ।विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥
+चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥
+कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥
+ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥
+अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥
+यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥
+रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥
+तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥
+यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥
+सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥
+विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥
+एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥
+तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥
+एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥
+ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥
+ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥
+ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥
+सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥
+भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥
+स राघवः सत्य धृतिः प्रतापवान् ।ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।गुरुम् महा अरण्य गतम् यशस्विनम् ।प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥
+तूण समुत्थाय सुमन्त्र गच्च ।बलस्य योगाय बल प्रधानान् ।आनेतुम् इच्चामि हि तम् वनस्थम् ।प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥
+स सूत पुत्रः भरतेन सम्यग् ।आज्ञापितः सम्परिपूर्ण कामः ।शशास सर्वान् प्रकृति प्रधानान् ।बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥
+ततः समुत्थाय कुले कुले ते ।राजन्य वैश्या वृषलाः च विप्राः ।अयूयुजन्न् उष्ट्र रथान् खरामः च।नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥
+ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥
+अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥
+नव नाग सहस्राणि कल्पितानि यथा विधि ।अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥
+षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥
+शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥
+कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥
+प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥
+मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥
+दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥
+इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥
+ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥
+मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
+मायूरकाः क्राकचिका रोचका वेधकाः तथा ।दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
+सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
+रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥
+समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥
+सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥
+प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥
+ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
+यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥
+उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥
+निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥
+निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥
+दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥
+तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥
+निवेश्य गन्गाम् अनु ताम् महा नदीम् ।चमूम् विधानैः परिबर्ह शोभिनीम् ।उवास रामस्य तदा महात्मनो ।विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥
+ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
+महती इयम् अतः सेना सागर आभा प्रदृश्यते ।न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
+यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
+बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
+सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
+भर्ता चैव सखा चैव रामः दाशरथिर् मम ।तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
+तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
+नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
+यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
+इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।अभिचक्र���म भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
+तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
+एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
+तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
+एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
+लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
+निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
+अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
+आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥
+एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् ।प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥
+ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे ।यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥
+इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् ।अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥
+कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह ।गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥
+तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥
+दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥
+कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः ।इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥
+तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः ।भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥
+मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि ।राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥
+तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् ।बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥
+स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् ।पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥
+धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले ।अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥
+शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥
+एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा ।बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥
+सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः ।शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥
+राम चिन्तामयः शोको भरतस्य महात्मनः ।उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥
+अन्तर् दाहेन दहनः सम्तापयति राघवम् ।वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥
+प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः ।यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥
+ध्यान निर्दर शैलेन विनिह्श्वसित धातुना ।दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
+प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥
+विनिश्श्वसन्वै भृशदुर्मनास्ततः ।प्रमूढसम्ज्ञः परमापदम् गतः ।शमम् न लेभे हृदयज्वरार्दितो ।नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥
+गुहेन सार्धम् भरतः समागतः ।महा अनुभावः सजनः समाहितः ।सुदुर्मनाः तम् भरतम् तदा पुनर् ।गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥
+आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥
+तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥
+इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥
+उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥
+न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥
+अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥
+सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥
+न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥
+एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥
+कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥
+यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥
+महता तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥
+अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥
+विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥
+कौसल्या चैव राजा च तथा एव जननी मम ।न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥
+जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥
+अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥
+सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥
+रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥
+गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥
+आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥
+अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥
+परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥
+प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥
+जटा धरौ तौ द्रुम चीर वाससौ ।महा बलौ कुन्जर यूथप उपमौ ।वर इषु चाप असि धरौ परम् तपौ ।व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥
+गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥
+सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥
+प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥
+भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥
+तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥
+ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥
+ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥
+वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥
+पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥
+त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥
+कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥
+स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥
+भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥
+सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥
+अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥
+तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥
+न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥
+लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥
+ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥
+सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥
+तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥
+एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥
+नियम्य पृष्ठे तु तल अन्���ुलित्रवान् ।शरैः सुपूर्णाउ इषुधी परम् तपः ।महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥
+ततः तु अहम् च उत्तम बाण चापधृक् ।स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥
+तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
+अब्रवीद् जननीः सर्वा इह तेन महात्मना ।शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥
+महा भाग कुलीनेन महा भागेन धीमता ।जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥
+अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥
+प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
+पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
+प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
+गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
+बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥
+अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥
+न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥
+विदेह राजस्य सुता सीता च प्रिय दर्शना ।दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥
+इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥
+मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥
+उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥
+मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥
+हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥
+सार्वभौम कुले जातः सर्व लोक सुख आवहः ।सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम�� अनुत्तमम् ॥२-८८-१८॥
+कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥
+धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥
+सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥
+अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥
+न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥
+शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
+अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥
+अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥
+तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥
+वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥
+अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।प्रसाद्यमानः शिरसा मया स्वयम् ।बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥
+ततोन्रुवत्सयामि चिराय राघवम् ।वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥
+व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।।
+शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।।
+जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।।
+इति संवदतोरेवमन्योन्यं नरसिंहयो: ।आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।।
+कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।।
+गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।।
+सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।।
+ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।।
+उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।।
+ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।।
+अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।।
+तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।।
+कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।।
+आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।।
+पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।।
+नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।।
+ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।।
+सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।।
+नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।।
+सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।।
+आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।।
+स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।।
+भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१
+पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२
+तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३
+ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४
+वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५
+ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६
+अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७
+वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८
+तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९
+किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१०
+सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११
+नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२
+कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३
+एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४
+हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५
+न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६
+अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७
+त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८
+वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९
+त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२०
+जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१
+जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२
+श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३
+ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥
+कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१॥
+अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२॥
+अथोवाच भरद्वाजो भरतं प्रहसन्निव ।जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३॥
+सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४॥
+किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ २.९१.५॥
+भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६॥
+राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥ २.९१.७॥
+वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८॥
+ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।न हिंस्युरिति तेनाहमेक एव समागत: ॥ २.९१.९॥
+आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥ २.९१.१०॥
+अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११॥
+आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२॥
+आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३॥
+प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥ २.९१.१४॥
+अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५॥
+आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥ २.९१.१६॥
+घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७॥
+शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥ २.९१.१८॥
+वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् ।दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९॥
+इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२०॥
+विचित्राणि च माल्यानि पादपप्रच्युतानि च ।सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१॥
+एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥ २.९१.२२॥
+मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३॥
+मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: ।उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥ २.९१.२४॥
+ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५॥
+प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥ २.९१.२६॥
+स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥ २.९१.२७॥
+तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥ २.९१.२८॥
+बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥ २.९१.२९॥
+तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥ २.९१.३०॥
+उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१॥
+चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२॥
+सितमेघनिभं चापि राजवेश्मसु तोरणम् ।दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३॥
+चतुरश्रमसम्बाधं शयनासनयानवत् ।दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४॥
+क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥ २.९१.३५॥
+अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६॥
+तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७॥
+आसनं पूजयामास रामायाभिप्रणम्य च ।वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८॥
+आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥ २.९१.३९॥
+ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४०॥
+तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥ २.९१.४१॥
+तेनैव च मुहूर्त्तेन दिव्या��रणभूषिता: ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥ २.९१.४२॥
+सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥ २.९१.४३॥
+याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥ २.९१.४४॥
+नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥ २.९१.४५॥
+अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६॥
+यानि माल्यानि देवेषु यानि चैत्ररथे वने ।प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७॥
+बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८॥
+तत: सरलतालाश्च तिलका नक्तमालका: ।प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥ २.९१.४९॥
+शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥ २.९१.५०॥
+प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१॥
+उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥ २.९१.५२॥
+संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥ २.९१.५३॥
+हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४॥
+इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥ २.९१.५५॥
+नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥ २.९१.५६॥
+तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥ २.९१.५७॥
+नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८॥
+इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९॥
+सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६०॥
+नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥ २.९१.६१॥
+ततो भुक्तवतां तेषां तदन्नममृ���ोपमम् ।दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥ २.९१.६२॥
+प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥ २.९१.६३॥
+कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४॥
+नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥ २.९१.६५॥
+आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥ २.९१.६६॥
+पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥ २.९१.६७॥
+बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥ २.९१.६८॥
+वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥ २.९१.६९॥
+पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७०॥
+स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥ २.९१.७१॥
+ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥ २.९१.७२॥
+कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥ २.९१.७३॥
+शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥ २.९१.७४॥
+दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥ २.९१.७५॥
+आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६॥
+प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७॥
+आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८॥
+निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥ २.९१.७९॥
+व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८०॥
+इत्येवं रममाणानां देवानामिव नन्दने ।भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१॥
+प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥ २.९१.८२॥
+तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥ २.९१.८३ ॥
+ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१॥
+तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२॥
+कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३॥
+तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४॥
+सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५॥
+अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६॥
+आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७॥
+आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८॥
+इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९॥
+भरतार्द्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१०॥
+उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११॥
+अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२॥
+दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३॥
+प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४॥
+वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५॥
+असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६॥
+तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७॥
+तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८॥
+एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।उवाच प्राञ्जलिर्भूत्वा वाक्यं व���नकोविद: ॥ २.९२.१९॥
+यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२०॥
+एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१॥
+अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२॥
+एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३॥
+यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४॥
+क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५॥
+ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६॥
+इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७॥
+भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८॥
+न दोषेणावगन्तव्या कैकेयी भरत त्वया ।रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९॥
+देवानां दानवानां च ऋषीणां भावितात्मनाम् ।हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३०॥
+अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१॥
+ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२॥
+गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३॥
+विविधान्यपि यानानि महान्ति च लघूनि च ।प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४॥
+अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५॥
+चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६॥
+सा प्रयाता महासेना गजवाजिरथाकुला ।दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७॥
+वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८॥
+सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥
+तया महत्या यायिन्य�� ध्वजिन्या वनवासिन: ।अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१॥
+ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: ।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥
+स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: ।वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३॥
+सागरौघनिभा सेना भरतस्य महात्मन: ।महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४॥
+चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५॥
+स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: ।उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६॥
+यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७॥
+अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८॥
+गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९॥
+मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु ।नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१०॥
+किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११॥
+एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: ।वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२॥
+कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३॥
+निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४॥
+खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५॥
+स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६॥
+एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् ।एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७॥
+अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा ।तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८॥
+मृगा मृगीभि: सहिता बहव: पृषता वने ।मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९॥
+साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने ।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२०॥
+भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: ।विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१॥
+ते समालोक्य धूमाग्रमूचुर्भरतमागता: ।नामनुष्ये भवत्य���ग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२॥
+अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३॥
+तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४॥
+यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: ।अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५॥
+एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: ।भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६॥
+व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: ।बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥
+दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१॥
+अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥ २.९४.२॥
+न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३॥
+पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४॥
+केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥ २.९४.५॥
+पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥ २.९४.६॥
+नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥ २.९४.७॥
+आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥ २.९४.८॥
+काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥ २.९४.९॥
+पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥ २.९४.१०॥
+शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥ २.९४.११॥
+शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२॥
+जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥ २.९४.१३॥
+गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४॥
+यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥ २.९४.१५॥
+बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६॥
+अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७॥
+वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८॥
+इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥ २.९४.१९॥
+शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥ २.९४.२०॥
+निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥ २.९४.२१॥
+केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२॥
+भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥ २.९४.२३॥
+कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४॥
+मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५॥
+वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥ २.९४.२६॥
+इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥ २.९४.२७ ॥
+अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१॥
+अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२॥
+विचित्रपुलिनां रम्यां हंससारससेविताम् ।कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३॥
+नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४॥
+मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५॥
+जटाजिनधरा: काले वल्कलोत्तरवासस: ।ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६॥
+आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७॥
+मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८॥
+क्वचिन्मणिन��काशोदां क्वचित्पुलिनशालिनीम् ।क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९॥
+निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१०॥
+तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११॥
+दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२॥
+विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३॥
+सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४॥
+त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५॥
+लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६॥
+उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७॥
+इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८॥
+इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥
+तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१॥
+इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।एवमास्ते स धर्मात्मा सीतया सह राघव: ॥ २.९६.२॥
+तथा तत्रासतस्तस्य भरतस्योपयायिन: ।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३॥
+एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥ २.९६.४॥
+स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५॥
+तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६॥
+हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥ २.९६.७॥
+गजयूथानि वा ऽरण्ये महिषा वा महावने ।वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥ २.९६.८॥
+राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९॥
+सु��ुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१०॥
+स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥ २.९६.११॥
+उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥ २.९६.१२॥
+तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३॥
+अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४॥
+तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५॥
+एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥ २.९६.१६॥
+सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥ २.९६.१७॥
+एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥ २.९६.१८॥
+भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥ २.९६.१९॥
+गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥ २.९६.२०॥
+अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१॥
+अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२॥
+यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३॥
+भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४॥
+पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५॥
+अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६॥
+कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७॥
+अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८॥
+अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९॥
+शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३०॥
+शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥ २.९६.३१ ॥
+सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१॥
+किमत्र धनुषा कार्यमसिना वा सचर्मणा।महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२॥
+पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३॥
+यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४॥
+धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५॥
+भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६॥
+नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७॥
+यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८॥
+मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:।मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥ २.९७.९॥
+श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१०॥
+स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:।द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥ २.९७.११॥
+अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥ २.९७.१२॥
+प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३॥
+विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४॥
+नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:।अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥ २.९७.१५॥
+कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि।भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥ २.९७.१६॥
+यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७॥
+उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:।राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८॥
+तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:।लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९॥
+तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह।त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥ २.९७.२०॥
+व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह।एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥ २.९७.२१॥
+अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ।वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२॥
+इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥ २.९७.२३॥
+एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४॥
+स एष सुमहाकाय: कम्पते वाहिनीमुखे।नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥ २.९७.२५॥
+न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्।पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६॥
+प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७॥
+अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:।लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥ २.९७.२८॥
+भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति।समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९॥
+अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३०॥
+सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥
+निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१॥
+निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२॥
+क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३॥
+गुहो ज्ञातिसहस्रेण शरचापासिधारिणा।समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ॥ २.९८.४॥
+अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:।वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ॥ २.९८.५॥
+यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६॥
+यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्।भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७॥
+यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८॥
+यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:।अभिषेकजलक्लिन्नो न मे शान्तिर���भविष्ऺयति ॥ २.९८.९॥
+सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्।मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१०॥
+कृतकत्या महाभागा वैदेही जनकात्मजा।भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ॥ २.९८.११॥
+सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:।यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ॥ २.९८.१२॥
+कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ॥ २.९८.१३॥
+एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:।पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ॥ २.९८.१४॥
+स तानि द्रुमजालानि जातानि गिरिसानुषु।पुष्पिताग्राणि मध्येन जगाम वदतां वर: ॥ २.९८.१५॥
+समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ॥ २.९८.१६॥
+तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:।अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ॥ २.९८.१७॥
+स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्।गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥
+निविष्टायां तु सेनायामुत्सुको भरतस्तदा।जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१॥
+ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय।इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२॥
+सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३॥
+गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४॥
+शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५॥
+सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:।कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६॥
+ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्।मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७॥
+गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८॥
+मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९॥
+उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१०॥
+इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११॥
+यमेवाधातुमिच्छन्ति तापसा: सततं वने।तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर��त्मन: ॥ २.९९.१२॥
+अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३॥
+अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४॥
+जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:।जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५॥
+मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:।सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६॥
+इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्।रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७॥
+एवं स विलपंस्तस्मिन् वने दशरथात्मज:।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८॥
+सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९॥
+शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:।रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२०॥
+अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:।शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१॥
+महारजतवासोभ्यामसिभ्यां च विराजिताम्।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२॥
+गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:।अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३॥
+प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४॥
+निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५॥
+तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६॥
+सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७॥
+उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८॥
+तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:।अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९॥
+दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३०॥
+य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१॥
+वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२॥
+अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३॥
+यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:।शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४॥
+चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५॥
+मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६॥
+इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:।पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७॥
+दु:खाभितप्तो भरतो राजपुत्रो महाबल:।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८॥
+बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९॥
+शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४०॥
+तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१॥
+तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥
+जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१॥
+कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२॥
+आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३॥
+क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४॥
+चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५॥
+कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६॥
+कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७॥
+कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८॥
+कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९॥
+स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१०॥
+सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११॥
+कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२॥
+कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३॥
+कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४॥
+इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५॥
+कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६॥
+मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७॥
+कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८॥
+कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९॥
+कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२०॥
+कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१॥
+कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२॥
+कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३॥
+सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४॥
+एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५॥
+कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६॥
+अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७॥
+कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८॥
+कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९॥
+उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३०॥
+कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।��ुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१॥
+बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२॥
+कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३॥
+कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४॥
+कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५॥
+कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६॥
+कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७॥
+कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८॥
+कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९॥
+धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४०॥
+वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१॥
+ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२॥
+प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३॥
+कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४॥
+प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५॥
+अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६॥
+विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७॥
+कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८॥
+तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९॥
+कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।कच्चिन्न श्रद्दधास्यासां कच्चिद�� गुह्यं न भाषसे ॥ २.१००.५०॥
+कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१॥
+कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२॥
+कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३॥
+कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४॥
+आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५॥
+देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६॥
+कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७॥
+गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८॥
+व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९॥
+यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६०॥
+कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१॥
+कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२॥
+कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३॥
+कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४॥
+कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५॥
+नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६॥
+एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७॥
+मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८॥
+दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९॥
+इ���्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७०॥
+यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१॥
+मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२॥
+कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३॥
+कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४॥
+यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५॥
+कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६॥
+राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥
+रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥ २.१०१.१॥
+शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२॥
+स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥ २.१०१.३॥
+राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४॥
+केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्यो गतो राजा यायजूक: सतां मत: ॥ २.१०१.५॥
+निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६॥
+उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥ २.१०१.७॥
+प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥ २.१०१.८॥
+त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥ २.१०१.९ ॥
+तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतन: ॥ २.१०२.१॥
+तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ॥ २.१०२.२॥
+प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३॥
+तथा निपतितं रामं जगत्यां जगतीपतिम् ।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४॥
+भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ॥ २.१०२.५॥
+स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ॥ २.१०२.६॥
+स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७॥
+किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८॥
+किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।यो मृतो मम शोकेन मया चापि न संस्कृत: ॥ २.१०२.९॥
+अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ॥ २.१०२.१०॥
+निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११॥
+समाप्तवनवासं मामयोध्यायां परन्तप ।को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२॥
+पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ॥ २.१०२.१३॥
+एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४॥
+सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५॥
+ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६॥
+ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ॥ २.१०२.१७॥
+सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८॥
+सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ॥ २.१०२.१९॥
+आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ॥ २.१०२.२०॥
+सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१॥
+ततो नित्यानुगस्तेषां विदितात्मा महामति: ।मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२॥
+सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३॥
+ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४॥
+शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५॥
+प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६॥
+एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७॥
+ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ॥ २.१०२.२८॥
+ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९॥
+इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०२.३०॥
+ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१॥
+तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२॥
+तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ॥ २.१०२.३३॥
+महाबलानां रुदतां कुर्वतामुदकं पितु: ।विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ॥ २.१०२.३४॥
+अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ॥ २.१०२.३५॥
+अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ॥ २.१०२.३६॥
+हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ॥ २.१०२.३७॥
+अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८॥
+भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ॥ २.१०२.३९॥
+सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४०॥
+तेन वित्रासिता नागा: करेणुपरिवारिता: ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ॥ २.१०२.४१॥
+वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ॥ २.१०२.४२॥
+रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।तथा पुंस्कोकिला: क्रौञ���चा विसंज्ञा भेजिरे दिश: ॥ २.१०२.४३॥
+तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४॥
+ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।आसीनं स्थण्डिले रामं ददर्श सहसा जन: ॥ २.१०२.४५॥
+विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६॥
+तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ॥ २.१०२.४७॥
+स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ॥ २.१०२.४८॥
+स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥
+वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१॥
+राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२॥
+कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३॥
+इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४॥
+इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५॥
+जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६॥
+अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७॥
+दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८॥
+तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९॥
+इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१०॥
+तस्य देवसमानस्य पार्थिवस्य महात्मन: ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११॥
+चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२॥
+अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३॥
+रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४॥
+श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५॥
+एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६॥
+सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७॥
+तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८॥
+ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९॥
+सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: ।अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२०॥
+यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१॥
+सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२॥
+तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३॥
+विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४॥
+पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५॥
+मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६॥
+ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७॥
+पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८॥
+ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९॥
+उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३०॥
+किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१॥
+स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।वृता: सुहृद्भिश्च विरेजुरध्वरे ���था सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥
+तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१॥
+किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२॥
+किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३॥
+इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४॥
+आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५॥
+स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६॥
+सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७॥
+तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८॥
+इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९॥
+तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१०॥
+भवत्वविधवा भूमि: समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११॥
+एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२॥
+तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३॥
+एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४॥
+तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५॥
+कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६॥
+न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७॥
+कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८॥
+वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९॥
+वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२०॥
+यावत्पितर��� धर्मज्ञे गौरवं लोकसत्कृतम् ।तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१॥
+एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२॥
+त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३॥
+एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४॥
+स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५॥
+चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६॥
+यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥
+तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१॥
+रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२॥
+तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३॥
+सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४॥
+महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५॥
+गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६॥
+सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७॥
+यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८॥
+स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९॥
+एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१०॥
+श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११॥
+तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२॥
+तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३॥
+तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४॥
+नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५॥
+सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६॥
+यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७॥
+यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८॥
+अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९॥
+अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२०॥
+आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१॥
+सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२॥
+गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३॥
+नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४॥
+हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५॥
+यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६॥
+एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७॥
+नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८॥
+यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९॥
+एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३०॥
+वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१॥
+धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२॥
+भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३॥
+कर्मभिस्तु शुभैरिष्टै: क्���तुभिश्चाप्तदक्षिणै: ।स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४॥
+इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५॥
+आयुरुत्तममासाद्य भोगानपि च राघव: ।स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६॥
+स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७॥
+तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८॥
+एते बहुविधा: शोका विलापरुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९॥
+स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४०॥
+यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१॥
+न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२॥
+तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३॥
+धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४॥
+आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५॥
+इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥
+एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ॥ २.१०६.१॥
+को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२॥
+सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३॥
+यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ॥ २.१०६.४॥
+परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५॥
+अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६॥
+न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।अविषह्यतमं दु:खमासादयितुमर्हति ॥ २.१०६.७॥
+प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८॥
+धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९॥
+कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१०॥
+गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११॥
+को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२॥
+अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ॥ २.१०६.१३॥
+साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४॥
+पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५॥
+तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६॥
+कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७॥
+क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८॥
+एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् ।येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९॥
+कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२०॥
+अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१॥
+चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२॥
+श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३॥
+हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४॥
+इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ॥ २.१०६.२५॥
+इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ॥ २.१०६.२६॥
+अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।विजित्य तरसा लोकान् मरुद्भिरिव वासव: ॥ २.१०६.२७॥
+ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८॥
+अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९॥
+आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३०॥
+शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ॥ २.१०६.३१॥
+अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२॥
+तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ॥ २.१०६.३३॥
+तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ॥ २.१०६.३४॥
+तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥
+पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१॥
+उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२॥
+पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३॥
+दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४॥
+तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५॥
+तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६॥
+तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७॥
+सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८॥
+भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९॥
+ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१०॥
+श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११॥
+पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा स���त: ॥ २.१०७.१२॥
+एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३॥
+एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४॥
+अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५॥
+प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६॥
+त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७॥
+छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८॥
+शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥
+आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: ।उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१॥
+साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२॥
+क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् ।यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३॥
+तस्मान्माता पिता चेति राम सज्जेतयो नर: ।उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४॥
+यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् ।उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५॥
+एवमेव मनुष्याणां पिता माता गृहं वसु ।आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६॥
+पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७॥
+समृद्धायामयोध्यायामात्मानमभिषेचय ।एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८॥
+राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९॥
+न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१०॥
+बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च ।संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११॥
+गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्य��� विहन्यसे ॥ २.१०८.१२॥
+अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३॥
+अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: ।अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४॥
+यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५॥
+दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: ।यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६॥
+स नास्ति परमित्येव कुरु बुद्धिं महामते ।प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७॥
+स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥
+जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१॥
+भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२॥
+निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३॥
+कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४॥
+अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५॥
+अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६॥
+कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७॥
+कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८॥
+कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९॥
+सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१०॥
+ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११॥
+उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२॥
+सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३॥
+दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्म���त् सत्यपरो भवेत् ॥ २.१०९.१४॥
+एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५॥
+सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६॥
+नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७॥
+असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८॥
+प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९॥
+क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२०॥
+कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१॥
+भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२॥
+श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३॥
+कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४॥
+स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५॥
+वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६॥
+सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७॥
+कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८॥
+शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९॥
+अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३०॥
+सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१॥
+तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२॥
+निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्ध��म् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३॥
+यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४॥
+त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५॥
+धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६॥
+इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७॥
+न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥
+स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥
+क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१॥
+निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२॥
+सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३॥
+असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४॥
+तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५॥
+विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६॥
+यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७॥
+इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८॥
+विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९॥
+नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१०॥
+अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११॥
+त्रिशङ्कोरभवत्सूनुर्��ुन्धुमारो महायशा: ।धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२॥
+युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३॥
+सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४॥
+भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५॥
+तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६॥
+द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७॥
+भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८॥
+स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९॥
+कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२०॥
+सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१॥
+स राजा सगरो नाम य: समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२॥
+असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३॥
+अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४॥
+भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५॥
+रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६॥
+कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७॥
+शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८॥
+शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९॥
+अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३०॥
+अजश्च सुव्रतश्चैव नाभागस्��� सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१॥
+तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२॥
+इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३॥
+स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥
+वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१॥
+पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२॥
+पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३॥
+सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४॥
+इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५॥
+वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६॥
+भरतस्य वच: कुर्वन् याचमानस्य राघव ।आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७॥
+एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८॥
+यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९॥
+यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१०॥
+स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११॥
+एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२॥
+इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३॥
+अनाहारो निरालोको धनहीनो यथा द्विज: ।शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४॥
+स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५॥
+तमुवाच महातेजा रामो राजर्षिसत्तम: ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६॥
+ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७॥
+उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८॥
+आसीनस्त्वेव भरत: पौरजानपदं जनम् ।उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९॥
+ते तमूचुर्महात्मानं पौरजानपदा जना: ।काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२०॥
+एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१॥
+तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२॥
+एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३॥
+अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४॥
+न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५॥
+यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६॥
+धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७॥
+विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८॥
+अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९॥
+जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३०॥
+अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१॥
+वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥
+तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१॥
+अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२॥
+स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३॥
+ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४॥
+कुले जात महाप्राज्ञ महावृत्त महायश: ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ��.११२.५॥
+सदानृणमिमं रामं वयमिच्छामहे पितु: ।अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६॥
+एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७॥
+ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८॥
+स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९॥
+राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१०॥
+रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११॥
+ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२॥
+इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३॥
+इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४॥
+तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५॥
+आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६॥
+अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७॥
+लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८॥
+कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९॥
+एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२०॥
+अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१॥
+सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२॥
+स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३॥
+फलमूलाशनो वीर भवेयं रघुनन्दन ।तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४॥
+तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५॥
+तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६॥
+मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७॥
+इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८॥
+स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९॥
+अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३०॥
+तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥
+तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१॥
+वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२॥
+मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३॥
+पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४॥
+अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५॥
+स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६॥
+ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७॥
+एवमुक्त: स तु ततो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८॥
+स याच्यमानो गुरुणा मया च दृढविक्रम: ।राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९॥
+पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१०॥
+एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११॥
+एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२॥
+एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३॥
+निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४॥
+एत���्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५॥
+नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६॥
+अमृत: स महाबाहु: पिता दशरथस्तव ।यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७॥
+तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८॥
+तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९॥
+यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२०॥
+ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१॥
+तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२॥
+शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३॥
+अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४॥
+सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥
+स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥ २.११४.१॥
+बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२॥
+राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३॥
+अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४॥
+विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५॥
+विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६॥
+सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७॥
+त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८॥
+गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९॥
+प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।वियुक��तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१०॥
+सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११॥
+पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२॥
+सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३॥
+क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४॥
+वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५॥
+विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६॥
+सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७॥
+शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८॥
+पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९॥
+प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२०॥
+भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१॥
+किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥ २.११४.२२॥
+वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥ २.११४.२३॥
+यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४॥
+चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥ २.११४.२५॥
+बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६॥
+सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७॥
+कदा नु खलु मे भ्राता महोत्सव इवागत: ।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥ २.११४.२८॥
+तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥ २.११४.२९॥
+एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३०॥
+तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥ २.११४.३१ ॥
+ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: ।भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१॥
+नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: ।तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२॥
+गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३॥
+एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४॥
+सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५॥
+नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६॥
+मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७॥
+प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: ।आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८॥
+आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९॥
+अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: ।प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१०॥
+बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११॥
+रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: ।नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२॥
+ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: ।अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३॥
+एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४॥
+भरत: शिरसा कृत्वा संन्यासं पादुके तत: ।अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५॥
+छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६॥
+भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् ।तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७॥
+क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् ।चरणौ तौ तु रामस्य ���्रक्ष्यामि सहपादुकौ ॥ २.११५.१८॥
+ततो निक्षिप्तभारो ऽहं राघवेण समागत: ।निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९॥
+राघवाय च संन्यासं दत्त्वे मे वरपादुके ।राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२०॥
+अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१॥
+एवं तु विलपन् दीनो भरत: स महायशा: ।नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२॥
+स वल्कलजटाधारी मुनिवेषधर: प्रभु: ।नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३॥
+रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: ।भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४॥
+पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५॥
+ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके ।तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६॥
+तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥
+प्रतिप्रयाते भरते वसन् रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१॥
+ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२॥
+नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३॥
+तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४॥
+न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५॥
+प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६॥
+कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७॥
+अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८॥
+कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९॥
+त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१०॥
+रावणावरज: कश्चित् खरो नामेह राक्षस: ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.��१६.११॥
+धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२॥
+त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३॥
+दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४॥
+अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५॥
+तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६॥
+अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७॥
+तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८॥
+तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९॥
+बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२०॥
+खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१॥
+सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२॥
+इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३॥
+अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४॥
+राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५॥
+आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥
+राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१॥
+इह मे भरतो दृष्टो मातरश्च सनागरा: ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥ २.११७.२॥
+स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥ २.११७.३॥
+तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥ २.११७.४॥
+सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।तं चाप��� भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥ २.११७.५॥
+स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६॥
+पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥ २.११७.७॥
+अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८॥
+दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९॥
+उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।दशवर्षसहस्राणि यया तप्तं महत्तप: ॥ २.११७.१०॥
+अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥ २.११७.११॥
+तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥ २.११७.१२॥
+एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३॥
+राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४॥
+सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५॥
+शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६॥
+तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७॥
+अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८॥
+तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९॥
+त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२०॥
+नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥ २.११७.२१॥
+दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥ २.११७.२२॥
+नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥ २.११७.२३॥
+न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥ २.११७.२४॥
+प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥ २.११७.२५॥
+त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६॥
+तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥ २.११७.२७ ॥
+सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१॥
+नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२॥
+यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३॥
+किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४॥
+यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५॥
+सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६॥
+आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७॥
+पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८॥
+नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९॥
+सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१०॥
+वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११॥
+एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२॥
+ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३॥
+नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४॥
+उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५॥
+तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६॥
+सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७॥
+इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८॥
+मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९॥
+अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२०॥
+सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१॥
+प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२॥
+तथा सीतासुपासीनामनसूया दृढव्रता ।वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३॥
+स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४॥
+तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५॥
+एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६॥
+मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।क्षत्ऺत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७॥
+तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८॥
+स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९॥
+अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३०॥
+अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१॥
+तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२॥
+दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३॥
+पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४॥
+सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५॥
+तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६॥
+अयोनिजा�� हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७॥
+तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८॥
+महायज्ञे तदा तस्य वरुणेन महात्मना ।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९॥
+असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४०॥
+तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१॥
+इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२॥
+तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३॥
+सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४॥
+विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५॥
+सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६॥
+इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७॥
+ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८॥
+तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९॥
+ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५०॥
+दीयमानां न तु तदा प्रतिजग्राह राघव: ।अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१॥
+तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२॥
+मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३॥
+एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥
+अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१॥
+व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२॥
+रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३॥
+एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४॥
+ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५॥
+अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६॥
+रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७॥
+सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८॥
+गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९॥
+अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१०॥
+सा तथा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११॥
+तथा तु भूषितां सीतां ददर्श वदतां वर: ।राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२॥
+न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३॥
+प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४॥
+ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५॥
+तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६॥
+तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७॥
+रक्षांसि पुरुषादानि नानारूपाणि राघव ।वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८॥
+उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९॥
+एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२०॥
+इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥
+प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवा���् ।रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥
+कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ।यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥
+शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा ।मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥
+पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥
+समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥
+बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् ।पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥
+फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः ।सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥
+पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः ।तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥
+ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥
+अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥
+अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
+लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥
+रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् ।ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥
+वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव ।आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥
+अत्र एनम् हि महाभागाः सर्व भूत हिते रताः ।अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥
+ततो रामस्य सत्कृत्य विधिना पावक उपमाः ।आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥
+मंगलानि प्रयुञ्जाना मुदा परमया युता ।मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥
+निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥
+पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
+राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।ते वयम् भवता रक्ष्या भवद् विषय वासिनः ।नगरस्थो ��नस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥
+न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः ।रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥
+एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् ।वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥
+तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः ।न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥
+कृत आतिथ्योऽथ रामस्तु सूर्यस्य उदयनम् प्रति ।आमंत्र्य स मुनीम् तत् सर्वान् वनम् एव अन्वगाहत ॥३-२-१॥
+नाना मृग गण आकीर्णम् ऋक्ष शार्दूल सेवितम् ।ध्वस्त वृक्ष लता गुल्मम् दुर्दर्श सलिलाशयम् ॥३-२-२॥
+निष्कूजमाना शकुनि झिल्लिका गण नादितम् ।लक्ष्मण अनुचरोओ रामो वन मध्यम् ददर्श ह ॥३-२-३॥
+सीताया सह काकुत्स्थः तस्मिन् घोर मृग आयुते ।ददर्श गिरि शृङ्ग आभम् पुरुषादम् महास्वनम् ॥३-२-४॥
+गम्भीर अक्षम् महावक्त्रम् विकटम् विकटोदरम् ।बीभत्सम् विषमम् दीर्घम् विकृतम् घोर दर्शनम् ॥३-२-५॥
+वसानम् चर्म वैयाघ्रम् वस आर्द्रम् रुधिरोक्षितम् ।त्रासनम् सर्व भूतानाम् व्यादितास्यम् इव अन्तकम् ॥३-२-६॥
+त्रीन् सिंहान् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।सविषाणम् वसादिग्धम् गजस्य च शिरो महत् ॥३-२-७॥
+अवसज्य आअयसे शूले विनदन्तम् महास्वनम् ।स रामम् लक्ष्मणम् चैव सीताम् दृष्ट्वा च मैथिलीम् ॥३-२-८॥
+अभ्य धावत् सुसंक्रुद्धो प्रजाः काल इव अन्तकः ।स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम् ॥३-२-९॥
+अङ्केन आदाय वैदेहीम् अपक्रम्य तदा अब्रवीत् ।युवाम् जटा चीर धरौ सभार्यौ क्षीण जीवितौ ॥३-२-१०॥
+प्रविष्टौ दण्डकारण्यम् शर चाप असि पाणिनौ ।कथम् तापसयोः युवाम् च वासः प्रमदया सह ॥३-२-११॥
+अधर्म चारिणौ पापौ कौ युवाम् मुनि दूषकौ ।अहम् वनम् इदम् दुर्गम् विराघो नाम राक्षसः ॥३-२-१२॥
+चरामि सायुधो नित्यम् ऋषि मांसानि भक्षयन् ।इयम् नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥
+युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे ।तस्य एवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः ॥३-२-१४॥
+श्रुत्वा सगर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा ।सीता प्रावेपिता उद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥
+ताम् दृष्ट्वा राघवः सीताम् विराध अङ्कगताम् शुभाम् ।अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता ॥३-२-१६॥
+पश्य सौम्य नरेन्द्रस्य जनक���्य अत्म संभवाम् ।मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् ॥३-२-१७॥
+अत्यन्त सुख संवृद्धाम् राजपुत्रीम् यशस्विनीम् ।यत् अभिप्रेतम् अस्मासु प्रियम् वर वृतम् च यत् ॥३-२-१८॥
+कैकेय्यास्तु सुसंवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण ।या न तुष्यति राज्येन पुत्रार्थे दीर्घ दर्शिनी ॥३-२-१९॥
+ययाऽहम् सर्वभूतानाम् प्रियः प्रस्थापितो वनम् ।अद्य इदानीम् सकामा सा या माता मम मध्यमा ॥३-२-२०॥
+पर स्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे ।पितुर् विनाशात् सौमित्रे स्व राज्य हरणात् तथा ॥३-२-२१॥
+इति ब्रुवति काकुत्स्थे बाष्प शोक परिप्लुतः ।अब्रवीत् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥
+अनाथ इव भूतानाम् नाथः त्वम् वासवोपमः ।मया प्रेष्येण काकुत्स्थः किम् अर्थम् परितप्यसे ॥३-२-२३॥
+शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः ।विराधस्य गत असोः हि मही पास्यति शोणितम् ॥३-२-२४॥
+राज्य कामे मम क्रोधो भरते यो बभूव ह ।तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले ॥३-२-२५॥
+मम भुज बल वेग वेगितःपततु शरोऽस्य महान् महोरसि ।व्यपनयतु तनोः च जीवितम्पततु ततः च महीम् विघूर्णितः ॥३-२-२६॥
+अथ उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् ।पृच्छतो मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः ॥३-३-१॥
+तम् उवाच ततो रामो राक्षसम् ज्वलित आननम् ।पृच्छन्तम् सुमहातेजा इक्ष्वाकु कुलम् आत्मनः ॥३-३-२॥
+क्षत्रियौ वृत्त संपन्नौ विद्धि नौ वनगोचरौ ।त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान् ॥३-३-३॥
+तम् उवाच विराधः तु रामम् सत्य पराक्रमम् ।हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥३-३-४॥
+पुत्रः किल जवस्य अहम् माता मम शतह्रदा ।विराध इति माम् आहुः पृथिव्याम् सर्व राक्षसाः ॥३-३-५॥
+तपसा च अभि संप्राप्ता ब्रह्मणो हि प्रसादजा ।शस्त्रेण अवध्यता लोके अच्छेद्य अभेद्यत्वम् एव च ॥३-३-६॥
+उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथा आगतम् ।त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे ॥३-३-७॥
+तम् रामः प्रति उवाच इदम् कोप संरक्त लोचनः ।राक्षसम् विकृत आकारम् विराधम् पाप चेतसम् ॥३-३-८॥
+क्षुद्र धिक्त्वाम् तु हीनार्थम् मृत्युम् अन्वेषसे ध्रुवम् ।रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥३-३-९॥
+ततः सज्यम् धनुः कृत्वा रामः सुनिशितान् शरान् ।सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह ॥३-३-१०॥
+धनुषा ज्या गुणवता सप्त बाणान् मुमोच ह ।रुक्म पुंखान् महावेगान् सुपर्ण अनिल तुल्य गान् ॥३-३-११॥
+ते शरीरम् विराधस्य भित्त्वा बर्हिण वाससः ।निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः ॥३-३-१२॥
+स विद्धो न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः ।अभ्यद्रवत् सुसंक्रुद्धः तदा रामम् स लक्ष्मणम् ॥३-३-१३॥
+स विनद्य महानादम् शूलम् शक्र ध्वज उपमम् ।प्रगृह्य अशोभत तदा व्यात्तानन इव अंतकः ॥३-३-१४॥
+अथ तौ भ्रातरौ दीप्तम् शर वर्षम् ववर्षतुः ।विराधे राक्षसे तस्मिन् कालांतक अयम् उपमे ॥३-३-१५॥
+स प्रहस्य महा रौद्रः स्थित्वा अजृम्भत राक्षसः ।जृंभमाणस्य ते बाणाः कायात् निष्पेतुर् अशुगाः ॥३-३-१६॥
+स्पर्शात् तु वर दानेन प्राणान् संरोध्य राक्षसः ।विराधः शूलम् उद्यम्य राघवौ अभ्यधावत ॥३-३-१७॥
+तत् शूलम् वज्र संकाशम् गगने ज्वलन उपमम् ।द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः ॥३-३-१८॥
+तत् राम विशिखैः छिन्नम् शूलम् तस्य आपतत् भुविः ।पपात अशनिना चिन्नम् मेरोर् इव शिला तलम् ॥३-३-१९॥
+तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण सर्पौ इव उद्यतौ ।तूर्णम् आपेततुः तस्य तदा प्रहारताम् बलात् ॥३-३-२०॥
+स वध्यमान सुभृशम् भुजाभ्याम् परिगृह्य तौ ।अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत ॥३-३-२१॥
+तस्य अभिप्रायम् अज्ञाय रामो लक्ष्मणम् अब्रवीत् ।वहतु अयम् अलम् तावत् पथानेन तु राक्षसः ॥३-३-२२॥
+यथा च इच्छति सोउमित्रे तथा वहतु राक्षसः ।अयम् एव हि नः पन्था येन याति निशाचरः ॥३-३-२३॥
+स तु स्व बल वीर्येण समुत्क्षिप्य निशाचरः ।बालाः इव स्कन्ध गतौ चकार अति बलोद्धतः ॥३-३-२४॥
+तौ आरोप्य ततः स्कन्धम् राघवो रजनी चरः ।विराधो विनदन् घोरम् जगाम अभिमुखो वनम् ॥३-३-२५॥
+वनम् महा मेघ निभम् प्रविष्टोद्रुमैः महद्भिः विविधैः उपेतम् ।नाना विधैः पक्षि कुलैः विचित्रम्शिव आयुतम् व्याल मृगैः विकीर्णम् ॥३-३-२६॥
+ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ ।उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ ॥३-४-१॥
+एष दाशरथी रामः सत्यवान् शीलवान् शुचिः ।रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः ॥३-४-२॥
+माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा ।माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३-४-३॥
+तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ ।वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥३-४-४॥
+तस्य रौद्रस्य सोउमित्रिः सव्यम् बाहुम् बभञ्ज ह ।रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः ॥३-४-५॥
+सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः ।धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः ॥३-४-६॥
+मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् ।उद्यम्योद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥३-४-७॥
+स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः ।निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥३-४-८॥
+तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् ।भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत् ॥३-४-९॥
+तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते ।शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥३-४-१०॥
+कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥३-४-११॥
+इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्र्म्य कण्ठे पादेन वीर्यवान् ॥३-४-१२॥
+तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः ।इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥३-४-१३॥
+हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै ।मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥३-४-१४॥
+कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया ।वैदेही च महाभागा लक्ष्मणः च महायशाः ॥३-४-१५॥
+अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम् ।तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥३-४-१६॥
+प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः ।यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे ॥३-४-१७॥
+तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति ।अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह ॥३-४-१८॥
+इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह ।तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात् ॥३-४-१९॥
+भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप ।इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥३-४-२०॥
+अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः ।तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥३-४-२१॥
+अवटे च अपि माम् राम निक्षिप्य कुशली व्रज ।रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः ॥३-४-२२॥
+अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः ।एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥३-४-२३॥
+बभूव स्वर्ग स��प्राप्तो न्यस्त देहो महाबलः ।तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥३-४-२४॥
+कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः॥३-४-२५॥
+इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान् ॥३-४-२६॥
+ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् ।अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥३-४-२७॥
+तम् मुक्त कण्ठम् उत्क्षिप्य शङ्कु कर्णम् महास्वनम् ।विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥३-४-२८॥
+तम् आहवे दारुणम् आशु विक्रमौस्थिरौ उभौ संयति राम लक्ष्मणौ ।मुदान्वितौ चिक्षिपतुर् भयावहम्नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥३-४-२९॥
+अवध्यताम् प्रेक्ष्य महासुरस्य तौशितेन शस्त्रेण तदा नरर्षभौ ।समर्थ्य च अत्यर्थ विशारदौ उभौबिले विरधस्य वधम् प्रचक्रतुः ॥३-४-३०॥
+स्वयम् विराधेन हि मृत्युम् आत्मनःप्रसह्य रामेण वधार्थम् ईप्सितः ।निवेदितः कानन चारिणा स्वयम्न मे वधः शस्त्र कृतो भवेत् इति ॥३-४-३१॥
+तदेव रामेण निशम्य भाषितम्कृता मतिः तस्य बिल प्रवेशने ।बिलम् च तेन अति बलेन रक्षसाप्रवेश्यमानेन वनम् विनादितम् ॥३-४-३२॥
+प्रहृष्ट रूपौ इव राम लक्ष्मणौविराधम् उर्व्याम् प्रदरे निपात्य तम् ।ननन्दतुः वीत भयौ महावनेशिलाभिः अन्तर् दधतुः च राक्षसम् ॥३-४-३३॥
+ततः तु तौ कांचन चित्र कार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम् ।विजह्रतुः तौ मुदितौ महावनेदिवि स्थितौ चन्द्र दिवाकरौ इव ॥३-४-३४॥
+हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने ।ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥
+अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ।कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥३-५-२॥
+अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् ।आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३-५-३॥
+तस्य देव प्रभावस्य तपसा भावित आत्मनः ।समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥३-५-४॥
+विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् ।रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥३-५-५॥
+असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् ।संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥३-५-६॥
+तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः ।हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥३-५-७॥
+ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् ।पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥३-५-८॥
+अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् ।चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥३-५-९॥
+गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि ।गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥३-५-१०॥
+अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् ।सह संभाषमाणे तु शरभंगेन वासवे ॥३-५-११॥
+दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ।रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥३-५-१२॥
+अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण ।प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥३-५-१३॥
+ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः ।अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥३-५-१४॥
+इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् ।शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥३-५-१५॥
+विस्तीर्ण विपुल उरस्काः परिघायत बाहवः ।शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥३-५-१६॥
+उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः ।रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥३-५-१७॥
+एतद्धि किल देवानाम् वयो भवति नित्यदा ।यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥३-५-१८॥
+इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण ।यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥३-५-१९॥
+तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति ।अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥३-५-२०॥
+ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः ।शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥३-५-२१॥
+इह उपयाति असौ रामो यावन् माम् न अभिभाषते ।निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥३-५-२२॥
+जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् ।कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥३-५-२३॥
+अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् ।रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥३-५-२४॥
+प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥३-५-२५॥
+तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥३-५-२६॥
+ततः शक्र उपयानम् तु पर्यपृच्छत राघवः ।शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥३-५-२७॥
+माम् एष वरदो राम ब्रह्म लोकम् न���नीषति ।जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥३-५-२८॥
+अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः ।ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥३-५-२९॥
+त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ ।समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३-५-३०॥
+अक्षया नर शार्दूल जितालोका मया शुभाः ।ब्राह्म्याः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥
+एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः ।ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३-५-३२॥
+अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-५-३३॥
+राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै ।शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३-५-३४॥
+इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः ।वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥
+सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् ।रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३-५-३६॥
+इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज ।नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३-५-३७॥
+एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् ।यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३-५-३८॥
+ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् ।शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥
+तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः ।जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥३-५-४०॥
+स च पावक संकाशः कुमारः समपद्यत ।उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥३-५-४१॥
+स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् ।देवानाम् च व्यतिक्रम्य ब्रह्म लोकम् व्यरोहत ॥३-५-४२॥
+स पुण्य कर्मा भुवने द्विजर्षभःपितामहम् सानुचरम् ददर्श ह ।पितामहः च अपि समीक्ष्य तम् द्विजम्ननन्द सुस्वागतम् इति उवाच ह ॥३-५-४३॥
+शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥३-६-१॥
+वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ।अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥
+दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे ।गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥
+मुनयः सलिल आहारा वायु भक्षाः तथा अपरे ।आकाश निलयाः च एव तथा स्थण्डिल शायिनः ॥३-६-४॥
+तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्��� पट वाससः ।स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥
+सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः ।शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः ॥३-६-६॥
+अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् ।ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥
+त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः ।प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥
+विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च ।पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥
+त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् ।अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥
+अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥
+युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव ।नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥
+प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥
+यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥
+सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥
+एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥
+पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥
+एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥
+ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥
+परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥३-६-२०॥
+एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् ।इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥
+न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् ।केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥३-६-२२॥
+विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥
+भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।तस्य मे अयम् वने वासो भविष्यति महाफलः ॥३-६-२४॥
+तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥
+दत्त्वा अभयम् च अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन ।तपो धनैः च अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥
+रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
+रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
+स गत्वा दीर्घम् अध्वानम् नदीः तीर्त्वा बहु उदकाः ।ददर्श विमलम् शैलम् महा मेरुम् इव उन्नतम् ॥३-७-२॥
+ततः तद् इक्ष्वाकु वरौ सततम् विविधैः द्रुमैः ।काननम् तौ विविशतुः सीतया सह राघवौ ॥३-७-३॥
+प्रविष्टः तु वनम् घोरम् बहु पुष्प फल द्रुमम् ।ददर्श आश्रमम् एकान्ते चीर माला परिष्कृतम् ॥३-७-४॥
+तत्र तापसम् आसीनम् मल पङ्कज धारिणम् ।रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत ॥३-७-५॥
+रामोऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः ।तत् मा अभिवद धर्मज्ञ महर्षे सत्य विक्रम ॥३-७-६॥
+स निरीक्ष्य ततः धीरो रामम् धर्मभृताम् वरम् ।समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत् ॥३-७-७॥
+स्वागतम् ते रघु श्रेष्ठ राम सत्यभृताम् वर ।आश्रमओ अयम् त्वया आक्रान्तः सनाथ इव सांप्रतम् ॥३-७-८॥
+प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महायशः ।देव लोकम् इतो वीर देहम् त्यक्त्वा महीतले ॥३-७-९॥
+चित्रकूटम् उपादाय राज्य भ्रष्टो असि मे श्रुतः ।इह उपयातः काकुत्स्थः देवराजः शततक्रतुः ॥३-७-१०॥
+उपागम्य च मे देवो महादेवः सुर ईश्वरः ।सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा ॥३-७-११॥
+तेषु देव ऋषि जुष्टेषु जितेशु तपसा मया ।मत् प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः ॥३-७-१२॥
+तम् उग्र तपसम् दीप्तम् महर्षिम् सत्य वादिनम् ।प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः ॥३-७-१३॥
+अहम् एव आहरिष्यामि स्वयम् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-७-१४॥
+भवान् सर्वत्र कुशलः सर्वभूत हिते रतः ।आख्यातः शरभंगेन गौतमेन महात्मना ॥३-७-१५॥
+एवम् उक्तः तु रामेण महर्षिः लोक विश्रुतः ।अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः ॥३-७-१६॥
+अयम् एव आश्रमो राम गुणवान् रम्यताम् इति ।ऋषि संघ अनुचरितः सदा मूल फलैर् युतः ॥३-७-१७॥
+इमम् आश्रमम् आगम्य मृग संघा महीयसः ।��हत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः ॥३-७-१८॥
+ना अन्यो दोषो भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै ।तत् श्रुत्वा वचनम् तस्य महर्षेः लक्ष्मणाग्रजः ॥३-७-१९॥
+उवाच वचनम् धीरो विगृह्य स शरम् धनुः ।तान् अहम् सुमहाभाग मृगसंघान् समागतान् ॥३-७-२०॥
+हन्याम् निशित धारेण शरेण नत पर्वणा ।भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्र तरम् ततः ॥३-७-२१॥
+एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये ।तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत् ॥३-७-२२॥
+अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् ।सुतीक्ष्णस्य आश्रमे रम्ये सीतया लक्ष्मनेन च ॥३-७-२३॥
+ततः शुभम् तापस अन्नम्स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् ।ताभ्याम् सुसत्कृत्य ददौ महात्मासंध्या निवृत्तौ रजनीम् समीक्ष्य ॥३-७-२४॥
+रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः ।परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥३-८-१॥
+उत्थाय च यथा कालम् राघवः सह सीतया ।उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥३-८-२॥
+अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ ।काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३-८-३॥
+उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः ।सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥३-८-४॥
+सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः ।आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥३-८-५॥
+त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् ।ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥३-८-६॥
+अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः ।धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥३-८-७॥
+अविषह्य आतपो यावत् सूर्यो न अति विराजते ।अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥३-८-८॥
+तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः ।ववन्दे सह सौमित्रिः सीतया सह राघवः ॥३-८-९॥
+तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः ।गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥३-८-१०॥
+अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह ।सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥३-८-११॥
+पश्य आश्रम पदम् रम्यम् दण्डकारण्य वासिनाम् ।एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥३-८-१२॥
+सुप्राज्य फल मूलानि पुष्पितानि वनानि च ।प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥३-८-१३॥
+फुल्ल पंकज खण्डा��ि प्रसन्न सलिलानि च ।कारण्डव विकीर्णानि तटाकानि सरांसि च ॥३-८-१४॥
+द्रक्ष्यसे दृष्टि रम्याणि गिरि प्रस्रवणानि च ।रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥३-८-१५॥
+गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु ।आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥३-८-१६॥
+एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः ।प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥३-८-१७॥
+ततः शुभतरे तूणी धनुषी च आयतेक्षणा ।ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥३-८-१८॥
+आबध्य च शुभे तूणी चापे च आदाय सस्वने ।निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥३-८-१९॥
+शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा ।प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥३-८-२०॥
+सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् ।हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥३-९-१॥
+अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् ।निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह ॥३-९-२॥
+त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत ।मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ ॥३-९-३॥
+पर दार अभिगमनम् विना वैरम् च रौद्रता ।मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव ॥३-९-४॥
+कुतो अभिलषणम् स्त्रीणाम् परेषाम् धर्म नाशनम् ।तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन ॥३-९-५॥
+मनस्यपि तथा राम न च एतत् विद्यते क्वचित् ।स्व दार निरतः च एव नित्यम् एव नृपात्मज ॥३-९-६॥
+धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः ।त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ॥३-९-७॥
+तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः ।तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन ॥३-९-८॥
+तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् ।निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥३-९-९॥
+प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् ।ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥
+एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् ।प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः ॥३-९-११॥
+ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः ।त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् ॥३-९-१२॥
+न हि मे रोचते वीरः गमनम् दण्डकान् प्रति ।कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम ॥३-९-१३॥
+त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः ।दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् ॥३-९-१४॥
+क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च ।समीपतः स्थितम् तेजो बलम् उच्छ्रयते भृशम् ॥३-९-१५॥
+पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः ।कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे ॥३-९-१६॥
+तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः ।खड्ग पाणिः अथ आगच्छत् आश्रमम् भट रूप धृक् ॥३-९-१७॥
+तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः ।स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥
+स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः ।वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः ॥३-९-१९॥
+यत्र गच्छति उपादातुम् मूलानि च फलानि च ।न विना याति तम् खड्गम् न्यास रक्षण तत्परः ॥३-९-२०॥
+नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः ।चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥
+ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः ।तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः ॥३-९-२२॥
+एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् ।अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते ॥३-९-२३॥
+स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये ।न कथंचन सा कार्या गृहीत धनुषा त्वया ॥३-९-२४॥
+बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् ।अपराधम् विना हन्तुम् लोको वीर न कामये ॥३-९-२५॥
+क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् ।धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् ॥३-९-२६॥
+क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च ।व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् ॥३-९-२७॥
+तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् ।पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि ॥३-९-२८॥
+अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम ।यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः ॥३-९-२९॥
+धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् ।धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥३-९-३०॥
+आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः ।प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् ॥३-९-३१॥
+नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने ।सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः ॥३-९-३२॥
+स्त्री चापलात् एतत् उदाहृतम् मेधर्मम् च वक्तुम् तव कः ��मर्थः ।विचार्य बुद्ध्या तु सह अनुजेनयत् रोचते तत् कुरु म अचिरेण ॥३-९-३३॥
+वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या ।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥३-१०-१॥
+हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः ।कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥३-१०-२॥
+किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः ।क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३-१०-३॥
+ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः ।माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः ॥३-१०-४॥
+वसन्तः काल कालेषु वने मूल फल अशनाः ।न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥३-१०-५॥
+भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः ।ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥३-१०-६॥
+अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः ।मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥३-१०-७॥
+कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् ।प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥३-१०-८॥
+यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः ।किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥३-१०-९॥
+सर्वैः एव समागम्य वाक् इयम् समुदाहृता ।राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥३-१०-१०॥
+अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु ।होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥३-१०-११॥
+धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः ।राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥३-१०-१२॥
+गतिम् मृगयमाणानाम् भवान् नः परमा गतिः ।कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान् ॥३-१०-१३॥
+चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् ।बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥३-१०-१४॥
+तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः ।तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥३-१०-१५॥
+रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने ।मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥३-१०-१६॥
+ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे ।संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥
+मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा ।अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥३-१०-१८॥
+न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥३-१०-१९॥
+अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः ।मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥३-१०-२०॥
+परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते ।सदृशम् च अनुरूपम् च कुलस्य तव शोभने ।सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥३-१०-२१॥
+इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् ।रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥३-१०-२२॥
+अग्रतः प्रययौ रामः सीता मध्ये सुशोभना ।पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥
+तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च ।नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥
+सारसान् चक्रवाकां च नदी पुलिन चारिणः ।सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥
+यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः ।महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥
+ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥
+पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥
+प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे ।गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥
+ततः कौतूहलात् रामो लक्ष्मणः च महारथः ।मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥
+इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने ।कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥
+तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा ।प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥
+इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् ।निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥
+स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः ।दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥
+ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः ।अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥
+अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः ।इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥
+ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः ।प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥
+अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः ।नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥
+ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः ।तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥
+तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् ।रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥
+तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः ।श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥
+आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः ।राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥
+एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥
+प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥
+उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥
+येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥
+क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥
+त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥
+रमतः च आनुकूल्येन ययुः संवत्सरा दश ।परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥
+सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥
+तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥
+उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥
+वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥
+कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥
+अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥
+यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥
+सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥
+अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥
+अयम् आख्या���ि ते राम यत्र अगस्त्यो महामुनिः ।योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥
+स्थली प्राय वनोद्देशे पिप्पली वन शोभिते ।बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥
+पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥
+तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥
+तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥
+रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥
+यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् ।अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥
+इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च ।प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥
+पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥
+सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥
+एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः ।अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥
+यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः ।संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥
+पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः ।गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥
+तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः ।लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥
+एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् ।पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥
+विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः ।पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥
+ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् ।अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥
+निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥
+इह एकदा किल क्रूरो वातापिः अपि च इल्वलः ।भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥
+धारयन् ब्राह्मणम् रूपम् इल्वलः ��ंस्कृतम् वदन् ।आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥
+भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् ।तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥
+ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् ।वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥
+ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् ।भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥
+ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः ।विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥
+अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥
+ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् ।भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥
+स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् ।अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥
+कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः ।भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥
+अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् ।प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥
+सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा ।चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥
+तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः ।विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥
+एवम् कथयमानस्य तस्य सौमित्रिणा सह ।रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥
+उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि ।प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥
+सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः ।न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥
+तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले ।भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥
+अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् ।आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥
+गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः ।यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥
+नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा ।चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥
+पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपश���भितान् ।ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥
+हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥
+ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः ।पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥
+स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः ।आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥
+अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा ।आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥
+प्राज्य धूम आकुल वनः चीर माला परिष्कृतः ।प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥
+निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥
+तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः ।दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥
+यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा ।तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥
+नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा ।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥
+मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥
+अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥
+एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् ।अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥
+आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् ।शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥
+अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ।अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥
+न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः ।नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥
+अत्र देवाः च यक्षाः च नागाः च पतगैः सह ।वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥
+अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः ।त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥
+यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च ।अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥
+आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः ।निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥
+स प्रविश्य आश्��म पदम् लक्ष्मणो राघव अनुजः ।अगस्त्य शिष्यम् आसाद्य वाक्यम् एतद् उवाच ह ॥३-१२-१॥
+राजा दशरथो नाम ज्येष्ठः तस्य सुतो बली ।रामः प्राप्तो मुनिम् द्रष्टुम् भार्यया सह सीतया ॥३-१२-२॥
+लक्ष्मणो नाम तस्य अहम् भ्राता तु अवरजो हितः ।अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः ॥३-१२-३॥
+ते वयम् वनम् अत्युग्रम् प्रविष्टाः पितृ शासनात् ।द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम् ॥३-१२-४॥
+तस्य तद् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः ।तथा इति उक्त्वा अग्नि शरणम् प्रविवेश निवेदितुम् ॥३-१२-५॥
+स प्रविश्य मुनिश्रेष्ठम् तपसा दुष्प्रधर्षणम् ।कृत अंजलिः उवाच इदम् राम आगमनम् अञ्जसा ॥३-१२-६॥
+यथा उक्तम् लक्ष्मणेन एव शिष्यः तस्य अगस्तस्य संमतः ।पुत्रौ दशरथस्य इमौ रामो लक्ष्मण एव च ॥३-१२-७॥
+प्रविष्टौ आश्रमपदम् सीतया सह भार्यया ।द्रष्टुम् भवन्तम् आयातौ शुश्रूषार्थम् अरिन्दमौ ॥३-१२-८॥
+यद् अत्र अनंतरम् तत् त्वम् आज्ञापयितुम् अर्हसि ।ततः शिष्यात् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम् ॥३-१२-९॥
+वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत् ।दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः ॥३-१२-१०॥
+मनसा कांक्षितम् हि अस्य मया अपि आगमनम् प्रति ।गम्यताम् सत्कृतो रामः स भार्यः सह लक्ष्मणः ॥३-१२-११॥
+प्रवेश्यताम् समीपम् मे किम् असौ न प्रवेशितः ।एवम् उक्तः तु मुनिना धर्मज्ञेन महात्मना ॥३-१२-१२॥
+अभिवाद्य अब्रवीत् शिष्यः तथा इति नियत अंजलिः ।तदा निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् ॥३-१२-१३॥
+क्व असौ रामो मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम् ।ततो गत्वा आश्रम पदम् शिष्येण सह लक्ष्मणः ॥३-१२-१४॥
+दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम् ।तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य वचनम् ब्रुवन् ॥३-१२-१५॥
+प्रावेशयत् यथा न्यायम् सत्कार अर्ह सुसत्कृतम् ।प्रविवेश ततो रामः सीतया सह लक्ष्मणः ॥३-१२-१६॥
+प्रशान्त हरिण आकीर्णम् आश्रमम् हि अवलोकयन् ।स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथैव च ॥३-१२-१७॥
+विष्णोः स्थानम् महेन्द्रस्य स्थानम् चैव विवस्वतः ।सोम स्थानम् भग स्थानम् स्थानम् कौबेरम् एव च ॥३-१२-१८॥
+धातुर् विधातुः स्थानम् च वायोः स्थानम् तथैव च ।स्थानम् च पाश हस्तस्य वारुणस्य महात्मनः ॥३-१२-१९॥
+स्थानम् तथैव गायत्र्या वसूना���् स्थानम् एव च ।स्थानम् च नागराजस्य गरुड स्थानम् एव च ॥३-१२-२०॥
+कार्तिकेयस्य च स्थानम् धर्म स्थानम् च पश्यति ।ततः शिष्यैः परिवृतो मुनिर् अपि अभिनिष्पतत् ॥३-१२-२१॥
+तम् ददर्श अग्रतो रामो मुनीनाम् दीप्त तेजसम् ।अब्रवीत् वचनम् वीरो लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-१२-२२॥
+बहिर् लक्ष्मण निष्क्रामति अगस्त्यो भगवान् ऋषिः ।औदार्येण अवगच्छामि निधानम् तपसाम् इमम् ॥३-१२-२३॥
+एवम् उक्त्वा महाबाहुः अगस्त्यम् सूर्य वर्चसम् ।जग्राह आपतत् तस्य पादौ च रघुनन्दन ॥३-१२-२४॥
+अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः ।सीतया सह वैदेह्या तदा रामः स लक्ष्मणः ॥३-१२-२५॥
+प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन उदकैः ।कुशल प्रश्नम् उक्त्वा च आस्यताम् इति सोऽब्रवीत् ॥३-१२-२६॥
+अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिन् प्रतिपूज्य च ।वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ ॥३-१२-२७॥
+प्रथमम् च उपविश्य अथ धर्मज्ञो मुनिपुंगवः ।उवाच रामम् आसीनम् प्रांजलिम् धर्मकोविदम् ॥३-१२-२८॥
+अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूजयेत् ।अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।दुःसाक्षी इव परे लोके स्वानि मांसानि भक्षयेत् ॥३-१२-२९॥
+राजा सर्वस्य लोकस्य धर्मचारी महारथः ।पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय अतिथिः ॥३-१२-३०॥
+एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् ।पूजयित्वा यथा कामम् ततो अगस्त्यः तम् अब्रवीत् ॥३-१२-३१॥
+इदम् दिव्यम् महत् चापम् हेम वज्र विभूषितम् ।वैष्णवम् पुरुषव्याघ्र निर्मितम् विश्वकर्मणा ॥३-१२-३२॥
+अमोघः सूर्य संकाशो ब्रह्मदत्तः शर उत्तमः ।दत्तो मम महेन्द्रेण तूणी च अक्षय सायकौ ॥३-१२-३३॥
+संपूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः ।महा रजत कोशो अयम् असिः हेमविभूषितः ॥३-१२-३४॥
+अनेन धनुषा राम हत्वा संख्ये महासुरान् ।आजहार श्रियम् दीप्ताम् पुरा विष्णुर् दिव ओकसाम् ॥३-१२-३५॥
+तत् धनुः तौ च तूणि च शरम् खड्गम् च मानद ।जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा ॥३-१२-३६॥
+एवम् उक्त्वा महा तेजाः समस्तम् तत् वर आयुधम् ।दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥३-१२-३७॥
+राम प्रीतो अस्मि भद्रम् ते परितुष्टो अस्मि लक्ष्मण ।अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया ॥३-१३-१॥
+अध्व श्रमेण वाम् खेदो बाधते प्रचुर श्���मः ।व्यक्तम् उत्कण्ठते वा अपि मैथिली जनक आत्मजा ॥३-१३-२॥
+एषा च सुकुमारी च खेदैः च न विमानिता ।प्राअज्य दोषम् वनम् प्रप्ता भर्तृ स्नेह प्रचोदिता ॥३-१३-३॥
+यथा एषा रमते राम इह सीता तथा कुरु ।दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती ॥३-१३-४॥
+एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनंदन ।समस्थम् अनुरंजंते विषमस्थम् त्यजन्ति च ॥३-१३-५॥
+शत ह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा ।गरुड अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥३-१३-६॥
+इयम् तु भवतो भार्या दोषैर् एतैर् विवर्जिताः ।श्लाघ्या च व्यपदेश्या च यथा देवी हि अरुन्धती ॥३-१३-७॥
+अलंकृतो अयम् देशः च यत्र सौमित्रिणा सह ।वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम ॥३-१३-८॥
+एवम् उक्तः तु मुनिना राघवः संयत अंजलिः ।उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम् ॥३-१३-९॥
+धन्योस्मि अनुगृहीतोस्मि यस्य मे मुनि पुंगवः ।गुणैः सभ्रातृ भार्यस्य गुरुः नः परितुष्यति ॥३-१३-१०॥
+किन्तु व्यादिश मे देशम् स उदकम् बहु काननम् ।यत्र आश्रम पदम् कृत्वा वसेयम् निरतः सुखम् ॥३-१३-११॥
+ततो अब्रवीत् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।ध्यात्वा मुहूर्तम् धर्मात्मा धीरो धीरतरम् वचः ॥३-१३-१२॥
+इतो द्वि योजने तात बहु मूल फल उदकः ।देशो बहु मृगः श्रीमान् पंचवटि अभिविश्रुतः ॥३-१३-१३॥
+तत्र गत्वा आश्रम पदम् कृत्वा सौमित्रिणा सह ।रमस्व त्वम् पितुर् वाक्यम् यथा उक्तम् अनुपालयन् ॥३-१३-१४॥
+विदितो हि एष वृत्तांतो मम सर्वः तव अनघ ।तपसः च प्रभावेण स्नेहाद् दशरथस्य च ॥३-१३-१५॥
+हृदयस्थः च ते छन्दो विज्ञातः तपसा मया ।इह वासम् प्रतिज्ञाय मया सह तपो वने ॥३-१३-१६॥
+अतः च त्वाम् अहम् ब्रूमि गच्छ पंचवटीम् इति ।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥३-१३-१७॥
+स देशः श्लाघनीयः च न अतिदूरे च राघव ।गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥३-१३-१८॥
+प्राज्य मूल फलैः चैव नाना द्विज गणैर् युतः ।विविक्तः च महाबाहो पुण्यो रम्यः तथैव च ॥३-१३-१९॥
+भवान् अपि सदाचारः च शक्तः च परिरक्षणे ।अपि च अत्र वसन् राम तापसान् पालयिष्यसि ॥३-१३-२०॥
+एतत् आलक्ष्यते वीर मधूकानाम् महत् वनम् ।उत्तरेण अस्य गंतव्यम् न्यग्रोधम् अपि गच्छता ॥३-१३-२१॥
+ततः स्थलम् उपारुह्य पर्वतस्य अविदूरतः ।ख्यातः पंचवटी इति एव नित्य पुष्पित काननः ॥३-१३-२२॥
+अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह ।सत्कृत्य आमंत्रयामास तम् ऋषिम् सत्य वादिनम् ॥३-१३-२३॥
+तौ तु तेन अभ्यनुज्ञातौ कृत पाद अभिवन्दनौ ।तम् आश्रमम् पंचवटीम् जग्मतुः सह सीतया ॥३-१३-२४॥
+गृहीत चापौ तु नराधिप आत्मजौ
विषक्त तूणी समरेषु अकातरौ ।यथा उपदिष्टेन पथा महर्षिणा ।प्रजग्मतुः पंचवटीम् समाहितौ ॥३-१३-२५॥
+अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥
+तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥
+स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥
+स तम् पितृ सखम् मत्वा पूजयामास राघवः ।स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥
+रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥
+पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥
+कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-७॥
+स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥
+दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥
+प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् ।षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥
+कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥
+ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥
+पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥
+कालका च महाबाहो शेषाः तु अमनसो अभवन् ।अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥
+आदित्या वसवो रुद्रा अश्विनौ च परंतप ।दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥
+तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥
+नरकम् कालकम् चैव कालका अपि व्यजायत ।क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१���॥
+ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥
+श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥
+चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥
+दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥
+मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥
+अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥
+ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥
+हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥
+मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥
+ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥
+रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥
+मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥
+मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥
+सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥
+कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥
+तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥
+सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥
+जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥
+स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-३६॥
+ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
+आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
+सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
+रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
+वन रामण्यकम् यत्र जल रामण्यकम् तथा ।संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
+एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
+परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
+सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
+स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
+अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
+इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
+यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
+हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
+मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
+सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
+सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
+चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः ।पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
+स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि ।धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
+इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
+एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।अचिरेण आश्रमम् भ्रात���ः चकार सुमहाबलः ॥३-१५-२०॥
+पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
+शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
+समीकृत तलाम् रम्याम् चकार सुमहाबलः ।निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
+स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
+ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
+स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
+सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
+प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
+भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
+एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥
+वसतः तस्य तु सुखम् राघवस्य महात्मनः ।शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥
+स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः ।प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥
+प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् ।पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥
+अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद ।अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥
+नीहार परुषो लोकः पृथिवी सस्य मालिनी ।जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥
+नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः ।कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥
+प्राज्यकामा जनपदाः संपन्नतर गो रसाः ।विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥
+सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् ।विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥
+प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् ।यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥
+अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः ।दिवसाः सुभग आदित्याअः छाया सलिल दु��्भगाः ॥३-१६-१०॥
+मृदु सूर्याः सनीहाराः पटु शीताः समारुताः ।शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥
+निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः ।शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥
+रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः ।निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥
+ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते ।सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥
+प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् ।प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥
+बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च ।शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥
+खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः ।शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥
+मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः ।दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥
+अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥
+अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला ।वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥
+स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् ।अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥
+एते हि समुपासीना विहगा जलचारिणः ।न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥
+अवश्याय तमो नद्धा नीहार तमसा आवृताः ।प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥
+बाष्प संचन्न सलिला रुत विज्ञेय सारसाः ।हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥
+तुषार पतनात् चैव मृदुत्वात् भास्करस्य च ।शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥
+जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः ।नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥
+अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः ।तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥
+त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् ।तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥
+सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः ।वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥
+अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः ।कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥
+पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् ।धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥
+प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः ।संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥
+जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना ।वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥
+न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति ।ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥
+भर्ता दशरथो यस्याः साधुः च भरतः सुतः ।कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥
+इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके ।परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥
+न ते अम्बा मध्यमा तात गर्हितव्या कथंचन ।ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥
+निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता ।भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥
+संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च ।हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥
+कदा हि अहम् समेष्यामि भरतेन महात्मना ।शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥
+इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् ।चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥
+तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च ।स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः॥३-१६-४२॥
+कृताभिषेकः स रराज रामः सीता द्वितीयः सह लक्ष्मणेन ।कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥
+कृत अभिषेको रामः तु सीता सौमित्रिर् एव च ।तस्मात् गोदावरी तीरात् ततो जग्मुः स्वम् आश्रमम् ॥३-१७-१॥
+आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः ।कृत्वा पौर्वाह्णिकम् कर्म पर्णशालाम् उपागमत् ॥३-१७-२॥
+उवास सुखितः तत्र पूज्यमानो महर्षभः।स रामः पर्ण शालायाम् आसीनः सह सीतया ॥३-१७-३॥
+विरराज महा बाहुः चित्रया चन्द्रमा इव ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३-१७-४॥
+तदा आसीनस्य रामस्य कथा संसक्त चेतसः ।तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया ॥३-१७-५॥
+सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।भगिनी रामम् आसाद्य ददर्श त्रिदश उपमम् ॥३-१७-६॥
+दीप्तास्यम् च महाबाहुम् पद्म पत्रायत ईक्षणम् ।गज विक्रांत गमनम् जटा मण्दल धारिणम् ॥३-१७-७॥
+सुकुमारम् महा सत्त्वम् पार्थिव व्यंजन अन्वितम् ।रामम् इन्दीवर श्यामम् कन्दर्प सदृश प्रभम् ॥३-१७-८॥
+बभूव इन्द्रोपमम् दृष्ट्वा राक्षसी काम मोहिता ।सुमुखम् दुर्मुखी रामम् वृत्त मध्यम् महोदरी ॥३-१७-९॥
+विशालाक्षम् विरूपाक्षी सुकेशम् ताम्र मूर्धजा ।प्रियरूपम् विरूपा सा सुस्वरम् भैरव स्वना ॥३-१७-१०॥
+तरुणम् दारुणा वृद्धा दक्षिणम् वाम भाषिणी ।न्याय वृत्तम् सुदुर्वृत्ता प्रियम् अप्रिय दर्शना ॥३-१७-११॥
+शरीरज समाविष्टा राक्षसी रामम् अब्रवीत् ।जटी तापस रूपेण सभार्यः शर चाप धृक् ॥३-१७-१२॥
+आगतः त्वम् इमम् देशम् कथम् राक्षस सेवितम् ।किम् आगमन कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि ॥३-१७-१३॥
+एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः ।ऋजु बुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥३-१७-१४॥
+आसीत् दशरथो नाम राजा त्रिदश विक्रमः ।तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥३-१७-१५॥
+भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः ।इयम् भार्या च वैदेही मम सीतेति विश्रुता ॥३-१७-१६॥
+नियोगात् तु नरेन्द्रस्य पितुर् मातुः च यंत्रितः ।धर्मार्थम् धर्मकांक्षी च वनम् वस्तुम् इह आगतः ॥३-१७-१७॥
+त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा ।त्वम् हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ॥३-१७-१८॥
+इह वा किम् निमित्तम् त्वम् आगता ब्रूहि तत्त्वतः ।सा अब्रवीत् वचनम् श्रुत्वा राक्षसी मदन अर्दिता ॥३-१७-१९॥
+श्रूयताम् राम वक्ष्यामि तत्त्वार्थम् वचनम् मम ।अहम् शूर्पणखा नाम राक्षसी कामरूपिणी ॥३-१७-२०॥
+अरण्यम् विचरामि इदम् एका सर्व भयंकरा ।रावणो नाम मे भ्राता यदि ते श्रोत्रम् आगतः ॥३-१७-२१॥
+वीरो विश्रवसः पुत्रो यदि ते श्रोत्रम् आगतः ।प्रवृद्ध निद्रः च सदा कुंभकर्णो महाबलः ॥३-१७-२२॥
+विभीषणः तु धर्मात्मा न तु राक्षस चेष्टितः ।प्रख्यात वीर्यौ च रणे भ्रातरौ खर दूषणौ ॥३-१७-२३॥
+तान् अहम् समतिक्रान्ता राम त्वा पूर्व दर्शनात् ।समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् ॥३-१७-२४॥
+अहम् प्रभाव संपन्ना स्वच्छंद बल गामिनी ।चिराय भव भर्ता मे सीतया किम् करिष्यसि ॥३-१७-२५॥
+विकृता च विरूपा च न सा इयम् सदृशी तव ।अहम् एव अनुरूपा ते भार्या रूपेण पश्य माम् ॥३-१७-२६॥
+इमाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।अनेन सह ते भ्रात्रा भ��्षयिष्यामि मानुषीम् ॥३-१७-२७॥
+ततः पर्वत शृंगाणि वनानि विविधानि च ।पश्यन्सहमयाकामीदण्डकान्विचरिष्यसि - यद्वा - पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥३-१७-२८॥
+इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिर ईक्षणाम् ।इदम् वचनम् आरेभे वक्तुम् वाक्य विशारदः ॥३-१७-२९॥
+ताम् तु शूर्पणखाम् रामः काम पाश अवपाशिताम् ।स्वच्छया श्लक्ष्णया वाचा स्मित पूर्वम् अथ अब्रवीत् ॥३-१८-१॥
+कृत दारो अस्मि भवति भार्या इयम् दयिता मम ।त्वत् विधानाम् तु नारीणाम् सुदुःखा ससपत्नता ॥३-१८-२॥
+अनुजः तु एष मे भ्राता शीलवान् प्रिय दर्शनः ।श्रीमान् अकृत दारः च लक्ष्मणो नाम वीर्यवान् ॥३-१८-३॥
+अपूर्वी भार्यया च अर्थी तरुणः प्रिय दर्शनः ।अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति ॥३-१८-४॥
+एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम ।असपत्ना वरारोहे मेरुम् अर्क प्रभा यथा ॥३-१८-५॥
+इति रामेण सा प्रोक्ता राक्षसी काम मोहिता ।विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत् ॥३-१८-६॥
+अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी ।मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि ॥३-१८-७॥
+एवम् उक्तः तु सौमित्री राक्षस्या वाक्य कोविदः ।ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥३-१८-८॥
+कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि ।सो अहम् आर्येण परवान् भ्रात्रा कमल वर्णिनी ॥३-१८-९॥
+समृद्ध अर्थस्य सिद्धार्था मुदित अमल वर्णिनी ।आर्यस्य त्वम् विशालाक्षि भार्या भव यवीयसी ॥३-१८-१०॥
+एनाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति ॥३-१८-११॥
+को हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि ।मानुषेषु वरारोहे कुर्यात् भावम् विचक्षणः ॥३-१८-१२॥
+इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी ।मन्यते तत् वचः सत्यम् परिहास अविचक्षणा ॥३-१८-१३॥
+सा रामम् पर्णशालायाम् उपविष्टम् परंतपम् ।सीतया सह दुर्धर्षम् अब्रवीत् काम मोहिता ॥३-१८-१४॥
+इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् ।वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे ॥३-१८-१५॥
+अद्य इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् ।त्वया सह चरिष्यामि निःसपत्ना यथा सुखम् ॥३-१८-१६॥
+इति उक्त्वा मृगशावाक्षीम् अलात सदृश ईक्षणा ।अभ्यधावत् सुसंक्रुद्धा महा उल्का रोहिणीम् इव ॥३-१८-१७॥
+ताम् मृत्यु पाश प्रतिमाम् आपतंतीम् महाबलः ।विगृह्य रामः कुपितः ततो लक्ष्मणम् अब्रवीत् ॥३-१८-१८॥
+क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन ।न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम् ॥३-१८-१९॥
+इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् ।राक्षसीम् पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥३-१८-२०॥
+इति उक्तो लक्ष्मणः तस्याः क्रुद्धो रामस्य पश्यतः ।उद्धृत्य खड्गम् चिच्छेद कर्ण नासम् महाबलः ॥३-१८-२१॥
+निकृत्त कर्ण नासा तु विस्वरम् सा विनद्य च ।यथा आगतम् प्रदुद्राव घोरा शूर्पणखा वनम् ॥३-१८-२२॥
+सा विरूपा महाघोरा राक्षसी शोणित उक्षिता ।ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥३-१८-२३॥
+सा विक्षरंती रुधिरम् बहुधा घोर दर्शना ।प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥३-१८-२४॥
+ततः तु सा राक्षस संघ सम्वृतम् खरम् जन स्थान गतम् विरूपिता ।उपेत्य तम् भ्रातरम् उग्र तेजसम् पपात भूमौ गगनाद् यथा अशनिः ॥३-१८-२५॥
+ततः सभार्यम् भय मोह मूर्चिता सलक्ष्मणम् राघवम् आगतम् वनम् ।विरूपणम् च आत्मनि शोणित उक्षिता शशम्स सर्वम् भगिनी खरस्य सा ॥३-१८-२६॥
+ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित उक्षिताम् ।भगिनीम् क्रोध संतप्तः खरः पप्रच्छ राक्षसः ॥३-१९-१॥
+उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि संभ्रमम् ।व्यक्तम् आख्याहि केन त्वम् एवम् रूपा विरूपिता ॥३-१९-२॥
+कः कृष्ण सर्पम् असीनम् आशी विषम नागसम् ।तुदति अभिसमापन्नम् अंगुलि अग्रेण लीलया ॥३-१९-३॥
+काल पाशम् समासज्य कण्ठे मोहात् न जानते ।यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम् ॥३-१९-४॥
+बल विक्रम संपन्ना कामगा काम रूपिणी ।इमाम् अवस्थाम् नीता त्वम् केन अंतक समा गता ॥३-१९-५॥
+देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।को अयम् एवम् महावीर्यः त्वाम् विरूपाम् चकार ह ॥३-१९-६॥
+न हि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् ।अमरेषु सहस्राक्षम् महएन्द्रम् पाकशासनम् ॥३-१९-७॥
+अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितांतगैः ।सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः ॥३-१९-८॥
+निहतस्य मया संख्ये शर संकृत्त मर्मणः ।सफेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छसि ॥३-१९-९॥
+कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः ।प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥३-१९-१०॥
+तम् न देवा न गंधर्वा न पिशाचा न ��ाक्षसाः ।मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् इह आहवे ॥३-१९-११॥
+उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि ।येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता ॥३-१९-१२॥
+इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।ततः शूर्पणखा वाक्यम् सबाष्पम् इदम् अब्रवीत् ॥३-१९-१३॥
+तरुणौ रूप संपन्नौ सुकूमारौ महाबलौ ।पुण्डरीक विशालाक्षौ चीर कृष्ण अजिन अंबरौ ॥३-१९-१४॥
+फल मूल अशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम लक्ष्मनौ ॥३-१९-१५॥
+गन्धर्व राज प्रतिमौ पार्थिव व्यन्जन अन्वितौ ।देवौ वा दानवौ - मानुषौ - वा तौ न तर्कयितुम् उत्सहे ॥३-१९-१६॥
+तरुणी रूपसंपन्ना सर्वाअभरण भूषिता ।दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥३-१९-१७॥
+ताभ्याम् उभाभ्याम् संभूय प्रमदाम् अधिकृत्य ताम् ।इमाम् अवस्थाम् नीता अहम् यथा अनाथा सती तथा ॥३-१९-१८॥
+तस्याः च अनृजु वृत्तायाः तयोः च हतयोर् अहम् ।सफेनम् पातुम् इच्छामि रुधिरम् रण मूर्धनि ॥३-१९-१९॥
+एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् ।तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे ॥३-१९-२०॥
+इति तस्याम् ब्रुवाणायाम् चतुर् दश महाबलान् ।व्यादिदेश खरः क्रुद्धो राक्षसान् अंतकोपमान् ॥३-१९-२१॥
+मानुषौ शस्त्र सम्पन्नौ चीर कृष्ण अजिन अंबरौ ।प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह ॥३-१९-२२॥
+तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ ।इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति ॥३-१९-२३॥
+मनोरथो अयम् इष्टो अस्या भगिन्या मम राक्षसाः ।शीघ्रम् संपद्यताम् गत्वा तौ प्रमथ्य स्व तेजसा ॥३-१९-२४॥
+युष्माबिः निर्हतो दृष्ट्वा तौ उभौ भ्रातौ रणे ।इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति ॥३-१९-२५॥
+इति प्रतिसमादिष्टा राक्षसाः ते चतुर् दश ।तत्र जग्मुः तया सार्धम् घना वातेरिताः यथा ॥३-१९-२६॥
+ततस्तु ते तम् समुदर्ग तेजसम्
तथापि तीक्ष्ण प्रदरा निशाचरा ।न शेकुर् एनम् सहसा प्रमर्दितुम्
वनद्विपा दीप्त्वम् इव अग्निम् उथितम् ॥३-१९-२७॥
+ततः शूर्पणखा घोरा राघव आश्रमम् आगता ।रक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया ॥३-२०-१॥
+ते रामम् पर्ण शालायाम् उपविष्टम् महाबलम् ।ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम् ॥३-२०-२॥
+ताम् दृष्ट्वा राघवः श्रीमान् आगताम् ताम् च राक्षसीम् ।अब्रवीत् भ्रातरम् रामो ��क्ष्मणम् दीप्त तेजसम् ॥३-२०-३॥
+मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनंतरः ।इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥३-२०-४॥
+वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित आत्मनः ।तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत् ॥३-२०-५॥
+राघवो अपि महत् चापम् चामीकर विभूषितम् ।चकार सज्यम् धर्मात्मा तानि रक्षांसि च अब्रवीत् ॥३-२०-६॥
+पुत्रौ दशरथस्य आवाम् भ्रातरौ राम लक्ष्मणौ ।प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डका वनम् ॥३-२०-७॥
+फल मूल अशनौ दांतौ तापसौ धर्म चारिणौ ।वसन्तौ दण्डकारण्ये किम् अर्थम् उपहिंसथ ॥३-२०-८॥
+युष्मान् पाप आत्मकान् हंतुम् विप्रकारान् महाहवे ।ऋषीणाम् तु नियोगेन प्राप्तो अहम् सशर आसनः ॥३-२०-९॥
+तिष्ठत एव अत्र संतुष्टा न उपवरितितुम् अर्हथ ।यदि प्राणैः इह अर्थो वो निवर्तध्वम् निशा चराः ॥३-२०-१०॥
+तस्य तद् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश ।ऊचुर् वाचम् सुसंक्रुद्धा ब्रह्मघ्नः शूल पाणयः ॥३-२०-११॥
+संरक्त नयना घोरा रामम् रक्तांत लोचनम् ।परुषा मधुर आभाषम् हृष्टाः अदृष्ट पराक्रमम् ॥३-२०-१२॥
+क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।त्वम् एव हास्यसे प्राणान् अद्य अस्माभिर् हतो युधि ॥३-२०-१३॥
+का हि ते शक्तिर् एकस्य बहूनाम् रण मूर्धनि ।अस्माकम् अग्रतः स्थातुम् किम् पुनर् योद्धुम् आहवे ॥३-२०-१४॥
+एभिः बाहु प्रयुक्तैः नः परिघैः शूल पट्टिशैः ।प्राणाम् त्यक्ष्यसि वीर्यम् च धनुः च कर पीडितम् ॥३-२०-१५॥
+इति एवम् उक्त्वा संरब्धा राक्षसाः ते चतुर्दश ।उद्यत आयुध निस्त्रिंशा रामम् एव अभिदुद्रुवुः ॥३-२०-१६॥
+चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् ।तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥३-२०-१७॥
+तावद्भिः एव चिच्छेद शरैः कांचन भूषितैः ।ततः पश्चात् महातेजा नाराचान् सूर्य संनिभान् ॥३-२०-१८॥
+जग्राह परम क्रुद्धः चतुर्दश शिल अशितान् ।गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान् ॥३-२०-१९॥
+मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः ।ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर आप्लुताः ॥३-२०-२०॥
+विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः ।तैः भग्न हृदया बूमौ छिन्न मूला इव द्रुमाः ॥३-२०-२१॥
+निपेतुः शोणित स्नाता विकृता विगत असवः ।तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध मूर्च्छिता ॥३-२०-२२॥
+उपगम्य खरम् सा तु किंचित् संशुष्क शोणिता ।पपात पुनः एव आर्ता सनिर्यासा इव वल्लरी ॥३-२०-२३॥
+भ्रातुः समीपे शोक आर्ता ससर्ज निनदम् महत् ।सस्वरम् मुमोच बाष्पम् विवर्ण वदना तदा ॥३-२०-२४॥
+निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनः ततः ।वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा ॥३-२०-२५॥
+स पुनः पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् खरः ।उवाच व्यक्तता वाचा ताम् अनर्थ अर्थम् आगताम् ॥३-२१-१॥
+मया तु इदानीम् शूराः ते राक्षसा पिशित अशनाः ।त्वत् प्रियार्थम् विनिर्दिष्टाः किम् अर्थम् रुद्यते पुनः ॥३-२१-२॥
+भक्ताः चैव अनुरक्ताः च हिताः च मम नित्यशः ।हन्यमाना अपि न हन्यन्ते न न कुर्युः वचो मम ॥३-२१-३॥
+किम् एतत् श्रोतुम् इच्छामि कारणम् यत् कृते पुनः ।हा नाथ इति विनर्दन्ती सर्पवत् चेष्टसे क्षितौ ॥३-२१-४॥
+अनाथ वत् विलपसि किम् नु नाथे मयि स्थिते ।उत्तिष्ठोत्तिष्ठ मा मैवम् वैक्लव्यम् त्यज्यताम् इति ॥३-२१-५॥
+इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता ।विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत् ॥३-२१-६॥
+अस्मि इदानीम् अहम् प्रप्ता हत श्रवण नासिका ।शोणित ओघ परिक्लिन्ना त्वया च परिसमन्विता ॥३-२१-७॥
+प्रेषिताः च त्वया शूरा राक्षसाः ते चतुर् दश ।निहन्तुम् राघवम् घोराम् मत् प्रियार्थम् स लक्ष्मणम् ॥३-२१-८॥
+ते तु रामेण सामर्षाः शूल पट्टिस पाणयः ।समरे निहताः सर्वे सायकैः मर्म भेदिभिः ॥३-२१-९॥
+तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महाजवान् ।रामस्य च महत् कर्म महान् त्रासो अभवन् मम ॥३-२१-१०॥
+सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर ।शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय दर्शिनी ॥३-२१-११॥
+विषाद नक्र अध्युषिते परित्रास ऊर्मि मालिनि ।किम् माम् न त्रायसे मग्नाम् विपुले शोक सागरे ॥३-२१-१२॥
+एते च निहता भूमौ रामेण निशितैः शरैः ।ये च मे पदवीम् प्राप्ता राक्षसाः पिशित अशनाः ॥३-२१-१३॥
+मयि ते यदि अनुक्रोशो यदि रक्षःसु तेषु च ।रामेण यदि शक्तिः ते तेजो वा अस्ति निशा चर ॥३-२१-१४॥
+दण्डकारण्य निलयम् जहि राक्षस कण्टकम् ।यदि रामम् अमित्रघ्नम् न त्वम् अद्य वधिष्यसि ॥३-२१-१५॥
+तव चैव अग्रतः प्राणान् त्यक्ष्यामि निरपत्रपा ।बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे ॥३-२१-१६॥
+स्थातुम् प्रति मुखे शक्तः स बलो अपि महा रणे ।शूरमानी न शूरः त्वम् मिथ्या आरोपित विक्रमः ॥३-२१-१७॥
+अपयाहि जन स्थानात् त्वरितः सह बान्धवः ।जहि त्वम् समरे मूढान् यथा तु कुलपांसन ॥३-२१-१८॥
+मानुषौ तौ न शक्नोषि हन्तुम् वै राम लक्ष्मणौ ।निःसत्त्वस्य अल्प वीर्यस्य वासः ते कीदृशः तु इह ॥३-२१-१९॥
+राम तेजो अभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि ।स हि तेजः समायुक्तो रामो दशरथात्मजः ॥३-२१-२०॥
+भ्राता च अस्य महा वीर्यो येन च अस्मि विरूपिता ।एवम् विलाप्य बहुशो राक्ष्सी प्रदरोदरी ॥३-२१-२१॥
+भ्रातुः समीपे शोक आर्ता नष्ट संज्ञा बभूव ह ।कराभ्याम् उदरम् हत्वा रुरोद भृश दुःखिता ॥३-२१-२२॥
+एवम् आधर्षितः शूरः शूर्पणख्या खरः ततः ।उवाच रक्षसाम् मध्ये खरः खरतरम् वचः ॥३-२२-१॥
+तव अपमान प्रभवः क्रोधो अयम् अतुलो मम ।न शक्यते धारयितुम् लवण अंभ इव उल्बणम् ॥३-२२-२॥
+न रामम् गणये वीर्यान् मानुषम् क्षीण जीवितम् ।आत्म दुश्चरितैः प्राणान् हतो यो अद्य विमोक्ष्यति ॥३-२२-३॥
+बाष्पः सम्धार्यताम् एष संभ्रमः च विमुच्यताम् ।अहम् रामम् सह भ्रात्रा नयामि यम सादनम् ॥३-२२-४॥
+परश्वध हतस्य अद्य मन्द प्राणस्य भू तले ।रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि ॥३-२२-५॥
+सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनात् च्युतम् ।प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम् ॥३-२२-६॥
+तया परुषितः पूर्वम् पुनर् एव प्रशंसितः ।अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥३-२२-७॥
+चतुर्दश सहस्राणि मम चित्त अनुवर्तिनाम् ।रक्षसाम् भीम वेगानाम् समरेषु अनिवर्तिनाम् ॥३-२२-८॥
+नील जीमूत वर्णानाम् लोक हिंसा विहाराणाम् ।सर्व उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय ॥३-२२-९॥
+उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च ।शरान् च चित्रान् खड्गां च शक्ती च विविधाः शिताः ॥३-२२-१०॥
+अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् ।वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥३-२२-११॥
+इति तस्य ब्रुवाणस्य सूर्य वर्णम् महारथम् ।सत् अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः ॥३-२२-१२॥
+तम् मेरु शिखर आकारम् तप्त कांचन भूषणम् ।हेम चक्रम् असंबाधम् वैदूर्यमय कूबरम् ॥३-२२-१३॥
+मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र सूर्यैः च कांचनैः ।मांगल्यैः पक्षि सम्घैः च ताराभिः च समावृतम् ॥३-२२-१४॥
+ध्वज निस्त्रिंश संपन्नम् किंकिणी वर भूष��तम् ।सत् अश्व युक्तम् सः अमर्षात् आरुरोह खरः तदा ॥३-२२-१५॥
+खरः तु तान् महत् सैन्याम् रथ चर्म आयुध ध्वजान् ।निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ॥३-२२-१६॥
+ततः तद् राक्षसम् सैन्यम् घोर चर्म आयुध ध्वजम् ।निर्जगाम जन स्थानात् महानादम् महाजवम् ॥३-२२-१७॥
+मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैः च परश्वधैः ।खड्गैः चक्रैः च हस्तस्थैः भ्राजमानैः स तोमरैः ॥३-२२-१८॥
+शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः ।गदा असि मुसलैः वज्रैः गृहीतैः भीम दर्शनैः ॥३-२२-१९॥
+राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश ।निर्यातानि जन स्थानात् खर चित्त अनुवर्तिनाम् ॥३-२२-२०॥
+तान् तु निर्धावतो दृष्ट्वा राक्षसान् भीम दर्शनम् ।खरस्य अथ रथः किंचित् जगाम तत् अनन्तरम् ॥३-२२-२१॥
+ततः तान् शबलान् अश्वान् तप्त कांचन भूषितान् ।खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥
+संचोदितो रथः शीघ्रम् खरस्य रिपु घातिनः ।शब्देन आपूरयामास दिशः स प्रदिशः तथा ॥३-२२-२३॥
+प्रवृद्ध मन्युः तु खरः खर स्वरेरिपोः वध अर्थम् त्वरितो यथा अंतकः ।अचूचुदत् सारथिम् उन्नदन् पुनर्महाबलो मेघ इव अश्म वर्षवान् ॥३-२२-२४॥
+तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥
+निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥
+श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥
+ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥
+जनस्थान समीपे च समाक्रम्य खर स्वनाः ।विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥
+व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥
+प्रभिन्नगजसंकाशतोयशोणितधारिणः ।यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः ।आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥
+बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥
+क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥
+कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।नित्या अशिव करा युद्धे शिव�� घोर निदर्शनाः ॥३-२३-१०॥
+नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥
+जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥
+उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥
+तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥
+चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥
+प्रचचाल मही च अपि स शैल वन कानना ।खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
+प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
+ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥
+अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
+न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥
+मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥
+अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
+सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
+युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥
+वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥
+प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥
+ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥
+स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥
+चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥
+जात कौतूहलात् तत्र विमानस्थाः च देवताः ।ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥
+रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥
+दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥
+द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥
+सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना ।तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥
+अवष्टब्ध धनुम् रामम् क्रुद्धम् च रिपु घातिनम् ।ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः ॥३-२५-१॥
+तम् दृष्ट्वा सगुणम् चापम् उद्यम्य खर निःस्वनम् ।रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत् ॥३-२५-२॥
+स खरस्य आज्ञया सूतः तुरगान् समचोदयत् ।यत्र रामो महाबाहुः एको धुन्वन् धनुः स्थितः ॥३-२५-३॥
+तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनी चराः ।मुंचमाना महानादम् सचिवाः पर्यवारयन् ॥३-२५-४॥
+स तेषाम् यातुधानानाम् मध्ये रथः गतः खरः ।बभूव मध्ये ताराणाम् लोहितांग इव उदितः ॥३-२५-५॥
+ततः शर सहस्रेन रामम् अप्रतिम ओजसम् ।अर्दयित्वाअ महानादम् ननाद समरे खरः ॥३-२५-६॥
+ततः तम् भीम धन्वानम् क्रुद्धाः सर्वे निशाचराः ।रामम् नाना विधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥
+मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः ।राक्षसाः समरे रामम् निजघ्नू रोष तत्पराः ॥३-२५-८॥
+ते वलाहक संकाशा महाकाया महाबलाः ।अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च ॥३-२५-९॥
+गजैः पर्वत कूट अभैः रामम् युद्धे जिंघासवः ।ते रामे शर वर्षाणि व्यसृजन् रक्षसाम् गणाः ॥३-२५-१०॥
+शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः ।सर्वैः परिवृतो रामो राक्षसैः कॄरदर्शिनैः ॥३-२५-११॥
+तिथिषु इव महादेवो वृतः पारिषदाम् गणैः ।तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥
+प्रतिजग्राह विशिखैः नदि ओघान् इव सागरः ।स तैः प्रहरणैः घोरैः भिन्न गात्रो न विव्यथे ॥३-२५-१३॥
+रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महा अचलः ।स विद्धः क्षतज दिग्धः सर्व गात्रेषु राघवः ॥३-२५-१४॥
+बभूव रामः सन्ध्य अभ्रैः दिवाकर इव आवृतः ।विषेदुर् देव गन्धर्वाः सिद्धाः च पर��� ऋषयः ॥३-२५-१५॥
+एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् ।ततो रामः तु सुसंक्रुद्धो मण्डली कृत कार्मुकः ॥३-२५-१६॥
+ससर्ज निशितान् बाणान् शतशः अथ सहस्रशः ।दुरवारान् दुर्विषहान् कालपाश उपमान् रणे ॥३-२५-१७॥
+मुमोच लीलया रामः कंकपत्रान् कांचन भूषणान् ।ते शराः शत्रु सैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥
+आददू रक्षसाम् प्राणान् पाशाः कालकृता इव ।भित्त्वा राक्षस देहान् ताम् ते शरा रुधिर आप्लुताः ॥३-२५-१९॥
+अंतरिक्ष गता रेजुः दीप्त अग्नि सम तेजसः ।असंख्येयाः तु रामस्य सायकाः चाप मण्डलात् ॥३-२५-२०॥
+विनिष्पेतुः अतीव उग्रा रक्षः प्राण अपहारिणः ।तैः धनूंषि ध्वज अग्राणि चर्माणि च शिरांसि च ॥३-२५-२१॥
+बहून् स हस्त आभरणान् ऊरून् करि कर उपमान् ।चिछेद रामः समरे शतशः अथ सहस्रशः ॥३-२५-२२॥
+हयान् कांचन सन्नाहान् रथ युक्तान् स सारथीन् ।गजाम् च स गज आरोहान् स हयान् सारधिनः तदा ॥३-२५-२३॥
+चिछिदुः बिभिदुः च एव राम बाणा गुण च्युताः ।पदातीन् समरे हत्वा हि अनयत् यम सदनम् ॥३-२५-२४॥
+ततो नालीक नाराचैः तीक्ष्ण अग्रैः विकर्णिभिः ।भीमम् आर्त स्वरम् चक्रुः छिद्यमाना निशाचराः ॥३-२५-२५॥
+तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म भेदिभिः ।न रामेण सुखम् लेभे शुष्कम् वनम् इव अग्निना ॥३-२५-२६॥
+केचिद् भीम बलाः शूराः प्रासान् शूलान् परश्वधान् ।चिक्षिपुः परम क्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥
+तेषाम् बाणैः महाबाहुः शस्त्राणि आवार्य वीर्यवान् ।जहार समरे प्राणान् चिच्छेद च शिरो धरान् ॥३-२५-२८॥
+ते छिन्न शिरसः पेतुः छिन्न चर्म शरासनाः ।सुपर्ण वात विक्षिप्ता जगत्याम् पादपा यथा ॥३-२५-२९॥
+अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः ।खरम् एव अभ्यधावन्त शरणार्थम् शर आहताः ॥३-२५-३०॥
+तान् सर्वान् धनुर् आदाय समाश्वास्य च दूषणः ।अभ्यधावत सुसंक्रुद्धः क्रुद्धः [रुद्रम्] क्रुद्ध इव अन्तकः ॥३-२५-३१॥
+निवृत्ताः तु पुनः सर्वे दूषण आश्रय निर्भयाः ।रामम् एव अभ्यधावन्त साल ताल शिल आयुधाः ॥३-२५-३२॥
+शूल मुद्गर हस्ताः च पाश हस्ता महाबलाः ।सृजन्तः शर वर्षाणि शस्त्र वर्षाणि संयुगे॥३-२५-३३॥
+द्रुम वर्षाणि मुंचन्तः शिला वर्षाणि राक्षसाः ।तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम हर्षणम् ॥३-२५-३४॥
+रामस्य अस्य महाघोरम् पुनः तेषाम् च रक्षसाम् ।ते समन्तात् अभिक्रुद्धा राघवम् पुनर् आर्दयन् ॥३-२५-३५॥
+ततः सर्वा दिशो दृष्ट्वा प्रदिशाः च समावृताः ।राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥३-२५-३६॥
+स कृत्वा भैरवम् नादम् अस्त्रम् परम भास्वरम् ।समयोजयत् गान्धर्वम् राक्षसेषु महाबलः ॥३-२५-३७॥
+ततः शर सहस्राणि निर्ययुः चाप मण्डलात् ।सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥३-२५-३८॥
+न आददानाम् शरान् घोरान् विमुंचंतम् शर उत्तमान् ।विकर्षमाणम् पश्यन्ति राक्षसाः ते शर आर्दिताः ॥३-२५-३९॥
+शर अन्धकारम् आकाशम् आवृणोत् स दिवाकरम् ।बभूव अवस्थितो रामः प्रक्षिपन् इव तान् शरान् ॥३-२५-४०॥
+युगपत् पतमानैः च युगपच्च हतैः भ्रिशम् ।युगपत् पतितैः चैव विकीर्णा वसुधा अभवत् ॥३-२५-४१॥
+निहताः पतिताः क्षीणा च्छिन्न भिन्न विदारिताः ।तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशः ॥३-२५-४२॥
+स उष्णीषैः उत्तम अन्गैः च स अंगदैः बाहुभिः तथा ।ऊरुभिः बाहुभिः च्छिन्नैः नाना रूपैः विभूषणैः ॥३-२५-४३॥
+हयैः च द्विप मुख्यैः च रथैः भिन्नैः अनेकशः ।चामर व्यजनैः छत्रैः ध्वजैः नाना विधैः अपि ॥३-२५-४४॥
+रामेण बाण अभिहतैः विच्छिन्नैः शूल पट्टिशैः ।खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च पश्वधैः ॥३-२५-४५॥
+चूणिताभिः शिलाभिः च शरैः चित्रैः अनेकशः ।विच्छिन्नैः समरे भूमिः विस्तीर्णा आभूत् भयंकरा ॥३-२५-४६॥
+तान् दृष्ट्वा निहतान् सर्वे रक्षसाः परम आतुराः ।न तत्र चलितुम् शक्ता रामम् पर पुरंजयम् ॥३-२५-४७॥
+दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च ।संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥३-२६-१॥
+राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः ।ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥३-२६-२॥
+शर वर्षैः विच्छिन्नम् ववर्षुः तम् समन्ततः ।तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३-२६-३॥
+प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः ।प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥३-२६-४॥
+रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् ।ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥
+शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् ।ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥३-२६-६॥
+शरैः अशनि कल्पैः तम् राघवम् समवारयत् ।ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥३-२६-७॥
+चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् ।हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥३-२६-८॥
+शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि ।स च्छिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥३-२६-९॥
+जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् ।वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥३-२६-१०॥
+आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् ।वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥३-२६-११॥
+तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे ।दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥३-२६-१२॥
+तस्य अभिपतमानस्य दूषणस्य स राघवः ।द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त आभरणौ भुजौ ॥३-२६-१३॥
+भ्रष्टः तस्य महाकायः पपात रण मूर्धनि ।परिघः छिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥३-२६-१४॥
+कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः ।विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥३-२६-१५॥
+दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे ।साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥३-२६-१६॥
+एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः ।संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥३-२६-१७॥
+महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥३-२६-१८॥
+स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् ।दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥३-२६-१९॥
+तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव ।महाकपालस्य शिरः चिच्छेद रघुनंदनः ॥३-२६-२०॥
+असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् ।स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥
+स पपात हतो भूमौ विटपी इव महाद्रुमः ।दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥३-२६-२२॥
+हत्वा तु पंच सहस्रान् अनयत् यम सदनम् ।दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥३-२६-२३॥
+व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् ।अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥३-२६-२४॥
+महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् ।शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥३-२६-२५॥
+एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे ।श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥३-२६-२६॥
+दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पस्यो रुधिराशनः ॥३-२६-२७॥
+द्वादश एते महावीर्या बल अध्यक्षाः ।स सैनिकाःरमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥३-२६-२८॥
+ततः पावक संकाशैः हेम वज्र विभूषितैः ।जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥
+ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः ।निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥
+रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना ।सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३-२६-३१॥
+तैः भिन्न वर्म आभरणाः छिन्न भिन्न शर आसनाः ।निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३-२६-३२॥
+तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः ।विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३-२६-३३॥
+तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् ।बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३-२६-३४॥
+चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥
+तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३-२६-३६॥
+शेषा हता महावीर्या राक्षसा रण मूर्धनि ।घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३-२६-३७॥
+ततः तु तद् भीम बलम् महा आहवेसमीक्ष्य रामेण हतम् बलीयसा ।रथेन रामम् महता खरः ततःसमाससाद इन्द्र इव उद्यत अशनिः ॥३-२६-३८॥
+खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः ।राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥
+माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् ।पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥
+प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे ।यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥
+अहम् वा अस्य रणे मृत्युः एष वा समरे मम ।विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥
+प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि ।मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥
+खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः ।गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥
+त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता ।अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥
+शर धारा समूहान् स महामेघ इव उत्सृजन् ।व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥
+आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः ।धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥
+स संप्रहारः तुमुलो राम त्रिशिरसोः तदा ।संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०���
+ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥
+अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् ।पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥
+मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् ।एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥
+त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश ।चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥
+न्यपातयत तेजस्वी चतुरः तस्य वाजिनः ।अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥
+रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् ।ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥
+चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः ।सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥
+शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः ।स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥
+न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः ।हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥
+द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव ।तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् ।रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥
+निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥
+स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥
+तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥
+विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥
+ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥
+स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥
+स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥
+तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥
+शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥
+ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥
+तम् रथस्थम् धनुष् पाणिम् राक्षसम् पर्यवस्थितम् ।ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥
+हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् ।परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥
+तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥
+ततः सूर्य निकाशेन रथेन महता खरः ।आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥
+ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥
+स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥
+ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥
+ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥
+स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥
+ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥
+सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥
+ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥
+स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥
+तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥
+स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥
+स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥
+शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥
+ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥
+रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥
+त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥
+छित्त्वा व��्र निकाशेन राघवः प्रहसन् इव ।त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥
+प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥
+तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च ।अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥
+खरम् तु विरथम् रामो गदा पाणिम् अवस्थितम् ।मृदु पूर्वम् महातेजाः परुषम् वाक्यम् अब्रवीत् ॥३-२९-१॥
+गज अश्व रथ संबाधे बले महति तिष्ठता ।कृतम् सुदारुणम् कर्म सर्व लोक जुगुप्सितम् ॥३-२९-२॥
+उद्वेजनीयो भूतानाम् नृशंसः पाप कर्मकृत् ।त्रयाणाम् अपि लोकानाम् ईश्वरो अपि न तिष्ठति ॥३-२९-३॥
+कर्म लोक विरुद्धम् तु कुर्वाणम् क्षणदा चर ।तीक्ष्णम् सर्व जनो हन्ति सर्पम् दुष्टम् इव आगतम् ॥३-२९-४॥
+लोभात् पापानि कुर्वाणः कामात् वा यो न बुध्यते ।हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव ॥३-२९-५॥
+वसतो दण्डकारण्ये तापसान् धर्म चारिणः ।किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस ॥३-२९-६॥
+न चिरम् पाप कर्माणः क्रूरा लोक जुगुप्सिताः ।ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण मूला इव द्रुमाः ॥३-२९-७॥
+अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः ।घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम् ॥३-२९-८॥
+न चिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् ।स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदाचर ॥३-२९-९॥
+पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् ।अहम् आसादितो राज्ञा प्राणान् हन्तुम् निशाचर ॥३-२९-१०॥
+अद्य भित्वा मया मुक्ताः शराः कांचन भूषणाः ।विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥३-२९-११॥
+ये त्वया दण्डकारण्ये भक्षिता धर्म चारिणः ।तान् अद्य निहतः संख्ये स सैन्यो अनुगमिष्यसि ॥३-२९-१२॥
+अद्य त्वाम् निहतम् बाणैः पश्यन्तु परमर्षयः ।निरयस्थम् विमानस्था ये त्वया निहता पुरा ॥३-२९-१३॥
+प्रहरस्व यथा कामम् कुरु यत्नम् कुलाधम ।अद्य ते पातयिष्यामि शिरः ताल फलम् यथा ॥३-२९-१४॥
+एवम् उक्तः तु रामेण क्रुद्धः संरक्त लोचनः ।प्रति उवाच ततो रामम् प्रहसन् क्रोध मूर्चितः ॥३-२९-१५॥
+प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ आत्मज ।आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशम्ससि ॥३-२९-१६॥
+विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥३-२९-१७॥
+प्राकृताः तु अकृत आत्मानो लोके क्षत्रिय पांसनाः ।निरर्थकम् विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥
+कुलम् व्यपदिशन् वीरः समरे को अभिधास्यति ।मृत्यु काले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥३-२९-१९॥
+सर्वथा तु लघुत्वम् ते कत्थनेन विदर्शितम् ।सुवर्ण प्रतिरूपेण तप्तेन इव कुश अग्निना ॥३-२९-२०॥
+न तु माम् इह तिष्ठंतम् पश्यसि त्वम् गदा धरम् ।धराधरम् इव अकंप्यम् पर्वतम् धातुभिः चितम् ॥३-२९-२१॥
+पर्याप्तो अहम् गदा पाणिर् हन्तुम् प्राणान् रणे तव ।त्रयाणाम् अपि लोकानाम् पाश हस्त इव अंतकः ॥३-२९-२२॥
+कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् ।अस्तम् प्राप्नोति सविता युद्ध विघ्नः ततो भवेत् ॥३-२९-२३॥
+चतुर्दश सहस्राणि राक्षसानाम् हतानि ते ।त्वत् विनाशात् करोमि अद्य तेषाम् अश्रु प्रमार्जनम् ॥३-२९-२४॥
+इति उक्त्वा परम क्रुद्धः ताम् गदाम् परम अन्गदाम् ।खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा ॥३-२९-२५॥
+खर बाहु प्रमुक्ता सा प्रदीप्ता महती गदा ।भस्म वृक्षाम् च गुल्माम् च कृत्वा अगात् तत् समीपतः ॥३-२९-२६॥
+ताम् आपतन्तीम् महतीम् मृत्यु पाश उपमाम् गदाम् ।अंतरिक्ष गताम् रामः चिच्छेद बहुधा शरैः ॥३-२९-२७॥
+सा विशीर्णा शरैः भिन्ना पपात धरणी तले ।गदा मंत्र औषधि बलैर् व्याली इव विनिपातिता ॥३-२९-२८॥
+भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥
+एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥
+एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥
+यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥
+नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥
+अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥
+पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥
+प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥
+जनस्थाने हत स्थाने तव राक्षस मत् शरैः ��निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥
+अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥
+अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥
+नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥
+तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥
+दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥
+काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥
+एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥
+रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥
+तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥
+तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥
+जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥
+तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥
+विकल स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥
+तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥
+ततः पावक संकाशम् वधाय समरे शरम् ।खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥
+स तत् दत्तम् मघवता सुर राजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥
+स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥
+स पपात खरो भूमौ दह्यमानः शर अग्निना ।रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥
+स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥
+एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।दुन्दुभिः च अभिनिघ्नंतः पुष्प ��र्ष समंततः ॥३-३०-२९॥
+रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥
+चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥
+अहो बत महत् कर्म रामस्य विदित आत्मनः ।अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥
+इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥
+सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥
+शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥
+एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥
+स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥
+गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥
+प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥
+बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥
+ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥
+त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥
+जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥
+एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥
+केन भीमम् जनस्थानम् हतम् मम परासुना ।को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥
+न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥
+कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥
+वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥
+तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।भयात् सं���िग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥
+दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥
+पुत्रो दशरथः ते सिंह संहननो युवा ।रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥
+श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥
+अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥
+स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥
+रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥
+रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥
+तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥
+स तेन सह संयुक्तः पावकेन अनिलो यथा ।श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥
+न एव देवा महत्मनो न अत्र कार्या विचारणा ।शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥
+सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥
+तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥
+अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥
+अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥
+असाध्यः कुपितो रामो विक्रमेण महायशाः ।आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥
+स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥
+भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥
+संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥
+न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥
+न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-���१-२८॥
+भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥
+न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥
+तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥
+अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥
+बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥
+तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥
+स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥
+स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥
+तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥
+कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥
+एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥
+आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥
+तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥
+आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥
+सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥
+प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥
+कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥
+विशुद्ध वंश अभिजना अग्र हस्तःतेजो मदः संस्थित दोर्??? विषाणः ।उदीक्षितुम् रावण न इह युक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥
+असौ रण अन्तः स्थिति संधि वालःविदग्ध रक्षो मृग हा नृसिंहः ।सुप्तः त्वया बोधयितुम् न शक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥
+चापापहारे भुज वेग पंकेशर ऊर्मिमाले सु महा आहव ��घे ।न राम पाताल मुखे अति घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥
+प्रसीद लंकेश्वर राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।त्वम् स्वेषु दारेषु रमस्व नित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥
+एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥
+ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।हतानि एकेन रामेण रक्षसाम् भीम कर्मणाम् ॥३-३२-१॥
+दूषणम् च खरम् चैव हतम् त्रिशिरसम् रणे ।दृष्ट्वा पुनर् महानादम् ननाद जलद उपमा ॥३-३२-२॥
+सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् ।जगाम परम उद्विग्ना लंकाम् रावण पालिताम् ॥३-३२-३॥
+सा ददर्श विमान अग्रे रावणम् दीप्त तेजसम् ।उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम् ॥३-३२-४॥
+आसीनम् सूर्य संकाशे कांचने परमासने ।रुक्म वेदि गतम् प्राज्यम् ज्वलंतम् इव पावकम् ॥३-३२-५॥
+देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।अजेयम् समरे घोरम् व्यात्त आननम् इव अन्तकम् ॥३-३२-६॥
+देव असुर विमर्देषु वज्र अशनि कृत व्रणम् ।ऐरावत विषाण अग्रैः उत्कृष्ट किण वक्षसम् ॥३-३२-७॥
+विंशत् भुजम् दश ग्रीवम् दर्शनीय परिच्छदम् ।विशाल वक्षसम् वीरम् राज लक्ष्मण लक्षितम् ॥३-३२-८॥
+नद्ध वैदूर्य संकाशम् तप्त कान्चन कुण्डलम् ।सुभुजम् शुक्ल दशनम् महा आस्यम् पर्वतोपमम् ॥३-३२-९॥
+विष्णु चक्र निपातैः च शतशो देव संयुगे ।अन्यैः शस्त्रैः प्रहारैः च महायुद्धेषु ताडितम् ॥३-३२-१०॥
+आहत अंगम् समस्तैः च देव प्रहरणैः तथा ।अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्र कारिणम् ॥३-३२-११॥
+क्षेप्तारम् पर्वत अग्राणाम् सुराणाम् च प्रमर्दनम् ।उच्छेत्तारम् च धर्माणाम् पर दार अभिमर्शनम् ॥३-३२-१२॥
+सर्व दिव्य अस्त्र योक्तारम् यज्ञ विघ्न करम् सदा ।पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् ॥३-३२-१३॥
+तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः ।कैलासम् पर्वतम् गत्वा विजित्य नर वाहनम् ॥३-३२-१४॥
+विमानम् पुष्पकम् तस्य कामगम् वै जहार यः ।वनम् चैत्ररथम् दिव्यम् नलिनीम् नंदनम् वनम् ॥३-३२-१५॥
+विनाशयति यः क्रोधात् देव उद्यानानि वीर्यवान् ।चन्द्र सूर्यौ महा भागौ उत्तिष्ठन्तौ परंतपौ ॥३-३२-१६॥
+निवारयति बाहुभ्याम् यः शैल शिखरोपमः ।दश वर्ष सहस्राणि तपः तप्त्वा महावने ॥३-३२-१७॥
+पुरा स्वयंभुवे ���ीरः शिरांसि उपजहार यः ।देव दानव गधर्व पिशाच पतग उरगैः ॥३-३२-१८॥
+अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते ।मन्त्रैः अभितुष्टम् पुण्यम् अध्वरेषु द्विजातिभिः ॥३-३२-१९॥
+हविर्धानेषु यः सोमम् उपहन्ति महाबलः ।प्राप्त यज्ञ हरम् दुष्टम् ब्रह्म घ्नम् क्रूर कारिणम् ॥३-३२-२०॥
+कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् ।रावणम् सर्व भूतानाम् सर्व लोक भयावहम् ॥३-३२-२१॥
+राक्षसी भ्रातरम् क्रूरम् सा ददर्श महाबलम् ।तम् दिव्य वस्त्र आभरणम् दिव्य माल्य उपशोभितम् ॥३-३२-२२॥
+आसने सूपविष्टम् तम् काले कालम् इव उद्यतम् ।राक्षसेन्द्रम् महाभागम् पौलस्त्य कुल नन्दनम् ॥३-३२-२३॥
+उपगम्य अब्रवीत् वाक्यम् राक्षसी भय विह्वला ।रावणम् शत्रु हन्तारम् मंत्रिभिः परिवारितम् ॥३-३२-२४॥
+तम् अब्रवीत् दीप्त विशाल लोचनम्प्रदर्शयित्वा भय लोभ मोहिता ।सुदारुणम् वाक्यम् अभीत चारिणीमहात्मना शूर्पणखा विरूपिता ॥३-३२-२५॥
+ततः शूर्पणखा दीना रावणम् लोक रावणम् ।अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥
+प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥
+सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥
+स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥
+अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥
+ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥
+आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥
+त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥
+येषाम् चारः च कोशः च नयः च जयताम् वर ।अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥
+यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥
+अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥
+चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥
+ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥
+त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥
+तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥
+अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥
+न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥
+शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥
+उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥
+अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥
+नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥
+त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥
+पर अवमंता विषयेषु संगवान्न देश काल प्रविभाग तत्त्व वित् ।अयुक्त बुद्धिः गुण दोष निश्चयेविपन्न राज्यो न चिरात् विपत्स्यते ॥३-३३-२३॥
+इति स्व दोषान् परिकीर्तिताम् तयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।धनेन दर्पेण बलेन च अन्वितोविचिन्तयामास चिरम् स रावणः ॥३-३३-२४॥
+आश्रमम् प्रति याते तु खरे खर पराक्रमे ।तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
+ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥
+तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥
+कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥
+इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥
+आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥
+अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥
+तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥
+स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
+ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥
+यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥
+कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥
+संप्रहारः तु सुमहान् भविष्यति न संशयः ।अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
+दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥
+संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
+न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥
+उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥
+इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥
+रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥
+निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥
+अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
+ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥
+तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥
+एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥
+प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥
+भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥
+त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥
+अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥
+एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥
+रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥
+तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥
+सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥
+स तेन अग्नि निकाशेन कवचेन विभूषितः ।बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥
+तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥
+स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥
+न एव देवी न गंधर्वा न यक्षी न च किंनरी ।तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥
+ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥
+यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥
+ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥
+सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥
+स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
+ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥
+चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
+ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥
+चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
+मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥
+इति राजर्षयः सिद्धाः स गणाः च द्व��जर्षभाः ।जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥
+रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥
+आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥
+विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥
+रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥
+निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् ।खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥
+इति संभाष्यमाणो तु देव गंधर्व चारणैः ।ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
+अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
+चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
+तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
+दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
+घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
+ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
+क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
+तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥
+तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥
+ततः शूर्पणखा वाक्यम् तत् श्रुत्वा रोम हर्षणम् ।सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह ॥३-३५-१॥
+तत् कार्यम् अनुगम्यांतर् यथावत् उपलभ्य च ।दोषाणाम् च गुणानाम् च सम्प्रधार्य बल अबलम् ॥३-३५-२॥
+इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः ।स्थिर बुद्धिः ततो रम्याम् यान शालाम् जगाम ह ॥३-३५-३॥
+यान शालाम् ततो गत्वा प्रच्छन्नम् राक्षस अधिपः ।सूतम् संचोदयामास रथः संयुज्यताम् इति ॥३-३५-४॥
+एवम् उक्तः क्षणेन एव सारथिः लघु विक्रमः ।रथम् संयोजयामास तस्य अभिमतम् उत्तमम् ॥३-३५-५॥
+कांचनम् रथम् आस्थाय कामगम् रत्न भूषितम् ।पिशाच वदनैः युक्तम् खरैः कनक भूषणैः ॥३-३५-६॥
+मेघ प्रतिम नादेन स तेन धनद अनुजः ।राक्षसाधिपतिः श्रीमान् ययौ नद नदी पतिम् ॥३-३५-७॥
+स श्वेत वाल व्यजनः श्वेतः छत्रो दशाननः ।स्निग्ध वैदूर्य संकाश तप्त कान्चन भूषणः ॥३-३५-८॥
+दशग्रीवो विम्शति भुजो दर्शनीय परिच्छदः ।त्रिदश अरिः मुनीन्द्र घ्नो दश शीर्ष इव अद्रि राट् ॥३-३५-९॥
+कामगम् रथम् आस्थाय शुशुभे राक्षसाधिपः ।विद्युन् मण्डलवान् मेघः स बलाक इव अंबरे ॥३-३५-१०॥
+स शैलम् सागर अनूपम् वीर्यवान् अवलोकयन् ।नाना पुष्प फलैर् वृक्षैर् अनुकीर्णम् सहस्रशः ॥३-३५-११॥
+शीत मंगल तोयाभिः पद्मिनीभिः समंततः ।विशालैः आश्रम पदैः वेदिमद्भिः अलंकृतम् ॥३-३५-१२॥
+कदल्य अटवि संशोभम् नालिकेर उपशोभितम् ।सालैः तालैः तमालैः च तरुभिः च सुपुष्पितैः ॥३-३५-१३॥
+अत्यन्त नियत आहारैः शोभितम् परम ऋषिभिः ।नागैः सुपर्णैः गंधर्वैः किंनरैः च सहस्रशः ॥३-३५-१४॥
+जित कामैः च सिद्धैः च चारणैः च उपशोभितम् ।आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः ॥३-३५-१५॥
+दिव्य आभरण माल्याभिः दिव्य रूपाभिः आवृतम् ।क्रीडा रति विधिज्ञाभिः अप्सरोभिः सहस्रशः ॥३-३५-१६॥
+सेवितम् देव पत्नीभिः श्रीमतीभिः उपासितम् ।देव दानव सन्घैः च चरितम् तु अमृत अशिभिः ॥३-३५-१७॥
+हंस क्रौन्च प्लव आकीर्णम् सारसैः संप्रणादितम् ।वैदूर्य प्रस्तरम् स्निग्धम् सांद्रम् सागर तेजसा ॥३-३५-१८॥
+पाण्डुराणि विशालानि दिव्य माल्य युतानि च ।तूर्य गीत अभिजुष्टानि विमानानि समंततः ॥३-३५-१९॥
+तपसा जित लोकानाम् कामगान् अभिसंपतन् ।गन्धर्व अप्सरसः चैव ददर्श धनदानुजः ॥३-३५-२०॥
+निर्यास रस मूलानाम् चंदनानाम् सहस्रशः ।वनानि पश्यन् सौम्यानि घ्राण तृप्ति कराणि च ॥३-३५-२१॥
+अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च ।तक्कोलानाम् च जात्यानाम् फलानाम् च सुगन्धिनाम् ॥३-३५-२२॥
+पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥
+शैलानि प्रवरान् चैव प्रवाल निचयान् तथा ।कांचनानि च शृंगाणि राजतानि तथैव च ॥३-३५-२४॥
+प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च ।धन धान्य उपपन्नानि स्त्री रत्नैः आवृतानि च ॥३-३५-२५॥
+हस्ति अश्व रथ गाढानि नगराणि विलोकयन् ।तम् समम् सर्वतः स्निग्धम् मृदु संस्पर्श मारुतम् ॥३-३५-२६॥
+अनूपे सिन्धु राजस्य ददर्श त्रिदिव उपमम् ।तत्र अपश्यत् स मेघ आभम् न्यग्रोधम् मुनिभिर् वृतम् ॥३-३५-२७॥
+समंतात् यस्य ताः शाखाः शत योजनम् आयताः ।यस्य हस्तिनम् आदाय महा कायम् च कच्छपम् ॥३-३५-२८॥
+भक्षार्थम् गरुडः शाखाम् आजगाम महाबलः ।तस्य ताम् सहसा शाखाम् भारेण पतगोत्तमः ॥३-३५-२९॥
+सुपर्णः पर्ण बहुलाम् बभंज अथ महाबलः ।तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥
+अजा बभूवुः धूम्राः च संगताः परमर्षयः ।तेषाम् दयाअर्थम् गरुडः ताम् शाखाम् शत योजनाम् ॥३-३५-३१॥
+भग्नम् आदाय वेगेन तौ च उभौ गज कच्छपौ ।एक पादेन धर्म आत्मा भक्षयित्वा तत् आमिषम् ॥३-३५-३२॥
+निषाद विषयम् हत्वा शाखया पतगोत्तमः ।प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥
+स तेन तु प्रहर्षेण द्विगुणी कृत विक्रमः ।अमृत आनयनार्थम् वै चकार मतिमान् मतिम् ॥३-३५-३४॥
+अयो जालानि निर्मथ्य भित्त्वा रत्न गृहम् वरम् ।महेन्द्र भवनात् गुप्तम् आजहार अमृतम् ततः ॥३-३५-३५॥
+तम् महर्षि गणैः जुष्टम् सुपर्ण कृत लक्षणम् ।नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद अनुजः ॥३-३५-३६॥
+तम् तु गत्वा परम् पारम् समुद्रस्य नदी पतेः ।ददर्श आश्रमम् एकांते पुण्ये रम्ये वनांतरे ॥३-३५-३७॥
+तत्र कृष्ण अजिन धरम् जटा वल्कल धारिणम् ।ददर्श नियत आहारम् मारीचम् नाम राक्षसम् ॥३-३५-३८॥
+स रावणः समागम्य विधिवत् तेन रक्षसा ।मारीचेन अर्चितो राजा सर्व कामैः अमानुषैः ॥३-३५-३९॥
+तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च ।अर्थोपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३५-४०॥
+कच्चित् ते कुशलम् राजन् लंकायाम् राक्षसेश्वर ।केन अर्थेन् पुनः त्वम् वै तूर्णम् एव इह आगतः ॥३-३५-४१॥
+एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३५-४२॥
+मारीच श्रूयताम् तात वचनम् मम भाषतः ।आर्तो अस्मि मम च आर्तस्य भवान् हि परमा गतिः ॥३-३६-१॥
+जानीषे त्वम् जनस्थाने भ्राता यत्र खरो मम ।दूषणः च महाबाहुः स्वसा शूर्पणखा च मे ॥३-३६-२॥
+त्रिशिराः च महातेजा राक्षसः पिशित अशनः ।अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥३-३६-३॥
+वसन्ति मत् नियोगेन अधिवासम् च राक्षसः ।बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३-३६-४॥
+चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।शूराणाम् लब्ध लक्षाणाम् खर चित्त अनुवर्तिनाम् ॥३-३६-५॥
+ते तु इदानीम् जनस्थाने वसमाना महाबलाः ।संगताः परम आयत्ता रामेण सह संयुगे ॥३-३६-६॥
+नाना शस्त्र प्रहरणाः खर प्रमुख राक्षसः ।तेन संजात रोषेण रामेण रण मूर्धनि ॥३-३६-७॥
+अनुक्त्वा परुषम् किंचित् शरैर् व्यापारितम् धनुः ।चतुर्दश सहस्राणि रक्षसाम् उग्र तेजसाम् ॥३-३६-८॥
+निहतानि शरैः दीप्तैः मानुषेण पदातिना ।खरः च निहतः संख्ये दूषणः च निपातितः ॥३-३६-९॥
+हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः ।पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण जीवितः ॥३-३६-१०॥
+स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः ।अशीलः कर्कशः तीक्ष्णो मूर्खो लुब्धो अजित इन्द्रियः ॥३-३६-११॥
+त्यक्त धर्मः तु अधर्म आत्मा भूतानाम् अहिते रतः ।येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् ॥३-३६-१२॥
+कर्ण नास अपहारेण भगिनी मे विरूपिता ।तस्य भार्याम् जनस्थानात् सीताम् सुर सुत उपमाम् ॥३-३६-१३॥
+आनयिष्यामि विक्रम्य सहायः तत्र मे भव ।त्वया हि अहम् सहायेन पार्श्वस्थेन महाबल ॥३-३६-१४॥
+भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिंतये ।तत् सहायो भव त्वम् मे समर्थो हि असि राक्षस ॥३-३६-१५॥
+वीर्ये युद्धे च दर्पे च न हि अस्ति सदृशः तव ।उपायतो महान् शूरो महा माय विशारदः ॥३-३६-१६॥
+एतत् अर्थम् अहम् प्राप्तः त्वत् समीपम् निशाचर ।शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ॥३-३६-१७॥
+सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ।आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥३-३६-१८॥
+त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग रूपिणम् ।गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति ॥३-३६-१९॥
+ततः तयोः अपाये तु शून्ये सीताम् यथा सुखम् ।निराबाधो हरिष्यामि राहुः चन्द्र प्रभाम् इव ॥३-३६-२०॥
+ततः पश्चात् सुखम् रामे भार्या आहरण कर्शिते ।विस्रब्धम् प्रहरिष्यामि कृत अर्थेन अन्तर् आत्मना ॥३-३६-२१॥
+तस्य राम कथाम् श्रुत्वा मारीचस्य महात्मनः ।शुष्कम् समभवत् वक्त्रम् परित्रस्तो बभूव च ॥३-३६-२२॥
+ओष्टौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव ।मृत भूत इव आर्तः तु रावणम् समुत् ईक्षतः ॥३-३६-२३॥
+स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः ।कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥
+तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्य विशारदः ।प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥३-३७-१॥
+सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ।अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥३-३७-२॥
+न नूनम् बुध्यसे रामम् महावीर्यम् गुण उन्नतम् ।अयुक्त चारः चपलो महेन्द्र वरुण उपमम् ॥३-३७-३॥
+अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् ।अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् ॥३-३७-४॥
+अपि ते जीवित अंताय न उत्पन्ना जनकात्मजा ।अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् ॥३-३७-५॥
+अपि त्वाम् ईश्वरम् प्राप्य काम वृत्तम् निरंकुशम् ।न विनश्येत् पुरी लंका त्वया सह स राक्षसा ॥३-३७-६॥
+त्वत् विधः काम वृत्तो हि दुःशीलः पाप मंत्रितः ।आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः ॥३-३७-७॥
+न च पित्रा परित्यक्तो न अमर्यादः कथंचन ।न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः ॥३-३७-८॥
+न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः ।न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः ॥३-३७-९॥
+वंचितम् पितरम् दृष्ट्वा कैकेय्या सत्य वादिनम् ।करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् ॥३-३७-१०॥
+कैकेय्याः प्रिय कामार्थम् पितुर् दशरथस्य च ।हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् ॥३-३७-११॥
+न रामः कर्कशः तात न अविद्वान् न अजित इन्द्रियः ।अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि ॥३-३७-१२॥
+रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः ।राजा सर्वस्य लोकस्य देवानाम् इव वासवः ॥३-३७-१३॥
+कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा ।इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः ॥३-३७-१४॥
+शर अर्चिषम् अनाधृष्यम् चाप खड्ग इन्धनम् रणे ।राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि ॥३-३७-१५॥
+धनुर् व्यादित दीप्त आस्यम् शर अर्चिषम् अमर्षणम् ।चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् ॥३-३७-१६॥
+राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः ।न अति आसादयितुम् तात राम अंतकम् इह अर्हसि ॥३-३७-१७॥
+अप्रमेयम् ह��� तत् तेजो यस्य सा जनकात्मजा ।न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने ॥३-३७-१८॥
+तस्य वै नर सिंहस्य सिंह उरस्कस्य भामिनी ।प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता ॥३-३७-१९॥
+न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया ।दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा ॥३-३७-२०॥
+किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षसाधिप ।दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् ॥३-३७-२१॥
+जीवितम् च सुखम् चैव राज्यम् चैव सुदुर्लभम् ।यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३७-२२॥
+स सर्वैः सचिवैः सार्धम् विभीषण पुरस्कृतैः ।मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः ।दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् ॥३-३७-२३॥
+आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः ।हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि ॥३-३७-२४॥
+अहम् तु मन्ये तव न क्षमम् रणेसमागमम् कोसल राज सूनुना ।इदम् हि भूयः शृणु वाक्यम् उत्तमम्क्षमम् च युक्तम् च निशाचर अधिप ॥३-३७-२५॥
+कदाचित् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् ।बलम् नाग सहस्रस्य धारयन् पर्वतोपमः ॥३-३८-१॥
+नील जीमूत संकाशः तप्त कांचन कुण्डलः ।भयम् लोकस्य जनयन् किरीटी परिघ आयुधः ॥३-३८-२॥
+व्यचरम् दण्डक अरण्यम् ऋषि मांसानि भक्षयन् ।विश्वामित्रो अथ धर्मात्मा मत् वित्रस्तो महामुनिः ॥३-३८-३॥
+स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् ।अयम् रक्षतु माम् रामः पर्व काले समाहितः ॥३-३८-४॥
+मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर ।इति एवम् उक्तो धर्मात्मा राजा दशरथः तदा ॥३-३८-५॥
+प्रत्युवाच महाभागम् विश्वामित्रम् महामुनिम् ।ऊन द्वादश वर्षो अयम् अकृत अस्त्रः च राघवः ॥३-३८-६॥
+कामम् तु मम यत् सैन्यम् मया सह गमिष्यति ।बलेन चतुरंगेण स्वयम् एत्य निशाचरम् ॥३-३८-७॥
+वधिष्यामि मुनिश्रेष्ठ शत्रुम् तव यथा ईप्सितम् ।] एवम् उक्तः स तु मुनी राजानम् इदम् अब्रवीत् ॥३-३८-८॥
+रामात् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः ।देवतानाम् अपि भवान् समरेषु अभिपालकः ॥३-३८-९॥
+आसीत् तव कृते कर्म त्रिलोक विदितम् नृप ।कामम् अस्ति महत् सैन्यम् तिष्टतु इह परंतप ॥३-३८-१०॥
+बालो अपि एष महातेजाः समर्थः तस्य निग्रहे ।गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतपः ॥३-३८-११॥
+इति एवम् उक्त्वा �� मुनिः तम् आदाय नृपात्मजम् ।जगाम परम प्रीतो विश्वामित्रः स्वम् आश्रमम् ॥३-३८-१२॥
+तम् तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् ।बभूव उपस्थितो रामः चित्रम् विस्फारयन् धनुः ॥३-३८-१३॥
+अजात व्यंजनः श्रीमान् बालः श्यामः शुभेक्षणः ।एक वस्त्र धरो धन्वी शिखी कनक मालया ॥३-३८-१४॥
+शोभयन् दण्डकारण्यम् दीप्तेन स्वेन तेजसा ।अदृश्यत तदा रामो बाल चन्द्र इव उदितः ॥३-३८-१५॥
+ततो अहम् मेघ संकाशः तप्त कांचन कुण्डलः ।बली दत्त वरो दर्पात् आजगाम आश्रम अंतरम् ॥३-३८-१६॥
+तेन दृष्टः प्रविष्टो अहम् सहसा एव उद्यत आयुधः ।माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह ॥३-३८-१७॥
+अवजानन् अहम् मोहात् बालो अयम् इति राघवम् ।विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत त्वरः ॥३-३८-१८॥
+तेन मुक्तः ततो बाणः शितः शत्रु निबर्हणः ।तेन अहम् ताडितः क्षिप्तः समुद्रे शत योजने ॥३-३८-१९॥
+न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः ।रामस्य शर वेगेन निरस्तो भ्रान्त चेतनः ॥३-३८-२०॥
+पातितो अहम् तदा तेन गंभीरे सागर अंभसि ।प्राप्य संज्ञाम् चिरात् तात लंकाम् प्रति गतः पुरीम् ॥३-३८-२१॥
+एवम् अस्मि तदा मुक्तः सहायाः ते - शायास्तु - निपातिताः ।अकृत अस्त्रेण रामेण बालेन अक्लिष्ट कर्मणा ॥३-३८-२२॥
+तत् मया वार्यमाणः त्वम् यदि रामेण विग्रहम् ।करिष्यसि आपदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि ॥३-३८-२३॥
+क्रीडा रति विधिज्ञानाम् समाज उत्सव शालिनाम् ।रक्षसाम् चैव संतापम् अनर्थम् च आहरिष्यसि ॥३-३८-२४॥
+हर्म्य प्रासाद संबाधाम् नाना रत्न विभूउषिताम् ।द्रक्ष्यसि त्वम् पुरीम् लंकाम् विनष्टाम् मैथिली कृते ॥३-३८-२५॥
+अकुर्वन्तो अपि पापानि शुचयः पाप संश्रयात् ।पर पापैः विनश्यन्ति मत्स्या नाग ह्रदे यथा ॥३-३८-२६॥
+दिव्यचंदनदिग्धांगान्दिव्याअभरणभूषितान् -यद्वा-दिव्य चंदन दिग्ध अंगान् दिव्य आभरण भूषितान् ।द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥३-३८-२७॥
+हृत दारान् स दारान् च दश विद्रवतो दिशः ।हत शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान् ॥३-३८-२८॥
+शर जाल परिक्षिप्ताम् अग्नि ज्वाला समावृताम् ।प्रदग्ध भवनाम् लंकाम् द्रक्ष्यसि त्वम् असंशयम् ॥३-३८-२९॥
+पर दार अभिमर्षात् तु न अनयत् पाप तरम् महत् ।प्रमदानाम् सहस्राणि तव राजन् परिग्रहे ॥३-३८-३०॥
+भव स्व दार निरत�� स्व कुलम् रक्ष राक्षस ।मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः ॥३-३८-३१॥
+कलत्राणि च सौम्यानि मित्र वर्गम् तथैव च ।यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३८-३२॥
+निवार्यमाणः सुहृदा मया भृशम्प्रसह्य सीताम् यदि धर्षयिष्यसि ।गमिष्यसि क्षीण बलः स बान्धवोयम क्षयम् राम शर आत्त जीवितः ॥३-३८-३३॥
+एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे ।इदानीम् अपि यत् वृत्तम् तत् शृउणुष्व यत् उत्तरम् ॥३-३९-१॥
+राक्षाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथा कृतः ।सहितो मृग रूपाभ्याम् प्रविष्टो दंडका वने ॥३-३९-२॥
+दीप्त जिह्वो महादंष्ट्रः तीक्ष्ण शृंगो महाबलः ।व्यचरन् दंडाकारण्यम् मांस भक्षो महामृगः ॥३-३९-३॥
+अग्निहोत्रेषु तीर्थेषु चैत्य वृक्षेषु रावण ।अत्यन्त घोरो व्यचरन् तापसान् संप्रधर्षयन् ॥३-३९-४॥
+निहत्य दंडकारण्ये तापसान् धर्मचरिणः ।रुधिराणि पिबन्तः तेषाम् तन् मांसानि च भक्षयन् ॥३-३९-५॥
+ऋषि माअंस अशनः क्रूरः त्रासयन् वनगोचरान् ।तदा रुधिर मत्तो अहम् व्यचरन् दंडका वनम् ॥३-३९-६॥
+तदा अहम् दंडकारण्ये विचरन् धर्म दूषकः ।आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम् ॥३-३९-७॥
+वैदेहि च महाभागाम् लक्ष्मणम् च महरथम् ।तापसम् नियत आहारम् सर्व बूत हिते रतम् ॥३-३९-८॥
+सः अहम् वन गतम् रामम् परिभूय महाबलम् ।तापसो अयम् इति ज्ञात्वा पूर्व वैरम् अनुस्मरन् ॥३-३९-९॥
+अभ्यधावम् सुसंक्रुद्धः तीक्ष्ण शृंगो मृग आकृतिः ।जिघांसुः अकृतप्रज्ञः तम् प्रहारम् अनुस्मरन् ॥३-३९-१०॥
+तेन त्यक्ताः त्रयो बाणाः शिताः शत्रु निबर्हणाः ।विकृष्य सुमहत् चापम् सुपर्ण अनिल तुल्य गाः ॥३-३९-११॥
+ते बाणा वज्र संकाशाः सुघोरा रक्त भोजनाः ।आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥
+पराक्रमज्ञो रामस्य शठो दृष्ट भयः पुरा ।समुत्क्रांतः ततः मुक्तः तौ उभौ राक्षसौ हतौ ॥३-३९-१३॥
+शरेण मुक्तो रामस्य कथंचित् प्राप्यजीवितम् ।इह प्रव्राजितो युक्तः तापसो अहम् समाहितः ॥३-३९-१४॥
+वृक्षे वृक्षे हि पश्यामि चीर कृष्ण अजिन अंबरम् ।गृहीत धनुषम् रामम् पाश हस्तम् इव अंतकम् ॥३-३९-१५॥
+अपि राम सहस्राणि भीतः पश्यामि रावण ।राम भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे ॥३-३९-१६॥
+रामम् एव हि पश्यामि रहिते राक्षसेश्वर ।दृष्ट्वा स्वप्न गतम् रामम् उद् भ्रमामि विचेत��ः ॥३-३९-१७॥
+र कार अदीनि नामानि राम त्रस्तस्य रवण ।रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे ॥३-३९-१८॥
+अहम् तस्य प्रभावज्ञो न युद्धम् तेन ते क्षमम् ।बलिम् वा नमुचिं वा अपि हन्यद्धि रघुनंअंदन ॥३-३९-१९॥
+रणे रामेण युद्ध्स्व क्षमाम् वा कुरु रावण ।न ते राम कथा कार्या यदि माम् द्रष्टुम् इच्छसि ॥३-३९-२०॥
+बहवः साधवो लोके युक्ता धर्मम् अनुष्टिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-३९-२१॥
+सः अहम् पर अपराधेन विनाशेयम् निशाचर ।कुरु यत् ते क्षमम् तत् त्वम् अहम् त्वाम् न अनुयामि वै ॥३-३९-२२॥
+रामः च हि महातेजा महासत्त्वो महाबलः ।अपि राक्षस लोकस्य भवेत् अन्तकरो अपि हि ॥३-३९-२३॥
+यदि शूर्पणखा हेतोः जनस्थान गत खरः ।अति वृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ।अत्र ब्रूहि यथावत् त्वम् को रामस्य व्यतिक्रमः ॥३-३९-२४॥
+इदम् वचो बन्धु हित अर्थिना मयायथा उच्यमानम् यदि न अभिपत्स्यसे ।स बान्धवः त्यक्ष्यसि जीवितम् रणेहतो अद्य रामेण शरैः जिह्मगैः ॥३-३९-२५॥
+मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः ।उक्तो न प्रतिजग्राह मर्तु काम इव औषधम् ॥३-४०-१॥
+तम् पथ्य हित वक्तारम् मारीचम् राक्षसाधिपः ।अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल चोदितः ॥३-४०-२॥
+यत् किल एतत् अयुक्तार्थम् मारीच मयि कथ्यते ।वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे ॥३-४०-३॥
+त्वत् वाक्यैः न तु माम् शक्यम् - भेतुम् - भेत्तुम् रामस्य संयुगे ।पाप शीलस्य मूर्खस्य मानुषस्य विशेषतः ॥३-४०-४॥
+यः त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा ।स्त्री वाक्यम् प्राकृतम् श्रुत्वा वनम् एक पदे गतः ॥३-४०-५॥
+अवश्यम् तु मया तस्य संयुगे खर घातिनः ।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥
+एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते ।न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-४०-७॥
+दोषम् गुणम् वा संपृष्टः त्वम् एवम् वक्तुम् अर्हसि ।अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये ॥३-४०-८॥
+संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता ।उद्यत अंजलिना राज्ञे य इच्छेत् भूतिम् आत्मनः ॥३-४०-९॥
+वाक्यम् अप्रतिकूलम् तु मृदु पूर्वम् शुभम् हितम् ।उपचारेण युक्तम् च वक्तव्यो वसुधा अधिपः ॥३-४०-१०॥
+स अवमर्दम् तु यत् वाक्यम् अथवा मारीच हितम् उच्यते ।न अभिनंदति तत् राजा मानार्थी मान वर्जितम् ॥३-४०-११॥
+पंच रूपाणि राजानो धारयन्ति अमित ओजसः ।अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥
+औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्नताम् ।धारयन्ति महाताम्नो राजानः क्षणदाचर ॥३-४०-१३॥
+तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च पार्थिवाः ।त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आश्रितः ॥३-४०-१४॥
+अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् ।गुण दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस ॥३-४०-१५॥
+मया उक्तम् अपि च एतावत् त्वाम् प्रति अमितविक्रम ।अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि ॥३-४०-१६॥
+श्रुणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ।सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ॥३-४०-१७॥
+आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ॥३-४०-१८॥
+त्वाम् हि माया मयम् दृष्ट्वा कांचनम् जात विस्मया ।आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली ॥३-४०-१९॥
+अपक्रान्ते च काकुत्स्थे दूरम् च यात्वा अपि उदाहर ।हा सीते लक्ष्मणे इति एवम् राम वाक्य अनुरूपकम् ॥३-४०-२०॥
+तत् श्रुत्वा राम पदवीम् सीताया च प्रचोदितः ।अनुगच्छति संभ्रांतम् सौमित्रिः अपि सौहृदात् ॥३-४०-२१॥
+अपक्रान्ते च काकुत्स्थे लक्ष्मण च यथा सुखम् ।आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव ॥३-४०-२२॥
+एवम् कृत्वा तु इदम् कार्यम् यथा इष्टम् गच्छ राक्षस ।राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥
+गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये ।अहम् तु अनुगमिष्यामि स रथो दण्डका वनम् ॥३-४०-२४॥
+प्राप्य सीताम् अयुद्धेन वंचयित्वा तु राघवम् ।लंकाम् प्रति गमिष्यामि कृत कार्यः सह त्वया ॥३-४०-२५॥
+नो चेत् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै ।एतत् कार्यम् अवश्यम् मे बलाद् अपि करिष्यसि ।राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥३-४०-२६॥
+आसाद्या तम् जीवित सम्शयः तेमृत्युर् ध्रुवो हि अद्य मया विरुध्यतः ।एतत् यथावत् परिगृह्य बुद्ध्यायत् अत्र पथ्यम् कुरु तत् तथा त्वम् ॥३-४०-२७॥
+आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् ।अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥३-४१-१॥
+केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा ।स पुत्रस्य स राज्यस्य स अमात्यस्य निशाच�� ॥३-४१-२॥
+कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् ।केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३-४१-३॥
+शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर ।इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥३-४१-४॥
+केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना ।यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥३-४१-५॥
+वध्याः खलु न वध्यन्ते सचिवाः तव रावण ।ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥३-४१-६॥
+अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः ।निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥३-४१-७॥
+धर्मम् अर्थम् च कामम् च यशः च जयताम् वर ।स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥
+विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण ।व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥३-४१-९॥
+राज मूलो हि धर्मः च जयः च जयताम् वर ।तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥३-४१-१०॥
+राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर ।न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥३-४१-११॥
+ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै ।विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥३-४१-१२॥
+बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-४१-१३॥
+स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण ।रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥
+अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४१-१५॥
+तद् इदम् काक तालीयम् घोरम् आसादितम् मया ।अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥३-४१-१६॥
+माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति ।अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥३-४१-१७॥
+दर्शनात् एव रामस्य हतम् माम् अवधारय ।आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥३-४१-१८॥
+आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया ।न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥३-४१-१९॥
+निवार्यमाणः तु मया हित एषिणान मृष्यसे वाक्यम् इदम् निशाचर ।परेत कल्पा हि गत आयुषो नराहितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥३-४१-२०॥
+एवम् उक्त्वा तु परुषम् मारीचो रावणम् ततः ।गच्छावः इति अब्रवीत् दीनो भयात् रात्रिम् चर प्रभोः ॥३-४२-१॥
+दृष्टाः च अहम् पुनः तेन शर चाप असि धारिणा ।मद्वधो उद्यत शस्त्रेण विनष्टम् जीवितम् च मे ॥३-४२-२॥
+न हि रामम् पराक्रम्य जीवन् प्रति निवर्तते ।वर्तते प्रति रूपो असौ यम दण्ड हतस्य ते ॥३-४२-३॥
+किम् नु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि ।एष गच्छामि अहम् तात स्वस्ति ते अस्तु निशाचरः ॥३-४२-४॥
+प्रहृष्टः तु अभवत् तेन वचनेन स राक्षसः ।परिष्वज्य सुसंश्लिष्टम् इदम् वचनम् अब्रवीत् ॥३-४२-५॥
+एतत् शौण्डीर्य - चौत्तिर्य -न्युक्तम् ते मत् च्छंद वश वर्तिनः ।इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः ॥३-४२-६॥
+आरुह्यताम् शीघ्रम् खगो रत्न विभूषितः ।मया सह रथो युक्तः पिशाच वदनैः खरैः ॥३-४२-७॥
+प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ।ताम् शून्ये प्रसभम् सीताम् आनयिष्यामि मैथिलीम् ॥३-४२-८॥
+तथा इति उवाच एनम् रावणम् ताटका सुतः ।ततो रावण मारीचौ विमानम् इव तम् रथम् ॥३-४२-९॥
+आरुह्य ययतुः शीघ्रम् तस्मात् आश्रम मण्डलात् ।तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥३-४२-१०॥
+गिरीम् च सरिताः सर्वा राष्ट्राणि नगराणि च ।समेत्य दण्डक अरण्यम् राघवस्य आश्रमम् ततः ॥३-४२-११॥
+ददर्श सह मरीचो रावणो राक्षसाधिपः ।अवतीर्य रथात् तस्मात् ततः कांचन भूषणात् ॥३-४२-१२॥
+हस्ते गृहीत्वा मारीचम् रावणो वाक्यम् अब्रवीत् ।एतत् राम आश्रम पदम् दृश्यते कदली वृतम् ॥३-४२-१३॥
+क्रियताम् तत् सखे शीघ्रम् यत् अर्थम् वयम् आगताः ।स रावण वचः श्रुत्वा मारीचो राक्षसः तदा ॥३-४२-१४॥
+मृगो भूत्वा आश्रम द्वारि रामस्य विचचार ह ।स तु रूपम् समास्थाय महत् अद्भुत दर्शनम् ॥३-४२-१५॥
+मणिप्रवर शृंगाग्रः सित असित मुखाकृतिः ।रक्तपद्मोत्पल मुख इन्द्रनीलोत्पल श्रवाः ॥३-४२-१६॥
+किम्चित् अभ्युन्नत ग्रीव इन्द्रनील निभ उदरः ।मधूक निभ पार्श्वः च कंज किंजल्क सम्निभः ॥३-४२-१७॥
+वैदूर्य संकाश खुरः तनु जंघः सुसंहतः ।इन्द्र आयुध सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः ॥३-४२-१८॥
+मनोहर स्निग्ध वर्णो रत्नैः नाना विधैः वृतः ।क्षणेन राक्षसो जातो मृगः परम शोभनः ॥३-४२-१९॥
+वनम् प्रज्वलयन् रम्यम् राम आश्रम पदम् च तत् ।मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः ॥३-४२-२०॥
+प्रलोभनार्थम् वैदेह्या नाना धातु विचित्रितम् ।विचरन् गच्छते सम्यक् शाद्वलानि समंततः ॥३-४२-२१॥
+रोप्यैः बिन्दु शतैः चित्रो भूत्वा च प्रिय दर्शनः ।विटपीनाम् किसलयान् भक्षयन् विचचार ह ॥३-४२-२२॥
+कदली गृहकम् गत्वा कर्णिकारानि ततः ततः ।समाश्रयन् मंदगतिः सीता संदर्शनम् ततः ॥३-४२-२३॥
+राजीव चित्र पृष्ठः स विरराज महामृगः ।राम आश्रम पद अभ्याशे विचचार यथा सुखम् ॥३-४२-२४॥
+पुनर् गत्वा निवृत्तः च विचचार मृगोत्तमः ।गत्वा मुहूर्तम् त्वरया पुनः प्रति निवर्तते ॥३-४२-२५॥
+विक्रीडन् च पुनर् भूमौ पुनर् एव निषीदति ।आश्रम द्वारम् आगम्य मृग यूथानि गच्छति ॥३-४२-२६॥
+मृग यूथैः अनुगतः पुनर् एव निवर्तते ।सीता दर्शनम् आकांक्षन् राक्षसो मृगताम् गतः ॥३-४२-२७॥
+परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।समुद्वीक्ष्य च सर्वे तम् मृगा ये अन्ये वनेचराः ॥३-४२-२८॥
+उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।राक्षसः सो अपि तान् वन्यान् मृगान् मृगवधे रतः ॥३-४२-२९॥
+प्रच्छादनार्थम् भावस्य न भक्षयति संस्पृशन् ।तस्मिन् एव ततः काले वैदेही शुभलोचना ॥३-४२-३०॥
+कुसुम अपचये व्यग्रा पादपान् अभ्यवर्तत ।कर्णिकारान् अशोकान् च चूताम् च मदिरेक्षणा ॥३-४२-३१॥
+कुसुमानि अपचिन्वन्ती चचार रुचिरानना ।अनर्हा अरण्य वासस्य सा तम् रत्नमयम् मृगम् ॥३-४२-३२॥
+मुक्ता मणि विचित्र अंगम् ददर्श परम अंगना ।तम् वै रुचिर दंत ओष्ठम् रूप्य धातु तनू रुहम् ॥३-४२-३३॥
+विस्मयात् उत्फुल्ल नयना स स्नेहम् समुदैक्षत ।स च ताम् राम दयिताम् पश्यन् मायामयो मृगः ॥३-४२-३४॥
+विचचार ततः तत्र दीपयन् इव तत् वनम् ।अदृष्ट पूर्वम् दृष्ट्वा तम् नाना रत्नमयम् मृगम् ।विस्मयम् परमम् सीता जगाम जनक आत्मजा ॥३-४२-३५॥
+सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥
+प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥
+आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥
+तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥
+शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥
+चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥
+अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥
+मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥
+एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥
+आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥
+इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥
+ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥
+न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥
+नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥
+अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥
+यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥
+समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥
+भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥
+जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥
+निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥
+कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥
+तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥
+बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥
+लोबितः तेन रूपेण सीताया च प्रचोदितः ।उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥
+पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥
+न वने नंदनोद्देशे न चैत्ररथ संश्रये ।कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥
+प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥
+पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।���िह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥
+मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥
+कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥
+मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥
+धनानि व्यवसायेन विचीयन्ते महावने ।धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥
+तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥
+अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥
+एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥
+न कादली न प्रियकी न प्रवेणी न च अविकी ।भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥
+एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥
+यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥
+एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥
+उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥
+पुरस्तात् इह वातापिः परिभूय तपस्विनः ।उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥
+स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥
+समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥
+त्वया अविगण्य वातापे परिभूताः च तेजसा ।जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥
+तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥
+भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥
+अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥
+यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।पश्य ल���्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥
+त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥
+यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥
+प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥
+तथा तु तम् समादिश्य भ्रातरम् रघुनंदनः ।बबन्ध असिम् महातेजा जांबूनदमयः त्सरुम् ॥३-४४-१॥
+ततः त्रि विनतम् चापम् आदाय आत्म विभूषणम् ।आबध्य च कलापौ द्वौ जगाम उदग्र विक्रमः ॥३-४४-२॥
+तम् वंचयानो राजेन्द्रम् आपतन्तम् निरीक्ष्य वै ।बभूव अंतर्हितः त्रासात् पुनः संदर्शने अभवत् ॥३-४४-३॥
+बद्ध असिः धनुः आदाय प्रदुद्राव यतो मृगः ।तम् स्म पश्यति रूपेण द्योतमानम् इव अग्रतः ॥३-४४-४॥
+अवेक्ष्य अवेक्ष्य धावन्तम् धनुष् पाणिः महावने ।अतिवृत्तम् इषोः पातात् लोभयानम् कदाचन ॥३-४४-५॥
+शंकितम् तु समुद् भ्रान्तम् उत्पतन्तम् इव अंबरे ।दृअश्यमानम् अदृश्यम् च वन उद्देशेषु केषुचित् ॥३-४४-६॥
+चिन्न अभ्रैः इव संवीतम् शारदम् चन्द्र मण्डलम् ।मुहूर्तात् एव ददृशे मुहुर् दूरात् प्रकाशते ॥३-४४-७॥
+दर्शन अदर्शनेन एव सः अपाकर्षत राघवम् ।सुदूरम् आश्रमस्य अस्य मारिचो मृगताम् गतः ॥३-४४-८॥
+आसीत् क्रुद्धः तु काकुत्स्थो विवशः तेन मोहितः ।अथ अवतस्थे सुश्रान्तः च्छायाम् आश्रित्य शाद्वले ॥३-४४-९॥
+स तम् उन्मादयामास मृगरूपो निशाचर ।मृगैः परिवृतो अथ वन्यैः अदूरात् प्रत्यदृश्यत ॥३-४४-१०॥
+ग्रहीतु कामम् दृष्ट्वा तम् पुनः एव अभ्यधावत ।तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् ॥३-४४-११॥
+पुनर् एव ततो दूरात् वृक्ष खण्डात् विनिःसृतः ।दृष्ट्वा रामो महातेजाः तम् हन्तुम् कृत निश्चयः ॥३-४४-१२॥
+भूयः तु शरम् उद्धृत्य कुपितः तत्र राघवः ।सूर्य रश्मि प्रतीकाशम् ज्वलंतम् अरि मर्दनम् ॥३-४४-१३॥
+संधाय सुदृढे चापे विकृष्य बलवत् बली ।तम् एव मृगम् उद्दिश्य श्वसंतम् इव पन्नगम् ॥३-४४-१४॥
+मुमोच ज्वलितम् दीप्तम् अस्त्रम् ब्रह्म विनिर्मितम् ।शरीरम् मृग रूपस्य विनिर्भिद्य शरोत्तमः ॥३-४४-१५॥
+मारीचस्य एव हृदयम् विभेद अशनि संनिभः ।ताल मात्रम् अथ उत्प्लुत्य न्यपतत् स भृश आतुरः ॥३-४४-१६॥
+व्यनद���् भैरवम् नादम् धरण्याम् अल्प जीवितः ।म्रियमाणः तु मारीचो जहौ ताम् कृत्रिमाम् तनुम् ॥३-४४-१७॥
+स्मृत्वा तत् वचनम् रक्षो दध्यौ केन तु लक्ष्मणम् ।इह प्रस्थापयेत् सीता ताम् शून्ये रावणे हरेत् ॥३-४४-१८॥
+स प्राप्त कालम् अज्ञाय चकार च ततः स्वरम् ।सदृशम् राघवस्य एव हा सीते लक्ष्मण इति च ॥३-४४-१९॥
+तेन मर्मणि निर्विद्धम् शरेण अनुपमेन हि ।मृग रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आस्थितः ॥३-४४-२०॥
+चक्रे स सुमहा कायम् मारीचो जीवितम् त्यजन् ।तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीम दर्शनम् ॥३-४४-२१॥
+रामो रुधिर सिक्त अंगम् चेष्टमानम् महीतले ।जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन् ॥३-४४-२२॥
+मारीचस्य तु माय एषा पूर्व उक्तम् लक्ष्मणेन तु ।तत् तदा हि अभवत् च अद्य मारीचो अयम् मया हतः ॥३-४४-२३॥
+हा सीते लक्ष्मण इति एवम् आक्रुश्य तु महा स्वनम् ।ममार राक्षसः सो अयम् श्रुत्वा सीता कथम् भवेत् ॥३-४४-२४॥
+लक्ष्मणः च महाबाहुः काम् अवस्थाम् गमिष्यति ।इति संचिन्त्य धर्माअत्मा रामो हृष्ट तनू रुहः ॥३-४४-२५॥
+तत्र रामम् भयम् तीव्रम् आविवेश विषादजम् ।राक्षसम् मृग रूपम् तम् हत्वा श्रुत्वा च तत् स्वनम् ॥३-४४-२६॥
+निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः ।त्वरमाणो जनस्थानम् ससार अभिमुखः तदा ॥३-४४-२७॥
+आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥
+न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
+आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥
+रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥
+तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥
+यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥
+लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥
+तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥
+कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥
+अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥
+अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
+राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
+यो रामम् प्रतियुध्येत समरे वासव उपमम् ।अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥
+न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥
+त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥
+आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥
+गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
+रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥
+खरस्य निधने देवि जनस्थान वधम् प्रति ।राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥
+हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥
+अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥
+अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥
+न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥
+सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥
+तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥
+उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥
+रामम् विना क्षणम् अपि न एव जीवामि भू तले ।इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥
+अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥
+वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥
+विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥
+श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥
+न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥
+स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥
+रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥
+लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥
+गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥
+पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥
+इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥
+ताम् आर्त रूपाम् विमना रुदन्तीम्सौमित्रिः आलोक्य विशाल नेत्राम् ।आश्वासयामास न चैव भर्तुःतम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥
+ततः तु सीताम् अभिवाद्य लक्ष्मणःकृत अन्जलिः किम्चिद् अभिप्रणम्य ।अवेक्षमाणो बहुशः स मैथिलीम्जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥
+तया परुषम् उक्तः तु कुपितो राघव अनुजः ।स विकांक्षन् भृशम् रामम् प्रतस्थे न चिरात् इव ॥३-४६-१॥
+तदा आसाद्य दशग्रीवः क्षिप्रम् अंतरम् आस्थितः ।अभिचक्राम वैदेहीम् परिव्राजक रूप धृक् ॥३-४६-२॥
+श्लक्ष्ण काषाय संवीतः शिखी चत्री उपानही ।वामे च अंसे अवसज्य अथ शुभे यष्टि कमण्डलू ॥३-४६-३॥
+परिव्राजक रूपेण वैदेहीम् अन्ववर्तत ।ताम् आससाद अतिबलो भ्रातृभ्याम् रहिताम् वने ॥३-४६-४॥
+रहिताम् सूर्य चन्द्राभ्याम् संध्याम् इव महत् तमः ।ताम् अपश्यत् ततो बालाम् राज पुत्रीम् यशस्विनीम् ॥३-४६-५॥
+रोहिणीम् शशिना हीनाम् ग्रहवत् भृश दारुणः ।तम् उग्रम् पाप कर्माणम् जनस्थान गता द्रुमाः ॥३-४६-६॥
+संदृश्य न प्रकंपन्ते न प्रवाति च मारुतः ।शीघ्र स्रोत���ः च तम् दृष्ट्वा वीक्षंतम् रक्त लोचनम् ॥३-४६-७॥
+स्तिमितम् गंतुम् आरेभे भयात् गोदावरी नदी ।रामस्य तु अंतरम् प्रेप्सुः दशग्रीवः तत् अंतरे ॥३-४६-८॥
+उपतस्थे च वैदेहीम् भिक्षु रूपेण रावणः ।अभव्यो भव्य रूपेण भर्तारम् अनुशोचतीम् ॥३-४६-९॥
+अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः ।सहसा भव्य रूपेण तृणैः कूप इव आवृतः ॥३-४६-१०॥
+अतिष्ठत् प्रेक्ष्य वैदेहीम् राम पत्नीम् यशस्विनीम् ।तिष्टन् संप्रेक्ष्य च तदा पत्नीम् रामस्य रावण ॥३-४६-११॥
+शुभाम् रुचिर दन्त ओष्ठीम् पूर्ण चन्द्र निभ आननाम् ।आसीनाम् पर्णशालायाम् बाष्प शोक अभिपीडिताम् ॥३-४६-१२॥
+स ताम् पद्म पलाश अक्षीम् पीत कौशेय वासिनीम् ।अभ्यगच्छत वैदेहीम् हृष्ट चेता निशा चरः ॥३-४६-१३॥
+दृष्ट्वा काम शर आविद्धो ब्रह्म घोषम् उदीरयन् ।अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस अधिपः ॥३-४६-१४॥
+ताम् उत्तमाम् त्रिलोकानाम् पद्म हीनाम् इव श्रियम् ।विभ्राजमानाम् वपुषा रावणः प्रशशम्स ह ॥३-४६-१५॥
+का त्वम् कांचन वर्ण आभे पीत कौशेय वासिनि ।कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती ॥३-४६-१६॥
+ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सरा वा शुभ आनने ।भूतिर् वा त्वम् वराअरोहे रतिर् वा स्वैर चारिणी ॥३-४६-१७॥
+समाः शिखरिणः स्निग्धाः पाण्डुरा दशनाः तव ।विशाले विमले नेत्रे रक्तान्ते कृष्ण तारके ॥३-४६-१८॥
+विशालम् जघनम् पीनम् ऊरू करि कर उपमौ ।एतौ उपचितौ वृत्तौ संहतौ संप्रगल्भितौ ॥३-४६-१९॥
+पीन उन्नत मुखौ कान्तौ स्निग्ध ताल फल उपमौ ।मणि प्रवेक आभरणौ रुचिरौ ते पयो धरौ ॥३-४६-२०॥
+चारु स्मिते चारु दति चारु नेत्रे विलासिनि ।मनो हरसि मे रामे नदी कूलम् इव अंभसा ॥३-४६-२१॥
+करान्तमित मध्या असि सुकेशी संहत स्तनी ।न एव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥
+न एवम् रूपा मया नारी दृष्ट पूर्वा मही तले ।रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते ॥३-४६-२३॥
+इह वासः च कांतारे चित्तम् उन्मथयन्ति मे ।सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि ॥३-४६-२४॥
+राक्षसानाम् अयम् वासो घोराणाम् काम रूपिणाम् ।प्रासाद अग्राणि रम्याणि नगर उपवनानि च ॥३-४६-२५॥
+संपन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया ।वरम् माल्यम् वरम् गंधम् वरम् वस्त्रम् च शोभने ॥३-४६-२६॥
+भर्तारम् च वरम् मन्ये त्वत् युक्तम् असितेक्षणे ।का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचिस्मिते ॥३-४६-२७॥
+वसूनाम् वा वराअरोहे देवता प्रतिभासि मे ।न इह गच्छंति गंधर्वा न देवा न च किन्नराः ॥३-४६-२८॥
+राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता ।इह शाखामृगाः सिंहा द्वीपि व्याघ्र मृगाः तथा ॥३-४६-२९॥
+ऋक्षाः तरक्षवः कंकाः कथम् तेभ्यो न बिभ्यसे ।मद अन्वितानाम् घोराणाम् कुंजराणाम् तरस्विनाम् ॥३-४६-३०॥
+कथम् एका महारण्ये न बिभेषि वराअनने ।का असि कस्य कुतः च त्वम् किम् निमित्तम् च दण्डकान् ॥३-४६-३१॥
+एका चरसि कल्याणि घोरान् राक्षस सेवितान् ।इति प्रशस्ता वैदेही रावणेन दुरात्मना - महात्मना- ॥३-४६-३२॥
+द्विजाति वेषेण हि तम् दृष्ट्वा रावणम् आगतम् ।सर्वैः अतिथि सत्कारैः पूजयामास मैथिली ॥३-४६-३३॥
+उपानीय आसनम् पूर्वम् पाद्येन अभिनिमंत्र्य च ।अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य दर्शनम् ॥३-४६-३४॥
+द्विजाति वेषेण समीक्ष्य मैथिलीतम् आगतम् पात्र कुसुंभ धारिणम् ।अशक्यम् उद्द्वेष्टुम् उपाय दर्शनान्न्यमंत्रयत् ब्राह्मणवत् यथा आगतम् ॥३-४६-३५॥
+इयम् बृसी ब्राह्मण कामम् आस्यताम्इदम् च पाद्यम् प्रतिगृह्यताम् इति ।निमंत्र्यमाणः प्रतिपूर्ण भाषिणीम्नरेन्द्र पत्नीम् प्रसमीक्ष्य मैथिलीम् ।प्रसह्य तस्या हरणे धृढम् मनःसमर्पयामास आत्म वधाय रावणः ॥३-४६-३६॥
+ततः सुवेषम् मृगया गतम् पतिम्प्रतीक्षमाणा सह लक्ष्मणम् तदा ।निरीक्षमाणा हरितम् ददर्श तत्महद् वनम् न एव तु राम लक्ष्मणौ ॥३-४६-३७॥
+रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥
+ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् ।इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥
+दुहिता जनकस्य अहम् मैथिलस्य महात्मनः ।सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥
+उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने ।भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥
+तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः ।अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥
+तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ।कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥
+प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे ।मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥
+द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्���मम् ।न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥
+एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते ।इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥
+अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा ।मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥
+अष्टा दश हि वर्षाणि मम जन्मनि गण्यते ।राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥
+विशालाक्षो महाबाहुः सर्व भूत हिते रतः ।कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥
+कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् ।अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥
+कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः ।तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥
+भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् ।त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥
+वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् ।तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥
+चकार तत् वचः तस्या मम भर्ता दृढ व्रतः ।दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥
+एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् ।तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥
+रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा ।स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥
+अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह ।जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥
+प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः ।ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥
+विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा ।समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥
+आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ।रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥
+सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः ।एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥
+एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः ।प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥
+येन वित्रासिता लोकाः स देव असुर मानुषा ।अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥
+त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् ।रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥
+बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः ��सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥
+लंका नाम समुद्रस्य मध्ये मम महापुरी ।सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥
+तत्र सीते मया सार्धम् वनेषु विचरिष्यसि ।न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥
+पंच दास्यः सहस्राणि सर्व आभरण भूषिताः ।सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥
+रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा ।प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥
+महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् ।महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥
+सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् ।सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥
+महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् ।नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥
+पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् ।पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥
+त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् ।न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥
+पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् ।राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥
+क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः ।आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥
+मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि ।काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥
+अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥
+अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि ।सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥
+यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि ।अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥
+कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि ।अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि ।रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥
+यद् अंतरम् सिंह शृगालयोः वनेयद् अंतरम् स्यन्दनिका समुद्रयोः ।सुर अग्र्य सौवीरकयोः यद् अंतरम्तद् अंतरम् दाशरथेः तव एव च ॥३-४७-४५॥
+यद् अंतरम् कांचन सीस लोहयोःयद् अंतरम् चन्दन वारि पंकयोः ।यद् अंतरम् हस���ति बिडालयोः वनेतद् अंतरम् दशरथेः तव एव च ॥३-४७-४६॥
+यद् अंतरम् वायस वैनतेययोःयद् अंतरम् मद्गु मयूरयोः अपि ।यद् अंतरम् हंस गृध्रयोः वनेतद् अंतरम् दाशरथेः तव एव च ॥३-४७-४७॥
+तस्मिन् सहस्राक्ष सम प्रभावेरामे स्थिते कार्मुक बाण पाणौ ।हृता अपि ते अहम् न जराम् गमिष्येवज्रम् यथा मक्षिकया अवगीर्णम् ॥३-४७-४८॥
+इति इव तत् वाक्यम् अदुष्ट भावासुदुष्टम् उक्त्वा रजनी चरम् तम् ।गात्र प्रकंपात् व्यथिता बभूववात उद्धता सा कदली इव तन्वी ॥३-४७-४९॥
+ताम् वेपमानाम् उपलक्ष्य सीताम्स रावणो मृत्यु सम प्रभावः ।कुलम् बलम् नाम च कर्म च आत्मनःसमाचचक्षे भय कारण अर्थम् ॥३-४७-५०॥
+एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥
+भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥
+यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥
+येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥
+मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥
+यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥
+मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥
+यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥
+निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥
+मम पारे समुद्रस्य लंका नाम पुरी शुभा ।संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥
+प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥
+हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥
+तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥
+भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥
+स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥
+तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥
+सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥
+प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥
+अंगुल्या न समो रामो मम युद्धे स मानुषः ।तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥
+एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥
+कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥
+अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥
+अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥
+जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥
+सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः ॥३-४९-१॥
+स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः ।न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ ॥३-४९-२॥
+उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः ।आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः ॥३-४९-३॥
+अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् ।काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम् ॥३-४९-४॥
+एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे ।क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥
+सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः ।स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः ॥३-४९-६॥
+संरक्त नयनः श्रीमान् तप्त कांचन भूषणः ।क्रोधेन महता आविष्टो नील जीमूत सन्निभः ॥३-४९-७॥
+दश आस्यो विंशति भुजो बभूव क्षणदा चरः ।स परिव्राजक च्छद्म महाकायो विहाय तत् ॥३-४९-८॥
+प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः ।रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम् ॥३-४९-९॥
+स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव ।वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत् ॥३-४९-१०॥
+त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि ।माम् आश्रय वरारोहे तव अहम् सदृशः पतिः ॥३-४९-११॥
+माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव ।न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥
+त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् ।राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम् ॥३-४९-१३॥
+कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि ।यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम् ॥३-४९-१४॥
+अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः ।इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम् ॥३-४९-१५॥
+अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः ।जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव ॥३-४९-१६॥
+वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः ।ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना ॥३-४९-१७॥
+तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् ।प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः ॥३-४९-१८॥
+स च मायामयो दिव्यः खर युक्तः खर स्वनः ।प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥३-४९-१९॥
+ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः ।अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा ॥३-४९-२०॥
+सा गृहीता अतिचुक्रोश रावणेन यशस्विनी ।रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने ॥३-४९-२१॥
+ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव ।विवेष्टमानाम् आदाय उत्पपात अथ रावणः ॥३-४९-२२॥
+ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा ॥३-४९-२३॥
+हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक ।ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा ॥३-४९-२४॥
+जीवितम् सुखम् अर्थाम् च धर्म हेतोः परित्यजन् ।ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि ॥३-४९-२५॥
+ननु नाम अविनीतानाम् विनेता असि परंतप ।कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम् ॥३-४९-२६॥
+ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् ।कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये ॥३-४९-२७॥
+त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः ।जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि ॥३-४९-२८॥
+हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह ।ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः ॥३-४९-२९॥
+आमंत्रये जनस्थानम् कर्णिका��ान् च पुष्पितान् ।क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः ॥३-४९-३०॥
+हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् ।क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः ॥३-४९-३१॥
+दैवतानि च यान्ति अस्मिन् वने विविध पादपे ।नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम् ॥३-४९-३२॥
+यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत ।सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि ॥३-४९-३३॥
+ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् ।विवश अपहृता सीता रावणेन इति शंसत ॥३-४९-३४॥
+विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः ।आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि ॥३-४९-३५॥
+सा तदा करुणा वाचो विलपंती सुदुःखिता ।वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना ॥३-४९-३६॥
+सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता ।समाक्रंदत् भयपरा दुःख उपहतया गिरा ॥३-४९-३७॥
+जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् ।अनेन राक्षसेद्रेण करुणम् पाप कर्मणा ॥३-४९-३८॥
+न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर ।सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः ॥३-४९-३९॥
+रामाय तु यथा तत्त्वम् जटायो हरणम् मम ।लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥३-४९-४०॥
+तम् शब्दम् अवसुप्तस्य जटायुः अथ शुश्रुवे ।निरैक्षत् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः ॥३-५०-१॥
+ततः पर्वत शृंग आभः तीक्ष्ण तुण्डः खग उत्तमः ।वनस्पति गतः श्रीमान् व्याजहार शुभाम् गिरम् ॥३-५०-२॥
+दशग्रीव स्थितो धर्मे पुराणे सत्य संश्रयः ।भ्रातः सः त्वम् निन्दितम् कर्म कर्तुम् न अर्हसि संप्रताम् ॥३-५०-३॥
+जटायुः नाम नाम्ना अहम् गृध्र राजो महाबलः ।राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ॥३-५०-४॥
+लोकानाम् च हिते युक्तो रामो दशरथ आत्मजः ।तस्य एषा लोक नाथस्य धर्म पत्नी यशस्विनी ॥३-५०-५॥
+सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि ।कथम् राजा स्थितो धर्मे पर दारान् परामृशेत् ॥३-५०-६॥
+रक्षणीया विशेषेण राज दारा महाबलः ।निवर्तय गतिम् नीचाम् पर दार अभिमर्शनात् ॥३-५०-७॥
+न तत् समाचरेत् धीरो यत् परो अस्य विगर्हयेत् ।यथा आत्मनः तथा अन्येषाम् दारा रक्ष्या विमर्शनात् ॥३-५०-८॥
+अर्थम् वा यदि वा कामम् शिष्टाः शास्त्रेषु अनागतम् ।व्यवस्यन्ति अनु राजानम् धर्मम् पौलस्त्य नंदन ॥३-५०-९॥
+राजा धर्मः च कामः च द्रव्याणाम् च उत्तमो निधि��� ।धर्मः शुभम् वा पापम् वा राज मूलम् प्रवर्तते ॥३-५०-१०॥
+पाप स्वभावः चपलः कथम् त्वम् रक्षसाम् वर ।ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती ॥३-५०-११॥
+काम स्वभावो यः सः असौ न शक्यः तम् प्रमार्जितुम् ।न हि दुष्ट आत्मनाम् आर्यम् आवसति आलये चिरम् ॥३-५०-१२॥
+विषये वा पुरे वा ते यदा रामो महाबलः ।न अपराध्यति धर्मात्मा कथम् तस्य अपराध्यसि ॥३-५०-१३॥
+यदि शूर्पणखा हेतोः जनस्थान गतः खरः ।अतिवृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ॥३-५०-१४॥
+अत्र ब्रूहि यथा तत्त्वम् को रामस्य व्यतिक्रमः ।यस्य त्वम् लोक नाथस्य हृत्वा भार्याम् गमिष्यसि ॥३-५०-१५॥
+क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा ।दहेत् दहनभूतेन वृत्रम् इन्द्र अशनिः यथा ॥३-५०-१६॥
+सर्पम् आशीविषम् बद्ध्वा वस्त्र अन्ते न अवबुध्यसे ।ग्रीवायाम् प्रतिमुक्तम् च काल पाशम् न पश्यसि ॥३-५०-१७॥
+स भारः सौम्य भर्तव्यो यो नरम् न अवसादयेत् ।तत् अन्नम् अपि भोक्तव्यम् जीर्यते यत् अनामयम् ॥३-५०-१८॥
+यत् कृत्वा न भवेत् धर्मो न कीर्तिः न यशः ध्रुवम् ।शरीरस्य भवेत् खेदः कः तत् कर्म समाचरेत् ॥३-५०-१९॥
+षष्टि वर्ष सहस्राणि जातस्य मम रावण ।पितृ पैतामहम् राज्यम् यथावत् अनुतिष्ठतः ॥३-५०-२०॥
+वृद्धो अहम् त्वम् युवा धन्वी स रथः कवची शरी ।न च अपि आदाय कुशली वैदेहीम् न गमिष्यसि ॥३-५०-२१॥
+न शक्तः त्वम् बलात् हर्तुम् वैदेहीम् मम पश्यतः ।हेतुभिः न्याय संयुक्तैः ध्रुवाम् वेद श्रुतीम् इव ॥३-५०-२२॥
+युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा पूर्वम् खरः तथा ॥३-५०-२३॥
+असकृत् संयुगे येन निहता दैत्य दानवाः ।न चिरात् चीर वासाः त्वाम् रामो युधि वधिष्यति ॥३-५०-२४॥
+किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप आत्मजौ ।क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतो न संशयः ॥३-५०-२५॥
+न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् ।सीताम् कमल पत्र अक्षीम् रामस्य महषीम् प्रियाम् ॥३-५०-२६॥
+अवश्यम् तु मया कार्यम् प्रियम् तस्य महात्मनः ।जीवितेन अपि रामस्य तथा दशरथस्य च ॥३-५०-२७॥
+तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण ।वृन्तात् इव फलम् त्वाम् तु पातयेयम् रथ उत्तमात् ।युद्ध आतिथ्यम् प्रदास्यामि यथा प्राणम् निशा चर ॥३-५०-२८॥
+इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः ।राक्षसेन्द्रो अभिदुद्र��व पतगेन्द्रम् अमर्षणः ॥३-५१-१॥
+स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे ।बभूव वात उद्धतयोः मेघयोः गगने यथा ॥३-५१-२॥
+तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा ।सपक्षयोः माल्यवतोः महा पर्वतयोः इव ॥३-५१-३॥
+ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः ॥३-५१-४॥
+स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः ।जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे ॥३-५१-५॥
+तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः ।चकार बहुधा गात्रे व्रणान् पतग सत्तमः ॥३-५१-६॥
+अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया ॥३-५१-७॥
+स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः ।बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः ॥३-५१-८॥
+स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् ।अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् ॥३-५१-९॥
+ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् ।चरणाभ्याम् महातेजा बभंज पतगोत्तमः ॥३-५१-१०॥
+ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः ।ववर्ष शर वर्षाणि शतशो अथ सहस्रशः ॥३-५१-११॥
+शरैः आवारितः तस्य संयुगे पतगेश्वरः ।कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा ॥३-५१-१२॥
+स तानि शर जालानि पक्षाभ्याम् तु विधूय ह ।चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः ॥३-५१-१३॥
+तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् ।पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः ॥३-५१-१४॥
+कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् ।तान् च अस्य जव संपन्नान् जघान समरे बली ॥३-५१-१५॥
+अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् ।मणि सोपान चित्र अंगम् बभंज च महारथम् ॥३-५१-१६॥
+पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह ।पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥३-५१-१७॥
+सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः ।पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥३-५१-१८॥
+स भग्न धन्वा विरथो हत अश्वो हत सारथिः ।अंकेन आदाय वैदेहीम् पपात भुवि रावणः ॥३-५१-१९॥
+दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् ।साधु साधु इति भूतानि गृध्र राजम् अपूजयन् ॥३-५१-२०॥
+परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् ।उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः ॥३-५१-२१॥
+तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् ।गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् ॥३-५१-२२॥
+गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् ।समावार्यम् महातेजा जटायुः इदम् अब्रवीत् ॥३-५१-२३॥
+वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण ।अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् ॥३-५१-२४॥
+स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः ।विष पानम् पिबसि एतत् पिपासित इव उदकम् ॥३-५१-२५॥
+अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः ।शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि ॥३-५१-२६॥
+बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे ।वधाय बडिशम् गृह्य स अमिषम् जलजो यथा ॥३-५१-२७॥
+न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ ॥३-५१-२८॥
+यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् ।तस्कर आचरितो मार्गो न एष वीर निषेवितः ॥३-५१-२९॥
+युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा ॥३-५१-३०॥
+परेत काले पुरुषो यत् कर्म प्रतिपद्यते ।विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् ॥३-५१-३१॥
+पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् ।कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि ॥३-५१-३२॥
+एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः ।निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् ॥३-५१-३३॥
+तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः ।अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् ॥३-५१-३४॥
+विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् ।केशान् च उत्पाटयामास नख पक्ष मुख आयुधः ॥३-५१-३५॥
+स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः ।अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः ॥३-५१-३६॥
+संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः ।तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः ॥३-५१-३७॥
+जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः ।वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः ॥३-५१-३८॥
+संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् ।विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः ॥३-५१-३९॥
+ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् ।मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् ॥३-५१-४०॥
+ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः ।राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च ॥३-५१-४१॥
+तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः ।पक्षौ पादौ च प��र्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् ॥३-५१-४२॥
+स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा ।निपपात महा गृध्रो धरण्याम् अल्प जीवितः ॥३-५१-४३॥
+तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता ॥३-५१-४४॥
+तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् ।ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम् ॥३-५१-४५॥
+ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् ।पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा ॥३-५१-४६॥
+सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् ।गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥
+निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् ।अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥
+न नूनम् राम जानासि महत् व्यसनम् आत्मनः ।धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥
+अयम् हि कृपया राम माम् त्रातुम् इह संगतः ।शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥
+त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना ।सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥
+ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् ।अभ्यधावत वैदेहीम् रावणो राक्षस अधिपः ॥३-५२-६॥
+ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् ।मुंच मुंच इति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-७॥
+क्रोशन्तीम् राम राम इति रामेण रहिताम् वने ।जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥
+प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् ।जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥
+न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः ।दृष्ट्वा सीताम् परा मृष्टाम् देवो दिव्येन चक्षुषा ॥३-५२-१०॥
+कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः ।प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥
+दृष्ट्वा सीताम् परा मृष्टाम् दण्डकारण्य वासिनः ।रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥
+स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च ।जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥
+तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी ।रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥
+उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।अधिकम् परिबभ्राज गिरिः दीप इव अग्निन�� ॥३-५२-१५॥
+तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च ।पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥
+तस्याः कौशेयम् उद्धूतम् आकाशे कनक प्रभम् ।बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥
+तस्याः तत् विमलम् - सु नसम् - वक्त्रम् आकाशे रावण अंक गम् ।न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥
+बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः ।सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥
+शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् ।तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥
+रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् ।सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥
+राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् ।शुशुभे न विना रामम् दिवा चन्द्र इव उदितः ॥३-५२-२२॥
+सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् ।शुशुभे कांचनी कांची नीलम् मणिम् - गजम् - इव आश्रिता ॥३-५२-२३॥
+सा पद्म पीता हेम आभा रावणम् जनक आत्मजा ।विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥
+तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः ।बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥
+उत्तम अंग च्युता तस्याः पुष्प वृष्टिः समन्ततः ।सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥
+सा तु रावण वेगेन पुष्प वृष्टिः समन्ततः ।समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥
+अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् ।नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥
+चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् ।विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥
+तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् ।प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥
+ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा ।जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥
+तस्याः तानि अग्नि वर्णानि भूषणानि मही तले ।स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥
+तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः ।वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥
+उत्पात वात अभिहता नाना द्विज गण आयुताः ।मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥
+नलिन्यो ध्वस्त कमलाः त्रस्त म��न जले चराः ।सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥
+समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः ।अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥
+जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः ।सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥
+ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः ।प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥
+न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता ।यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥
+इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥
+उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः ।सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥
+विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् ।ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥
+अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् ।स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् ।जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥
+ततः तु सा चारु दती शुचि स्मिताविना कृता बन्धु जनेन मैथिली ।अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥
+खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥
+रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥
+न व्यपत्रपसे नीच कर्मणा अनेन रावण ।ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥
+त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥
+यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥
+परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥
+ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥
+कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥
+धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥
+किम् शक्यम् कर्तुम् एवम�� हि यत् जवेन एव धावसि ।मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥
+न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥
+न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥
+साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥
+विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥
+व्यवसायः तु ते नीच भविष्यति निरर्थकः ।न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥
+उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥
+मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥
+पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥
+व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥
+खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥
+द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥
+धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥
+क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥
+राक्षसा निहता येन सहस्राणि चतुर्दश ।कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥
+न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥
+तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् ।जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥
+ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती ।ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥
+तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् ।उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥
+मुमोच यदि रामाय शंसेयुः इति भामिनी ।वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥
+संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् ।पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥
+विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः ।स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥
+जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः ।ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥
+उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् ।वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥
+स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः ।तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥
+सरिताम् शरणम् गत्वा समतीयाय सागरम् ।संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥
+वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः ।अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥
+एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् ।स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥
+प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः ।सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥
+संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् ।तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥
+निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् ।अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥
+यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः ।मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥
+यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा ।या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥
+अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् ।तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
+निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् ।ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥
+स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः ।उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥
+नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः ।जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥
+तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे ।पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥
+बहु सैन्यम् महावीर्यम् जनस्थाने निवेशितम् ।स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥
+ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते ।वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥
+निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः ।न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥
+तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् ।रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥
+जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता ।प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥
+अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः ।कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥
+युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि ।अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥
+ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् ।विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥
+ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥
+संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् ।आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत ॥३-५५-१॥
+स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः ।प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन् ॥३-५५-२॥
+स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः ।अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम् ॥३-५५-३॥
+अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् ।वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे ॥३-५५-४॥
+मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् ।अधोगत मुखीम् सीताम् ताम् अभ्येत्य निशाचरः ॥३-५५-५॥
+ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः ।स बलात् दर्शयामास गृहम् देव गृह उपमम् ॥३-५५-६॥
+हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् ।नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम् ॥३-५५-७॥
+दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा ।वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः ॥३-५५-८॥
+दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् ।सोपानम् कांचनम् चित्रम् आरुरोह तया सह ॥३-५५-९॥
+दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः ।हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः ॥३-५५-१०॥
+सुधा मणि विचित्राणि भूम��� भागानि सर्वशः ।दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥
+दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः ।रावणो दर्शयामास सीताम् शोक परायणाम् ॥३-५५-१२॥
+दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् ।उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया ॥३-५५-१३॥
+दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः ।वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान् ॥३-५५-१४॥
+तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् ।सहस्रम् एकम् एकस्य मम कार्य पुरःसरम् ॥३-५५-१५॥
+यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् ।जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी ॥३-५५-१६॥
+बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः ।तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥
+साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम ।भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि ॥३-५५-१८॥
+परिक्षिप्ता समुद्रेण लंका इयम् शत योजना ।न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-५५-१९॥
+न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु ।अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत् ॥३-५५-२०॥
+राज्य भ्रष्टेन दीनेन तापसेन पदातिना ।किम् करिष्यसि रामेण मानुषेण अल्प तेजसा ॥३-५५-२१॥
+भजस्व सीते माम् एव भर्ता अहम् सदृशः तव ।यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह ॥३-५५-२२॥
+दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने ।का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः ॥३-५५-२३॥
+न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः ।दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम् ॥३-५५-२४॥
+त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने ।विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम् ॥३-५५-२५॥
+लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय ।त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम् ॥३-५५-२६॥
+अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् ।दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम् ॥३-५५-२७॥
+यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि ।इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि ॥३-५५-२८॥
+भूषणानि च मुख्यानि तानि सेव मया सह ।पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे ॥३-५५-२९॥
+विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे ।विशालम् रमणीयम् च तत् विमानम् मनो जवम् ॥३-५५-३०॥
+तत्र सीते मया सार्धम् विहरस्व यथा सुखम् ।वदनम् पद्म संकाशम् विमलम् चारु दर्शनम् ॥३-५५-३१॥
+शोक आर्तम् तु वरारोहे न भ्राजति वर आनने ।एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना ॥३-५५-३२॥
+पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् ।ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम् ॥३-५५-३३॥
+उवाच वचनम् वीरो रावणो रजनी चरः ।अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते ॥३-५५-३४॥
+आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति ।एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥
+प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते ।इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥
+न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह ।एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् ।कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते ॥३-५५-३७॥
+सा तथा उक्ता तु वैदेही निर्भया शोक कर्शिता ।तृणम् अन्तरतः कृत्वा रावणम् प्रति अभाषत ॥३-५६-१॥
+राजा दशरथो नाम धर्म सेतुः इव अचलः ।सत्य सन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥३-५६-२॥
+रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।दीर्घ बाहुः विशालाक्षो दैवतम् स पतिः मम ॥३-५६-३॥
+इक्ष्वाकूणाम् कुले जातः सिंह स्कन्धो महाद्युतिः ।लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् हरिष्यति ॥३-५६-४॥
+प्रत्यक्षम् यदि अहम् तस्य त्वया स्याम् धर्षिता बलात् ।शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः ॥३-५६-५॥
+य एते राक्षसाः प्रोक्ता घोर रूपा महाबलाः ।राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥३-५६-६॥
+तस्य ज्या विप्रमुक्ताः ते शराः कांचन भूषणाः ।शरीरम् विधमिष्यन्ति गंगा कूलम् इव ऊर्मयः ॥३-५६-७॥
+असुरैः वा सुरैः वा त्वम् यदि अवध्यो असि रावण ।उत्पाद्य सुमहत् वैरम् जीवन् तस्य न मोक्ष्यसे ॥३-५६-८॥
+स ते जीवित शेषस्य राघवो अन्त करो बली ।पशोः यूप गतस्य इव जीवितम् तव दुर्लभम् ॥३-५६-९॥
+यदि पश्येत् स रामः त्वाम् रोष दीप्तेन चक्षुषा ।रक्षः त्वम् अद्य निर्दग्धो यथा रुद्रेण मन्मधः ॥३-५६-१०॥
+यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा ।सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह ॥३-५६-११॥
+गत आयुः त्वम् गत श्रीकः गत सत्त्वो गत इन्द्रियः ।लंका वैधव्य संयुक्ता त्वत् कृतेन भविष्यति ॥३-५६-१२॥
+न ते पापम् इदम् कर्म सुख उदर्कम् भविष्यति ।या अहम् नीता विना भावम् पति पार्���्वात् त्वया वनात् ॥३-५६-१३॥
+स हि देवर - दैवत - संयुक्तो मम भर्ता महाद्युतिः ।निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥३-५६-१४॥
+स ते वीर्यम् दर्पम् बलम् उत्सेकम् च तथा विधम् ।अपनेष्यति गात्रेभ्यः शर वर्षेण संयुगे ॥३-५६-१५॥
+यदा विनाशो भूतानाम् दृश्यते काल चोदितः ।तदा कार्ये प्रमाद्यन्ति नराः काल वशम् गताः ॥३-५६-१६॥
+माम् प्रधृष्य स ते कालः प्राप्तो अयम् रक्षस अधम ।आत्मनो राक्षसानाम् च वधाय अन्तः पुरस्य च ॥३-५६-१७॥
+न शक्या यज्ञ मध्यस्था वेदिः स्रुक् भाण्ड मण्डिता ।द्विजाति मंत्र संपूता चण्डालेन अवमर्दितुम् ॥३-५६-१८॥
+तथा अहम् धर्म नित्यस्य धर्म पत्नी दृढ व्रता ।त्वया संप्रष्टुम् न शक्या अहम् राक्षसाधम पापिना ॥३-५६-१९॥
+क्रीडन्ती राज हंसेन पद्म षंडेषु नित्यशः ।हंसी सा तृण षण्डस्थम् कथम् द्रक्षेत मद्गुकम् ॥३-५६-२०॥
+इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा ।न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस ॥३-५६-२१॥
+न तु शक्यामि उपक्रोशम् पृथिव्याम् धातुम् आत्मनः ।एवम् उक्त्वा तु वैदेही क्रोद्धात् सु परुषम् वचः ॥३-५६-२२॥
+रावणम् मैथिली तत्र पुनः न उवाच किंचन ।सीताया वचनम् श्रुत्वा परुषम् रोम हर्षणम् ॥३-५६-२३॥
+प्रति उवाच ततः सीताम् भय संदर्शनम् वचः ।शृणु मैथिलि मत् वाक्यम् मासान् द्वादश भामिनि ॥३-५६-२४॥
+कालेन अनेन न अभ्येषि यदि माम् चारु हासिनि ।ततः त्वाम् प्रातः आशा अर्थम् सूदाः छेत्स्यन्ति लेशशः ॥३-५६-२५॥
+इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु रावणः ।राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत् ॥३-५६-२६॥
+शीघ्रम् एव हि राक्षस्यो विकृता घोर दर्शनाः ।दर्पम् अस्या अपनेष्यन्तु मांस शोणित भोजनाः ॥३-५६-२७॥
+वचनात् एव ताः तस्य विकृता घोर दर्शनाः ।कृत प्रांजलयो भूत्वा मैथिलीम् पर्यवारयन् ॥३-५६-२८॥
+स ताः प्रोवाच राजा तु रावणो घोर दर्शनाः ।प्रचाल्य चरण उत्कर्षैः दारयन् इव मेदिनीम् ॥३-५६-२९॥
+अशोक वनिका मध्ये मैथिली नीयताम् इति ।तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता ॥३-५६-३०॥
+तत्र एनाम् तर्जनैः घोरैः पुनः सांत्वैः च मैथिलीम् ।आनयध्वम् वशम् सर्वा वन्याम् गज वधूम् इव ॥३-५६-३१॥
+इति प्रति समादिष्टा राक्षस्यो रावणेन ताः ।अशोक वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु ॥३-५६-३२॥
+सर्वकामफलैर्वृक्षैर्नानापुष���पफलैर्वृताम् - यद्वा -सर्व काम फलैः वृक्षैः नाना पुष्प फलैः वृताम् ।सर्व काल मदैः च अपि द्विजैः समुपसेविताम् ॥३-५६-३३॥
+सा तु शोक परीत अंगी मैथिली जनकात्मजा ।राक्षसी वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा ॥३-५६-३४॥
+शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।न शर्म लभते भीरुः पाश बद्धा मृगी यथा ॥३-५६-३५॥
+न विन्दते तत्र तु शर्म मैथिलीविरूप नेत्राभिः अतीव तर्जिता ।पतिम् स्मरन्ती दयितम् च देवरम्विचेतना अभूत् भय शोक पीडिता ॥३-५६-३६॥
+राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् ।निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत ॥३-५७-१॥
+तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् ।क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः ॥३-५७-२॥
+स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् ।चिंतयामास गोमायोः स्वरेण परिशन्कितः ॥३-५७-३॥
+अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा ।स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना ॥३-५७-४॥
+मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् ।विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि ॥३-५७-५॥
+स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् ।तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति ॥३-५७-६॥
+राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः ।कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम् ॥३-५७-७॥
+दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः ।हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह ॥३-५७-८॥
+अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने ।जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः ॥३-५७-९॥
+निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च ।इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम् ॥३-५७-१०॥
+निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् ।आत्मनः च अपनयनम् मृग रूपेण रक्षसा ॥३-५७-११॥
+आजगाम जनस्थानम् राघवः परिशन्कितः ।तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः ॥३-५७-१२॥
+सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् ।तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः ॥३-५७-१३॥
+ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् ।ततो अविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥
+विषण्णः स विषण्णेन दुःखितो दुःख भागिना ।संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम् ॥३-५७-१५॥
+विहाय सीता���् विजने वने राक्षस सेविते ।गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः ॥३-५७-१६॥
+उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् ।अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम् ॥३-५७-१७॥
+सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति ।न मे अस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥
+विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः ।अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे ॥३-५७-१९॥
+अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे ।जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै ॥३-५७-२०॥
+यथा वै मृग संघाःअ गोमायुः च भैरवम् ।वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् ।अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल ॥३-५७-२१॥
+इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् ।हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव ॥३-५७-२२॥
+मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् ।असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा ॥३-५७-२३॥
+स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥
+प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥
+राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥
+याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥
+पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥
+कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
+सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥
+स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥
+यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
+यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥
+ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥
+सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥
+सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥
+श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥
+सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥
+दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥
+अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥
+इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥
+विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
+स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥
+अथ आश्रमात् उपावृत्तम् अंतरा रघुनंदनः ।परिपप्रच्छ सौमित्रिम् रामो दुःख अर्दितः पुनः ॥३-५९-१॥
+तम् उवाच किम् अर्थम् त्वम् आगतो अपास्य मैथिलीम् ।यदा सा तव विश्वासात् वने विहरिता मया ॥३-५९-२॥
+दृष्ट्वा एव अभ्यागतम् त्वाम् मे मैथिलीम् त्यज्य लक्ष्मण ।शंकमानम् महत् पापम् यत् सत्यम् व्यथितम् मनः ॥३-५९-३॥
+स्फुरते नयनम् सव्यम् बाहुः च हृदयम् च मे ।दृष्ट्वा लक्ष्मण दूरे त्वाम् सीता विरहितम् पथि ॥३-५९-४॥
+एवम् उक्तः तु सौमित्रिः लक्ष्मणः शुभ लक्षणः ।भूयो दुःख संआविष्टो दुःखितम् रामम् अब्रवी॥३-५९-५॥
+न स्वयम् काम कारेण ताम् त्यक्त्वा अहम् इह आगतः ।प्रचोदितस्तयैवोग्रैत्वत्सकाशमिहाअगतः - यद्वा -प्रचोदितः तया एव उग्रैः त्वत् सकाशम् इह आगतः ॥३-५९-६॥
+आर्येण एव परिक्रुष्टम् - पराक्रुष्टम् - हा सीते लक्ष्मण इति च ।परित्राहि इति यत् वाक्यम् मैथिल्याः तत् श्रुतिम् गतम् ॥३-५९-७॥
+सा तम् आर्त स्वरम् श्रुत्वा तव स्नेहेन मैथिली ।गच्छ गच्छ इति माम् आह रुदन्ती भय - विक्लवा - विह्वला ॥३-५९-८॥
+प्रचोद्यमानेन मया गच्छ इति बहुशः तया ।प्रत्युक्ता मैथिली वाक्यम् इदम् तत् प्रत्यय अन्वितम् ॥३-५९-९॥
+न तत् पश्यामि अहम् रक्षो यत् अस्य भयम् आवहेत् ।निर्वृता भव न अस्ति एतत् केन अपि एवम् उदाहृतम् ॥३-५९-१०॥
+विगर्हितम् च नीचम् च कथम् आर्यो अभिधास्यति ।त्राहि इति वचनम् सीते यः त्रायेत् त्रिदशान् अपि ॥३-५९-११॥
+किम् निमित्तम् तु केन अपि भ्रातुः आलंब्य मे स्वरम् ।विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति ॥३-५९-१२॥
+राक्षसेन ईरितम् वाक्यम् त्रसात् त्राहि इति शोभने ।न भवत्या व्यथा कार्या कुनारी जन सेविता ॥३-५९-१३॥
+अलम् वैक्लवताम् गंतुम् स्वस्था भव निर् उत्सुका ।न च अस्ति त्रिषु लोकेषु पुमान् यो राघवम् रणे ॥३-५९-१४॥
+जातो वा जायमानो वा संयुगे यः पराजयेत् ।अजेयो राघवो युद्धे देवैः शक्र पुरोगमैः ॥३-५९-१५॥
+एवम् उक्ता तु वैदेही परिमोहित चेतना ।उवाच अश्रूणि मुंचन्ती दारुणम् माम् इदम् वचः ॥३-५९-१६॥
+भावो मयि तव अत्यर्थम् पाप एव निवेशितः ।विनष्टे भ्रातरि प्राप्तुम् न च त्वम् माम् अवाप्स्यसि ॥३-५९-१७॥
+संकेतात् भरतेन त्वम् रामम् समनुगच्छसि ।क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे ॥३-५९-१८॥
+रिपुः प्रच्छन्न चारी त्वम् मत् अर्थम् अनुगच्छसि ।राघवस्य अन्तर प्रेप्सुः तथा एनम् न अभिपद्यसे ॥३-५९-१९॥
+एवम् उक्तो हि वैदेह्या संरब्धो रक्त लोचनः ।क्रोधात् प्रस्फुरमाण ओष्ठ आश्रमात् अभिनिर्गतः ॥३-५९-२०॥
+एवम् ब्रुवाणम् सौमित्रिम् रामः संताप मोहितः ।अब्रवीत् दुष्कृतम् सौम्य ताम् विना यत् त्वम् आगतः ॥३-५९-२१॥
+जानन् अपि समर्थम् माम् रक्षसाम् अपवारणे ।अनेन क्रोध वाक्येन मैथिल्या निर्गतो भवान् ॥३-५९-२२॥
+न हि ते परितुष्यामि त्यक्त्वा यत् यासि मैथिलीम् ।क्रुद्धायाः परुषम् श्रुत्वा स्त्रिया यत् त्वम् इह आगतः ॥३-५९-२३॥
+सर्वथा तु अपनीतम् ते सीतया यत् प्रचोदितः ।क्रोधस्य वशम् आगम्य न अकरोः शासनम् मम ॥३-५९-२४॥
+असौ हि राक्षसः शेते शरेण अभिहतो मया ।मृग रूपेण येन अहम् आश्रमात् अपवाहितः ॥३-५९-२५॥
+विकृष्य चापम् परिधाय सायकम्स लील बाणेन च ताडितो मया ।मार्गीम् तनुम् त्यज्य च विक्लव स्वरोबभूव केयूर धरः स राक्षसः ॥३-५९-२६॥
+शर आहतेन एव तदा आर्तया गिरास्वरम् मम आलंब्य सु दूर सु श्रवम् ।उदाहृतम् तत् वचनम् सु दारुणम्त्वम् आगतो येन विहाय मैथिलीम् ॥३-५९-२७॥
+भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् ।प्रास्फुरत् च अस्खलत् र��मो वेपथुः च अस्य जायते ॥३-६०-१॥
+उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः ।अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥
+त्वरमाणो जगाम अथ सीता दर्शन लालसः ।शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥
+उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः ।तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥
+ददर्श पर्ण शालाम् च सीतया रहिताम् तदा ।श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥
+रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् ।श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥
+विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् ।दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥
+हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥
+गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः ।अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥
+यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् ।शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥
+वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् ।बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥
+अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया ।कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥
+स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् ।शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥
+अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् ।जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥
+ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् ।लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥
+भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि ।एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥
+अशोक शोक अपनुद शोक उपहत चेतनम् ।त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥
+यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी ।कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥
+यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा ।प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥
+अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् ।कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥
+चूत नीप महा सालान् पनसान् कुरवान् धवान् ।दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥
+बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा ।पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥
+अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् ।मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥
+गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् ।ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥
+शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना ।मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥
+किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे ।वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥
+तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि ।न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥
+पीत कौशेयकेन असि सूचिता वर वर्णिनि ।धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥
+न एव सा नूनम् अथवा हिंसिता चारु हासिनी ।कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥
+व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः ।विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥
+नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् ।पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥
+सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता ।कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥
+नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ ।भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥
+मया विरहिता बाला रक्षसाम् भक्षणाय वै ।सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥
+हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् ।हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥
+इति एवम् विलपन् रामः परिधावन् वनात् वनम् ।क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥
+क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः ।स वनानि नदीः शैलान् गिरि प्रस्रवणानि च ।काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥
+तदा स गत्वा विपुलम् महत् वनम्परीत्य सर्वम् तु अथ मैथिलीम् प्रति ।अनिष्ठित आशः स चकार मार्गणेपुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥
+दृष्ट्वा आश्रम पदम् शून्यम् रामो दशरथ आत्मजः।रहिताम् पर्णशालाम् च प्रविद्धानि आसनानि च ॥३-६१-१॥
+अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः ।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥३-६१-२॥
+क्व नु लक्ष्मण वैदेही कम् वा देशम् इतो गता ।केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३-६१-३॥
+वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि ।अलम् ते हसितेन अद्य माम् भजस्व सुदुःखितम् ॥३-६१-४॥
+यैः सह क्रीडसे सीते विश्वस्तैः मृग पोतकैः ।एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र आविल ईक्षणाः ॥३-६१-५॥
+सीताया रहितो अहम् वै न हि जीवामि लक्ष्मण ।वृतम् शोकेन महता सीता हरणजेन माम् ॥३-६१-६॥
+पर लोके महाराजो नूनम् द्रक्ष्यति मे पिता ।कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः ॥३-६१-७॥
+अपूरयित्वा तम् कालम् मत् सकाशम् इह आगतः ।काम वृत्तम् अनार्यम् माम् मृषा वादिनम् एव च ॥३-६१-८॥
+धिक् त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता ।विवशम् शोक संतप्तम् दीनम् भग्न मनोरथम् ॥३-६१-९॥
+माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अन्ऋजुम् ।क्व गच्चसि वरारोहे मा मोत्सृज्य - मा मा उत्सृज्य - सुमध्यमे ॥३-६१-१०॥
+त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः ।इति इव विलपन् रामः सीता दर्शन लालसः ॥३-६१-११॥
+न ददर्श सुदुःख आर्तो राघवो जनक आत्मजाम् ।अनासादयमानम् तम् सीताम् शोकपरायणम् ॥३-६१-१२॥
+पंकम् आसाद्य विपुलम् सीदन्तम् इव कुंजरम् ।लक्ष्मणो रामम् अत्यर्थम् उवाच हित काम्यया ॥३-६१-१३॥
+मा विषादम् महाबुद्धे कुरु यत्नम् मया सह ।इदम् गिरि वरम् वीर बहु कन्दर शोभितम् ॥३-६१-१४॥
+प्रिय कानन संचारा वन उन्मत्ता च मैथिली ।सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सुपुष्पिताम् ॥३-६१-१५॥
+सरितम् वा अपि संप्राप्ता मीन वंजुल सेविताम् ।वित्रासयितु कामा वा लीना स्यात् कानने क्वचित् ॥३-६१-१६॥
+जिज्ञासमाना वैदेही त्वाम् माम् च पुरुषर्षभ ।तस्या हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे ॥३-६१-१७॥
+वनम् सर्वम् विचिनुवो यत्र सा जनक आत्मजा ।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥३-६१-१८॥
+एवम् उक्तः तु सौहार्दात् लक्ष्मणेन समाहितः ।सह सौमित्रिणा रामो विचेतुम् उपचक्रमे ॥३-६१-१९॥
+तौ वनानि गिरीन् चैव सरितः च सरांसि च ।निखिलेन विचिन्वन्तौ सीताम् दशरथ आत्मजौ ॥३-६१-२०॥
+तस्य शैलस्य सानूनि शिलाः च शिखराणि च ।निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः ॥३-६१-२१॥
+विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत् ।न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम् ॥३-६१-२२॥
+ततो दुःख अभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् ।विचरन् दण्डक अरण्यम् भ्रातरम् दीप्त तेजसम् ॥३-६१-२३॥
+प्राप्स्यसि त्वम् महाप्राज्ञ मैथिलीम् जनक आत्मजाम् ।यथा विष्णुः महाबाहुः बलिम् बद्ध्वा महीम् इमाम् ॥३-६१-२४॥
+एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः ।उवाच दीनया वाचा दुःख अभिहत चेतनः ॥३-६१-२५॥
+वनम् सुविचितम् सर्वम् पद्मिन्यः फुल्ल पंकजाः ।गिरिः च अयम् महाप्राज्ञ बहु कन्दर निर्झरः ।न हि पश्यामि वैदेहीम् प्राणेभ्यो अपि गरीयसीम् ॥३-६१-२६॥
+एवम् स विलपन् रामः सीता हरण कर्शितः ।दीनः शोक समाविष्टो मुहूर्तम् विह्वलो अभवत् ॥३-६१-२७॥
+स विह्वलित सर्व अंगो गत बुद्धिः विचेतनः ।निषसाद आतुरो दीनो निःश्वस्य अशीतम् आयतम् ॥३-६१-२८॥
+बहुशः स तु निःश्वस्य रामो राजीव लोचनः ।हा प्रिये ति विचुक्रोश बहुशो बाष्प गद्गदः ॥३-६१-२९॥
+तम् सान्त्वयामास ततो लक्ष्मणः प्रिय बान्धवम् ।बहु प्रकारम् शोक आर्तः प्रश्रितः प्रश्रित अंजलिः ॥३-६१-३०॥
+अनादृत्य तु तत् वाक्यम् लक्ष्मण ओष्ठ पुट च्युतम् ।अपश्यन् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनः पुनः ॥३-६१-३१॥
+सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः ।विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥
+पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः ।उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥
+त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये ।अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥
+कदली काण्ड सदृशौ कदल्या संवृता उभौ ।ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥
+कर्णिकार वनम् भद्रे हसंती देवि सेवसे ।अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥
+विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते ।अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥
+आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव ।सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा ॥३-६२-७॥
+न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण ।एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥
+शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः ।हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥
+हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति ।सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥
+कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम ।निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥
+कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे ।निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥
+कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् ।विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥
+सुता विनाश संतप्तो मोहस्य वशम् एष्यति ।अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥
+स्वर्गो अपि हि तया हीनः शून्य एव मतो मम ।तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम् ॥३-६२-१५॥
+न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन ।गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥
+अनुज्ञातो असि रामेण पालय इति वसुंधराम् ।अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥
+कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया ।रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥
+सीतायाः च विनाशो अयम् मम च अमित्र सूदन ।विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥
+इति विलपति राघवो तु दीनोवनम् उपगम्य तया विना सु केश्या ।भय विकल मुखः तु लक्ष्मणो अपिव्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥
+स राज पुत्र प्रिया विहीनःशोकेन मोहेन च पीड्यमानः ।विषादयन् भ्रातरम् आर्त रूपोभूयो विषादम्प्रविवेश तीव्रम् ॥३-६३-१॥
+स लक्ष्मणम् शोक वश अभिपन्नम्शोके निमग्नो विपुले तु रामः ।उवाच वाक्यम् व्यसनानुरूपम्उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥३-६३-२॥
+न मत् विधो दुष्कृत कर्म कारीमन्ये द्वितीयो अस्ति वसुंधरायाम् ।शोक अनुशोको हि परंपरायामाम् एति भिन्दन् हृदयम् मनः च ॥३-६३-३॥
+पूर्वम् मया नूनम् अभीप्सितानिपापानि कर्माणि असत्कृत् कृतानि ।तत्र अयम् अद्य पतितो विपाकोदुःखेन दुःखम् यद् अहम् विशामि ॥३-६३-४॥
+राज्य प्रणाशः स्व जनैः वियोगःपितुर् विनाशो जननी वियोगः ।सर्वानि मे लक्ष्मण शोक वेगम्आपूरयन्ति प्रविचिन्तितानि ॥३-६३-५॥
+सर्वम् तु दुःखम् मम लक्ष्मण इदम्शान्तम् शरीरे वनम् एत्य क्लेशम् ।सीता वियोगात् पुनर् अपि उदीर्णम्काष्टैः इव अग्निः सहसा प्रदीप्तः ॥३-६३-६॥
+सा नूनम् आर्या मम राक्षसेन हिअभ्याहृता खम् समुपेत्य भीरुः ।अपस्वरम् सु स्वर विप्रलापाभयेन विक्रन्दितवति अभीक्ष्णम् ॥३-६३-७॥
+तौ लोहितस्य प्रिय दर्शनस्यसदा उचितौ उत्तम चंदनस्य ।वृत्तौ स्तनौ शोणित पंक दिग्धौनूनम् प्रियाया मम न ��भिभात ॥३-६३-८॥
+तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम्तस्या मुखम् कुंचित केश भारम् ।रक्षो वशम् नूनम् उपगतायान भ्राजते राहु मुखे यथा इंदुः ॥३-६३-९॥
+ताम् हार पाशस्य सदा उचित अंतम्ग्रीवाम् प्रियाया मम सु व्रताया ।रक्षांसि नूनम् परिपीतवन्तिशून्ये हि भित्वा रुधिर अशनानि ॥३-६३-१०॥
+मया विहीना विजने वने यारक्षोभिः आहृत्य विकृष्यमाणा ।नूनम् विनादम् कुररि इव दीनासा मुक्तवती आयत कान्त नेत्रा ॥३-६३-११॥
+अस्मिन् मया सार्थम् उदार शीलाशिला तले पूर्वम् उपोपविष्टा ।कान्त स्मिता लक्ष्मण जात हासात्वाम् आह सीता बहु वाक्य जातम् ॥३-६३-१२॥
+गोदावरी इयाम् सरिताम् वरिष्टाप्रिया प्रियाया मम नित्य कालम् ।अपि अत्र गच्छेत् इति चिंतयामिन एकाकिनी याति हि सा कदाचित् ॥३-६३-१३॥
+पद्म आनना पद्म पलाश नेत्रापद्मानि वा आनेतुम् अभिप्रयाता ।तत् अपि अयुक्तम् न हि सा कद्दचित्मया विना गच्छति पंकजानि ॥३-६३-१४॥
+कामम् तु इदम् पुष्पित वृक्ष सण्डम्नाना विधैः पक्षि गणैः उपेतम् ।वनम् प्रयाता नु तत् अपि अयुक्तम्एकाकिनी सा अति बिभेति भीरुः ॥३-६३-१५॥
+आदित्य भो लोक क्रृत अकृत ज्ञःलोकस्य सत्य अनृत कर्म साक्षिन् ।मम प्रिया सा क्व गता हृता वाशंसव मे शोक हतस्य सर्वम् ॥३-६३-१६॥
+लोकेषु सर्वेषु न नास्ति किंचित्यत् ते न नित्यम् विदितम् भवेत् तत् ।शंसस्व वयोः कुल शालिनीम् ताम्मृता हृता वा पथि वर्तते वा ॥३-६३-१७॥
+इति इव तम् शोक विधेय देहम्रामम् विसंज्ञम् विलपंतम् एव ।उवाच सौमित्रिःअदीन सत्त्वःन्याये स्थितः काल युतम् च वाक्यम् ॥३-६३-१८॥
+शोकम् विमुंच आर्य धृतिम् भजस्वसह उत्साहता च अस्तु विमार्गणे अस्याः ।उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मसु अति दुष्करेषु ॥३-६३-१९॥
+इति इव सौमित्रिम् उदग्र पौरुषम्ब्रुवन्तम् आर्तो रघु वंश वर्धनः ।न चिंतयामास धृतिम् विमुक्तवान्पुनः च दुःखम् महत् अभ्युपागमत् ॥३-६३-२०॥
+स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥
+अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
+नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
+नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।कम् नु सा देशम् आप���्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
+न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
+रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
+भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
+ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
+रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
+निराशः तु तया नद्या सीताया दर्शने कृतः ।उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
+एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
+मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
+सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥
+मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
+सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
+वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
+क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
+दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
+तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
+पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
+उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
+दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
+यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
+लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।एवम् सं��ाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
+वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
+उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
+अपिनद्धानि वैदेह्या मया दत्तानि कानने ।मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
+अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
+उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग सुंदरीम् ॥३-६४-२९॥
+रामा रम्ये वनोद् देशे मया विरहिता त्वया ।क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा ॥३-६४-३०॥
+ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥
+एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥
+ततो दाशरथी राम उवाच शिलोच्चयम् ।मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥
+असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
+यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥
+ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥
+राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥
+भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥
+पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
+तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥
+मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
+तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥
+मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥
+राक्षसानाम् इदम् वस्त स��राणाम् अधवा अपि ।तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥
+विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥
+भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥
+भीम रूपा महाकायाः कस्य वा निहता रणे ।दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥
+अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥
+कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
+प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥
+वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥
+हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥
+भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥
+कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥
+मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥
+माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥
+संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥
+न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
+मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥
+संनिरुद्धग्रहगणमावारितनिशाकरम् ।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्।यद्व -संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥
+विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम्।यद्वा -विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥
+त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल ��र्मणा ।न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥
+अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥
+मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥
+समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः।यद्वा -आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥
+करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥
+द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
+भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥
+बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।यद्वा -बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः।यद्वा -निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥
+हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
+नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥
+इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥
+तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥
+लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥
+संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥
+यथा जरा यथा मृत्युः यथा कालो यथा विधिः ।नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण ।तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥
+पुरा इव मे चारु दतीम् अनिन्दिताम्दिशन्ति सीताम् यदि न अद्य मैथिलीम् ।सदेव गन्धर्व मनुष्य पन्नगम्जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥
+तप्यमानम् तथा रामम् सीता हरण कर्शितम् ।लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥
+वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पु���ः पुनः ।दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥
+अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः ।अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥
+पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः ।न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥
+चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा ।एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥
+एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि ।न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥
+केन वा कस्य वा हेतोः स आयुधः स परिच्छदः ।खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥
+देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज ।एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥
+न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् ।न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥
+युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः ।सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥
+को नु दार प्रणाशम् ते साधु मन्येत राघव ।सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥
+न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः ।येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥
+मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः ।समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥
+गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा ।देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥
+यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् ।न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः ।कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥
+शीलेन साम्ना विनयेन सीताम्नयेन न प्राप्स्यसि चेत् नरेन्द्र ।ततः समुत्सादय हेम पुंखैःमहेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥
+तम् तथा शोक संतप्तम् विलपंतम् अनाथवत् ।मोहेन महता आविष्टम् परिद्यूनम् अचेतनम् ॥३-६६-१॥
+ततः सौमित्रिः आश्वास्य मुहूर्तात् इव लक्ष्मणः ।रामम् संबोधयामास चरणौ च अभिपीडयन् ॥३-६६-२॥
+महता तपसा राम महता च अपि कर्मणा ।राज्ञा दशरथेन असि लब्धो अमृतम् इव अमरैः ॥३-६६-३॥
+तव चैव गुणैः बद्धः त्वत् वियोगात् महिपतिः ।राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥३-६६-४॥
+यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे ।प्राकृतः च अल्प सत्���्वः च इतरः कः सहिष्यति ॥३-६६-५॥
+आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य न आपद ।संस्पृशन्ति अग्निवत् राजन् क्षणेन व्यपयान्ति च ॥३-६६-६॥
+दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते ।आर्ताः प्रजा नर व्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥३-६६-७॥
+लोक स्वभाव एव एष ययातिः नहुष आत्मजः ।गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत् ॥३-६६-८॥
+महाऋषि यः वसिष्ठः तु यः पितुः नः पुरोहितः ।अह्ना पुत्र शतम् जज्ञे तथैव अस्य पुनर् हतम् ॥३-६६-९॥
+या च इयम् जगतो माता सर्व लोक नमस्कृता ।अस्याः च चलनम् भूमेः दृश्यते कोसलेश्वर ॥३-६६-१०॥
+यौ धर्मौ जगताम् नेत्रे यत्र सर्वम् प्रतिष्ठितम् ।आदित्य चन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥३-६६-११॥
+सुमहान्ति अपि भूतानि देवाः च पुरुष ऋषभ ।न दैवस्य प्रमुंचन्ति सर्व भूतानि देहिनः ॥३-६६-१२॥
+शक्र आदिषु अपि देवेषु वर्तमानौ नय अनयौ ।श्रूयेते नर शार्दूल न त्वम् व्यथितुम् अर्हसि ॥३-६६-१३॥
+हृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव ।शोचितुम् न अर्हसे वीर यथा अन्यः प्राकृतः तथा ॥३-६६-१४॥
+त्वत् विधा नहि शोचन्ति सततम् सर्व दर्शिनः ।सुमहत्सु अपि कृच्छ्रेषु राम अनिर्विण्ण दर्शनाः ॥३-६६-१५॥
+तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय ।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभ अशुभे ॥३-६६-१६॥
+अदृष्ट गुण दोषाणाम् अधृवाणाम् च कर्मणाम् ।न अंतरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते ॥३-६६-१७॥
+माम् एवम् हि पुरा वीर त्वम् एव बहुशो उक्तवान् ।अनुशिष्यात् हि को नु त्वाम् अपि साक्षात् बृहस्पतिः ॥३-६६-१८॥
+बुद्धिः च ते महाप्राज्ञ देवैः अपि दुर्अन्वया ।शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम् ॥३-६६-१९॥
+दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् ।इक्ष्वाकु वृषभ अवेक्ष्य यतस्व द्विषताम् वधे ॥३-६६-२०॥
+किम् ते सर्व विनाशेन कृतेन पुरुष ऋषभ ।तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि ॥३-६६-२१॥
+पूर्वजो अपि उक्त मात्रः तु लक्ष्मणेन सुभाषितम् ।सार ग्राही महासारम् प्रतिजग्राह राघवः ॥३-६७-१॥
+स निगृह्य महाबाहुः प्रवृद्धम् रोषम् आत्मनः ।अवष्टभ्य धनुः चित्रम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-२॥
+किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।केन उपायेन पश्येयम् सीताम् इह विचिन्तय ॥३-६७-३॥
+तम् तथा परिताप आर्तम् लक्ष्मणो रा��म् अब्रवीत् ।इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि ॥३-६७-४॥
+राक्षसैः बहुभिः कीर्णम् नाना द्रुम लता आयुतम् ।सन्ति इह गिरि दुर्गाणि निर्दराः कंदराणि च ॥३-६७-५॥
+गुहाः च विविधा घोरा नाना मृग गण आकुलाः ।आवासाः किन्नराणाम् च गन्धर्व भवनानि च ॥३-६७-६॥
+तानि युक्तो मया सार्धम् समन्वेषितुम् अर्हसि ।त्वत् विधा बुद्धि संपन्ना माहात्मानो नरर्षभ ॥३-६७-७॥
+आपत्सु न प्रकंपन्ते वायु वेगैः इव अचलाः ।इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः ॥३-६७-८॥
+क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् ।ततः पर्वत कूट आभम् महा भागम् द्विज उत्तमम् ॥३-६७-९॥
+ददर्श पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।तम् दृष्ट्वा गिरि शृंग आभम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-१०॥
+अनेन सीता वैदेही भक्षिता न अत्र संशयः ।गृध्र रूपम् इदम् व्यक्तम् रक्षो भ्रमति काननम् ॥३-६७-११॥
+भक्षयित्वा विशालाक्षीम् आस्ते सीताम् यथा सुखम् ।एनम् वधिष्ये दीप्त अग्रैः घोरैः बाणैः अजिह्मगैः ॥३-६७-१२॥
+इति उक्त्वा अभ्यपतत् गृध्रम् सन्धाय धनुषि क्षुरम् ।क्रुद्धो रामः समुद्र अन्ताम् चालयन् इव मेदिनीम् ॥३-६७-१३॥
+तम् दीन दीनया वाचा स फेनम् रुधिरम् वमन् ।अभ्यभाषत पक्षी तु रामम् दशरथ आत्मजम् ॥३-६७-१४॥
+याम् ओषधिम् इव आयुष्मन् अन्वेषसि महा वने ।सा देवी मम च प्राणा रावणेन उभयम् हृतम् ॥३-६७-१५॥
+त्वया विरहिता देवी लक्ष्मणेन च राघव ।ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥
+सीताम् अभ्यवपन्नो अहम् रावणः च रणे मया ।विध्वंसित रथः च अत्र पातितो धरणी तले ॥३-६७-१७॥
+एतत् अस्य धनुः भग्नम् एतत् अस्य शरावरम् ।अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥
+अयम् तु सारथिः तस्य मत् पक्ष निहतो भुविः ।परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥
+सीताम् आदाय वैदेहीम् उत्पपात विहायसम् ।रक्षसा निहतम् पूर्वम् न माम् हन्तुम् त्वम् अर्हसि ॥३-६७-२०॥
+रामः तस्य तु विज्ञाय सीता सक्ताम् प्रियाम् कथाम् ।गृध्र राजम् परिष्वज्य परित्यज्य महत् धनुः ॥३-६७-२१॥
+निपपात अवशो भूमौ रुरोद सह लक्ष्मण ।द्विगुणीकृत ताप आर्तो रामो धीरतरो अपि सन् ॥३-६७-२२॥
+एकम् एक अयने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुः ।समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥३-६७-२३॥
+राज्यम् भ्रष्टम् वने वासः सीत��� नष्टा मृते द्विजः ।ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि पावकम् ॥३-६७-२४॥
+संपूर्णम् अपि चेत् अद्य प्रतरेयम् महोदधिम् ।सो अपि नूनम् मम अलक्ष्म्या विशुष्येत् सरिताम् पतिः ॥३-६७-२५॥
+न अस्ति अभाग्यतरो लोके मत्तो अस्मिन् स चराचरे ।येन इयम् महती प्राप्ता मया व्यसन वागुरा ॥३-६७-२६॥
+अयम् पितृ वयस्यो मे गृध्र राजो जरा अन्वितः ।शेते विनिहतो भूमौ मम भाग्य विपर्ययात् ॥३-६७-२७॥
+इति एवम् उक्त्वा बहुशो राघवः सह लक्ष्मणः ।जटायुषम् च पस्पर्श पितृ स्नेहम् निदर्शयन् ॥३-६७-२८॥
+निकृत्त पक्षम् रुधिर अवसिक्तम्तम् गृध्र राजम् परिरभ्य रामः ।क्व मैथिलि प्राण समा मम इतिविमुच्य वाचम् निपपात भूमौ ॥३-६७-२९॥
+रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥
+मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥
+अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥
+जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥
+किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
+कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
+कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
+तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥
+सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥
+परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥
+उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥
+येन याति मुहूर्तेन सीताम् आदाय रावणः ।विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥
+विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥
+न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥
+असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥
+पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
+ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥
+स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥
+तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥
+बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥
+अनेक वार्षिको यः तु चिर काल समुत्थितः ।सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥
+पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
+गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
+सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥
+सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥
+राजा दशरथः श्रीमान् यथा मम मया यशाः ।पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥
+सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥
+नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥
+या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥
+मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥
+एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥
+रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥
+रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥
+यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥
+ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥
+शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥
+स गृध्र राजः कृतवान् यशस्करम्सु दुष्करम् कर्म रणे निपातितः ।महर्षि कल्पेन च संस्कृतः तदाजगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥
+कृतोदकौ तौ अपि पक्षि सत्तमेस्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।प्रवेश्य सीता अधिगमने ततो मनोवनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥
+कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा ।अवेक्षन्तौ वने सीताम् जग्मतुः पश्चिमाम् दिशम् ॥३-६९-१॥
+ताम् दिशम् दक्षिणाम् गत्वा शर चाप असि धारिणौ ।अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः ॥३-६९-२॥
+गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् ।आवृतम् सर्वतो दुर्गम् गहनम् घोर दर्शनम् ॥३-६९-३॥
+व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् ।सु भीमम् तन् महाअरण्यम् व्यतियातौ महाबलौ ॥३-६९-४॥
+ततः परम् जनस्थानात् त्रि क्रोशम् गम्य राघवौ ।क्रौंच अरण्यम् विविशतुः गहनम् तौ महौजसौ ॥३-६९-५॥
+नाना मेघ घन प्रख्यम् प्रहृष्टम् इव सर्वतः ।नाना वर्णैः शुभैः पुष्पैः मृग पक्षि गणैः युतम् ॥३-६९-६॥
+दिदृक्षमाणौ वैदेहीम् तत् वनम् तौ विचिक्यतुः ।तत्र तत्र अवतिष्ठन्तौ सीता हरण दुःखितौ ॥३-६९-७॥
+ततः पूर्वेण तौ गत्वा त्रि क्रोसम् भ्रातरु तदा ।क्रौंचारण्यम् अतिक्रम्य मातंग आश्रम अंतरा ॥३-६९-८॥
+दृष्टा तु तद् वनम् घोरम् बहु भीम मृग द्विजम् ।नाना वृक्ष समाकीर्णम् सर्वम् गहन पादपम् ॥३-६९-९॥
+ददृशाः ते गिरौ तत्र दरीम् डशरथ आत्मजौ ।पाताल सम गम्भीराम् तमसा नित्य संवृताम् ॥३-६९-१०॥
+आसाद्य च नरव्याघ्रौ दर्याः तस्या अविदूरतः ।ददर्श तु महारूपाम् रक्षसीम् विकृत आननाम् ॥३-६९-११॥
+भयदाम् अल्प सत्त्वानाम् भीभत्साम् रौद्र दर्शनाम् ।लंबोदरीम् तीक्ष्ण दंष्ट्राम् करालीम् परुष त्वचम् ॥३-६९-१२॥
+भक्षयन्तीम् मृगान् भीमान् विकटाम् मुक्त मूर्धजाम् ।अवैक्षताम् तु तौ तत्र भ्रातरौ राम लक्ष्मणौ ॥३-६९-१३॥
+सा समासाद्य तौ वीरौ व्रजन्तम् भ्रातुः अग्रतः ।एहि रंस्यावहे इति उक्त्वा समालंबत लक्ष्मणम् ॥३-६९-१४॥
+उवाच च एनम् वचनम् सौमित्रिम् उपगुह्य सा ।अहम् तु अयोमुखी नाम लाभः ते त्वम् असि प्रियः ॥३-६९-१५॥
+नाथ पर्वत दुर्गेषु नदीनाम् पुलिनेषु च ।आयुः चिरम् इदम् वीर त्वम् मया सह रंस्यसे ॥३-६९-१६॥
+एवम् उक्तः तु कुपितः खडगम् उद्धृत्य लक्ष्मणः ।कर्ण नास स्तनम् तस्या निचकर्ता अरिसूदनः ॥३-६९-१७॥
+कर्ण नासे निकृत्ते तु विस्वरम् विननाद सा ।यथा आगतम् प्रदुद्राव राक्षसी घोर दर्शना ॥३-६९-१८॥
+तस्याम् गतायाम् गहनम् व्रजन्तौ वनम् ओजसा ।आसेदतुः अरि मित्र घ्नौ भ्रातरौ राम लक्ष्मणौ ॥३-६९-१९॥
+लक्ष्मणः तु महातेजाः सत्त्ववान् शीलवान् शुचिः ।अब्रवीत् प्रांजलिः वाक्यम् भ्रातरम् दीप्त तेजसम् ॥३-६९-२०॥
+स्पंदन्ते मे दृढम् बाहुः उद्विग्नम् इव मे मनः ।प्रायशः च अपि अनिष्टानि निमित्तानि उपलक्षये ॥३-६९-२१॥
+तस्मात् सज्जी भव आर्य त्वम् कुरुष्व वचनम् हितम् ।मम एव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥३-६९-२२॥
+एष वंजुलको नाम पक्षी परम दारुणः ।आवयोः विजयम् युद्धे शंसन् इव विनर्दति ॥३-६९-२३॥
+तयोः अन्वेषतोः एवम् सर्वम् तत् वनम् ओजसा ।संजज्ञे विपुलः शब्दः प्रभंजन् इव तत् वनम् ॥३-६९-२४॥
+संवेष्टितम् इव अत्यर्थम् गहनम् मातरिश्वना ।वनस्य तस्य शब्दो अभूत् दिवम् आपूरयन् इव ॥३-६९-२५॥
+तम् शब्दम् कांक्षमाणः तु रामः खड्गी सह अनुजः ।ददर्श सु महा कायम् राक्षसम् विपुल उरसम् ॥३-६९-२६॥
+आसेदतुः च तत् रक्षः तौ उभौ प्रमुखे स्थितम् ।विवृद्धम् अ-शिरो ग्रीवम् कबंधम् उदरे मुखम् ॥३-६९-२७॥
+रोमभिर्निश्चितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् - यद्वा -रोमभिः निचितैः तीक्ष्णैः महागिरिम् इव उच्छ्रितम् ।नील मेघ निभम् रौद्रम् मेघ स्तनित निःस्वनम् ॥३-६९-२८॥
+अग्नि ज्वाल निकाशेन ललाटस्थेन दीप्यता ।महापक्षेण पिंगेन विपुलेन आयतेन च ॥३-६९-२९॥
+एकेन उरसि घोरेण नयनेन आशु दर्शिना ।महा दंष्ट्र उपपन्नम् तम् लेलिहानम् महा मुखम् ॥३-६९-३०॥
+भक्षयंतम् महा घोरान् ऋक्ष सिम्ह मृग द्विपान् ।घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ ॥३-६९-३१॥
+कराभ्याम् विविधान् गृह्य ऋक्षान् पक्षि गणान् मृगान् ।आकर्षन्तम् विकर्षन्तम् अनेकान् मृग यूथपान् ॥३-६९-३२॥
+स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः ।अथ तम् समतिक्रम्य क्रोश मात्रम् ददर्शतुः ॥३-६९-३३॥
+महान्तम् दा���ुणम् भीमम् कबंधम् भुज संवृतम् ।कबंधम् इव संस्थानत् अति घोर प्रदशनम् ॥३-६९-३४॥
+स महा बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ ।जग्राह सहितौ एव राघवौ पीडयन् बलात् ॥३-६९-३५॥
+खड्गिनौ दृढ धन्वानौ तिग्म तेजौ महा भुजौ ।भ्रातरौ विवशम् प्राप्तौ कृष्यमाणौ महा बलौ ॥३-६९-३६॥
+तत्र धैर्यात् च शूराः तु राघवो न एव विव्यधे ।बाल्यात् अनाश्रयत्वात् च एव लक्ष्मणः तु अतिविव्यधे ॥३-६९-३७॥
+उवाच च विषण्णम् सन् राघवम् राघव अनुजः ।पश्य माम् विवशम् वीर राक्षसस्य वशम् गतम् ॥३-६९-३८॥
+मया एकन तु निर्युक्तः परिमुच्यस्व राघव ।माम् हि भूत बलिम् दत्त्वा पलास्व यथा सुखम् ॥३-६९-३९॥
+अधिगंता असि वैदेहीम् अचिरेण इति मे मतिः ।प्रति लभ्य च काकुत्स्थ पितॄ पैतामहम् महीम् ॥३-६९-४०॥
+तत्र माम् राम राज्यस्थः स्मर्तुम् अर्हसि सर्वदा ।लक्ष्मणेन एवम् उक्तः तु रामः सौमित्रिम् अब्रवीत् ॥३-६९-४१॥
+मा स्म त्रासम् वृथा वीर न हि त्वा दृक् विषीदति ।एतस्मिन् अन्तरे क्रूरो भ्रातरौ राम लक्ष्मणौ ॥३-६९-४२॥
+तौ उवाच महाबाहुः कबन्धो दानव उत्तमः ।कौ युवाम् वृषभ स्कन्धौ महा खड्ग धनुर् धरौ ॥३-६९-४३॥
+घोरम् देशम् इमम् प्राप्तौ दैवेन मम चाक्षुषौ ।वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम् ॥३-६९-४४॥
+इमम् देशम् अनुप्राप्तौ क्षुधा आर्तस्य इह तिष्ठतः ।स बाण चाप खड्गौ च तीक्ष्ण शृंगौ इव ऋषभौ ॥३-६९-४५॥
+मम तूर्णम् उपसंप्राप्तौ दुर्लभम् जीवितम् वाम् ।तस्य तत् वचनम् श्रुत्वा कबंधस्य दुरात्मनः ॥३-६९-४६॥
+उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ।कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य विक्रम ॥३-६९-४७॥
+व्यसनम् जीवित अन्ताय प्राप्तम् अप्राप्य ताम् प्रियाम् ।कालस्य सुमहत् वीर्यम् सर्व भूतेषु लक्ष्मण ॥३-६९-४८॥
+त्वाम् च माम् च नरव्याघ्र व्यसनैः पश्य मोहितौ ।न हि भारो अस्ति दैवस्य सर्व भुतेषु लक्ष्मण ॥३-६९-४९॥
+शूराः च बलवंतः च कृत अस्त्राः च रण आजिरे ।काल अभिपन्नाः सीदन्ति यथा वालुक सेतवः ॥३-६९-५०॥
+इति ब्रुवाणो दृढ सत्य विक्रमोमहायशा दाशरथिः प्रतापवान् ।अवेक्ष्य सौमित्रिम् उदग्र विक्रमम्स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत् ॥३-६९-५१॥
+तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ ।बाहु पाश परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥३-७०-१॥
+तिष्ठतः किम् नु माम् दृष्ट्वा ���्षुधा आर्तम् क्षत्रिय ऋषभौ ।आहार अर्थम् तु सन्दिष्टौ दैवेन गत चेतसौ ॥३-७०-२॥
+तत् श्रुत्वा लक्ष्मणो वाक्यम् प्राप्त कालम् हितम् तदा ।उवाच आर्तिम् समापन्नो विक्रमे कृत निश्चयः ॥३-७०-३॥
+त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः ।तस्मात् असिभ्याम् अस्य आशु बाहू चिन्दावहे गुरू ॥३-७०-४॥
+भिषणो अयम् महाकायो राक्षसो भुज विक्रमः ।लोकम् हि अति जितम् कृत्वा हि अवाम् हन्तुम् इह इच्छति ॥३-७०-५॥
+निश्चेष्टानाम् वधो राजन् कुत्स्तितो जगती पतेः ।क्रतु मध्य उपनीतानाम् पशूनाम् इव राघव ॥३-७०-६॥
+एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः ।विदार्य आस्यम् ततो रौद्रम् तौ भक्षयितुम् आरभत् ॥३-७०-७॥
+ततः तौ देश कालज्ञौ खड्गाभ्याम् एव राघवौ ।अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंस देशतः ॥३-७०-८॥
+दक्षिणो दक्षिणम् बाहुम् असक्तम् असिना ततः ।चिच्छेद रामो वेगेन सव्यम् वीरः तु लक्ष्मणः ॥३-७०-९॥
+स पपात महाबाहुः चिन्न बाहुः महा स्वनः ।खम् च गाम् च दिशः चैव नादयन् जलदो यथा ॥३-७०-१०॥
+स निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिप्लुतः ।दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥३-७०-११॥
+इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ लक्षणः ।शशंस तस्य काकुत्स्थम् कबंधस्य महाबलः ॥३-७०-१२॥
+अयम् इक्ष्वाकु दायादो रामो नाम जनैः श्रुतः ।तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम् ॥३-७०-१३॥
+मात्रा प्रतिहतो राज्ये रामः प्रवाजितो वनम् ।मया सह चरति एष भार्यया च महत् वनम् ॥३-७०-१४॥
+अस्य देव प्रभावस्य वसतो विजने वने ।रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ ॥३-७०-१५॥
+त्वम् तु को वा किम् अर्थम् वा कबन्ध सदृशो वने ।आस्येन उरसि दीप्तेन भग्न जन्घो विचेष्टसे ॥३-७०-१६॥
+एवम् उक्तः कबंधः तु लक्ष्मणेन उत्तरम् वचः ।उवाच परम प्रीतः तत् इन्द्र वचनम् स्मरन् ॥३-७०-१७॥
+स्वागतम् वाम् नरव्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् ।दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु बन्धनौ ॥३-७०-१८॥
+विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा ।तत् मे शृणु नरव्याघ्र तत्त्वतः शंसतः तव ॥३-७०-१९॥
+पुरा राम महाबाहो महाबल पराक्रम ।रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥
+यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः ।सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥३-७१-२॥
+ऋषीन् वन गतान् राम त्रासयामि ततः ततः ।ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥
+संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः ।तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥३-७१-४॥
+एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् ।स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥३-७१-५॥
+अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः ।यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥३-७१-६॥
+तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् ।श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥३-७१-७॥
+इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे ।अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥३-७१-८॥
+दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् ।दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥३-७१-९॥
+इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् ।तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥३-७१-१०॥
+सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् ।स मया याच्यमानः सन् न आनयत् यम सादनम् ॥३-७१-११॥
+पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् ।अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥३-७१-१२॥
+वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् ।स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥३-७१-१३॥
+तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् ।सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥३-७१-१४॥
+सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः ।स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥३-७१-१५॥
+छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि ।अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥३-७१-१६॥
+यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये ।अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥३-७१-१७॥
+इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः ।स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥३-७१-१८॥
+शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा ।अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥३-७१-१९॥
+मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना ।एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥
+इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः ।रावणेन हृता सीता मम भार्या यशस्विनी ॥३-७१-२१॥
+निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् ।नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥३-७१-२२॥
+निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे ।शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥३-७१-२३॥
+कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् ।काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥३-७१-२४॥
+धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते ।स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥
+कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः ।एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥३-७१-२६॥
+प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् ।दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥३-७१-२७॥
+यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः ।यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥३-७१-२८॥
+अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो ।राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥३-७१-२९॥
+विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव ।स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥३-७१-३०॥
+किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः ।तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥३-७१-३१॥
+दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन ।वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥३-७१-३२॥
+तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव ।कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥३-७१-३३॥
+न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव ।सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥३-७१-३४॥
+एवम् उक्तौ तु तौ वीरौ कबन्धेन नर ईश्वरौ ।गिरि प्रदरम् आसाद्य पावकम् विससर्जतुः ॥३-७२-१॥
+लक्ष्मणः तु महा उल्काभिः ज्वलिताभिः समन्ततः ।चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥३-७२-२॥
+तत् शरीरम् कबन्धस्य घृत पिण्ड उपमम् महत् ।मेदसा पच्यमानस्य मन्दम् दहति पावकः ॥३-७२-३॥
+स विधूय चिताम् आशु विधूमो अग्निर् इव उत्थितः ।अरजे वाससी बिभ्रत् मालाम् दिव्याम् महाबलः ॥३-७२-४॥
+ततः चिताया वेगेन भास्वरो विरज अंबरः ।उत्पपात आशु संहृष्टः सर्व प्रत्यंग भूषणः ॥३-७२-५॥
+विमाने भास्वरे तिष्ठन् हंस युक्ते यशस् करे ।प्रभया च महातेजा दिशो दश विराजयन् ॥३-७२-६॥
+सो अन्तरिक्ष गतो वाक्यम् कबन्धो रामम् अब्रवीत् ।शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥३-७२-७॥
+राम षड् युक्तयो लोके याभिः सर��वम् विमृश्यते ।परिमृष्टो दश अन्तेन दश आभागेन सेव्यते ॥३-७२-८॥
+दश आभाग गतो हीनः त्वम् राम सह लक्ष्मणः ।यत् कृते व्यसनम् प्राप्तम् त्वया दार प्रधर्षणम् ॥३-७२-९॥
+तत् अवश्यम् त्वया कार्यः स सुहृत् सुहृदाम् वर ।अकृत्वा न हि ते सिद्धिम् अहम् पश्यामि चिन्तयन् ॥३-७२-१०॥
+श्रूयताम् राम वक्ष्यामि सुग्रीवो नाम वानरः ।भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र सूनुना ॥३-७२-११॥
+ऋष्यमूके गिरि वरे पंपा पर्यन्त शोभिते ।निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः ॥३-७२-१२॥
+वानरेन्द्रो महावीर्यः तेजोवान् अमित प्रभः ।सत्य संधो विनीतः च धृतिमान् मतिमान् महान् ॥३-७२-१३॥
+दक्षः प्रगल्भो द्युतिमान् महा बल पराक्रमः ।भ्राता विवासितो वीर राज्य हेतो महात्मना ॥३-७२-१४॥
+स ते सहायो मित्रम् च सीतायाः परिमार्गणे ।भविष्यति हि ते राम मा च शोके मनः कृधाः ॥३-७२-१५॥
+भवितव्यम् हि यत् च अपि न तत् शक्यम् इह अन्यथा ।कर्तुम् इक्ष्वाकु शार्दूल कालो हि दुर्रक्रमः ॥३-७२-१६॥
+गच्छ शीघ्रम् इतो वीर सुग्रीवम् तम् महाबलम् ।वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥३-७२-१७॥
+अद्रोहाय समागम्य दीप्यमाने विभावसौ ।न च ते सो अवमन्तव्यः सुग्रीवो वानर अधिपः ॥३-७२-१८॥
+कृतज्ञः काम रूपी च सहाय अर्थी च वीर्यवान् ।शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम् ॥३-७२-१९॥
+कृतार्थो वा अकृतार्थो वा तव कृत्यम् करिष्यति ।स ऋक्षरजसः पुत्रः पंपाम् अटति शन्कितः ॥३-७२-२०॥
+भास्करस्य औरसः पुत्रो वालिना कृत किल्बिषः ।संनिधाय आयुधम् क्षिप्रम् ऋष्यमूक आलयम् कपिम् ॥३-७२-२१॥
+कुरु राघव सत्येन वयस्यम् वन चारिणम् ।स हि स्थानानि सर्वाणि कार्त्स्न्येन कपि कुंजरः ॥३-७२-२२॥
+नर मांस अशिनाम् लोके नैपुण्यात् अधिगच्छति ।न तस्य अविदितम् लोके किंचित् अस्ति हि राघव ॥३-७२-२३॥
+यावत् सूर्यः प्रतपति सहस्रांशुः अरिन्दम ।स नदीः विपुलान् शैलान् गिरि दुर्गाणि कंदरान् ॥३-७२-२४॥
+अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति ।वानरान् च महाकायान् प्रेषयिष्यति राघव ॥३-७२-२५॥
+दिशो विचेतुम् ताम् सीताम् त्वत् वियोगेन शोचयतीम् ।अन्वेष्यति वरारोहाम् मैथिलीम् रावण आलये ॥३-७२-२६॥
+स मेरु शृंग अग्र गताम् अनिंदिताम्प्रविश्य पाताल तले अपि वा आश्रिताम् ।प्लवंगमानाम् ऋषभः तव प्रियाम्निहत्य ��क्षाम्सि पुनः प्रदास्यति ॥३-७२-२७॥
+दर्शयित्वा रामाय सीतायाः प्रैमार्गने ।वाक्यम् अन्वर्थम् अर्थज्ञः कबंधः पुनः अब्रवीत् ॥३-७३-१॥
+एष राम शिवः पंथा यत्र एते पुष्पिता द्रुमाः ।प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनो रमाः ॥३-७३-२॥
+जंबू प्रियाल पनसाः प्लक्ष न्यग्रोध तिंदुकाः ।अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः ॥३-७३-३॥
+धन्वना नाग वृक्षा तिलका नक्तमालकाः ।नील अशोक कदंबाः च करवीराः च पुष्पिताः ॥३-७३-४॥
+अग्निमुखा अशोकाः च सुरक्ताः परिभद्रकाः ।तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥
+फलानि अमृत कल्पानि भक्षयित्वा गमिष्यथः ।तत् अतिक्रम्य काकुत्स्थ वनम् पुषित पादपम् ॥३-७३-६॥
+नंदन प्रतिमम् तु अन्यत् कुरवः उत्तरा इव ।सर्व काल फला यत्र पादपा मधुर स्रवाः ॥३-७३-७॥
+सर्वे च ऋतवः तत्र वने चैत्ररथे यथा ।फल भार नताः तत्र महा विटप धारिणः ॥३-७३-८॥
+शोबन्ते सर्वतः तत्र मेघ पर्वत संनिभाः ।तान् आरुह्य अथवा भूमौ पातैत्वा यथा सुखम् ॥३-७३-९॥
+फलानि अमृत कल्पानि लक्षमणः ते प्रदास्यति ।चङ्क्रमंतौ वरान् शैलान् शैलात् शैलम् वनात् वनम् ॥३-७३-१०॥
+ततः पुष्करिणीम् वीरौ पंपाम् नाम गमिष्यथः ।अशर्कराम् अविभ्रंशाम् सम तीर्थम् अशैवलाम् ॥३-७३-११॥
+राम संजात वालूकाम् कमल उत्पल शोभिताम् ।तत्र हंसाः प्लवाः क्रौङ्चाः कुरराः चैव राघव ॥३-७३-१२॥
+वल्गु स्वरा निकूजन्ति पंपा सलिल गोचराः ।न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः ॥३-७३-१३॥
+घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः ।रोहितान् वक्र तुण्डान् च नल मीनान् च राघव ॥३-७३-१४॥
+पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् ।निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् - यद्वा -निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ॥३-७३-१५॥
+तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ।भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये ॥३-७३-१६॥
+पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् ।उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् ॥३-७३-१७॥
+अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति ।स्थूलान् गिरि गुहा शय्यान् वानरान् वन चारिणः ॥३-७३-१८॥
+साय आह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः ।अपाम् लोभात उपावृत्तान् वृषभान् इव नर्दतः ॥३-७३-१९॥
+रूप अन्वितान् �� पंपायाम् द्रक्ष्यसि त्वम् नरोत्तम ।साय अह्ने विचरन् राम विटपीन् माल्य धारिणः ॥३-७३-२०॥
+शिव उदकम् च पंपायाम् दृष्ट्वा शोकम् विहास्यसि ।सु मनोभिः चितान् तत्र तिलकान् नक्त मालकान् ॥३-७३-२१॥
+उत्पलानि च फुल्लानि पंकजानि च राघव ।न तानि कश्चित् माल्यानि तत्र आरोपयिता नरः ॥३-७३-२२॥
+न च वै म्लानताम् यान्ति न च शीर्यन्ति राघव ।मतंग शिष्याः तत्र आसन् ऋषयः सुसमाहितः ॥३-७३-२३॥
+तेषाम् भार अभितप्तानाम् वन्यम् आहरताम् गुरोः ।ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद बिन्दवः ॥३-७३-२४॥
+तानि माल्यानि जातानि मुनीनाम् तपसा तदा ।स्वेद बिन्दु समुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥
+तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी ।श्रमणी शबरी नाम काकुत्स्थ चिर जीविनी ॥३-७३-२६॥
+त्वाम् तु धर्मे स्थिता नित्यम् सर्व भूत नमस्कृतम् ।दृष्ट्वा देव उपमम् राम स्वर्ग लोकम् गमिष्यति ॥३-७३-२७॥
+ततः तत् राम पंपायाः तीरम् आश्रित्य पश्चिमम् ।आश्रम स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि ॥३-७३-२८॥
+न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद् आश्रमे ।ऋषेः तस्य मतंगस्य विधानात् तत् च काननम् ॥३-७३-२९॥
+मातंग वनम् इति एव विश्रुतम् रघुनंदन ।तस्मिन् नंदन संकाशे देव अरण्य उपमे वने ॥३-७३-३०॥
+नाना विहग संकीर्णे रंस्यसे राम निर्वृतः ।ऋष्यमूकः तु पंपायाः पुरस्तात् पुष्पित द्रुमः ॥३-७३-३१॥
+सु दुःख आरोहणः च एव शिशु नाग अभिरक्षितः ।उदारो ब्रह्मणा चैव पूर्व काले विनिर्मितः ॥३-७३-३२॥
+शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो अधिगच्छति ॥३-७३-३३॥
+यः तु एनम् विषम आचारः पाप कर्मा अधिरोहति ।तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः ॥३-७३-३४॥
+तत्र अपि शिशु नागानाम् आक्रंदः श्रूयते महान् ।क्रीडताम् राम पंपायाम् मतंग आश्रम वासिनाम् ॥३-७३-३५॥
+सिक्ता रुधिर धाराभिः संहत्य परम द्विपाः ।प्रचरन्ति पृथक् कीर्णा मेघ वर्णाः तरस्विनः ॥३-७३-३६॥
+ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् ।अत्यन्त सुख संस्पर्शम् सर्व गन्ध समन्वितम् ॥३-७३-३७॥
+निवृत्ताः सम्विगाहन्ते वनानि वन गोचराः ।ऋक्षाम् च द्विपिनः चैव नील कोमलक प्रभान् ॥३-७३-३८॥
+रुरून् अपेता अपजयान् दृष्ट्वा शोकम् प्रहास्यसि ।राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥
+शिला पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् ।तस्या गुहायाः प्राक् द्वारे महान् शीत उदको ह्रदः ॥३-७३-४०॥
+बहु मूल फलो रम्यो नाना नग समाकुलः ।तस्याम् वसति सुग्रीवः चतुर्भिः सह वानरैः ॥३-७३-४१॥
+कदाचित् शिखरे तस्य पर्वतस्य अपि तिष्ठते ।कबंधः तु अनुशास्य एवम् तौ उभौ राम लक्ष्मणौ ॥३-७३-४२॥
+स्रग्वी भास्कर वर्ण आभः खे व्यरोचत वीर्यवान् ।तम् तु ख स्थम् महाभागम् कबंधम् राम लक्ष्मणौ ॥३-७३-४३॥
+प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके ।गम्यताम् कार्य सिद्धि अर्थम् इति तौ अब्रवीत् च सः ॥३-७३-४४॥
+सुप्रीतौ तौ अनुज्ञाप्य कबंधः प्रस्थितः तदा ॥३-७३-४५॥
+स तत् कबंधः प्रतिपद्य रूपम्वृतः श्रिया भास्कर सर्व देहः ।निदर्शयन् रामम् अवेक्ष्य ख स्थःसख्यम् कुरुष्व इति तदा अभ्युवाच ॥३-७३-४६॥
+तौ कबन्धेन तम् मार्गम् पम्पाया दर्शितम् वने ।आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ वर आत्मजौ ॥३-७४-१॥
+तौ शैलेषु आचित अनेकान् क्षौद्र कल्प फल द्रुमान् ।वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम लक्ष्मणौ ॥३-७४-२॥
+कृत्वा च शैल पृष्ठे तु तौ वासम् रघु नन्दनौ ।पंपायाः पश्चिमम् तीरम् राघवौ उपतस्थतुः ॥३-७४-३॥
+तौ पुष्करिण्याः पंपायाः तीरम् आसाद्य पश्चिमम् ।अपश्यताम् ततः तत्र शबर्या रम्यम् आश्रमम् ॥३-७४-४॥
+तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् ।सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥३-७४-५॥
+तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृतांजलिः ।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥३-७४-६॥
+पाद्यम् आचमनीयम् च सर्वम् प्रददात् यथा विधि ।ताम् उवाच ततो रामः श्रमणीम् धर्म संस्थिताम् ॥३-७४-७॥
+कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः ।कच्चित् ते नियतः कोप आहारः च तपोधने ॥३-७४-८॥
+कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् ।कच्चित् ते गुरु शुश्रूषा सफला चारु भाषिणि ॥३-७४-९॥
+रामेण तापसी पृष्ठा सा सिद्धा सिद्ध सम्मता ।शशंस शबरी वृद्धा रामाय प्रति अवस्थिता ॥३-७४-१०॥
+अद्य प्राप्ता तपः सिद्धिः तव संदर्शनात् मया ।अद्य मे सफलम् जन्म गुरवः च सुपूजिताः ॥३-७४-११॥
+अद्य मे सफलम् तप्तम् स्वर्गः चैव भविष्यति ।त्वयि देव वरे राम पूजिते पुरुषर्षभ ॥३-७४-१२॥
+तव अहम् चक्षुषा सौम्य पूता सौम्येन मानद ।गमिष्याम्यक्षयांलोकांस्वत्प्रसादादरिन्दम - यद्व��� -गमिष्यामि अक्षयान् लोकान् त्वत् प्रसादात् अरिंदम ॥३-७४-१३॥
+चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल प्रभैः ।इतः ते दिवम् आरूढा यान् अहम् पर्यचारिषम् ॥३-७४-१४॥
+तैः च अहम् उक्ता धर्म ज्ञैः महाभागैः महर्षिभिः ।आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम् ॥३-७४-१५॥
+स ते प्रतिग्रहीतव्यः सौमित्रि सहितो अतिथिः ।तम् च दृष्ट्वा वरान् लोकान् अक्षयान् त्वम् गमिष्यसि ॥३-७४-१६॥
+एवम् उक्ता महाभागैः तदा अहम् पुरुषर्षभ ।मया तु विविधम् वन्यम् संचितम् पुरुषर्षभ ॥३-७४-१७॥
+तव अर्थे पुरुषव्याघ्र पम्पायाः तीर संभवम् ।एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् ॥३-७४-१८॥
+राघवः प्राह विज्ञाने ताम् नित्यम् अबहिष्कृताम् ।दनोः सकाशात् तत्त्वेन प्रभावम् ते महात्मनः ॥३-७४-१९॥
+श्रुतम् प्रत्यक्षम् इच्छामि संद्रष्टुम् यदि मन्यसे ।एतत् तु वचनम् श्रुत्वा राम वक्त्रात् विनिःसृतम् ॥३-७४-२०॥
+शबरी दर्शयामास तौ उभौ तत् वनम् महत् ।पश्य मेघ घन प्रख्यम् मृग पक्षि समाकुलम् ॥३-७४-२१॥
+मतंग वनम् इति एव विश्रुतम् रघुनंदन ।इह ते भावित आत्मानो गुरवो मे महाद्युते ।जुहवान् चक्रिरे नीडम् मंत्रवत् मंत्र पूजितम् ॥३-७४-२२॥
+इयम् प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः ।पुष्प उपहारम् कुर्वन्ति श्रमात् उद् वेपिभिः करैः ॥३-७४-२३॥
+तेषाम् तपः प्रभावेन पश्य अद्य अपि रघूत्तम ।द्योतयन्ति दिशः सर्वाः श्रिया वेद्यः अतुल प्रभाः ॥३-७४-२४॥
+अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः - यद्वा -अशक्नुवद्भिः तैः गन्तुम् उपवास श्रम आलसैः ।चिन्तिते अभ्यागतान् पश्य समेतान् सप्त सागरान् ॥३-७४-२५॥
+कृत अभिषेकैः तैः न्यस्ता वल्कलाः पादपेषु इह ।अद्य अपि न विशुष्यन्ति प्रदेशे रघुनंदन ॥३-७४-२६॥
+देव कार्याणि कुर्वद्भिः यानि इमानि कृतानि वै ।पुष्पैः कुवलयैः सार्थम् म्लानत्वम् न तु यान्ति वै ॥३-७४-२७॥
+कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया ।तत् इच्छामि अभ्यनुज्ञाता त्यक्ष्यामि एतत् कलेवरम् ॥३-७४-२८॥
+तेषाम् इच्छामि अहम् गन्तुम् समीपम् भावित आत्मनाम् ।मुनीनाम् आश्रमो येषाम् अहम् च परिचारिणी ॥३-७४-२९॥
+धर्मिष्ठम् तु वचः श्रुत्वा राघवः सह लक्ष्मणः ।प्रहर्सम् अतुलम् लेभे आश्चर्यम् इदम् च अब्रवीत् ॥३-७४-३०॥
+ताम् उवाच ततो रामः शबरी संश्रित व्रताम् ।अर्चितो अहम् त्वया भद्रे गच्छ कामम् यथा सुखम् ॥३-७४-३१॥
+इति एवम् उक्ता जटिला चीर कृष्ण अजिन अंबरा ।अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुत अशने ॥३-७४-३२॥
+ज्वलत् पावक संकाशा स्वर्गम् एव जगाम सा ।दिव्यम् आभरण संयुक्ता दिव्य माल्य अनुलेपना ॥३-७४-३३॥
+दिव्य अंबर धरा तत्र बभूव प्रिय दर्शन ।विराजयन्ती तम् देशम् विद्युत् सौदामिनी यथा ॥३-७४-३४॥
+यत्र ते सुकृत आत्मानो विहरन्ति महर्षयः ।तत् पुण्यम् शबरी स्थानम् जगाम आत्म समाधिना ॥३-७४-३५॥
+दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
+चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
+दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृतआत्मनाम् ।विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥
+सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
+प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
+हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
+ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
+नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
+तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
+गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
+आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
+कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
+स रामो विविधान् वृक्षान् सरांसि विविधानि च ।पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
+स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
+तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
+विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
+रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
+मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् ।सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
+किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
+पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
+अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
+स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥
+तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥
+मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
+अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
+ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
+अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
+इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
+इति एवम् उक्त्वा मदन अभिपीडितःस लक्ष्मणम् वाक्यम् अनन्य चेतनः ।विवेश पंपाम् नलिनी मनो रमाम्तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
+क्रमेण गत्वा प्रविलोकयन् वनम्ददर्श पंपाम् शुभ दर्श काननाम् ।अनेक नाना विध पक्षि संकुलाम्विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥
+स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् ।रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥
+तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे ।स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥
+सौमित्रे शोभते पम्पा वैदूर्य विमल उदका ।फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥
+सौमित्रे पश्य पम्पायाः काननम् शुभ द��्शनम् ।यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥
+माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥
+शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना ।व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥
+नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना ।सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥
+अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् ।द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥
+पुष्प भार समृद्धानि शिखराणि समन्ततः ।लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥
+सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः ।गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥
+पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् ।सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥
+प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः ।वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥
+पतितैः पतमानैः च पादपस्थैः च मारुतः ।कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥
+विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः ।मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥
+मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् ।शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥
+तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः ।अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥
+स एव सुख संस्पर्शो वाति चन्दन शीतलः ।गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥
+अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः ।षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥
+गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः ।संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥
+पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला ।अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥
+सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः ।हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥
+अयम् वसन्तः सौमित्रे नाना विहग नादितः ।सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥
+माम् हि शोक समाक्रान्तम् संतापयति मन्मथः ।हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥
+एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे ।प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥
+श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया ।माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥
+एवम् विचित्राः पतगा नाना राव विराविणः ।वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥
+विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः ।भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥
+अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥
+स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः ।अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥
+माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ।न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥
+अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् ।अयम् हि रुचिरः तस्याः कालो रुचिर काननः ॥४-१-३१॥
+कोकिलाकुल सीमान्तः दयिताया मम अनघः ।मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥
+अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव ।अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥
+मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति ।अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥
+दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः ।माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥
+संतापयति सौमित्रे कृइरः चैत्र वनानिलः ।अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥
+स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव ।शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥
+मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः ।पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥
+शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि ।ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥
+वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव ।मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥
+तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया ।मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥
+पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि ।यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥
+माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा ।मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥
+पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥
+रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया ।निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥��-१-४५॥
+नदन्ति कावम् मुदिताः शकुना सङ्घशः कलम् ।आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥
+वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया ।नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥
+नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा ।कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥
+अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥
+श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया ।नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥
+दृढम् हि हृदये बुधिः मम संप्रतिवर्तते ।न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥
+मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः ।मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥
+एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः ।ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥
+सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया ।मारुतः स विना सीताम् शोक संजनओ मम ॥४-१-५४॥
+ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा ।वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥
+एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥
+पश्य लक्ष्मण संनादम् वने मद विवर्धनम् ।पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥
+विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् ।षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥
+कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः ।स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥
+अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः ।विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥
+सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु ।किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥
+इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः ।नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥
+एषा प्रसन्न सलिला पद्म नील उत्पलायुता ।हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥
+जले तरुण सूर्याभैः षट्पद आहत केसरैः ।पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥
+चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा ।मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥
+पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि ।पन्कजानि विराजन्ते ताड्यमानानि लक्ष्म�� ॥४-१-६६॥
+पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् ।अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते ॥४-१-६७॥
+अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम् ।स्मारयिष्यति कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥
+शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया ।यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥
+यानि स्म रमणीयानि तया सह भवन्ति मे ।तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥
+पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते ।सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥
+पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः ।निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥
+सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु ।पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥
+अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः ।विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥
+गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥
+पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः ।मालती मल्लिका पद्म करवीराः च पुष्पिताः ॥४-१-७६॥
+केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः ।माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥
+चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा ।चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥
+पद्मकाः च एव शोभन्ते नील अशोकाः ।च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः ॥४-१-७९॥
+अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः ।चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥
+मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः ।च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥
+शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा ।तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥
+हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः ।पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान् ॥४-१-८३॥
+द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् ।वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥
+लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः ।पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥
+वाति न एक रस आस्वाद सम्मोदित इव अनिलः ।केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः ॥४-१-८६॥
+केचित् मुकुल संवीताः श्याम वर्णा इव आबभुः ।इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥
+राग युक्तो मधुकरः कुसुमेषु आवलीयते।निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति ।मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥
+इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता ।स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥
+विविधा विविधैः पुष्पैः तैः एव नगसानुषु ।विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥
+हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् ।पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥
+आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः ।कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥
+एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् ।रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥
+मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम् ।स्थाने जगति विख्याता गुणाः तस्या मनोरमाः ॥४-१-९४॥
+यदि दृश्येत सा साध्वी यदि च इह वसेम हि ।स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम ॥४-१-९५॥
+न हि एवम् रमणीयेषु शाद्वलेषु तया सह ।रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥
+अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः ।कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे ॥४-१-९७॥
+पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् ।चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥
+प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् ।अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥
+दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः ।श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥
+पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।माम् पुनः मृग शबाक्षी वैदेह्या विरहीकृतम् ।व्यधयन्तीव मे चित्तम् संचरन्तः ततः ततः ॥४-१-१०१॥
+अस्मिन् सानुनि रम्ये हि मत्त द्विज गणाकुले ।पश्य अयम् यदि ताम् कन्ताम् ततः स्वस्ति भवेत् मम ॥४-१-१०२॥
+जीवेयम् खलु सौमित्रे मया सह सुमध्यमा ।सेवेत यदि वैदेही पम्पायाः पवनम् शुभम् ॥४-१-१०३॥
+पद्म सौगन्धिक वहम् शिवम् शोक विनाशनम् ।धन्या लक्ष्मण सेवन्ते पम्पाया वन मरुतम् ॥४-१-१०४॥
+श्यमा पद्म पलाशाक्षी प्रिया विरहिता मया ।कथम् धरयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥
+किम् नु वक्ष���यामि धर्मज्ञम् राजानम् सत्य वादिनम् ।जनकम् पृष्ट सीतम् तम् कुशलम् जन संसदि ॥४-१-१०६॥
+या मम् अनुगता मन्दम् पित्रा प्रस्थापितुम् वनम् ।सीता धर्मम् समास्थय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥
+तया विहीनः कृपणः कथम् लक्ष्मण धारये ।य माम् अनुगता रज्यात् भ्रष्टम् विहत चेतसम् ॥४-१-१०८॥
+तत् चारु अञ्चित पद्माक्षम् सुगन्धि शुभम् अव्रणम् ।अपश्यतो मुखम् तस्याः सीदति इव मतिः मम ॥४-१-१०९॥
+स्मित हास्यान्तर युतम् गुणवत् मधुरम् हितम् ।वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥
+प्राप्य दुःखम् वने श्यामा माम् मन्मध विकर्शितम् ।नष्ट दुःखेव हृष्टेव साध्वी साधु अभ्यभाषत ॥४-१-१११॥
+किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृपात्मज ।क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अति मनस्विनीम् ॥४-१-११२॥
+गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृउ वत्सलम् ।न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजम् ॥४-१-११३॥
+इति रामम् महात्मानम् विलपन्तम् अनाथ वत् ।उवाच लक्ष्मणो भ्राता वचनम् युक्तम् अव्ययम् ॥४-१-११४॥
+संस्थम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम ।न ईदृइशानाम् मतिः मन्दा भवति अकलुषात्मनाम् ॥४-१-११५॥
+स्मृत्वा वियोगजम् दुःखम् त्यज स्नेहम् प्रिये जने ।अति स्नेह परिष्वन्गात् वर्तिः अर्द्रा अपि दह्यते ॥४-१-११६॥
+यदि गच्छति पतालम् ततो अभ्यऽधिकम् एव वा ।सर्वधा रावणः तात न भविष्यति राघव ॥४-१-११७॥
+प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः ।ततः हास्यति वा सीताम् निधनम् वा गमिष्यति ॥४-१-११८॥
+यदि याति दितेः गर्भम् रावणः सह सीताया ।तत्र अपि एनम् हनिष्यामि न चेत् दास्यति मैथिलीम् ॥४-१-११९॥
+स्वास्थ्यम् भद्रम् भजस्व आर्यः त्यजताम् कृपणा मतिः ।अर्थो हि नष्ट कार्यार्थैः न अयत्ने न अधिगम्यते ॥४-१-१२०॥
+उत्साहो बलवान् आर्य नास्ति उत्साहात् परम् बलम् ।सः उत्साहस्य हि लोकेषु न किंचित् अपि दुर्लभम् ॥४-१-१२१॥
+उत्साहवन्तः पुरुषा न अवसीदन्ति कर्मसु ।उत्साह मत्रम् आश्रित्य सीताम् प्रतिलप्स्याम् जनकीम् ॥४-१-१२२॥
+त्यज्य काम वृत्तत्वम् शोकम् सम् न्यस्य पृष्टतः ।महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे ॥४-१-१२३॥
+एवम् संबोधितः तेन शोकोपहत चेतनः ।त्य्ज्य शोकम् च मोहम् च रामो धैर्यम् उपागमत् ॥४-१-१२४॥
+सोऽभ्य अतिक्रामत् अव्यग्रः ता��् अचिन्त्य पराक्रमः ।रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव द्रुमान् ॥४-१-१२५॥
+निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर कन्दराम् च ।उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥
+तम् मत्त मातङ्ग विलास गामी गच्छन्तम् अव्यग्र मनाः महात्मा ।स लक्ष्मणो राघवम् अप्रमत्तो ररक्ष धर्मेण बलेन च एव ॥४-१-१२७॥
+तौ ऋष्यमूकस्य समीप चारी चरन् ददर्श अद्भुत दर्शनीयौ ।शाखा मृगाणाम् अधिपः तरस्वी वितत्रसे नैव चिचेष्ट चेष्टाम् ॥४-१-१२८॥
+स तौ महात्मा गज मन्द गामि शखा मृगः तत्र चिरन् चरन्तौ ।दृष्ट्वा विषादम् परमम् जगाम चिन्ता परीतो भय भार मग्नः ॥४-१-१२९॥
+तम् आश्रमम् पुण्य सुखम् शरण्यम् सदैव शाखा मृग सेवितान्तम् ।त्रस्ताः च दृष्ट्वा हरयोः अभिजग्मुः महौजसौ राघव लक्ष्मणौ तौ ॥४-१-१३०॥
+तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम लक्ष्मणौ ।वर आयुध धरौ वीरौ सुग्रीवः श्ङ्कितोऽभवत् ॥४-२-१॥
+उद्विग्न हृदयः सर्वा दिशः समवलोकयन् ।न व्यतिष्ठत कस्मिन् चित् देशे वानर पुङ्गवः ॥४-२-२॥
+नैव चक्रे मनः स्थातुम् वीक्षमाणो महाबलौ ।कपेः परम भीतस्य चित्तम् व्यवससाद ह ॥४-२-३॥
+चिन्तयित्वा स धर्मात्मा विमृश्य गुरु लाघवम् ।सुग्रीवः परम उद्विग्नः सर्वैः तैः वानरैः सह ॥४-२-४॥
+ततः स सचिवेभ्यः तु सुग्रीवः प्लवगाधिपः ।शशंस परम उद्विग्नः पश्यन् तौ राम लक्ष्मणौ ॥४-२-५॥
+एतौ वनम् इदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् ।छद्मना चीर वसनौ प्रचरन्तौ इह आगतौ ॥४-२-६॥
+ततः सुग्रीव सचिवा दृष्ट्वा परम धन्विनौ ।जग्मुः गिरि तटात् तस्माद् अन्यत् शिखरम् उत्तमम् ॥४-२-७॥
+ते क्षिप्रम् अभिगम्य अथ यूथपा यूथपर्षभम् ।हरयो वानर श्रेष्ठम् परिवार्य उपतस्थिरे ॥४-२-८॥
+एवम् एक आयन गताः प्लवमाना गिरेः गिरिम् ।प्रकंपयन्तो वेगेन गिरीणाम् शिखराणि च ॥४-२-९॥
+ततः शाखा मृगाः सर्वे प्लवमाना महाबलाः ।बभंजुः च नगान् तत्र पुष्पितान् दुर्गम् आश्रितान् ॥४-२-१०॥
+आप्लवन्तो हरिवराः सर्वतः तम् महागिरिम् ।मृग मार्जार शार्दूलान् त्रासयन्तो ययुः तदा ॥४-२-११॥
+ततः सुग्रीव सचिवाः पर्वतेन्द्रे समाहिताः ।संगम्य कपि मुख्येन सर्वे प्रांजलयः स्थिताः ॥४-२-१२॥
+ततः तु भय संत्रस्तम् वालि किल्बिष शन्कितम् ।उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य कोविदः ॥४-२-१३॥
+संभ्रमः त्यजताम् एष सर्��ैः वालि कृते महान् ।मलयोऽयम् गिरिवरो भयम् न इह अस्ति वालिनः ॥४-२-१४॥
+यस्मात् उद्विग्न चेताः त्वम् विद्रुतो हरिपुंगव ।तम् क्रूर दर्शनम् क्रूरम् न इह पश्यामि वालिनम् ॥४-२-१५॥
+यस्मात् तव भयम् सौम्य पूर्वजात् पाप कर्मणः ।स न इह वाली दुष्टात्मा न ते पश्यामि अहम् भयम् ॥४-२-१६॥
+अहो शाखा मृगत्वम् ते व्यक्तम् एव प्लवंगम ।लघु चित्ततया आत्मानम् न स्थापयसि यो मतौ ॥४-२-१७॥
+बुद्धि विज्ञान संपन्न इङ्गितैः सर्वम् आचर ।न हि अबुद्धिम् गतो राजा सर्व भूतानि शास्ति हि ॥४-२-१८॥
+सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः ।ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह ॥४-२-१९॥
+दीर्घ बाहू विशालाक्षौ शर चाप असि धारिणौ ।कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर सुत उपमौ ॥४-२-२०॥
+वालि प्रणिहितौ एव शन्के अहम् पुरुषोत्तमौ ।राजानो बहु मित्राः च विश्वासो न अत्र हि क्षमः ॥४-२-२१॥
+अरयः च मनुष्येण विज्ञेयाः छद्म चारिणः ।विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि ॥४-२-२२॥
+कृत्येषु वाली मेधावी राजानो बहु दर्शनः ।भवन्ति पर हन्तारः ते ज्ञेयाः प्राकृतैः नरैः ॥४-२-२३॥
+तौ त्वया प्राकृतेन एव गत्वा ज्ञेयौ प्लवंगम ।इङ्गितानाम् प्रकारैः च रूपव्या भाषणेन च ॥४-२-२४॥
+लक्षयस्व तयोः भावम् प्रहृष्ट मनसौ यदि ।विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः ॥४-२-२५॥
+मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि पुंगव ।प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुर् धरौ ॥४-२-२६॥
+शुद्ध आत्मानौ यदि एतौ जानीहि त्वम् प्लवंगम ।व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः ॥४-२-२७॥
+इति एवम् कपिराजेन संदिष्टो मारुतात्मजः ।चकार गमने बुद्धिम् यत्र तौ राम लक्ष्मणौ ॥४-२-२८॥
+तथा इति संपूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य ।महानुभावो हनुमान् ययौ तदा स यत्र रामो अतिबली स लक्ष्मणः ॥४-२-२९॥
+वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥४-३-१॥
+कपि रूपम् परित्यज्य हनुमान् मारुतात्मजः ।भिक्षु रूपम् ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥
+ततः च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया ।विनीतवत् उपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥
+अबभाषे च तौ वीरौ यथावत् प्रशशंस च ।संपूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥४-३-४॥
+उवाच कामतो वाक्यम् मृदु सत्य पराक्रमौ ���राजर्षि देव प्रतिमौ तापसौ संशित व्रतौ ॥४-३-५॥
+देशम् कथम् इमम् प्राप्तौ भवन्तौ वर वर्णिनौ ।त्रासयन्तौ मृग गणान् अन्याम् च वन चारिणः ॥४-३-६॥
+पम्पा तीर रुहान् वृक्षान् वीक्षमाणौ समंततः ।इमाम् नदीम् शुभ जलाम् शोभयन्तौ तरस्विनौ ॥४-३-७॥
+धैर्यवन्तौ सुवर्णाभौ कौ युवाम् चीर वाससौ ।निःश्वसन्तौ वर भुजौ पीडयन्तौ इमाः प्रजाः ॥४-३-८॥
+सिंह विप्रेक्षितौ वीरौ महाबल पराक्रमौ ।शक्र चाप निभे चापे गृहीत्वा शत्रु नाशनौ ॥४-३-९॥
+श्रीमन्तौ रूप संपन्नौ वृषभ श्रेष्ठ विक्रमौ ।हस्ति हस्त उपम भुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥
+प्रभया पर्वत इन्द्रः असौ युवयोः अवभासितः ।राज्य अर्हौ अमर प्रख्यौ कथम् देशम् इह आगतौ ॥४-३-११॥
+पद्म पत्र ईक्षणौ वीरौ जटा मण्डल धारिणौ ।अन्योन्य सदृशौ वीरौ देव लोकात् इह आगतौ ॥४-३-१२॥
+यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुंधराम् ।विशाल वक्षसौ वीरौ मानुषौ देव रूपिणौ ॥४-३-१३॥
+सिंह स्कन्धौ महा उत्साहौ समदौ इव गोवृषौ ।आयताः च सुवृत्ताः च बाहवः परिघोपमाः ॥४-३-१४॥
+सर्व भूषण भूषार्हाः किम् अर्थम् न विभूषिताः ।उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम् ॥४-३-१५॥
+स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् ।इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥४-३-१६॥
+प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते ।संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥४-३-१७॥
+जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः ।महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥४-३-१८॥
+खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव ।एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥४-३-१९॥
+सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः ।वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥४-३-२०॥
+प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना ।राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥४-३-२१॥
+युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति ।तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥४-३-२२॥
+भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् ।ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥४-३-२३॥
+एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ ।वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥४-३-२४॥
+एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् ।प्रहृष्ट वदनः श्रीमान् भ्रात���म् पार्श्वतः स्थितम् ॥४-३-२५॥
+सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः ।तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥४-३-२६॥
+तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् ।वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥४-३-२७॥
+न अन् ऋग्वेद विनीतस्य न अ\-\-यजुर्वेद धारिणः ।न अ\-\-साम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥४-३-२८॥
+नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् ।बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥४-३-२९॥
+न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा ।अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥
+अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् ।उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥४-३-३१॥
+संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् ।उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥४-३-३२॥
+अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः ।कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥४-३-३३॥
+एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥४-३-३४॥
+एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः ।तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥४-३-३५॥
+एवम् उक्तः तु सोउमित्रिः सुग्रीव सचिवम् कपिम् ।अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥४-३-३६॥
+विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥४-३-३७॥
+यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह ।तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥४-३-३८॥
+तत् तस्य वाक्यम् निपुणम् निशम्यप्रहृष्ट रूपः पवनात्मजः कपिः ।मनः समाधाय जय उपपत्तौसख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥४-३-३९॥
+ततः प्रहृष्टो हनुमान् कृत्यवान् इति तत् वचः ।श्रुत्वा मधुर भावम् च सुग्रीवम् मनसा गतः ॥४-४-१॥
+भाव्यो राज्यागमः तस्य सुग्रीवस्य महात्मनः ।यत् अयम् कृत्यवान् प्राप्तः कृत्यम् च एतत् उपागतम् ॥४-४-२॥
+ततः परम संहृष्टः हनुमान् प्लवगोत्तमः ।प्रति उवाच ततो वाक्यम् रामम् वाक्य विशारदः ॥४-४-३॥
+किम् अर्थम् त्वम् वनम् घोरम् पम्पा कानन मण्डितम् ।आगतः सानुजो दुर्गम् नाना व्याल मृग आयुतम् ॥४-४-४॥
+तस्य तद् वचनम् श्रुत्वा लक्ष्मणो राम चोदितः ।आचचक्षे महात्मानम् रामम् दशरथात्मजम् ॥४-४-५॥
+राजा दशरथो नाम द्युतिमान् धर्म वत्सलः ।चातुर् वर्ण्यम् स्व धर्मेण नित्यम् एव अभिपालयन् ॥४-४-६॥
+न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन ।स तु सर्वेषु भूतेषु पितामह इव अपरः ॥४-४-७॥
+अग्निष्टोमादिभिः यज्ञैः इष्टवान् आप्त दक्षिणैः ।तस्य अयम् पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥४-४-८॥
+शरण्यः सर्व भूतानाम् पितुः निर्देश पारगः ।ज्येष्टो दशरथस्य अयम् पुत्राणाम् गुणवत्तरः ॥४-४-९॥
+राज लक्षण संयुक्तः संयुक्तो राज्य सम्पदा।राजात् भ्रष्टो मया वस्तुम् वने सार्धम् इह आगतः ॥४-४-१०॥
+भार्यया च महाभाग सीतया अनुगतो वशी ।दिन क्षये महातेजाः प्रभ एव दिवाकरः ॥४-४-११॥
+अहम् अस्य अवरः भ्राता गुणैः दास्यम् उपागतः ।कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥४-४-१२॥
+सुखार्हस्य महार्हस्य सर्वभूत हितात्मनः ।ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥४-४-१३॥
+रक्षस अपहृता भार्या रहिते काम रूपिणा ।तत् च न ज्ञायते रक्षः पत्नी येन अस्य वा हृता ॥४-४-१४॥
+दनुः नाम दितेः पुत्रः शापात् राक्षसताम् गतः ।आख्यातः तेन सुग्रीवः समर्थो वानराधिपः ॥४-४-१५॥
+स ज्ञास्यति महावीर्यः तव भार्या अपहारिणम् ।एवम् उक्त्वा दनुः स्वर्गम् भ्राजमानो दिवम् गतः ॥४-४-१६॥
+एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः ।अहम् चैव च रामः च सुग्रीवम् शरणम् गतौ ॥४-४-१७॥
+एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः ।लोकनाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति ॥४-४-१८॥
+सीता यस्य स्नुषा च आसीत् शरण्यो धर्मवत्सलः ।तस्य पुत्रः शरण्यस्य सुग्रीवम् शरणम् गतः ॥४-४-१९॥
+सर्व लोकस्य धर्मात्मा शरण्यः शरणम् पुरा ।गुरुर् मे राघवः सोऽयम् सुग्रीवम् शरणम् गतः ॥४-४-२०॥
+यस्य प्रसादे सततम् प्रसीदेयुः इमाः प्रजाः ।स रामः वानरेन्द्रस्य प्रसादम् अभिकाङ्क्षते ॥४-४-२१॥
+येन सर्व गुणोपेताः पृथिव्याम् सर्व पार्थिवाः ।मानिताः सततम् राज्ञा सदा दशरथेन वै ॥४-४-२२॥
+तस्य अयम् पूर्वजः पुत्रः त्रिषु लोकेषु विश्रुतः ।सुग्रीवम् वानरेन्द्रम् तु रामः शरणम् आगतः ॥४-४-२३॥
+शोक अभिभूते रामे तु शोक आर्ते शरणम् गते ।कर्तुम् अर्हति सुग्रीवः प्रसादम् सह यूथपैः ॥४-४-२४॥
+एवम् ब्रुवाणम् सौमित्रिम् करुणम् स अश्रु पातनम् ।हनुमान् प्रति उवाच इदम् वाक्यम् वाक्य विशारदः ॥४-४-२५॥
+ईदृशा बुद्धि संपन्ना जितक्रोधा जितेइन्द्रियाः ।द्रष्टव्��ा वानरेइन्द्रेण दिष्ट्या दर्शनम् आगताः ॥४-४-२६॥
+स हि राज्यात् च विभ्रष्टः कृत वैरः च वालिना ।हृत दारो वने त्रस्तः भ्रात्रा विनिकृतः भृशम् ॥४-४-२७॥
+करिष्यति स साहाय्यम् युवयोः भास्करात्मजः ।सुग्रीवः सह च अस्माभिः सीतायाः परिमार्गणे ॥४-४-२८॥
+इति एवम् उक्त्वा हनुमान् श्लक्ष्णम् मधुरया गिरा ।बभाषे साधु गच्छामः सुग्रीवम् इति राघवम् ॥४-४-२९॥
+एवम् ब्रुवन्तम् धर्मात्मा हनूमन्तम् स लक्ष्मणः ।प्रतिपूज्य यथा न्यायम् इदम् प्रोवाच राघवम् ॥४-४-३०॥
+कपिः कथयते हृष्टो यथा अयम् मारुतात्मजः ।कृत्यवान् सोऽपि संप्राप्तः कृत कृत्योऽसि राघव ॥४-४-३१॥
+प्रसन्न मुख वर्णः च व्यक्तम् हृष्टः च भाषते ।न अनृतम् वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥४-४-३२॥
+ततः स सुमहाप्राज्ञः हनुमान् मारुतात्मजः ।जगाम आदाय तौ वीरौ हरि राजाय राघवौ ॥४-४-३३॥
+भिक्षु रूपम् परित्यज्य वानरम् रूपम् आस्थितः ।पृष्टम् आरोप्य तौ वीरौ जगाम कपिकुङ्जरः ॥४-४-३४॥
+स तु विपुल यशाः कपि प्रवीरः पवनसुतः कृत कृत्यवत् प्रहृष्टः ।गिरि वरम् उरुविक्रमः प्रयातः स शुभमतिः सह राम लक्ष्मणाभ्याम् ॥४-४-३५॥
+ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् ।आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥४-५-१॥
+अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः ।लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥४-५-२॥
+इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः ।धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥४-५-३॥
+राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः ।दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४-५-४॥
+तपसा सत्य वाक्येन वसुधा येन पालिता ।स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥४-५-५॥
+तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः ।रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥४-५-६॥
+भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ ।प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥४-५-७॥
+श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः ।दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥४-५-८॥
+भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः ।आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥४-५-९॥
+तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो ।यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥४-५-१०॥
+रोचते यदि मे सख्यम् बाहुः एष प्रसारितः ।गृह्यताम् पाणिना पाणिः मर्���ादा बध्यताम् ध्रुवा ॥४-५-११॥
+एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥४-५-१२॥
+हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् ।ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥४-५-१३॥
+काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥४-५-१४॥
+तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥४-५-१५॥
+सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ ।ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥४-५-१६॥
+अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः ।त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥४-५-१७॥
+सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् ।ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥४-५-१८॥
+सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः ।लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥
+शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् ।ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥४-५-२०॥
+प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः ।अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥४-५-२१॥
+हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः ।सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥४-५-२२॥
+वालिना निकृतो भ्रात्रा कृत वैरः च राघव ।वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥४-५-२३॥
+कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा ।एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥४-५-२४॥
+प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव ।उपकार फलम् मित्रम् विदितम् मे महाकपे ॥४-५-२५॥
+वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् ।अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥४-५-२६॥
+तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥४-५-२७॥
+तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव ।तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥४-५-२८॥
+शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् ।स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् ।सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥४-५-२९॥
+तव प्रसादेन नृसिंह वीरप्रियाम् च राज्यम् च समाप्नुयाम् अहम् ।तथा कुरु त्वम् नर देव वैरिणम्यथा न हिंस्यत् स पुनर् म��� अग्रजम् ॥४-५-३०॥
+सीत कपीन्द्र क्षणदा चराणाम्राजीव हेम ज्वलनोपमानानि ।सुग्रीव राम प्रणय पसङ्गेवामानि नेत्राणि समम् स्फुरन्ति ॥४-५-३१॥
+पुनरेव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् ।अयम् आख्याति ते राम सेवकः मन्त्रि सत्तमः ॥४-६-१॥
+हनुमान् यन् निमित्तम् त्वम् निर्जनम् वनम् आगतः ।लक्ष्मणेन सह भ्रात्रा वसतः च वने तव ॥४-६-२॥
+रक्षसा अपहृता भार्या मैथिली जनक आत्मजा ।त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥४-६-३॥
+अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् ।भार्या वियोगजम् दुःखम् प्रापितः तेन रक्ष्सा ॥४-६-४॥
+भर्या वियोगजम् दुःखम् न चिरात् त्वम् विमोक्ष्यसे ।अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव ॥४-६-५॥
+रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभः तले ।अहम् आनीय दास्यामि तव भार्याम् अरिन्दम ॥४-६-६॥
+इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव ।न शक्या सा जरयितुम् अपि सः इन्द्रैः सुर असुरैः ॥४-६-७॥
+तव भार्या महाबाहो भक्ष्यम् विष कृतम् यथा ।त्यज शोकम् महाबाहो ताम् कान्ताम् आनयामि ते ॥४-६-८॥
+अनुमानात् तु जानामि मैथिली सा न संशयः ।ह्रियमाणा मया दृष्टा रक्षसा रौउद्र कर्मणा ॥४-६-९॥
+क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।स्फुरन्ती रावणस्य अन्के पन्नगेन्द्र वधूः यथा ॥४-६-१०॥
+आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल तले स्थितम् ।उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च ॥४-६-११॥
+तानि अस्माभिः गृहीतानि निहितानि च राघव ।आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि ॥४-६-१२॥
+तम् अब्रवीत् ततः रामः सुग्रीवम् प्रिय वादिनम् ।आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे ॥४-६-१३॥
+एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् ।प्रविवेश ततः शीघ्रम् राघव प्रिय काम्यया ॥४-६-१४॥
+उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च ।इदम् पश्य इति रामाय दर्शयामास वानरः ॥४-६-१५॥
+ततो गृहीत्वा वासः तु शुभानि आभरणानि च ।अभवत् बाष्प सम्रुद्धः नीहारेण इव चन्द्रमाः ॥४-६-१६॥
+सीता स्नेह प्रवृत्तेन स तु बाष्पेण दूषितः ।हा प्रिये इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ ॥४-६-१७॥
+हृदि कृत्वा स बहुशः तम् अलंकारम् उत्तमम् ।निशश्वास भृशम् सर्पः बिलस्थ इव रोषितः ॥४-६-१८॥
+अविच्छिन्न अश्रु वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतः ।परिदेवयितुम् दीनम् रामः सम��� उपचक्रमे ॥४-६-१९॥
+पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया ।उत्तरीयम् इदम् भूमौ शरीराद् भूषणानि च ॥४-६-२०॥
+शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया ।उत्सृष्टम् भूषणाम् इदम् तथा रूपम् हि दृश्यते ॥४-६-२१॥
+एवम् उक्तसः तु रामेण लक्ष्मणो वाक्यम् इदम् अब्रवीत् ।न अहम् जानामि केयूरे न अहम् जानामि कुन्डले ॥४-६-२२॥
+नूपुरे तु अभिजनामि नित्यम् पाद अभिवंदनात् ।ततः तु राघवो वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥४-६-२३॥
+ब्रूहि सुग्रीव कम् देशम् ह्रियन्ती लक्षिता त्वया ।रक्षसा रौद्ररूपेण मम प्राणप्रिया प्रिया ॥४-६-२४॥
+क्व वा वसति तत् रक्षJः महत् व्यसनदम् मम ।यन् निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान् ॥४-६-२५॥
+हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् ।आत्मनो जीवित अन्ताय मृत्यु द्वारम् अपावृतम् ॥४-६-२६॥
+मम दयित तमा हृता वनात् रजनिचरेण विमथ्य येन सा ।कथय मम रिपुम् तम् अद्य वै प्लवगपते यम सन्निधिम् नयामि ॥४-६-२७॥
+एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः ।अब्रवीत् प्राञ्जलिः वाक्यम् सबाष्पम् बाष्प गद्गदः ॥४-७-१॥
+न जाने निलयम् तस्य सर्वथा पाप रक्षसः ।सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम् ॥४-७-२॥
+सत्यम् तु प्रतिजानामि त्यज शोकम् अरिन्दम ।करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम् ॥४-७-३॥
+रावणम् सगणम् हत्वा परितोष्य आत्म पौरुषम् ।तथा अस्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४-७-४॥
+अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतम् स्मर ।त्वत् विधानाम् न सदृशम् ईदृशम् बुद्धि लाघवम् ॥४-७-५॥
+मया अपि व्यसनम् प्राप्तम् भार्या विरहजम् महत् ।न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे ॥४-७-६॥
+न अहम् ताम् अनुशोचामि प्राकृतो वानरो अपि सन् ।महात्मा च विनीतः च किम् पुनर् धृतिमान् महान् ॥४-७-७॥
+बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि ।मर्यादाम् सत्त्व युक्तानाम् धृतिम् न उत्स्रष्टुम् अर्हसि ॥४-७-८॥
+व्यसने वा अर्थ कृच्छ्रे वा भये वा जीवितान्तगे ।विमृशन् वै स्वया बुद्ध्या धृतिमान् न अवसीदति ॥४-७-९॥
+बालिशस् तु नरो नित्यम् वैक्लब्यम् योऽनुवर्तते ।स मज्जति अवशः शोके भार आक्रान्ता इव नौः जले ॥४-७-१०॥
+एषो अन्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये ।पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि ���४-७-११॥
+ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् ।तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि ॥४-७-१२॥
+शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः ।स शोकम् त्यज राजेन्द्र धैर्यम् आश्रय केवलम् ॥४-७-१३॥
+हितम् वयस्य भावेन ब्रूमि न उपदिशामि ते ।वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि ॥४-७-१४॥
+मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः ।मुखम् अश्रु परि क्लिन्नम् वस्त्र अन्तेन प्रमार्जयत् ॥४-७-१५॥
+प्रकृतिः स्थः तु काकुत्स्थः सुग्रीव वचनात् प्रभुः ।संपरिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत् ॥४-७-१६॥
+कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च ।अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया ॥४-७-१७॥
+एष च प्रकृतिः स्थः अहम् अनुनीतः त्वया सखे ।दुर्लभो हि ईदृशो बन्धुः अस्मिन् काले विशेषतः ॥४-७-१८॥
+किम् तु यत्नः त्वया कार्यो मैथिल्याः परिमार्गणे ।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥४-७-१९॥
+मया च यद् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् ।वर्षासु इव च सुक्षेत्रे सर्वम् संपद्यते तव ॥४-७-२०॥
+मया च यदिदम् वाक्यम् अभिमानात् समीरितम् ।तत् त्वया हरिशार्दूल तत् त्वम् इति उपधार्यताम् ॥४-७-२१॥
+अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ।एतत् ते प्रतिजानामि सत्येन एव शपामि अहम् ॥४-७-२२॥
+ततः प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः ॥४-७-२३॥
+एवम् एकान्त संपृक्तौ ततः तौ नर वानरौ ।उभौ अन्योन्य सदृशम् सुख दुःखम् अभाष्ताम् ॥४-७-२४॥
+महानुभावस्य वचो निशम्यहरिर् नृपाणाम् अधिपस्य तस्य ।कृतम् स मेने हरिवीर मुख्यःतदा च कार्यम् हृदयेन विद्वान् ॥४-७-२५॥
+परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः ।लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत् ॥४-८-१॥
+सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः ।उपपन्नः गुण उपेतः सखा यस्य भवान् मम ॥४-८-२॥
+शक्यम् खलु भवेत् राम सहायेन त्वया अनघ ।सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो ॥४-८-३॥
+सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव ।यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम् ॥४-८-४॥
+अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान् ॥४-८-५॥
+महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् ।निश���चला भवति प्रीतिः धैर्यम् आत्मवताम् वर ॥४-८-६॥
+रजतम् वा सुवर्णम् वा शुभानि आभरणानि च ।अविभक्तानि साधूनाम् अवगच्छन्ति साधवः ॥४-८-७॥
+आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषः च सदोषः च वयस्यः परमा गतिः ॥४-८-८॥
+धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः ।वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम् ॥४-८-९॥
+तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् ।लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः ॥४-८-१०॥
+ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् ।सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत् ॥४-८-११॥
+स ददर्श ततः सालम् अविदूरे हरीश्वरः ।सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम् ॥४-८-१२॥
+तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् ।रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः ॥४-८-१३॥
+तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् ।साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत् ॥४-८-१४॥
+सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा ।साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे ॥४-८-१५॥
+ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा ।उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम् ॥४-८-१६॥
+अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः ।ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः ॥४-८-१७॥
+सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः ।वालिना निकृतः भ्रात्रा कृत वैरः च राघव ॥४-८-१८॥
+वालिनः मे भय आर्तस्य सर्वलोक अभयंकर ।मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि ॥४-८-१९॥
+एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ।प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव ॥४-८-२०॥
+उपकार फलम् मित्रम् अपकारो अरि लक्षणम् ।अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम् ॥४-८-२१॥
+इमे हि मे महाभाग पत्रिणः तिग्म तेजसः ।कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः ॥४-८-२२॥
+कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः ।सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव ॥४-८-२३॥
+वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् ।शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम् ॥४-८-२४॥
+राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ।प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत् ॥४-८-२५॥
+राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः ।वयस्य इति क��त्वा हि त्वयि अहम् परिदेवये ॥४-८-२६॥
+त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् ।कृतः प्राणैः बहुमतः सत्येन च शपामि अहम् ॥४-८-२७॥
+वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् ।दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः ॥४-८-२८॥
+एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः ।बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम् ॥४-८-२९॥
+बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् ।धारयामास धैर्येण सुग्रीवः राम संनिधौ ॥४-८-३०॥
+स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे ।विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान् ॥४-८-३१॥
+पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः ।परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा ॥४-८-३२॥
+हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी ।सुहृदः च मदीया ये संयता बन्धनेषु ते ॥४-८-३३॥
+यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव ।बहुशः तत् प्रयुक्ताः च वानरा निहता मया ॥४-८-३४॥
+शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव ।न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति ॥४-८-३५॥
+केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे ।अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन् ॥४-८-३६॥
+एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते ॥४-८-३७॥
+संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते ।स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः ॥४-८-३८॥
+तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् ।सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम् ॥४-८-३९॥
+एष मे राम शोकान्तः शोक आर्तेन निवेदितः ।दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः ॥४-८-४०॥
+श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् ।किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः ॥४-८-४१॥
+सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर ।आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम् ॥४-८-४२॥
+बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् ।वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः ॥४-८-४३॥
+हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः ।सृष्टः च हि मया बाणो निरस्तः च रिपुः तव ॥४-८-४४॥
+एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना ।प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥४-८-४५॥
+ततः प्रहृ^इष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे ।��ैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे ॥४-८-४६॥
+वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः ।पितुः बहुमतः नित्यम् मम च अपि तथा पुरा ॥४-९-१॥
+पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः ।कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः ॥४-९-२॥
+राज्यम् प्रशासतः तस्य पितृ पैतामहम् महत् ।अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥४-९-३॥
+मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा ॥४-९-४॥
+स तु सुप्ते जने रात्रौ किष्किन्धा द्वारम् आगतः ।नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे ॥४-९-५॥
+प्रसुप्तः तु मम भ्राता नर्दितो भैरव स्वनम् ।श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥४-९-६॥
+स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् ।वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना ॥४-९-७॥
+स तु निर्धूय सर्वान् नो निर्जगाम महाबलः ।ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह ॥४-९-८॥
+स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् ।असुरो जात संत्रासः प्रदुद्राव तदा भृशम् ॥४-९-९॥
+तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ ।प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा ॥४-९-१०॥
+स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् ।प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ ॥४-९-११॥
+तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः ।माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः ॥४-९-१२॥
+इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः ।यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् ॥४-९-१३॥
+मया तु एतत् वचः श्रुत्वा याचितः स परंतपः ।शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः ॥४-९-१४॥
+तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः ।स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत ॥४-९-१५॥
+अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः ।भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः ॥४-९-१६॥
+अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् ।सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः ॥४-९-१७॥
+नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः ।न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः ॥४-९-१८॥
+अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् ।पिधाय च बिल द्वारम् शिलया गिरि मात्रया ॥४-९-१९॥
+शोकार्तः च उदकम�� कृत्वा किष्किन्धाम् आगतः सखे ।गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ॥४-९-२०॥
+ततः अहम् तैः समागम्य समेतैः अभिषेचितः ।राज्यम् प्रशासतः तस्य न्यायतो मम राघव ॥४-९-२१॥
+आजगाम रिपुम् हत्वा दानवम् स तु वानरः ।अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः ॥४-९-२२॥
+मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् ।निग्रहे च समर्थस्य तम् पापम् प्रति राघव ॥४-९-२३॥
+न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता ।हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा ॥४-९-२४॥
+मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् ।उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना ॥४-९-२५॥
+नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो ।अपि वाली मम क्रोधात् न प्रसादम् चकार सः ॥४-९-२६॥
+इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः ।
+ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥
+ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥
+दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥
+दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥
+इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥
+इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥
+आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥
+आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥
+शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥
+शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥
+तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ॥४-१०-६॥
+तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ��४-१०-६॥
+अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥
+अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥
+राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥
+राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥
+न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥
+न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥
+याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥
+याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥
+राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥
+राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥
+धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥
+धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥
+माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥
+माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥
+माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥
+माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥
+अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥
+अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥
+प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥
+प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥
+तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥
+तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥
+अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥
+अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥
+स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥
+स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥
+स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥
+स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥
+तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥
+तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥
+सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥
+सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥
+विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥
+विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥
+पाद प्रहारैः तु मया बहुभिः परिपातितम् ।ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥
+पाद प्रहारैः तु मया बहुभिः परिपातितम् ।ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥
+तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥
+तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥
+एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वान��ः ।तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥
+एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः ।तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥
+तेन अहम् अपविद्धः च हृत दारः च राघव ।तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥
+तेन अहम् अपविद्धः च हृत दारः च राघव ।तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥
+ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥
+ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥
+एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥
+एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥
+वालिनः च भयात् तस्य सर्वलोक भयापह ।कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥
+वालिनः च भयात् तस्य सर्वलोक भयापह ।कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥
+एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥
+एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥
+अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥
+अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥
+यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥
+यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥
+आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥
+आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥
+तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥
+तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥
+एतच् च वचनम् श्रुत्व��� सुग्रीवस्य सुभाषितम् ।प्रत्ययार्थम् महातेजा रामो जग्राह कार्मुकम् ॥४-१२-१॥
+स गृहीत्वा धनुर् घोरम् शरम् एकम् च मानदः ।सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः ॥४-१२-२॥
+स विसृष्टो बलवता बाणः स्वर्ण परिष्कृतः ।भित्त्वा सालान् गिरि प्रस्थम् सप्त भूमिम् विवेश ह ॥४-१२-३॥
+सायकः तु मुहूर्तेन सालान् भित्त्वा महाजवः ।निष्पत्य च पुनः तूर्णम् तम् एव प्रविवेश ह ॥४-१२-४॥
+तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ।रामस्य शर वेगेन विस्मयम् परमम् गतः ॥४-१२-५॥
+स मूर्ध्ना न्यपतत् भूमौ प्रलंबीकृत भूषणः ।सुग्रीवः परम प्रीतो राघवाय कृतांजलिः ॥४-१२-६॥
+इदम् च उवाच धर्मज्ञम् कर्मणा तेन हर्षितः ।रामम् सर्व अस्त्र विदुषाम् श्रेष्ठम् शूरम् अवस्थितम् ॥४-१२-७॥
+स इन्द्रान् अपि सुरान् सर्वाम् त्वम् बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो ॥४-१२-८॥
+येन सप्त महा साला गिरिर् भूमिः च दारिताः ।बाणेन एकेन काकुत्स्थ स्थाता ते को रण अग्रतः ॥४-१२-९॥
+अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम ।सुहृदम् त्वाम् समासाद्य महेन्द्र वरुणोपमम् ॥४-१२-१०॥
+तम् अद्य एव प्रियार्थम् मे वैरिणम् भ्रातृ रूपिणम् ।वालिनम् जहि काकुत्स्थ मया बद्धो अयम् अंजलिः ॥४-१२-११॥
+ततो रामः परिष्वज्य सुग्रीवम् प्रिय दर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतम् वचः ॥४-१२-१२॥
+अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः ।गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ गन्धिनम् ॥४-१२-१३॥
+सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् ।वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने ॥४-१२-१४॥
+सुग्रीवो अपि व्यनदद् घोरम् वालिनो ह्वान कारणात् ।गाढम् परिहितो वेगान् नादैः भिन्दन् इव अंबरम् ॥४-१२-१५॥
+तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करो अस्त तटात् इव ॥४-१२-१६॥
+ततः सुतुमुलम् युद्धम् वालि सुग्रीवयोः अभूत् ।गगने ग्रहयोः घोरम् बुध अंगारकयोः इव ॥४-१२-१७॥
+तलैः अशनि कल्पैः च वज्र कल्पैः च मुष्टिभिः ।जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध मूर्च्छितौ ॥४-१२-१८॥
+ततो रामो धनुष् पाणिः तौ उभौ समुदैक्षत ।अन्योन्य सदृशौ वीरौ उभौ देवौ इव अश्विनौ ॥४-१२-१९॥
+यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ।तत�� न कृतवान् बुद्धिम् मोक्तुम् अन्तकरम् शरम् ॥४-१२-२०॥
+एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना ।अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे ॥४-१२-२१॥
+क्लान्तो रुधिर सिक्त अंगो प्रहारैः जर्जरी कृतः ।वालिना अभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥४-१२-२२॥
+तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप भयात् ततः ।मुक्तो हि असि त्वम् इति उक्त्वा स निवृत्तो महाबलः ॥४-१२-२३॥
+राघवो अपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनम् आगच्छत् सुग्रीवो यत्र वानरः ॥४-१२-२४॥
+तम् समीक्ष्य आगतम् रामम् सुग्रीवः सह लक्ष्मणम् ।ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन् ॥४-१२-२५॥
+आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम् ॥४-१२-२६॥
+ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः ।वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे ॥४-१२-२७॥
+तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणम् दीनया वाचा राघवः पुनर् अब्रवीत् ॥४-१२-२८॥
+सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् ।कारणम् येन बाणो अयम् स मया न विसर्जितः ॥४-१२-२९॥
+अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥४-१२-३०॥
+स्वरेण वर्चसा च एव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये ॥४-१२-३१॥
+ततो अहम् रूप सादृश्यात् मोहितो वानरोत्तम ।न उत्सृजामि महावेगम् शरम् शत्रु निबर्हणम् ॥४-१२-३२॥
+जीवित अन्तकरम् घोरम् सादृश्यात् तु विशंकितः ।मूलघातो न नौ स्याद्धि द्वयोः इति कृतो मया ॥४-१२-३३॥
+त्वयि वीर विपन्ने हि अज्ञान् लाघवान् मया ।मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपीस्वर ॥४-१२-३४॥
+दत्त अभय वधो नाम पातकम् महत् अद्भुतम् ।अहम् च लक्ष्मणः च एव सीत च वरवर्णिनी ॥४-१२-३५॥
+त्वत् अधीना वयम् सर्वे वने अस्मिन् शरणम् भवान् ।तस्मात् युध्यस्व भूयस्त्वम् मा शंकी च वानर ॥४-१२-३६॥
+एतन् मुहूर्ते तु मया पश्य वालिनम् आहवे ।निरस्तम् इषुणा एकेन वेष्टमानम् महीतले ॥४-१२-३७॥
+अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानरेश्वर ।येन त्वाम् अभिजानीयाम् द्वन्द्व युद्धम् उपागतम् ॥४-१२-३८॥
+गज पुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ लक्षणाम् ।कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः ॥४-१२-३९॥
+ततो गिरि तटे जाताम् उत्पाट्�� कुसुमायुताम् ।लक्ष्मणो गज पुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत् ॥४-१२-४०॥
+स तथा शुशुभे श्रीमान् लतया कण्ठ सक्तया ।मालया इव बलाकानाम् ससंध्य इव तोयदः ॥४-१२-४१॥
+विभ्राजमानो वपुषा राम वाक्य समाहितः ।जगाम सह रामेण किष्किंधाम् पुनराप सः ॥४-१२-४२॥
+ऋश्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मण अग्रजः ।जगाम सह सुग्रीवो वालि विक्रम पालिताम् ॥४-१३-१॥
+समुद्यम्य महत् चापम् रामः कांचन भूषितम् ।शराम् च आदित्य संकाशान् गृहीत्वा रण साधकान् ॥४-१३-२॥
+अग्रतः तु ययौ तस्य राघवस्य महात्मनः ।सुग्रीवः संहत ग्रीवो लक्ष्मणः च महाबलः ॥४-१३-३॥
+पृष्ठतो हनुमान् वीरो नलो नीलः च वीर्यवान् ।तारः चैव महातेजा हरि यूथप यूथपाः ॥४-१३-४॥
+ते वीक्षमाणा वृक्षाम् च पुष्प भार अवलम्बिनः ।प्रसन्न अंबुवहाः चैव सरितः सागरम् गमाः ॥४-१३-५॥
+कन्दराणि च शैलाम् च निर्दराणि गुहाः तथा ।शिखराणि च मुख्यानि दरीः च प्रिय दर्शनाः ॥४-१३-६॥
+वैदूर्य विमलैः तोयैः पद्मैः च आकोश कुड्मलैः ।शोभितान् सजलान् मार्गे तटाकान् च अवलोकयन् ॥४-१३-७॥
+कारण्डैस्सारसैर्हम्सैर्वञ्जुलैर्जलकुक्कुटैः ।चक्रवाकैस्थाचान्यैश्शकुनैर्प्रतिनादितान्।यद्वा -कारण्डैः सारसैः हंसैः वंजुलैः जल कुक्कुटैः ।चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥
+मृदुशष्पाङ्कुराअहारान्निर्भयान्वनगोचरान् ।चरतांसर्वतोपश्यन्स्थलीषु हरिणान्स्थितान्।यद्वा -मृदु शष्प अंकुर आहारान् निर्भयान् वन गोचरान् ।चरताम् सर्वतो अपश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥
+तटाक वैरिणः च अपि शुक्ल दन्त विभूषितान् ।घोरान् एकचरान् वन्यान् द्विरदान् कूल घातिनः ॥४-१३-१०॥
+मत्तन् गिरि तट उद्घुष्टान् पर्वतान् इव जंगमान् ।वानरान् द्विरद प्रख्यान् मही रेणु समुक्षितान् ॥४-१३-११॥
+वने वन चराम् च अन्यान् खेचराम् च विहंगमान् ।पश्यन्तः त्वरिता जग्मुः सुग्रीव वश वर्तिनः ॥४-१३-१२॥
+तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनंदनः ।द्रुम षण्ड वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥४-१३-१३॥
+एष मेघ इव आकाशे वृक्ष षण्डः प्रकाशते ।मेघ संघात विपुलः पर्यन्त कदली वृतः ॥४-१३-१४॥
+किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम ।कौतूहल अपनयनम् कर्तुम् इच्छामि अहम् त्वया ॥४-१३-१५॥
+तस्य तद् वचनम् श्रुत्वा राघवस्य महात्मनः ।गच्छन्���् एव आचचक्षे अथ सुग्रीवः तत् महद् वनम् ॥४-१३-१६॥
+एतद् राघव विस्तीर्णम् आश्रमम् श्रम नाशनम् ।उद्यान वन संपन्नम् स्वादु मूल फल उदकम् ॥४-१३-१७॥
+अत्र सप्तजना नाम मुनयः संशित व्रताः ।सप्त एव आसन् अधः शीर्षा नियतम् जल शायिनः ॥४-१३-१८॥
+सप्त रात्रे कृत आहारा वायुना अचल वासिनः ।दिवम् वर्ष शतैः याताः सप्तभिः सकलेवराः ॥४-१३-१९॥
+तेषाम् एतत् प्रभावेण द्रुम प्राकार संवृतम् ।आश्रमम् सुदुराधर्षम् अपि स इन्द्रैः सुर असुरैः ॥४-१३-२०॥
+पक्षिणो वर्जयन्ति एतत् तथा अन्ये वनचारिणः ।विशन्ति मोहाद् ये अपि अत्र न निवर्तन्ते ते पुनः ॥४-१३-२१॥
+विभूषण रवाअः च अत्र श्रूयंते सकलाक्षराः ।तूर्य गीत स्वनाअः च अपि गन्धो दिव्यः च राघव ॥४-१३-२२॥
+त्रेताग्नयो अपि दीप्यन्ते धूमो हि एष प्रदृश्यते ।वेष्टयन् इव वृक्ष अग्रान् कपोत अंग अरुणो घनः ॥४-१३-२३॥
+एते वृक्षाः प्रकाशन्ते धूम संसक्त मस्तकाः ।मेघ जाल प्रतिच्छन्ना वैदूर्य गिरयो यथा ॥४-१३-२४॥
+कुरु प्रणामम् धर्मात्मन् तेषाम् उद्दिश्य राघवः ।लक्ष्मणेन सह भ्रात्रा प्रयतः संयत अंजलिः ॥४-१३-२५॥
+प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावित आत्मनाम् ।न तेषाम् अशुभम् किंचित् शरीरे राम दृश्यते ॥४-१३-२६॥
+ततो रामः सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत् ॥४-१३-२७॥
+अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।सुग्रीवो वानराअः चैव जग्मुः संहृष्ट मानसाः ॥४-१३-२८॥
+ते गत्वा दूरम् अध्वानम् तस्मात् सप्त जन आश्रमात् ।ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि पालिताम् ॥४-१३-२९॥
+ततस्तु रामानुज राम वानराःप्रगृह्य शस्त्राणि उदित उग्र तेजसा ।पुरीम् सुरेश आत्मज वीर्य पालिताम्वधाय शत्रोः पुनर् आगताः इह ॥४-१३-३०॥
+सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥४-१४-१॥
+विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः ।सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम् ॥४-१४-२॥
+ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥४-१४-३॥
+गर्जन् इव महामेघो वायु वेग पुरस्सरः ।अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः ॥४-१४-४॥
+दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् ।हरि वागुरया व्याप्��म् तप्त कांचन तोरणाम् ॥४-१४-५॥
+प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥४-१४-६॥
+सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥४-१४-७॥
+तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥४-१४-८॥
+लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥४-१४-९॥
+विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥४-१४-१०॥
+एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥४-१४-११॥
+वाली विनिहतो यावद् वने पांसुषु चेष्टते ।यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥४-१४-१२॥
+ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥४-१४-१३॥
+ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥४-१४-१४॥
+धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥४-१४-१५॥
+प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥४-१४-१६॥
+सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥४-१४-१७॥
+निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥४-१४-१८॥
+जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥४-१४-१९॥
+ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥४-१४-२०॥
+राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥४-१४-२१॥
+ततः स जीमूत कृत प्रणादोनादम् हि अमुंचत् त्वरया प्रतीतः ।सूर्यात्मजः शौर्य विवृद्ध तेजाःसरित् पतिर्वा अनिल चंचल ऊर्मिः ॥४-१४-२२॥
+अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः ।शुश्राव अन्तःपुर गतो वाली भ्रातुर् अमर्षणः ॥४-१५-१॥
+श्रुत्वा तु तस्य निनदम् सर्वभूत प्रकंपनम् ।मदः च एकपदे नष्टः क्रोधः च आपादितो महान् ॥४-१५-२॥
+ततो रोष परीत अंगो वाली स कनक प्रभः ।उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥४-१५-३॥
+वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥४-१५-४॥
+शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः ।वेगेन च पद न्यासैर् दारयन् इव मेदिनीम् ॥४-१५-५॥
+तम् तु तारा परिष्वज्य स्नेहाद् दर्शित सौहृदा ।उवाच त्रस्त संभ्रांता हित उदर्कम् इदम् वचः ॥४-१५-६॥
+साधु क्रोधम् इमम् वीर नदी वेगम् इव आगतम् ।शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम् ॥४-१५-७॥
+काल्यम् एतेन संग्रामम् करिष्यसि च वानर ।वीर ते शत्रु बाहुल्यम् फल्गुता वा न विद्यते ॥४-१५-८॥
+सहसा तव निष्क्रामो मम तावत् न रोचते ।श्रूयताम् अभिधास्यामि यन् निमित्तम् निवार्यते ॥४-१५-९॥
+पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि ।निष्पत्य च निरस्तः ते हन्यमानो दिशो गतः ॥४-१५-१०॥
+त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इह एत्य पुनर् आह्वानम् शंकाम् जनयति इव मे ॥४-१५-११॥
+दर्पः च व्यवसायः च यादृशः तस्य नर्दतः ।निनादस्य च संरंभो न एतत् अल्पम् हि कारणम् ॥४-१५-१२॥
+न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् ।अवष्टब्ध सहायः च यम् आश्रित्य एष गर्जति ॥४-१५-१३॥
+प्रकृत्या निपुणः चैव बुद्धिमान् चैव वानरः ।न अपरीक्षित वीर्येण सुग्रीवः सख्यम् एष्यति ॥४-१५-१४॥
+पूर्वम् एव मया वीर श्रुतम् कथयतो वचः ।अंगदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः ॥४-१५-१५॥
+अंगदः तु कुमरो अयम् वनांतम् उपनिर्गतः ।प्रवृत्तिः तेन कथिता चारैः असीत् निवेदिता ॥४-१५-१६॥
+अयोध्य अधिपतेः पुत्रौ शूरौ समर दुर्जयौ ।इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम लक्ष्मणौ ॥४-१५-१७॥
+सुग्रीव प्रिय कामार्थम् प्राप्तौ तत्र दुरासदौ ।स ते भ्रातुर् हि विख्यातः सहायो रण कर्मणि ॥४-१५-१८॥
+रामः पर बलमर्दी युगान्त अग्निः इव उत्थितः ।निवास वृक्षः साधूनाम् आपन्नानाम् परा गतिः ॥४-१५-१९॥
+आर्तानाम् संश्रयः चैव यशसः च एक भाजनम् ।ज्ञान विज्ञान संपन्नो निदेशो निरतः पितुः ॥४-१५-२०॥
+धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् ।तत् क्षमो न विरोधः ते सह तेन महात्मना ॥४-१५-२१॥
+दुर्जयेन अप्रमेयेण रामेण रण कर्मसु ।शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् ॥४-१५-२२॥
+श्रूयताम् क्रियताम् चैव तव वक्��्यामि यद् हितम् ।यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय ॥४-१५-२३॥
+विग्रहम् मा कृथा वीर भ्रात्रा राजन् यवीयसा ।अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् ॥४-१५-२४॥
+सुग्रीवेण च संप्रीतिम् वैरम् उत्सृज्य दूरतः ।लालनीयो हि ते भ्राता यवीयान् एष वानरः ॥४-१५-२५॥
+तत्र वा सन्निहस्थो वा सर्वथा बन्धुः एव ते ।नहि तेन समम् बन्धुम् भुवि पश्यामि किंचन ॥४-१५-२६॥
+दान मानादि सत्कर्रैः कुरुष्व प्रत्यनन्तरम् ।वैरम् एतत् सम् उत्स्रृज्य तव पार्श्वे स तिष्ठतु ॥४-१५-२७॥
+सुग्रीवो विपुल ग्रीवो महाबन्धुः मतः तव ।भ्रातृ सौहृदम् आलंब्य न अन्या गति इह अस्ति ते ॥४-१५-२८॥
+यदि ते मत् प्रियम् कार्यम् यदि च अवैषि माम् हिताम् ।याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे ॥४-१५-२९॥
+प्रसीद पथ्यम् श्रुणु जल्पितम् हि मेन रोषम् एव अनुविधातुम् अर्हसि ।क्षमो हि ते कोशल राज सूनुनान विग्रहः शक्र सम तेजसा ॥४-१५-३०॥
+तदा हि तारा हितम् एव वाक्यम्तम् वालिनम् पथ्यम् इदम् बभाषे ।न रोचते तद् वचनम् हि तस्यकाल अभिपन्नस्य विनाश काले ॥४-१५-३१॥
+ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् ।वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत् ॥४-१६-१॥
+गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः ।मर्षयिष्यामि केन कारणेन वरानने ॥४-१६-२॥
+अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् ।धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते ॥४-१६-३॥
+सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे ।सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम् ॥४-१६-४॥
+न च कार्यो विषादः ते राघवम् प्रति मत् कृते ।धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति ॥४-१६-५॥
+निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि ।सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता ॥४-१६-६॥
+प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् ।दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते ॥४-१६-७॥
+अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् ।वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति ॥४-१६-८॥
+न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् ।कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि ॥४-१६-९॥
+शापिता असि मम प्राणैः निवर्तस्व जनेन च ।अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे ॥४-१६-१०॥
+तम् तु तारा परिष्वज्य वालिनम् प्र���य वादिनी ।चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ॥४-१६-११॥
+ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी ।अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता ॥४-१६-१२॥
+प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् ।नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन् ॥४-१६-१३॥
+स निःश्वस्य महारोषो वाली परम वेगवान् ।सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया ॥४-१६-१४॥
+स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् ।सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम् ॥४-१६-१५॥
+तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् ।गाढम् परिदधे वासो वाली परम कोपिनः ॥४-१६-१६॥
+स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् ।सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः ॥४-१६-१७॥
+श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः ।सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम् ॥४-१६-१८॥
+तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् ।आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत् ॥४-१६-१९॥
+एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः ।मया वेग विमुक्तः ते प्राणान् आदाय यास्यति ॥४-१६-२०॥
+एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् ।तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥४-१६-२१॥
+ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः ।अभवत् शोणित उद्गारी सापीड इव पर्वतः ॥४-१६-२२॥
+सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा ।गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः ॥४-१६-२३॥
+स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः ।गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे ॥४-१६-२४॥
+तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ ।प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे ॥४-१६-२५॥
+परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ ।ततो अवर्धत वाली तु बल वीर्य समन्वितः ॥४-१६-२६॥
+सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत ।वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः ॥४-१६-२७॥
+वालिनम् प्रति सामर्षो दर्शयामास राघवम् ।वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः ॥४-१६-२८॥
+मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः ।तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव ॥४-१६-२९॥
+तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ ।मेघौ इव महा शब्दैः तर्जमानौ परस्परम् ॥४-१६-३०॥
+हीयमानम् अथ अपश्यत् सुग��रीवम् वानरेश्वरम् ।प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर् ॥४-१६-३१॥
+ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् ।स शरम् वीक्षते वीरो वालिनो वध कांक्षया ॥४-१६-३२॥
+ततो धनुषि संधाय शरम् आशी विष उपमम् ।पूरयामास तत् चापम् काल चक्रम् इव अन्तकः ॥४-१६-३३॥
+तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः ।प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः ॥४-१६-३४॥
+मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः ।राघवेण महा बाणो वालि वक्षसि पातितः ॥४-१६-३५॥
+ततः तेन महातेजा वीर्य युक्तः कपीश्वरः ।वेगेन अभिहतो वाली निपपात मही तले ॥४-१६-३६॥
+इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले ।अश्वयुक् समये मासि गत सत्त्वो विचेतनः ।बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः ॥४-१६-३७॥
+नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् ।ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः ॥४-१६-३८॥
+अथ उक्षितः शोणित तोय विस्रवैःसुपुष्पित अशोक इव अचलोद्गतः ।विचेतनो वासव सूनुर् आहवेप्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः ॥४-१६-३९॥
+ततः शरेण अभिहतो रामेण रण कर्कशः ।पपात सहसा वाली निकृत्तैव पादपः ॥४-१७-१॥
+स भूमौ न्यस्त सर्वांगः तप्त कांचन भूषणः ।अपतत् देव राजस्य मुक्त रश्मिर् इव ध्वजः ॥४-१७-२॥
+अस्मिन् निपतिते भूमौ हरि ऋषाणाम् गणेश्वरे ।नष्ट चन्द्रम् इव व्योम न व्यराजत मेदिनी ॥४-१७-३॥
+भूमौ निपतितस्य अपि तस्य देहम् महात्मनः ।न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः ॥४-१७-४॥
+शक्र दत्ता वरा माला कान्चनी रत्न भूषिता ।दधार हरि मुख्यस्य प्राणान् तेजः श्रियम् च सा ॥४-१७-५॥
+स तया मालया वीरो हैमया हरियूथपः ।संध्यानुगत पर्यन्तः पयोधर इव अभवत् ॥४-१७-६॥
+तस्य माला च देहः च मर्मघाती च यः शरः ।त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते ॥४-१७-७॥
+तत् अस्त्रम् तस्य वीरस्य स्वर्ग मार्ग प्रभावनम् ।राम बाणासन क्षिप्तम् आवहत् परमाम् गतिम् ॥४-१७-८॥
+तम् तथा पतितम् संख्ये गत अर्चिषम् इव अनलम् ।ययातिम् इव पुण्यान्ते देव लोकात् परिच्युतम् ॥४-१७-९॥
+आदित्यम् इव कालेन युगान्ते भुवि पातितम् ।महेन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुस्सहम् ॥४-१७-१०॥
+महेन्द्र पुत्रम् पतितम् वालिनम् हेम मालिनम् ।व्यूढ उरस्कम् महाबाहुम् दीप्तास्यम् हरि लोचनम् ॥४-१७-११॥
+लक्ष्मण अनुचरो रामो ददर्श उपससर्प च ।तम् तथा पतितम् वीरम् गत अर्चिष्मतम् इव अनलम् ॥४-१७-१२॥
+बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव ।उपयातौ महावीर्यौ भ्रातरौ राम लक्ष्मणौ ॥४-१७-१३॥
+तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महाबलम् ।अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म संहितम् ॥४-१७-१४॥
+स भूमौ अल्पतेजोसुः निहतो नष्ट चेतनः ।अर्थ सहितया वाचा गर्वितम् रण गर्वितम् ॥४-१७-१५॥
+त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय दर्शनः ।पराङ्मुख वधम् कृत्वा को अत्र प्राप्तः त्वया गुणः ।यदहम् युद्ध सम्रब्धः त्वत् कृते निधनम् गतः ॥४-१७-१६॥
+कुलीनः सत्त्व संपन्नः तेजस्वी चरितव्रतः ।रामः करुणवेदी च प्रजानाम् च हितेरतः ॥४-१७-१७॥
+सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।इति एतत् सर्व भूतानि कथयन्ति यशो भुवि ॥४-१७-१८॥
+दमः शमः क्षमा धर्मो धृति सत्यम् पराक्रमः ।पर्थिवानाम् गुणा राजन् दण्डः च अपकारिषु ॥४-१७-१९॥
+तान् गुणान् संप्रधार्य अहम् अग्र्यम् च अभिजनम् तव ।तारया प्रतिषिद्धो अपि सुग्रीवेण समागतः ॥४-१७-२०॥
+न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि ।इति मे बुद्धिर् उत्पन्ना बभूव अदर्शने तव ॥४-१७-२१॥
+न त्वाम् विनिहत आत्मानम् धर्म ध्वजम् अधार्मिकम् ।जाने पाप समाचारम् तृणैः कूपम् इव आवृतम् ॥४-१७-२२॥
+सताम् वेष धरम् पापम् प्रच्छन्नम् इव पावकम् ।न अहम् त्वाम् अभिजानामि धर्म छद्माभि संवृतम् ॥४-१७-२३॥
+विषये वा पुरे वा ते यदा पापम् करोमि अहम् ।न च त्वाम् अवजाने अहं कस्मात् त्वम् हंसि अकिल्बिषम् ॥४-१७-२४॥
+फल मूल अशनम् नित्यम् वानरम् वन गोचरम् ।माम् इह अप्रतियुध्यन्तम् अन्येन च समागतम् ॥४-१७-२५॥
+त्वम् नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।लिन्गम् अपि अस्ति ते राजन् दृश्यते धर्म सम्हितम् ॥४-१७-२६॥
+कः क्षत्रिय कुलेजातः श्रुतवान् नष्टसंशयः ।धर्म लिंग प्रतिच्छन्नः क्रूरम् कर्म समाचरेत् ॥४-१७-२७॥
+राम राघव कुले जातो धर्मवान् इति विश्रुतः ।अभव्यो भव्य रूपेण किम् अर्थम् परिधावसे ॥४-१७-२८॥
+साम दानम् क्षमा धर्मः सत्यम् धृति पराक्रमौ ।पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु ॥४-१७-२९॥
+वयम् वनचरा राम मृगा मूल फल अशनाः ।एषा प्रकृतिर् अस्माकम् पुरुषः त्वम् नरेश्वरः ॥४-१७-३०॥
+भूमिर् हिरण्यम् रूपम् च निग्रहे कारणानि च ��तत्र कः ते वने लोभो मदीयेषु फलेषु वा ॥४-१७-३१॥
+नयः च विनयः च उभौ निग्रह अनुग्रहौ अपि ।राज वृत्तिर् असंकीर्णा न नृपाः काम वृत्तयः ॥४-१७-३२॥
+त्वम् तु काम प्रधानः च कोपनः च अनवस्थितः ।राज वृत्तेषु संकीर्णः शरासन परायणः ॥४-१७-३३॥
+न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिर् अवस्थिता ।इन्द्रियैः काम वृत्तः सन् कृष्यसे मनुजेश्वर ॥४-१७-३४॥
+हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् ।किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम् ॥४-१७-३५॥
+राजहा ब्रह्महा गोघ्नः चोरः प्राणिवधे रतः ।नास्तिकः परिवेत्ता च सर्वे निरय गामिनः ॥४-१७-३६॥
+सूचकः च कदर्यः च मित्र्घ्नो गुरुतल्पगः ।लोकं पापात्मानम् एते गच्छन्ते न अत्र संशयः ॥४-१७-३७॥
+अधार्यम् चर्म मे सद्भी रोमाणि अस्थि च वर्जितम् ।अभक्ष्याणि च मांसानि त्वत् विधैः धर्मचारिभिः ॥४-१७-३८॥
+पंच पंच नखा भक्ष्या ब्रह्म क्षत्रेण राघव ।शल्यकः श्वाविधो गोधा शशः कूर्मः च पंचमः ॥४-१७-३९॥
+चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः ।अभक्ष्याणि च मांसानि सो अहम् पंच नखो हतः ॥४-१७-४०॥
+तारया वाक्यम् उक्तो अहम् सत्यम् सर्वज्ञया हितम् ।तद् अतिक्रम्य मोहेन कालस्य वशम् आगतः ॥४-१७-४१॥
+त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।प्रमदा शील संपूर्णा पति एव च विधर्मिणा ॥४-१७-४२॥
+शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित मानसः ।कथम् दशरथेन त्वम् जातः पापो महात्मना ॥४-१७-४३॥
+छिन्न चारित्र्य कक्ष्येण सताम् धर्म अतिवर्तिना ।त्यक्त धर्म अंकुशेन अहम् निहतो राम हस्तिना ॥४-१७-४४॥
+अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् ।वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः ॥४-१७-४५॥
+उदासीनेषु यो अस्मासु विक्रमो अयम् प्रकाशितः ।अपकारिषु ते राम न एवम् पश्यामि विक्रमम् ॥४-१७-४६॥
+दृश्यमानः तु युध्येथा मया युधि नृपात्मज ।अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतो मया ॥४-१७-४७॥
+त्वया अदृश्येन तु रणे निहतो अहम् दुरासदः ।प्रसुप्तः पन्नगेन इव नरः पाप वशम् गतः ॥४-१७-४८॥
+सुग्रीव प्रिय कामेन यद् अहम् निहतः त्वया ।माम् एव यदि पूर्वम् त्वम् एतद् अर्थम् अचोदयः ।मैथिलिम् अहम् एक आह्ना तव च आनीतवान् भवेः ॥४-१७-४९॥
+राक्षसम् च दुरात्मानाम् तव भार्य अपहारिणम् ।कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे ॥४-१७-५०॥
+न्यस्ताम् सा���र तोये वा पाताले वा अपि मैथिलीम् ।आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव ॥४-१७-५१॥
+युक्तम् यत् प्रप्नुयात् राज्यम् सुग्रीवः स्वर् गते मयि ।अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे ॥४-१७-५२॥
+कामम् एवम् विधम् लोकः कालेन विनियुज्यते ।क्षमम् चेत् भवता प्राप्तम् उत्तरम् साधु चिंत्यताम् ॥४-१७-५३॥
+इति एवम् उक्त्वा परिशुष्क वक्त्रःशर अभिघातात् व्यथितो महात्मा ।समीक्ष्य रामम् रवि संनिकाशम्तूष्णीम् बभौ वानर राज सूनुः ॥४-१७-५४॥
+इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।परुषं वालिना रामो निहतेन विचेतसा ॥४-१८-१॥
+तं निष्प्रभम् इव आदित्यं मुक्त तोयम् इवाम्बुदम् ।उक्त वाक्यं हरि श्रेष्ठम् उपशांतम् इवानलम् ॥४-१८-२॥
+धर्मार्थगुण सम्पन्नम् हरीश्वरमनुत्तमम् ।अधिक्षिप्तस्तदा रामः पश्चात् वालिनम् अब्रवीत् ॥४-१८-३॥
+धर्मम् अर्थञ्च कामञ्च समयञ्च अपि लौकिकम् ।अविज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे ॥४-१८-४॥
+अपृष्ट्वा बुद्धि संपन्नान् वृद्धान् आचार्य संमतान् ।सौम्य वानर चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि ॥४-१८-५॥
+इक्ष्वाकूणाम् इयम् भूमिः स शैल वन कानना ।मृग पक्षि मनुष्याणाम् निग्रह अनुग्रहेषु अपि ॥४-१८-६॥
+ताम् पालयति धर्मात्मा भरतः सत्यवान् ऋजुः ।धर्म काम अर्थ तत्त्वज्ञो निग्रह अनुग्रहे रतः ॥४-१८-७॥
+नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् ।विक्रमः च यथा दृष्टः स राजा देश कालवित् ॥४-१८-८॥
+तस्य धर्म कृत आदेशा वयम् अन्ये च पार्थिवः ।चरामो वसुधाम् कृत्स्नाम् धर्म संतानम् इच्छवः ॥४-१८-९॥
+तस्मिन् नृपति शार्दूल भरते धर्म वत्सले ।पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म विप्रियम् ॥४-१८-१०॥
+ते वयम् मार्ग विभ्रष्टम् स्वधर्मे परमे स्थिताः ।भरत आज्ञाम् पुरस्कृत्य निगृह्णीमो यथा विधि ॥४-१८-११॥
+त्वम् तु संक्लिष्ट धर्मः च कर्मणा च विगर्हितः ।काम तंत्र प्रधानः च न स्थितो राज वर्त्मनि ॥४-१८-१२॥
+ज्येष्ठो भ्राता पिता चैव यः च विद्याम् प्रयच्छति ।त्रयः ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥४-१८-१३॥
+यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुणोदितः ।पुत्रवत् ते त्रयः चिंत्या धर्मः चैव अत्र कारणम् ॥४-१८-१४॥
+सूक्ष्मः परम दुर्ज्ञेयः सताम् धर्मः प्लवंगम ।हृदिस्थः सर्व भूतानाम् आत्मा वेद शुभाशुभम् ॥४-१८-१५॥
+चप��ः चपलैः सार्धम् वानरैः अकृत आत्मभिः ।जात्यंध इव जात्यन्धैः मंत्रयन् द्रक्ष्यसे नु किम् ॥४-१८-१६॥
+अहम् तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते ।न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि ॥४-१८-१७॥
+तत् एतत् कारणम् पश्य यत् अर्थम् त्वम् मया हतः ।भ्रातुर् वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम् ॥४-१८-१८॥
+अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः ।रुमायाम् वर्तसे कामात् स्नुषायाम् पाप कर्मकृत् ॥४-१८-१९॥
+तद् व्यतीतस्य ते धर्मात् काम वृत्तस्य वानर ।भ्रातृ भार्या अभिमर्शे अस्मिन् दण्डो अयम् प्रतिपादितः ॥४-१८-२०॥
+न हि लोक विरुद्धस्य लोक वृत्तात् अपेयुषः ।दण्डात् अन्यत्र पश्यामि निग्रहम् हरि यूथप ॥४-१८-२१॥
+न च ते मर्षये पापम् क्ष्त्रियो अहम् कुलोद्गतः ।औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः ॥४-१८-२२॥
+प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ।भरतः तु महीपालो वयम् तु आदेश वर्तिनः ॥४-१८-२३॥
+त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् ।गुरु धर्म व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् ॥४-१८-२४॥
+भरतः काम युक्तानाम् निग्रहे पर्यवस्थितः ।वयम् तु भरत आदेशम् विधिम् कृत्वा हरीश्वर ।त्वत् विधान् भिन्न मर्यादान् निग्रहीतुम् व्यवस्थिताः ॥४-१८-२५॥
+सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा ।दार राज्य निमित्तम् च निःश्रेयसकरः स मे ॥४-१८-२६॥
+प्रतिज्ञा च मया दत्ता तदा वानर संनिधौ ।प्रतिज्ञा च कथम् शक्या मत् विधेन अनवेक्षितुम् ॥४-१८-२७॥
+तत् एभिः कारणैः सर्वैर् महद्भिः धर्म संहितैः ।शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम् ॥४-१८-२८॥
+सर्वथा धर्म इति एव द्रष्टव्यः तव निग्रहः ।वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता ॥४-१८-२९॥
+शक्यम् त्वया अपि तत् कार्यम् धर्मम् एव अनुवर्तता ।श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ।गृहीतौ धर्म कुशलैः तथा तत् चरितम् मयाअ ॥४-१८-३०॥
+राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥
+शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते ।राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥४-१८-३२॥
+आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् ।श्रमणेन कृते पापे यथा पापम् कृतम् त्वया ॥४-१८-३३॥
+अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा अधिपैः ।प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः ॥४-१८-३४॥
+तत् अलम् परितापेन धर्मतः परिकल्पितः ।वधो वानरशार्दूल न वयम् स्व वशे स्थिताः ॥४-१८-३५॥
+श्रुणु च अपि अपरम् भूयः कारणम् हरिपुंगव ।तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि ॥४-१८-३६॥
+न मे तत्र मनस्तापो न मन्युः हरिपुंगव ।वागुराभिः च पाशैः च कूटैः च विविधैः नराः ॥४-१८-३७॥
+प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सुबहून् मृगान् ।प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् ॥४-१८-३८॥
+प्रमत्तान् अप्रमत्तान् वा नरा माम्स अशिनो भृशम् ।विध्यन्ति विमुखाम् च अपि न च दोषो अत्र विद्यते ॥४-१८-३९॥
+यान्ति राजर्षयः च अत्र मृगयाम् धर्म कोविदाः ।तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर ।अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखा मृगो हि असि ॥४-१८-४०॥
+दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।राजानो वानरश्रेष्ठ प्रदातारो न सम्शयः ॥४-१८-४१॥
+तान् न हिंस्यात् न च आक्रोशेन् न आक्षिपेन् न अप्रियम् वदेत् ।देवा मानुष रूपेण चरन्ति एते मही तले ॥४-१८-४२॥
+त्वम् तु धर्मम् अविज्ञाय केवलम् रोषम् आस्थितः ।विदूषयसि माम् धर्मे पितृ पैतामहे स्थितम् ॥४-१८-४३॥
+एवम् उक्तः तु रामेण वाली प्रव्यथितो भृशम् ।न दोषम् राघवे दध्यौ धर्मे अधिगत निश्चयः ॥४-१८-४४॥
+प्रत्युवाच ततो रामम् प्रांजलिर् वानरेश्वरः ।यत् त्वम् आत्थ नरश्रेष्ठ तत् थथा एव न अत्र संशयः ॥४-१८-४५॥
+प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् ।यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम् ॥४-१८-४६॥
+तत्र अपि खलु माम् दोषम् कर्तुम् न अर्हसि राघव ।त्वम् हि दृष्टार्थ तत्त्वज्ञः प्रजानाम् च हिते रतः ।कार्य कारण सिद्धौ च प्रसन्ना बुद्धिः अव्यया ॥४-१८-४७॥
+माम् अपि अवगतम् धर्मात् व्यतिक्रान्त पुरस्कृतम् ।धर्म संहितया वाचा धर्मज्ञ परिपालय ॥४-१८-४८॥
+बाष्प संरुद्ध कण्ठः तु वाली स आर्त रवः शनैः ।उवाच रामम् संप्रेक्ष्य पंकलग्न इव द्विपः ॥४-१८-४९॥
+न च आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् ।यथा पुत्रम् गुणश्रेष्ठम् अंगदम् कनकांगदम् ॥४-१८-५०॥
+स मम अदर्शनात् दीनो बाल्यात् प्रभृति लालितः ।तटाक इव पीतांबुः उपशोषम् गमिष्यति ॥४-१८-५१॥
+बालः च अकृतबुद्धिः च एक पुत्रः च मे प्रियः ।तारेयो राम भवता र���्षणीयो महाबलः ॥४-१८-५२॥
+सुग्रीवे च अंगदे चैव विधत्स्व मतिम् उत्तमाम् ।त्वम् हि गोप्ता च शास्ता च कार्याकार्य विधौ स्थितः ॥४-१८-५३॥
+या ते नरपते वृत्तिः भरते लक्ष्मणे च या ।सुग्रीवे च अंगदे राजन् ताम् चिंतयितुम् अर्हसि ॥४-१८-५४॥
+मत् दोष कृत दोषाम् ताम् यथा ताराम् तपस्विनीम् ।सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि ॥४-१८-५५॥
+त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् ।त्वत् वशे वर्तमानेन तव चित्त अनुवर्तिना ॥४-१८-५६॥
+शक्यम् दिवम् च आर्जयितुम् वसुधाम् च अपि शासितुम् ।त्वतः अहम् वधम् आकांक्षयन् वार्यमाणो अपि तारया ॥४-१८-५७॥
+सुग्रीवेण सह भ्राता द्वन्द्व युद्धम् उपागतम् ।इति उक्त्वा वानरो रामम् विरराम हरीश्वरः ॥४-१८-५८॥
+स तम् आश्वासयत् रामो वालिनम् व्यक्त दर्शनम् ।साधु सम्मतया वाचा धर्म तत्त्वार्त्ध युक्तया ॥४-१८-५९॥
+न संतापः त्वया कार्यम् एतत् अर्थम् प्लवंगम ।न वयम् भवता चिंत्या न अपि आत्मा हरिसत्तम ।वयम् भवत् विशेषेण धर्मतः कृत निश्चयाः ॥४-१८-६०॥
+दण्ड्ये यः पातयेत् दण्डम् दण्ड्यो यः च अपि दण्ड्यते ।कार्य कारण सिद्धार्थौ उभौ तौ न अवसीदतः ॥४-१८-६१॥
+तत् भवान् दण्ड सम्योगात् अस्मात् विगत कल्मषः ।गतः स्वाम् प्रकृतिम् धर्म्याम् धर्म दिष्टेन वर्त्मना ॥४-१८-६२॥
+त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् ।त्वया विधानम् हर्यग्र्य न शक्यम् अतिवर्तितुम् ॥४-१८-६३॥
+यथा त्वयि अंगदो नित्यम् वर्तते वानरेश्वरः ।तथा वर्तते सुग्रीवो मयि च अपि न संशयः ॥४-१८-६४॥
+स तस्य वाक्यम् मधुरम् महात्मनःसमाहितम् धर्म पथानुवर्तिनः ।निशम्य रामस्य रणावमर्दिनोवचः सुयुक्तम् निजगाद वानरः ॥४-१८-६५॥
+शराभितप्तेन विचेतसा मयाप्रदूषितः त्वम् यद् अजानता विभो ।इदम् महेन्द्रोपम भीम विक्रमप्रसादितः त्वम् क्षम मे नरेश्वर ॥४-१८-६६॥
+स वानर महाराजः शयानः शर पीडितः ।प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत ॥४-१९-१॥
+अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् ।राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः ॥४-१९-२॥
+तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे ।हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम् ॥४-१९-३॥
+सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् ।निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात् ॥४-१९-४॥
+ये ते अंगद परीवारा ��ानरा हि महाबलाः ।ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः ॥४-१९-५॥
+सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् ।यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान् ॥४-१९-६॥
+तान् उवाच समासाद्य दुःखितान् दुःखिता सती ।राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः ॥४-१९-७॥
+वानरा राज सिंहस्य यस्य यूयम् पुरः सराः ।तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥४-१९-८॥
+राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः ।रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः ॥४-१९-९॥
+कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः ।प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम् ॥४-१९-१०॥
+जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् ।अंतको राम रूपेण हत्वा नयति वालिनम् ॥४-१९-११॥
+क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा ।वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः ॥४-१९-१२॥
+अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् ।अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे ॥४-१९-१३॥
+रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् ।पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः ॥४-१९-१४॥
+अथवा अरुचितम् स्थानम् इह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः ॥४-१९-१५॥
+अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः ।लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम् ॥४-१९-१६॥
+अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना ।आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी ॥४-१९-१७॥
+पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना ।कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति ॥४-१९-१८॥
+पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः ।यो असौ राम प्रयुक्तेन शरेण विनिपातितः ॥४-१९-१९॥
+एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता ।शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती ॥४-१९-२०॥
+सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि ।हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम् ॥४-१९-२१॥
+क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् ।महावात समाविष्टम् महामेघ औघ निःस्वनम् ॥४-१९-२२॥
+शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् ।नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् ।शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम् ॥४-१९-२३॥
+अर्चितम् सर्व लोकस्य सपताक��् सवेदिकम् ।नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा ॥४-१९-२४॥
+अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् ।रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम् ॥४-१९-२५॥
+तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे ।समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ॥४-१९-२६॥
+सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी ।रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः ॥४-१९-२७॥
+ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव ।विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम् ॥४-१९-२८॥
+राम चाप विसृष्टेन शरेण अंतकरेण तम् ।दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥४-२०-१॥
+सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥४-२०-२॥
+वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥४-२०-३॥
+रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४-२०-४॥
+उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥४-२०-५॥
+अतीव खलु ते कांता वसुधा वसुधाधिप ।गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥४-२०-६॥
+व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥४-२०-७॥
+यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥४-२०-८॥
+निरानंदा निराशा अहम् निमग्ना शोक सागरे ।त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥४-२०-९॥
+हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥४-२०-१०॥
+सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥४-२०-११॥
+निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥४-२०-१२॥
+रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥
+कालो निःसंशयो नूनम् जीवित अंतकरः तव ।बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥४-२०-१४॥
+अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥४-२०-१५॥
+वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥४-२०-१६॥
+लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥४-२०-१७॥
+कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥४-२०-१८॥
+समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥४-२०-१९॥
+रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥
+सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥४-२०-२१॥
+किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥४-२०-२२॥
+तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥४-२०-२३॥
+किम् अंगदम् स अंगद वीर बाहोविहाय यातो असि अद्य चिरम् प्रवासम् ।न युक्तम् एवम् गुण संनिकृष्टम्विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥४-२०-२४॥
+यदि अप्रियम् किंचिद् असंप्रधार्यकृतम् मया स्यात् तव दीर्घ बाहो ।क्षमस्व मे तत् हरि वम्श नाथव्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥
+तथा तु तारा करुणम् रुदंतीभर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायम् अनिन्द्य वर्णाउपोपवेष्टुम् भुवि यत्र वाली ॥४-२०-२६॥
+ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् ।शनैः आश्वासयामास हनूमान् हरि यूथपः ॥४-२१-१॥
+गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् ।अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम् ॥४-२१-२॥
+शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे ।कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे ॥४-२१-३॥
+अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया ।आयत्या च विधेयानि समर्थानि अस्य चिन्तय ॥४-२१-४॥
+जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् ।तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम् ॥४-२१-५॥
+यस्मिन् हरि सहस्राणि शतानि नियुतानि च ।वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः ॥४-२१-६॥
+यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः ।गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि ॥४-२१-७॥
+सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः ।हरि ऋक्ष पत�� राज्यम् च त्वत् सनाथम् अनिन्दिते ॥४-२१-८॥
+तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि ।त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम् ॥४-२१-९॥
+संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् ।राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः ॥४-२१-१०॥
+संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् ।सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि ॥४-२१-११॥
+सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता ।अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम् ॥४-२१-१२॥
+अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् ।हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम् ॥४-२१-१३॥
+न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा ।पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः ॥४-२१-१४॥
+न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति ।पिता हि बंधुः पुत्रस्य न माता हरि सत्तम ॥४-२१-१५॥
+न हि मम हरि राज संश्रयात्क्षमतरम् अस्ति परत्र च इह वा ।अभिमुख हत वीर सेवितम्शयनम् इदम् मम सेवितुम् क्षमम् ॥४-२१-१६॥
+वीक्षमाणः तु मंदासुः सर्वतो मंदम् उच्छ्वसन् ।आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतः ॥४-२२-१॥
+तम् प्राप्त विजयम् वाली सुग्रीवम् प्लवग ईश्वरम् ।आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् ॥४-२२-२॥
+सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् ।कृष्यमाणम् भविष्येण बुद्धि मोहेन माम् बलात् ॥४-२२-३॥
+युगपद् विहितम् तात न मन्ये सुखम् अवयोः ।सौहार्दम् भ्रातृ युक्तम् हि तद् इदम् जातम् अन्यथा ॥४-२२-४॥
+प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वन ओकसाम् ।माम् अपि अद्य एव गच्छंतम् विद्धि वैवस्वत क्षयम् ॥४-२२-५॥
+जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् ।प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः ॥४-२२-६॥
+अस्याम् त्वम् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः ।यदि अपि असुकरम् राजन् कर्तुम् एव तद् अर्हसि ॥४-२२-७॥
+सुखार्हम् सुख संवृद्धम् बालम् एनम् अबालिशम् ।बाष्प पूर्ण मुखम् पश्य भूमौ पतितम् अंगदम् ॥४-२२-८॥
+मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् ।मया हीनम् अहीनार्थम् सर्वतः परिपालय ॥४-२२-९॥
+त्वम् अपि अस्य पिता दाता च परित्राता च सर्वतः ।भयेषु अभयदः चैव यथा अहम् प्लवगेश्वर ॥४-२२-१०॥
+एष तारात्मजः श्रीमान् त्वया तुल्य पराक्रमः ।रक्षसाम् च वधे तेषाम् अग्रतः ते भविष्यति ���४-२२-११॥
+अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।करिष्यति एष तारेयः तरस्वी तरुणो अंगदः ॥४-२२-१२॥
+सुषेण दुहिता च इयम् अर्थ सूक्ष्म विनिश्चये ।औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥४-२२-१३॥
+यद् एष साधु इति ब्रूयात् कार्यम् तन् मुक्त संशयम् ।न हि तारा मतम् किंचित् अन्यथा परिवर्तते ॥४-२२-१४॥
+राघवस्य च ते कार्यम् कर्तव्यम् अविशंकया ।स्यात् अधर्मो हि अकरणे त्वाम् च हिंस्यात् अमानितः ॥४-२२-१५॥
+इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव कांचनीम् ।उदारा श्रीः स्थिता हि अस्याम् संप्रजह्यात् मृते मयि ॥४-२२-१६॥
+इति एवम् उक्तः सुग्रीवो वालिना भ्रातृ सौहृदात् ।हर्षम् त्यक्त्वा पुनर् दीनो ग्रह ग्रस्त इव उडु राट् ॥४-२२-१७॥
+तत् वालि वचनात् शान्तः कुर्वन् युक्तम् अतंद्रितः ।जग्राह सो अभ्यनुज्ञातो मालाम् ताम् चैव कांचनीम् ॥४-२२-१८॥
+ताम् मालाम् कांचनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् ।संसिद्धः प्रेत्य भावाय स्नेहात् अंगदम् अब्रवीत् ॥४-२२-१९॥
+देश कालौ भजस्व अद्य क्षममाणः प्रिय अप्रिये ।सुख दुःख सहः काले सुग्रीव वशगो भव ॥४-२२-२०॥
+यथा हि त्वम् महाबाहो लालितः सततम् मया ।न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते ॥४-२२-२१॥
+ना अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम ।भर्तुः अर्थ परो दान्तः सुग्रीव वशगो भव ॥४-२२-२२॥
+न च अतिप्रणयः कार्यः कर्तव्यो अप्रणयः च ते ।उभयम् हि महादोषम् तस्मात् अंतर दृक् भव ॥४-२२-२३॥
+इति उक्त्वा अथ विवृत्त अक्षः शर संपीडितो भृशम् ।विवृतैः दशनैः भीमैः बभूव उत्क्रान्त जीवितः ॥४-२२-२४॥
+ततो विचुक्रुशुर् तत्र वानरा हत यूथपाः ।परिदेवयमानाः ते सर्वे प्लवग सत्तमाः ॥४-२२-२५॥
+किष्किन्धा हि अथ शून्या च स्वर् गते वानरेश्वरे ।उद्यानानि च शून्यानि पर्वताः कानानि च ॥४-२२-२६॥
+हते प्लवग शार्दूले निष् प्रभा वानराः कृताः ।यस्य वेगेन महता काननानि वनानि च ॥४-२२-२७॥
+पुष्प ओघेण अनुबद्धन्ते करिष्यति तत् अद्य कहः ।येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः ॥४-२२-२८॥
+गोलभस्य महाबाहुः दश वर्षाणि पंच च ।न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति ॥४-२२-२९॥
+ततः षोडशमे वर्षे गोलभो विनिपातितः ।तम् हत्वा दुर्विनीतिम् तु वाली दंष्ट्र करालवान् ।सर्वा अभयम् करः अस्माकम् कथम् एष निपातितः ॥४-२२-३०॥
+हते तु वीरे प���लवगाधिपे तदाप्लवंगमाः तत्र न शर्म लेभिरे ।वने चराः सिंह युते महावनेयथा हि गावो निहते गवाम् पतौ ॥४-२२-३१॥
+ततः तु तारा व्यसन अर्णव प्लुतामृतस्या भर्तुर् वदनम् समीक्ष्य सा ।जगाम भूमिम् परिरभ्य वालिनम्महा द्रुमम् छिन्नम् इव आश्रिता लता ॥४-२२-३२॥
+ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् ।पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत् ॥४-२३-१॥
+शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम ।उपल उपचिते वीर सुदुःखे वसुधा तले ॥४-२३-२॥
+मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव ।शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे ॥४-२३-३॥
+सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो ।सुग्रीव एव विक्रांतो वीर साहसिक प्रिय ॥४-२३-४॥
+ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते ।तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः ॥४-२३-५॥
+मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे ।इदम् तत् वीर शयनम् तत्र शेषे हतो युधि ॥४-२३-६॥
+शायिता निहता यत्र त्वया एव रिपवः पुरा ।विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय ॥४-२३-७॥
+माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद ।शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥४-२३-८॥
+शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् ।अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः ॥४-२३-९॥
+अगाधे च निमग्ना अस्मि विपुले शोक सागरे ।अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम् ॥४-२३-१०॥
+भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् ।सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः ॥४-२३-११॥
+प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः ।पति हीना तु या नारी कामम् भवतु पुत्रिणी ॥४-२३-१२॥
+धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः ।स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले ॥४-२३-१३॥
+कृमि राग परिस्तोमे स्वकीये शयने यथा ।रेणु शोणित संवीतम् गात्रम् तव समंततः ॥४-२३-१४॥
+परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ ।कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे ॥४-२३-१५॥
+यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् ।शरेण हृदि लग्नेन गात्र संस्पर्शने तव ॥४-२३-१६॥
+वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते ।उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा ॥४-२३-१७॥
+गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा ।तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥४-२३-१८॥
+अस्त मस���तक संरुद्धो रश्मिः दिनकरात् इव ।पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः ॥४-२३-१९॥
+ताम्र गैरिक संपृक्ता धारा इव धरा धरात् ।अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना ॥४-२३-२०॥
+अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् ।रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम् ॥४-२३-२१॥
+उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना ।अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम् ॥४-२३-२२॥
+संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा ।बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम् ॥४-२३-२३॥
+अभिवादय राजानम् पितरम् पुत्र मानदम् ।एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः ॥४-२३-२४॥
+भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् ।अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा ॥४-२३-२५॥
+दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे ।अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् ।सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम् ॥४-२३-२६॥
+इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा ।अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना ॥४-२३-२७॥
+या दत्ता देव राजेन तव तुष्टेन संयुगे ।शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम् ॥४-२३-२८॥
+राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद ।सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा ॥४-२३-२९॥
+न मे वचः पथ्यम् इदम् त्वया कृतम्न च अस्मि शक्ता हि निवारणे तव ।हता सपुत्रा अस्मि हतेन संयुगेसह त्वया श्रीः विजहाति माम् अपि ॥४-२३-३०॥
+तम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक महार्णवेन ।पश्यन् तदा वालि अनुजः तरस्वी भ्रात्रुः वधेन अप्रतिमेन तेपे ॥४-२४-१॥
+स बाष्प पूर्णेन मुखेन् पश्यन् क्षणेन निर्विण्ण मना मनस्वी ।जगाम रामस्य शनैः समीपम् भृत्यैः वृत्तः संपरिदूयमानः ॥४-२४-२॥
+स तम् समासाद्य गृहीत चापम् उदात्तम् आशी विष तुल्य बाणम् ।यशश्विनम् लक्षण लक्षित अंगम् अवस्थितम् राघवम् इति उवाच ॥४-२४-३॥
+यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृउष्ट फलम् च कर्म ।मम अद्य भोगेषु नरेन्द्र सूनो मनो निवृत्तम् हत जिवितेन ॥४-२४-४॥
+अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख तप्ते ।हते नृपे संशयिते अंगदे च न राम राज्ये रमते मनो मे ॥४-२४-५॥
+क्रोधाद् अमर्षाद् अतिविप्रधर्षाद् भ्रातुर् वधो मे अनुमतः पुरस्तात् ।���ते तु इदानीम् हरि यूधपे अस्मिन् सुतीक्ष्णम् इक्ष्वाकु वर प्रतप्स्ये ॥४-२४-६॥
+श्रेयो अद्य मन्ये मम शैल मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके ।यथा तथा वर्तयतः स्व वृत्या न इमम् निहत्य त्रिदिवसय लाभः ॥४-२४-७॥
+न त्वा जिघांसामि चर इति यत् माम् अयम् महात्मा मतिमान् उवाच ।तस्य एवे तत् राम वचो अनुरूपम् इदम् वचः कर्म च मे अनुरूपम् ॥४-२४-८॥
+भ्राता कथम् नाम महा गुणस्य भ्रातुर् वधम् राम विरोचयेत ।राजस्य दुःखस्य च वीर सारम् विचिन्तयन् काम पुरस्कृतो अपि ॥४-२४-९॥
+वधो हि मे मतो न असीत् स्व महात्म्या अव्यतिक्रमात् ।मम आसीत् बुद्धिः दुरात्म्यात् प्राण हारी व्यतिक्रमः ॥४-२४-१०॥
+द्रुम शाका अवभग्नो अहम् मुहुर्तम् परिनिष्टनन् ।स्वान्तयित्वा अनेन उक्तः न पुनः कर्तुम् अर्हसि ॥४-२४-११॥
+भ्रातृत्वम् आर्य भावः च धर्मः च अनेन रक्षितः ।मया क्रोधः च कामः च कपित्वम् च प्रदर्शितम् ॥४-२४-१२॥
+अचिंतनीयम् परिवर्जनीयम्अनीप्सनीयम् न अन्वेक्षणीयम् ।प्राप्तो अस्मि पाप्मानम् वयस्यभ्रातुः वध त्वाष्ट्र वधात् इव इन्द्रः ॥४-२४-१३॥
+पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च ।को नाम पाप्मानम् इमम् सहेत शाखा मृगस्य प्रतिपत्तुम् इच्छेत् ॥४-२४-१४॥
+ना अर्हामि सन्मानम् इमम् प्रजानाम् न यौव राज्यम् कुत एव राज्यम् ।अधर्म युक्तम् कुल नाश युक्तम् एवम् विधम् राघव कर्म कृत्वा ॥४-२४-१५॥
+पापस्य कर्ता अस्मि विगर्हितस्यक्षुद्रस्य लोक अपकृतस्य लोके ।शोको महान् मम अभिवर्तते अयम्वृष्टेः यथा निम्नम् इव अम्बु वेगः ॥४-२४-१६॥
+सोदर्य अघाता अपर गात्र वालः संताप हस्त अक्षि शिरो विषाणः ।एनोमयो माम् अभिहन्ति हस्ती दृप्तो नदी कूलम् इव प्रवृद्धः ॥४-२४-१७॥
+अंहो बतेदम् नृ वर अविषह्य निवर्तते मे हृदि साधु वृत्तम् ।अग्नौ विवर्णम् परितप्य मानम् किट्टम् यथा राघव जात रूपम् ॥४-२४-१८॥
+महा बलानाम् हरि यूथपानाम् इदम् कुलम् राघव मन् निमित्तम् ।अस्य अंगदस्य अपि च शोक तापात् अर्थ स्थित प्राणम् इतीव मन्ये ॥४-२४-१९॥
+सुतः सुलभः सुजनः सुवश्यः कुतः तु पुत्रः सदृशः अंगदेन ।न च अपि विद्येत स वीर देशो यस्मिन् भवेत् सोदर संनिकर्षः ॥४-२४-२०॥
+अद्य अंगदो वीर वरो न जीवेत् जीवेत माता परि पालनार्थम् ।विना तु पुत्रम् परिताप दीना सा नैव जीवेत् इत् निश्चितम् मे ॥४-२४-२१॥
+सो अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम्भ्रत्रा च पुत्रेण च सख्यम् इच्छन् ।इमे विचेष्यन्ति हरि प्रवीराःसीताम् निदेशे परिवर्तमानाः ॥४-२४-२२॥
+कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुजेन्द्र पुत्र ।कुलस्य हन्तारम् अजीवन अर्हम् राम अनुजानीहि कृत अगसम् माम् ॥४-२४-२३॥
+इति एवम् आर्तस्य रघु प्रवीरः श्रुत्वा वचो वालि जघन्य जस्य ।संजात बाष्प पर वीर हन्ता रामो मुहूर्तम् विमना बभूव ॥४-२४-२४॥
+तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति क्षमावान् भुवनस्य गोप्ता ।रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम् ॥४-२४-२५॥
+ताम् चारु नेत्राम् कपि सिंह नाथाम् पतिम् समाश्लिष्य तद शयानाम् ।उत्थापयामासुः अदीन सत्त्वाम् मंत्रि प्रधानाः कपि राज पत्नीम् ॥४-२४-२६॥
+सा विस्फुरंती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना ।ददर्श रामम् शर चाप पाणिम् स्व तेजसा सूर्यम् इव ज्वलंतम् ॥४-२४-२७॥
+सु संवृत्तम् पार्थिव लक्षणैः च तम् चारु नेत्रम् मृगशाव नेत्रा ।अदृष्ट पूर्वम् पुरुष प्रधानम् अयम् स काकुत्स्थ इति प्रजज्ञे ॥४-२४-२८॥
+तस्य इन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपम् आर्या ।आर्त अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती ॥४-२४-२९॥
+तम् सा समासाद्य विशुद्ध सत्त्वम् शोकेन संभ्रांत शरीर भावा ।मनस्विनी वाक्यम् उवाच तारा रामम् रण उत्कर्षण लब्ध लक्ष्यम् ॥४-२४-३०॥
+त्वम् अप्रमेयः च दुरासदः च जितेन्द्रियः च उत्तम धर्मकः च ।अक्षीण कीर्तिः च विचक्षणः च क्षिति क्षमवान् क्षतजोपमा अक्षः ॥४-२४-३१॥
+त्वम् आत्त बाणासन बाण पाणिः महाबलः संहनन उपपन्नः ।मनुष्य देहाभुदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः ॥४-२४-३२॥
+एन एव बाणेन हतः प्रियो मे तेन एव बाणेन हि माम् जहि हि ।हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली ॥४-२४-३३॥
+स्वर्गे अपि पद्म अमल पत्र नेत्र समेत्य संप्रेक्ष्य च माम् अपश्यन् ।न हि एष उच्चावच ताम्र चूडा विचित्र वेषाः अप्सरो अभजिष्यत् ॥४-२४-३४॥
+स्वर्गे अपि शोकम् विवर्णताम् च मया विना प्राप्स्यति वीर वाली ।रम्ये नगेन्द्रस्य तटा अवकाशे विदेह कन्या अरहितो यथा त्वम् ॥४-२४-३५॥
+त्वम् वेत्थ तावत् वनिता विहीनःप्राप्नोति दुःखम् पुरुषः कुमारः ।तत् त्वम् प्रजानन् जहि माम् न वालीदुःखम् मम अदर्शनजम् भजेत ॥४-२४-३६॥
+यत् च अपि मन्येत भवान् महात्मास्त्री घात दोषः तु भवेन् न मह्यम् ।आत्मा इयम् अस्य इति हि माम् जहि त्वम्न स्त्री वधः स्यात् मनुजेन्द्र पुत्र ॥४-२४-३७॥
+शास्त्र प्रयोगात् विविधाः च वेदात् अनन्य रूपाः पुरुषस्य दाराः ।दार प्रदानात् न हि दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके ॥४-२४-३८॥
+त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर ।अनेन दानेन न लप्स्यसे त्वम् अधर्म योगम् मम वीर घातात् ॥४-२४-३९॥
+आर्ताम् अनाथाम् अपनीयमानाम् एवम् गताम् न अर्हसि माम् अहन्तुम् ।अहम् हि मातंग विलास गामिना प्लवंगमानाम् ऋषभेण धीमता ।विना वरार्होत्तम हेम मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम् ॥४-२४-४०॥
+इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे ।मा वीर भार्ये विमतिम् कुरुष्व लोको हि सर्वो विहितो विधात्रा ॥४-२४-४१॥
+तम् चैव सर्वम् सुख दुःख योगम् लोको अब्रवीत् तेन कृतम् विधात्रा ।त्रयो अपि लोका विहितम् विधानम् न अति क्रमन्ते वशगा हि तस्य ॥४-२४-४२॥
+प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्रप्स्यति यौव राज्यम् ।धात्र विधानम् विहितम् तथा एव न शूर पत्न्यः परिदेवयन्ति ॥४-२४-४३॥
+आश्वासिता तेन महत्मना तु प्रभाव युक्तेन परंतपेन ।सा वीर पत्नी ध्वनता मुखेन सुवेष रूपा विरराम् तारा ॥४-२४-४४॥
+स सुग्रीवम् च ताराम् च स अंगदाम् सह लक्ष्मणः ।समान शोकः काकुत्स्थः सांत्वयन् इदम् अब्रवीत् ॥४-२५-१॥
+न शोक परितापेन श्रेयसा युज्यते मृतः ।यद् अत्र अनंतरम् कार्यम् तत् समाधातुम् अर्हथ ॥४-२५-२॥
+लोक वृत्तम् अनुष्ठेयम् कृतम् वो बाष्प मोक्षणम् ।न कालाद् उत्तरम् किंचित् कर्म शक्यम् उपासितुम् ॥४-२५-३॥
+नियतिः कारणम् लोके नियतिः कर्म साधनम् ।नियतिः सर्व भूतानाम् नियोगेषु इह कारणम् ॥४-२५-४॥
+न कर्ता कस्यचित् कश्चित् नियोगे च अपि न ईश्वरः ।स्वभावे वर्तते लोकः तस्य कालः परायणम् ॥४-२५-५॥
+न कालः कालम् अत्येति न कालः परिहीयते ।स्वभावम् च समासाद्य न कश्चित् अतिवर्तते ॥४-२५-६॥
+न कालस्य अस्ति बंधुत्वम् न हेतुर् न पराक्रमः ।न मित्र ज्ञाति संबन्धः कारणम् न आत्मनो वशः ॥४-२५-७॥
+किम् तु काल परीणामो द्रष्टव्यः साधु पश्यता ।धर्मः च अर्थः च कामः च कालक्रम समाहिताः ॥४-२५-८॥
+इतः स्वाम् प्रकृतिम��� वाली गतः प्राप्तः क्रिया फलम् ।साम दान अर्थ संयोगैः पवित्रम् प्लवग ईश्वर ॥४-२५-९॥
+स्व धर्मस्य च संयोगात् जितः तेन महात्मना ।स्वर्गः परिगृहीतः च प्राणान् अपरिरक्षता ॥४-२५-१०॥
+एषा वै नियतिः श्रेष्ठा याम् गतो हरि यूथपः ।तत् अलम् परितापेन प्राप्त कालम् उपास्यताम् ॥४-२५-११॥
+वचन अन्ते तु रामस्य लक्ष्मणः पर वीर हा ।अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत चेतसम् ॥४-२५-१२॥
+कुरु त्वम् अस्य सुग्रीव प्रेत कार्यम् अनंतरम् ।तारा अंगदाभ्याम् सहितो वालिनो दहनम् प्रति ॥४-२५-१३॥
+समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।चन्दनानि च दिव्यानि वालि संस्कार कारणात् ॥४-२५-१४॥
+समाश्वासय दीनम् त्वम् अंगदम् दीन चेतसम् ।मा भूः बालिश बुद्धिः त्वम् त्वत् अधीनम् इदम् पुरम् ॥४-२५-१५॥
+अंगदः तु आनयेत् माल्यम् वस्त्राणि विविधानि च ।घृतम् तैलम् अथो गन्धान् यत् च अत्र समनंतरम् ॥४-२५-१६॥
+त्वम् तार शिबिकाम् शीघ्रम् आदाय आगच्छ संभ्रमात् ।त्वरा गुणवती युक्ता हि अस्मिन् काले विशेषतः ॥४-२५-१७॥
+सज्जी भवन्तु प्लवगाः शिबिक वाहन उचिताः ।समर्था बलिनः चैव निर्हरिष्यन्ति वालिनम् ॥४-२५-१८॥
+एवम् उक्त्वा तु सुग्रीवम् सुमित्र आनन्द वर्धनः ।तस्थौ भ्रातृ समीपस्थो लक्ष्मणः पर वीरहा ॥४-२५-१९॥
+लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्त मानसः ।प्रविवेश गुहाम् शीघ्रम् शिबिका आसक्त मानसः ॥४-२५-२०॥
+आदाय शिबिकाम् तारः स तु पर्यापयत् पुनः ।वानरैः उह्यमानाम् ताम् शूरैः उद्वहन उचितैः ॥४-२५-२१॥
+दिव्याम् भद्र आसन युताम् शिबिकाम् स्यंदन उपमम् ।पक्षि कर्मभिः आचित्राम् द्रुम कर्म विभूषिताम् ॥४-२५-२२॥
+अचिताम् चित्र पत्तीभिः सुनिविष्टाम् समंततः ।विमानम् इव सिद्धानाम् जाल वात आयान आयुताम् ॥४-२५-२३॥
+सुनियुक्तानाम् विशालाम् च सुकृताम् शिल्पिभिः कृतात् ।दारु पर्वतकोपेताम् चारु कर्म परिष्कृताम् ॥४-२५-२४॥
+वर आभरण हारैः च चित्र माल्य उपशोभिताम् ।गुहागहन संच्छन्नाम् रक्त चन्दन भूषिताम् ॥४-२५-२५॥
+पुष्प ओघैः समभिच्छन्नाम् पद्म मालाभिः एव च ।तरुण आदित्य वर्णाभिः भ्राजमानभिः आवृताम् ॥४-२५-२६॥
+ईदृशी शिबिकाम् दृष्ट्वा रमो लक्ष्मणम् अब्रवीत् ।क्षिप्रम् विनीयताम् वली प्रेत कार्यम् विधीयताम् ॥४-२५-२७॥
+ततो वालिनम् उद्यम्य सुग्रीवः शिबिकाम् तदा ।आरोपयत विक्रोशन् अं��देन सह एव तु ॥४-२५-२८॥
+आरोप्य शिबिकाम् चैव वालिनम् गत जीवितम् ।अलंकारैः च विविधैः माल्यैः वस्त्रैः च भूषितम् ॥४-२५-२९॥
+आज्ञापयत् तदा राजा सुग्रीवः प्लवग ईश्वरः ।और्ध्व देहिकम् आर्यस्य क्रियताम् अनुरूपतः ॥४-२५-३०॥
+विश्राणयन्तो रत्नानि विविधानि बहूनि च ।अग्रतः प्लवगा यान्तु शिबिका तद् अनंतरम् ॥४-२५-३१॥
+राज्ञाम् ऋद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ।तादृशैः इह कुर्वन्तु वानरा भ्रतृउ सत् क्रियाम् ॥४-२५-३२॥
+तादृशम् वालिनः क्षिप्रम् प्राकुर्वन् और्ध्वदैहिकम् ।अंगदम् परिरभ्य आशु तार प्रभृतयः तथा ॥४-२५-३३॥
+क्रोशन्तः प्रययुः सर्वे वानरा हत बान्धवाः ।ततः प्रणिहिताः सर्वा वानर्यो अस्य वशानुगाः ॥४-२५-३४॥
+चुक्रुशुः वीर वीर इति भूयः क्रोशन्ती ताः प्रियम् ।तारा प्रभृतयः सर्वा वानर्यो हत बान्धव ॥४-२५-३५॥
+अनुजग्मुः च भर्तारम् क्रोशंत्यः करुण स्वनाः ।तासाम् रुदित शब्देन वानरीणाम् वन अंतरे ॥४-२५-३६॥
+वनानि गिरयः चैव विक्रोशंति इव सर्वतः ।पुलिने गिरि नद्याः तु विविक्ते जल संवृते ॥४-२५-३७॥
+चिताम् चक्रुः सुबहवो वानरा वन चारिणः ।अवरोप्य ततः स्कंधात् शिबिकाम् वानरोत्तमाः ॥४-२५-३८॥
+तस्थुः एकांतम् आश्रित्य सर्वे शोक परायणाः ।ततः तारा पतिम् दृष्ट्वा शिबिका तल शायिनम् ॥४-२५-३९॥
+आरोप्य अंके शिरः तस्य विललाप सुदुःखिता ।हा वानर महाराज हा नाथ माम् वत्सल ॥४-२५-४०॥
+हा महार्हः महाबाहो हा मम प्रिय पश्य माम् ।जनम् न पश्यसि इमम् त्वम् कस्मात् शोक अभिपीडितम् ॥४-२५-४१॥
+प्रहृष्टम् इह ते वक्त्रम् गत असोः अपि मानद ।अस्त अर्क सम वर्णम् च दृश्यते जीवतो यथा ॥४-२५-४२॥
+एष त्वाम् राम रूपेण कालः कर्षति वानर ।येन स्म विधवाः सर्वाः कृता एक इषुणा रणे ॥४-२५-४३॥
+इमाः ताः तव राजेन्द्र वानर्यो अप्लवगाः तव।पादैः विकृष्टम् अध्वानम् आगताः किम् न बुध्यसे ॥४-२५-४४॥
+तव इष्टा ननु चैव इमा भार्याः चन्द्र निभ आननाः ।इदानीम् न ईक्षसे कस्मात् सुग्रीवम् प्लवग ईश्वरम् ॥४-२५-४५॥
+एते हि सचिवा राजन् तार प्रभृतयः तव ।पुर वासि जनः च अयम् परिवार्य विषीदति ॥४-२५-४६॥
+विसर्जय एनान् सचिवान् यथा उचितम् अरिन्दम ।ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥४-२५-४७॥
+एवम् विलपतीम् ताराम् पति शोक परीवृताम् ।उत्थापयन्ति स्म तदा वानर्यः शोक कर्शिताः ॥४-२५-४८॥
+सुग्रीवेण त��ः सार्धम् अंगदः पितरम् रुदन् ।चिताम् आरोपयामास शोकेन अभिप्लुत इन्द्रियः ॥४-२५-४९॥
+ततो अग्निम् विधिवत् दत्त्वा सो अपसव्यम् चकार ह ।पितरम् दीर्घम् अध्वानम् प्रस्थितम् व्याकुल इन्द्रियः ॥४-२५-५०॥
+संस्कृत्य वालिनम् तम् तु विधिवत् प्लवगर्षभाः ।आजग्मुः उदकम् कर्तुम् नदीम् शुभ जलाम् शिवाम् ॥४-२५-५१॥
+ततः ते सहिताः तत्र हि सः अंगदम् स्थाप्य च अग्रतः ।सुग्रीव तारा सहिताः सिषिचुः वानरा जलम् ॥४-२५-५२॥
+सुग्रीवेण एव दीनेन दीनो भूत्वा महाबलः ।समान शोकः काकुत्स्थः प्रेत कार्याणि अकारयत् ॥४-२५-५३॥
+ततो अथ तम् वालिनम् अग्र्य पौरुषम्प्रकाशम् इक्ष्वाकु वर इषुणा हतम् ।प्रदीप्य दीप्त अग्नि सम ओजसम् तदास लक्ष्मणम् रामम् उपेयवान् हरिः ॥४-२५-५४॥
+ततः शोक अभिसंतप्तम् सुग्रीवम् क्लिन्न वासनम् ।शाखा मृग महामात्राः परिवार्य उपतस्थिरे ॥४-२६-१॥
+अभिगम्य महाबाहुम् रामम् अक्लिष्ट कारिणम् ।स्थिताः प्रांजलयः सर्वे पितामहम् इव ऋषयः ॥४-२६-२॥
+ततः कांचन शैल आभः तरुण अर्क निभ आननः ।अब्रवीत् प्रांजलिर् वाक्यम् हनुमान् मारुत आत्मजः ॥४-२६-३॥
+भवत् प्रसादात् काकुत्स्थ पितृ पैतामहम् महत् ।वानराणाम् सुदंष्ट्राणाम् संपन्न बलशालिनाम् ॥४-२६-४॥
+महात्मानाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो ।भवता समनुज्ञातः प्रविश्य नगरम् शुभम् ॥४-२६-५॥
+संविधास्यति कार्याणि सर्वाणि ससुहृत् गणः।स्नातो अयम् विविधैर् गन्धैर् औषधैः च यथा विधि ॥४-२६-६॥
+अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः ।इमाम् गिरि गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि ॥४-२६-७॥
+कुरुष्व स्वामि संबन्धम् वानरान् संप्रहर्षयन् ।एवम् उक्तो हनुमता राघवः पर वीरहा ॥४-२६-८॥
+प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य कोविदः ।चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम् ॥४-२६-९॥
+न प्रवेक्ष्यामि हनुमन् पितुर् निर्देश पालकः ।सुसमृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानरर्षभः ॥४-२६-१०॥
+प्रविष्टो विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् ।एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् ॥४-२६-११॥
+वृत्तज्ञो वृत्त संपन्नम् उदार बल विक्रमम् ।इमम् अपि अंगदम् वीरम् यौवराज्ये अभिषेचय ॥४-२६-१२॥
+ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च ।अंगदो अयम् अदीनात्मा यौवराज्यस्य भाजनम् ��४-२६-१३॥
+पूर्वो अयम् वार्षिको मासः श्रावणः सलिल आगमः ।प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥४-२६-१४॥
+न अयम् उद्योग समयः प्रविश त्वम् पुरीम् शुभाम् ।अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सह लक्ष्मणः ॥४-२६-१५॥
+इयम् गिरि गुहा रम्या विशाला युक्त मारुता ।प्रभूत सलिला सौम्य प्रभूत कमल उत्पला ॥४-२६-१६॥
+कार्तिके समनुप्राप्ते त्वम् रावण वधे यत ।एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् ॥४-२६-१७॥
+अभिषिंचस्व राज्ये च सुहृदः संप्रहर्षय ।इति राम अभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥४-२६-१८॥
+प्रविवेश पुरीम् रम्याम् किष्किंधाम् वालि पालिताम् ।तम् वानर सहस्राणि प्रविष्टम् वानर ईश्वरम् ॥४-२६-१९॥
+अभिवार्य प्रहृष्टानि सर्वतः प्लवगेश्वरम् ।ततः प्रकृतयः सर्वा दृष्ट्वा हरि गण ईश्वरम् ॥४-२६-२०॥
+प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः ।सुग्रीवः प्रकृतीः सर्वाः संभाष्य उत्थाप्य वीर्यवान् ॥४-२६-२१॥
+भ्रातुर् अंतः पुरम् सौम्यम् प्रविवेश महाबलः ।प्रविष्टम् भीम विक्रांतम् सुग्रीवम् वानरर्षभम् ॥४-२६-२२॥
+अभ्यषिंचंत सुहृदः सहस्राक्षम् इव अमराः ।तस्य पाण्डुरम् आजह्रुः छत्रम् हेम परिष्कृतम् ॥४-२६-२३॥
+शुक्ले च वाल व्यजने हेम दण्डे यशस्करे ।तथा सर्वाणि रत्नानि सर्व बीज औषधानि च ॥४-२६-२४॥
+स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च ।शुक्लानि चैव वस्त्राणि श्वेतम् चैव अनुलेपनम् ॥४-२६-२५॥
+सुगंधीनि च माल्यानि स्थलजानि अंबुजानि च ।चन्दनानि च दिव्यानि गन्धाम् च विविधान् बहून् ॥४-२६-२६॥
+अक्षतम् जात रूपम् च प्रियंगु मधु सर्पिषी ।दधि चर्म च वैयाघ्रम् परार्ध्ये च अपि उपानहौ ॥४-२६-२७॥
+समालंभनम् आदाय गोरोचनम् मनः शिलाम् ।आजग्मुः तत्र मुदिता वराः कन्याः च षोडश ॥४-२६-२८॥
+ततः ते वानर श्रेष्ठम् अभिषेक्तुम् यथा विधि ।रत्नैर् वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान् ॥४-२६-२९॥
+ततः कुश परिस्तीर्णम् समिद्धम् जात वेदसम् ।मंत्र पूतेन हविषा हुत्वा मंत्रविदो जनाः ॥४-२६-३०॥
+ततो हेम प्रतिष्ठाने वर आस्तरण संवृते ।प्रासाद शिखरे रम्ये चित्र माल्य उपशोभिते ॥४-२६-३१॥
+प्राङ्मुखम् विधिवत् मंत्रैः स्थापयित्वा वर आसने ।नदी नदेभ्यः संहृत्य तीर्थेभ्यः च समंततः ॥४-२६-३२॥
+आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।अपः कनक कुं���ेषु निधाय विमलम् जलम् ॥४-२६-३३॥
+शुभैः वृषभ शृन्गैः च कलशैः च एव कांचनैः ।शास्त्र दृष्टेन विधिना महर्षि विहितेन च ॥४-२६-३४॥
+गजो गवाक्षो गवयः शरभो गंधमादनः ।मैन्दः च द्विविदः चैव हनूमान् जांबवान् तथा ॥४-२६-३५॥
+अभ्यषिंचंत सुग्रीवम् प्रसन्नेन सुगंधिना ।सलिलेन सहस्राक्षम् वसवो वासवम् यथा ॥४-२६-३६॥
+अभिषिक्ते तु सुग्रीवे सर्वे वानर पुंगवाः ।प्रचुक्रुशुर् महात्मानो हृष्टाः शत सहस्रशः ॥४-२६-३७॥
+रामस्य तु वचः कुर्वन् सुग्रीवो हरि पुंगवः ।अंगदम् संपरिष्वज्य यौवराज्ये अभिषेचयत् ॥४-२६-३८॥
+अंगदे च अभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।साधु साधु इति सुग्रीवम् महात्मानो हि अपूजयन् ॥४-२६-३९॥
+रामम् च एव महात्मानम् लक्ष्मणम् च पुनः पुनः ।प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४-२६-४०॥
+हृष्ट पुष्ट जन आकीर्णा पताका ध्वज शोभिता ।बभूव नगरी रम्या क्षिकिंधा गिरि गह्वरे ॥४-२६-४१॥
+निवेद्य रामाय तदा महात्मनेमहा अभिषेकम् कपि वाहनी पतिः ।रुमाम् च भार्याम् उपलभ्य वीर्यवान्अवाप राज्यम् त्रिदश अधिपो यथा ॥४-२६-४२॥
+अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम् ॥४-२७-१॥
+शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् ।नाना गुल्म लता गूढम् बहु पादप संकुलम् ॥४-२७-२॥
+ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् ।मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम् ॥४-२७-३॥
+तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् ।प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह ॥४-२७-४॥
+कृत्वा च समयम् रामः सुग्रीवेण सह अनघ ।काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन ॥४-२७-५॥
+विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् ।इयम् गिरि गुहा रम्या विशाला युक्त मारुता ॥४-२७-६॥
+अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम ।गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज ॥४-२७-७॥
+श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् ।नाना धातु समाकीर्णम् नदी दर्दुर संयुतम् ॥४-२७-८॥
+विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् ।नाना विहग संघुष्टम् मयूर वर नादितम् ॥४-२७-९॥
+मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः ।कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम् ॥४-२७-१०॥
+इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः ।न अति दूरे गुहाया नौ भ���िष्यति नृपात्मज ॥४-२७-११॥
+प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति ।पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति ॥४-२७-१२॥
+गुहा द्वारे च सौमित्रे शिला सम तला शिवा ।कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा ॥४-२७-१३॥
+गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् ।भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम् ॥४-२७-१४॥
+दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् ।कैलास शिखर प्रख्यम् नाना धातु विराजितम् ॥४-२७-१५॥
+प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् ।गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव ॥४-२७-१६॥
+चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः ।पद्मकैः सरलैः चैव अशोकैः चैव शोभितम् ॥४-२७-१७॥
+वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि ।हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः ॥४-२७-१८॥
+तीरजैः शोभिता भाति नाना रूपैः ततः ततः ।वसन आभरण उपेत प्रमद एव अभ्यलंकृता ॥४-२७-१९॥
+शतशः पक्षि सन्घैः च नाना नाद विनादिता ।एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता ॥४-२७-२०॥
+पुलिनैः अति रम्यैः च हंस सारस सेविता ।प्रहसंती इव भाति एषा नारी रत्न विभूषिता ॥४-२७-२१॥
+क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् ।क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः ॥४-२७-२२॥
+पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता ।रमणिया नदी सौम्य मुनि संघ निषेविता ॥४-२७-२३॥
+पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव ।ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम् ॥४-२७-२४॥
+अहो सुरमणीयो अयम् देशः शत्रु निषूदन ।दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे ॥४-२७-२५॥
+इतः च न अति दूरे सा किष्किंधा चित्र कानना ।सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥४-२७-२६॥
+गीत वादित्र निर्घोषः श्रूयते जयताम् वर ।नदताम् वानराणाम् च मृदंग आडंबरैः सह ॥४-२७-२७॥
+लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः ।ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम् ॥४-२७-२८॥
+इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः ।बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ ॥४-२७-२९॥
+सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे ।वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत् ॥४-२७-३०॥
+हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् ।उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः ॥४-२७-३१॥
+आविवेश न तम् निद्रा निशासु शयनम् गतम् ।तत् समुत्थेन शोकेन बाष्प उपहत चेतसम् ॥४-२७-३२॥
+तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् ।तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः ॥४-२७-३३॥
+अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि ।शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते ॥४-२७-३४॥
+भवान् क्रिया परो लोके भवान् देव परायणः ।आस्तिको धर्म शीलः च व्यवसायी च राघव ॥४-२७-३५॥
+न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः ।समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम् ॥४-२७-३६॥
+समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु ।ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि ॥४-२७-३७॥
+पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् ।परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम् ॥४-२७-३८॥
+शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः ।ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि ॥४-२७-३९॥
+अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये ।दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम् ॥४-२७-४०॥
+लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् ।राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत् ॥४-२७-४१॥
+वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च ।सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया ॥४-२७-४२॥
+एष शोकः परित्यक्तः सर्व कार्य अवसादकः ।विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम् ॥४-२७-४३॥
+शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव ।सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन् ॥४-२७-४४॥
+उपकारेण विरः तु प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः ॥४-२७-४५॥
+तत् एव युक्तम् प्रणिधाय लक्ष्मणःकृत अंजलि तत् प्रतिपूजय भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२७-४६॥
+यथोक्तम् एतत् तव सर्वम् ईप्सितम्नरेन्द्र कर्ता न चिरात् तु वानर ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२७-४७॥
+नियम्य कोपम् प्रतिपाल्यताम् शरत्क्षमस्व मासाम् चतुरो मया सह ।वस अचले अस्मिन् मृग राज सेवितेसंवर्तयन् शत्रु वधे समर्थः ॥४-२७-४८॥
+स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च ।वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् ॥४-२८-१॥
+अयम् स कालः संप्राप्तः समयो अद्य जल आगमः ।संपश्य त्वम् नभो मेघैः सं��ृतम् गिरि संनिभैः ॥४-२८-२॥
+नव मास धृतम् गर्भम् भास्करस्य गभस्तिभिः ।पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम् ॥४-२८-३॥
+शक्यम् अंबरम् आरुह्य मेघ सोपान पंक्तिभिः ।कुटज अर्जुन मालाभिः अलंकर्तुम् दिवाकरम् ॥४-२८-४॥
+संध्या राग उत्थितैः ताम्रैः अंतेषु अधिक पाण्डुरैः ।स्निग्धैः अभ्र पट च्छेदैः बद्ध व्रणम् इव अंबरम् ॥४-२८-५॥
+मन्द मारुत निःश्वासम् संध्या चंदन रंजितम् ।आपाण्डु जलदम् भाति काम आतुरम् इव अंबरम् ॥४-२८-६॥
+एषा घर्म परिक्लिष्टा नव वारि परिप्लुता ।सीता इव शोक संतप्ता मही बाष्पम् विमुंचति ॥४-२८-७॥
+मेघ उदर विनिर्मुक्ताः कर्पूर दल शीतलाः ।शक्यम् अंजलिभिः पातुम् वाताः केतकि गन्धिनः ॥४-२८-८॥
+एष फुल्ल अर्जुनः शैलः केतकैः अधिवासितः ।सुग्रीव इव शान्त अरिः धाराभिः अभिषिच्यते ॥४-२८-९॥
+मेघ कृष्ण अजिन धरा धारा यज्ञ उपवीतिनः ।मारुत आपूरित गुहाः प्राधीता इव पर्वताः ॥४-२८-१०॥
+कशाभिः इव हैमीभिः विद्युद्भिः इव ताडितम् ।अन्तः स्तनित निर्घोषम् सवेदनम् इव अंबरम् ॥४-२८-११॥
+नील मेघ आश्रिता विद्युत् स्फुरंती प्रतिभाति मे ।स्फुरंती रावणस्य अंके वैदेही इव तपस्विनी ॥४-२८-१२॥
+इमाः ता मन्मथवताम् हिताः प्रतिहता दिशः ।अनुलिप्ता इव घनैः नष्ट ग्रह निशा कराः ॥४-२८-१३॥
+क्वचित् बाष्प अभिसंरुद्धान् वर्ष आगम समुत्सुकान् ।कुटजान् पश्य सौमित्रे पुष्टितान् गिरि सानुषु ।मम शोक अभिभूतस्य काम सम्दीपनान् स्थितान् ॥४-२८-१४॥
+रजः प्रशांतम् स हिमो अद्य वायुःनिदाघ दोष प्रसराः प्रशांताः ।स्थिता हि यात्रा वसुधा अधिपानाम्प्रवासिनो यांति नराः स्व देशान् ॥४-२८-१५॥
+संप्रस्थिता मानस वास लुब्धाःप्रिय अन्विताः संप्रति चक्रवाकः ।अभीक्ष्ण वर्ष उदक विक्षतेषुयानानि मार्गेषु न संपतन्ति ॥४-२८-१६॥
+क्वचित् प्रकाशम् क्वचिद् अप्रकाशम्नभः प्रकीर्णा अंबु धरम् विभाति ।क्वचित् क्वचित् पर्वत संनिरुद्धम्रूपम् यथा शान्त महार्णवस्य ॥४-२८-१७॥
+व्यामिश्रितम् सर्ज कदंब पुष्पैःनवम् जलम् पर्वत धातु ताम्रम् ।मयूर केकाभिः अनुप्रयातम्शैल अपगाः शीघ्रतरम् वहन्ति ॥४-२८-१८॥
+रस आकुलम् षट्पद संनिकाशम्प्रभुज्यते जंबु फलम् प्रकामम् ।अनेक वर्णम् पवन अवधूतम्भूमौ पतति आम्र फलम् विपक्वम् ॥४-२८-१९॥
+विद्युत् पताकाः स बलाक मालाःशैलेन्द्र कूट आकृति संनिकाशा��� ।गर्जन्ति मेघाः समुदीर्ण नादामत्त गजेन्द्रा इव संयुगस्थाः ॥४-२८-२०॥
+वर्ष उदक आअप्यायित शाद्वलानिप्रवृत्त नृत्त उत्सव बर्हिणानि ।वनानि निर्वृष्ट बलाहकानिपश्य अपराह्णेषु अधिकम् विभान्ति ॥४-२८-२१॥
+सम् उद् वहन्तः सलिल अति भारम्बलाकिनो वारि धरा नदन्तः ।महत्सु शृंगेषु मही धराणाम्विश्रम्य विश्रम्य पुनः प्रयान्ति ॥४-२८-२२॥
+मेघ अभिकामा परिसंपतन्तीसम्मोदिता भाति बलाक पंक्तिः ।वात अवधूता वर पौण्डरीकीलंब इव माला रुचिर अंबरस्य ॥४-२८-२३॥
+बाल इन्द्रगोप्ता अंतर चित्रितेनविभाति भूमिः नव शाद्वलेन ।गात्र अनुपृक्तेन शुक प्रभेणनारी इव लाक्ष उक्षित कंबलेन ॥४-२८-२४॥
+निद्रा शनैः केशवम् अभ्युपैतिद्रुतम् नदी सागरम् अभ्युपैति ।हृष्टा बलाका घनम् अभ्युपैतिकान्ता स कामा प्रियम् अभ्युपैति ॥४-२८-२५॥
+जाता वनान्ताः शिखि सुप्रनृत्ताजाताः कदंबाः स कदंब शाखाः ।जाता वृषा गोषु समान कामाजाता मही सस्य वन अभिरामा ॥४-२८-२६॥
+वहन्ति वर्षन्ति नदन्ति भान्तिध्यायन्ति नृत्यन्ति समाश्वसन्ति ।नद्यो घना मत्त गजा वन अन्ताःप्रिया विहीनाः शिखिनः प्लवंगाः ॥४-२८-२७॥
+प्रहर्षिताः केतक पुष्प गन्धम्आघ्राय मत्ता वन निर्झरेषु ।प्रपात शब्द आकुलिता गजेन्द्राःसार्धम् मयूरैः स मदा नदन्ति ॥४-२८-२८॥
+धारा निपातैः अभिहन्यमानाःकदंब शाखासु विलंबमानाः ।क्षण अर्जितम् पुष्प रस अवगाढम्शनैर् मदम् षट् चरणाः त्यजन्ति ॥४-२८-२९॥
+अंगार चूर्ण उत्कर संनिकाशैःफलैः सुपर्याप्त रसैः समृद्धैः ।जंबू द्रुमाणाम् प्रविभान्ति शाखानिपीयमाना इव षट्पद ओघैः ॥४-२८-३०॥
+तडित् पताकाभिः अलंकृतानाम्उदीर्ण गंभीर महा रवाणाम् ।विभान्ति रूपाणि बलाहकानाम्रण उत्सुकानाम् इव वारणानाम् ॥४-२८-३१॥
+मार्ग अनुगः शैल वन अनुसारीसंप्रस्थितो मेघ रवम् निशम्य ।युद्ध अभिकामः प्रतिनाद शन्कीमत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥४-२८-३२॥
+क्वचित् प्रगीता इव षट्पद ओघैःक्वचित् प्रवृत्ता इव नील कण्ठैः ।क्वचित् प्रमत्ता इव वारण इन्द्रैःविभाति अनेक आश्रयिणो वनान्ता ॥४-२८-३३॥
+कदंब सर्जा अर्जुन कंदल आढ्यावनान्त भूमि मधु वारि पूर्णा ।मयूर मत्ता अभिरुत प्रवृत्तैःअपान भूमि प्रतिमा विभाति ॥४-२८-३४॥
+मुक्ता समाभम् सलिलम् पतत् वैसुनिर्मलम् पत्र पुटेषु लग्नम् ।हृष्टा विवर्ण च्छदना विहंगाःसु��ेन्द्र दत्तम् तृषिताः पिबन्ति ॥४-२८-३५॥
+षत्पद तंत्री मधुर अभिधानम्प्लवंगम् उदीरित कण्ठ तालम् ।आविष्कृतम् मेघ मृदंग नादैःवनेषु संगीतम् इव प्रवृत्तम् ॥४-२८-३६॥
+क्वचित् प्रनृत्तैः क्वचित् उन् नदद्भिःक्वचित् च वृक्ष अग्र निषण्ण कायैः ।व्यालंब बर्ह आभरणैः मयूरैःवनेषु संगितम् इव प्रवृत्तम् ॥४-२८-३७॥
+स्वनैः घनानाम् प्लवगाः प्रबुद्धाविहाय निद्राम् चिर संनिरुद्धाम् ।अनेक रूपा आकृति वर्ण नादानव अंबु धारा अभिहता नदन्ति ॥४-२८-३८॥
+नद्यः समुद्वाहित चक्रवाकातटानि शीर्णानि अपवाहयित्वा ।दृप्ता नव प्राभृत पूर्ण भोगाद्रुतम् स्व भर्तारम् उपोप यान्ति ॥४-२८-३९॥
+नीलेषु नीला नव वारि पूर्णामेघेषु मेघाः प्रविभान्ति सक्ताः ।दवाग्नि दग्धेषु दवाग्नि दग्धाःशैलेषु शैला इव बद्ध मूलाः ॥४-२८-४०॥
+प्रमत्त संनाददित बर्हिणानिस शक्रगोप अकुल शाद्वलानि ।चरन्ति नीप अर्जुन वासितानिगजाः सुरम्याणि वन अन्तराणि ॥४-२८-४१॥
+नव अंबु धार आहत केसराणिद्रुतम् परित्यज्य सरोरुहाणि ।कदंब पुष्पाणि स केसराणिनवानि हृष्टा भ्रमराः पिबन्ति ॥४-२८-४२॥
+मत्ता गजेन्द्रा मुदिता गवेन्द्रावनेषु विक्रांततरा मृगेन्द्राः ।रम्या नगेन्द्रा निभृता नरेन्द्राःप्रक्रीडितो वारि धरैः सुरेन्द्रः ॥४-२८-४३॥
+मेघाः समुद् भूत समुद्र नादामहाजल ओघैः गगन अवलंबाः ।नदीः तटाकानि सरांसि वापिःमहीम् च कृत्स्नाम् अपवाहयन्ति ॥४-२८-४४॥
+वर्ष प्रवेगा विपुला पतन्तिप्रवान्ति वाताः समुदीर्ण वेगाः ।प्रनष्ट कूलाः प्रवहन्ति शीघ्रम्नद्यो जलम् विप्रतिपन्न मार्गाः ॥४-२८-४५॥
+नरैः नरेन्द्रा इव पर्वतेन्द्राःसुरेन्द्र नीतैः पवन उपनीतैः ।घन अंबु कुम्भैः अभिषिच्यमानारूपम् श्रियम् स्वाम् इव दर्शयन्ति ॥४-२८-४६॥
+घन उपगूढम् गगनम् न तारान भास्करो दर्शनम् अभ्युपैति ।नवैः जल ओघैः धरणी वितृप्तातमो विलिप्ता न दिशः प्रकाशाः ॥४-२८-४७॥
+महान्ति कूटानि मही धराणाम्धारा विधौतानि अधिकम् विभान्ति ।महा प्रमाणैः विपुलैः प्रपातैःमुक्त कलापैः इव लंबमानैः ॥४-२८-४८॥
+शैलोपल प्रस्खलमान वेगाःशैलोत्तमानाम् विपुलाः प्रपाताः ।गुहासु संनादित बर्हिणासुहारा विकीर्यन्त इव अवभान्ति ॥४-२८-४९॥
+शीघ्र प्रवेगा विपुलाः प्रपातानिर्धौत शृंग उपतला गिरीणाम् ।मुक्ता कलाप प्रतिमाः पतन्तोमहा गुह उस्त्सं��� तलैः ध्रियन्ते ॥४-२८-५०॥
+सुरताम् अर्द विच्छिन्नाः स्वर्ग स्त्री हार मौक्तिकाः ।पतन्ति च अतुलाः दिक्षु तोय धाराः समन्ततः ॥४-२८-५१॥
+विलीयमानैः विहगैः निमीलद्भिः च पंकजैः ।विकसन्त्या च मालत्या गतो अस्तम् ज्ञायते रविः ॥४-२८-५२॥
+वृत्ता यात्रा नरेन्द्राणाम् सेना पथि एव वर्तते ।वैराणि चैव मार्गाः च सलिलेन समीकृताः ॥४-२८-५३॥
+मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् ।अयम् अध्याय समयः सामगानाम् उपस्थितः ॥४-२८-५४॥
+निवृत्त कर्म आयतनो नूनम् संचित संचयः ।आषाढीम् अभ्युपगतो भरतः कोसल अधिपः ॥४-२८-५५॥
+नूनम् आपूर्यमाणायाः सरय्वा वधते रयः ।माम् समीक्ष्य समायान्तम् अयोध्याया इव स्वनः ॥४-२८-५६॥
+इमाः स्फीत गुणा वर्षाः सुग्रीवः सुखम् अश्नुते ।विजित अरिः स दारः च राज्ये महति च स्थितः ॥४-२८-५७॥
+अहम् तु हृत दारः च राज्यात् च महतः च्युतः ।नदी कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण ॥४-२८-५८॥
+शोकः च मम विस्तीर्णो वर्षाः च भृश दुर्गमाः ।रावणः च महान् शत्रुः अपारम् प्रतिभाति मे ॥४-२८-५९॥
+अयात्राम् चैव दृष्ट्वा इमाम् मार्गाम् च भृश दुर्गमान् ।प्रणते चैव सुग्रीवे न मया किंचित् ईरितम् ॥४-२८-६०॥
+अपि च अति परिक्लिष्टम् चिरात् दारैः समागतम् ।आत्म कार्य गरीयस्त्वात् वक्तुम् न इच्छामि वानरम् ॥४-२८-६१॥
+स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् ।उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः ॥४-२८-६२॥
+तस्मात् काल प्रतीक्षो अहम् स्थितो अस्मि शुभ लक्षण ।सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन् ॥४-२८-६३॥
+उपकारेण वीरो हि प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्त्ववताम् मनः ॥४-२८-६४॥
+अथ एवम् उक्तः प्रणिधाय लक्ष्मणःकृत अंजलिः तत् प्रतिपूज्य भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२८-६५॥
+यत् उक्तम् एतत् तव सर्वम् ईप्सितम्नर इन्द्र कर्ता नचिरा हरि ईश्वरः ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२८-६६॥
+समीक्ष्य विमलम् व्योम गत विद्युत् बलाहकम् ।सारसा आकुल संघुष्टम् रम्य ज्योत्स्ना अनुलेपनम् ॥४-२९-१॥
+समृद्ध अर्थम् च सुग्रीवम् मन्द धर्मार्थ संग्रहम् ।अत्यर्थम् च असताम् मार्गम् एकांत गत मानसम् ॥४-२९-२॥
+निवृत्त कार्यम् सिद्धार्थम् प्रमद अभिरतम् सदा ।प��राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् ॥४-२९-३॥
+स्वाम् च पात्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् ।विहरंतम् अहो रात्रम् कृतार्थम् विगत ज्वरम् ॥४-२९-४॥
+क्रीडन्तम् इव देवेशम् गन्धर्व अप्सरसाम् गणैः ।मंत्रिषु न्यस्त कार्यम् च मंत्रिणाम् अनवेक्षकम् ॥४-२९-५॥
+उच्छिन्न राज्य संदेहम् काम वृत्तम् इव स्थितम् ।निश्चित अर्थो अर्थ तत्त्वज्ञः काल धर्म विशेष वित् ॥४-२९-६॥
+प्रसाद्य वाक्यैः मधुरैः हेतुमद्भिः मनो रमैः ।वाक्यवित् वाक्य तत्त्वज्ञम् हरीशम् मारुतात्मजः ॥४-२९-७॥
+हितम् तथ्यम् च पथ्यम् च साम धर्म अर्थ नीतिमत् ।प्रणय प्रीति संयुक्तम् विश्वास कृत निश्चयम् ॥४-२९-८॥
+हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् ।राज्यम् प्राप्तम् यशः चैव कौली श्रीः अभिवर्थिता ॥४-२९-९॥
+मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति ।यो हि मित्रेषु कालज्ञः सततम् साधु वर्तते ॥४-२९-१०॥
+तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते ।यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप ।समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते ॥४-२९-११॥
+तत् भवान् वृत्त संपन्नः स्थितः पथि निरत्यये ।मित्रार्थम् अभिनीतार्थम् यथावत् कर्तुम् अर्हति ॥४-२९-१२॥
+संत्यज्य सर्व कर्माणि मित्रार्थम् यो न वर्तते ।संभ्रमात् हि कृत उत्साहः सः अनर्थेन अवरुध्यते ॥४-२९-१३॥
+यो हि काल व्यतीतेषु मित्र कार्येषु वर्तते ।स कृत्वा महतो अपि अर्थान् न मित्रार्थेन युज्यते ॥४-२९-१४॥
+तत् इदम् मित्रकार्यम् नः काल अतीतम् अरिंदम ।क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम् ॥४-२९-१५॥
+न च कालम् अतीतम् ते निवेदयति कालवित् ।त्वरमाणो अपि स प्राज्ञः तव राजन् वशानुगः ॥४-२९-१६॥
+कुलस्य हेतुः स्फीतस्य दीर्घ बन्धुः च राघवः ।अप्रमेय प्रभावः च स्वयम् च अप्रतिमो गुणैः ॥४-२९-१७॥
+तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव ।हरीश्वर हरि श्रेष्ठान् आज्ञापयितुम् अर्हसि ॥४-२९-१८॥
+न हि तावत् भवेत् कालो व्यतीतः चोदनात् ऋते ।चोदितस्य हि कार्यस्य भवेत् काल व्यतिक्रमः ॥४-२९-१९॥
+अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर ।किम् पुनः प्रतिकर्तुः ते राज्येन च वधेन च ॥४-२९-२०॥
+शक्तिमान् अतिविक्रान्तो वानर ऋष्क गण ईश्वर ।कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे ॥४-२९-२१॥
+क���मम् खलु शरैः शक्तः सुर असुर महा उरगान् ।वशे दाशरथिः कर्तुम् त्वत् प्रतिज्ञाम् अवेक्षते ॥४-२९-२२॥
+प्राण त्याग अविशंकेन कृतम् तेन महत् प्रियम् ।तस्य मार्गाम वैदेहीम् पृथिव्याम् अपि च अंबरे ॥४-२९-२३॥
+न देवा न च गंधर्वा न असुरा न मरुत् गणाः ।न च यक्षा भयम् तस्य कुर्युः किम् इव राक्षसाः ॥४-२९-२४॥
+तत् एवम् शक्ति युक्तस्य पूर्वम् प्रिय कृतः तथा ।रामस्य अर्हसि पिंगेश कर्तुम् सर्व आत्मना प्रियम् ॥४-२९-२५॥
+न अधस्तात् अवनौ न अप्सु गतिः न उपरि च अम्बरे ।कस्यचित् सज्जते अस्माकम् कपीश्वर तव आज्ञया ॥४-२९-२६॥
+तत् आज्ञापय कः किम् ते कुतो वा अपि व्यवस्यतु ।हरयो हि अप्रधृष्याः ते सन्ति कोटि अग्रतो अनघ ॥४-२९-२७॥
+तस्य तद् वचनम् श्रुत्वा काले साधु निरूपितम् ।सुग्रीवः सत्त्व संपन्नः चकार मतिम् उत्तमाम् ॥४-२९-२८॥
+संदिदेश अति मति मान् नीलम् नित्य कृत उद्यमम् ।दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे ॥४-२९-२९॥
+यथा सेना समग्रा मे यूथपालाः च सर्वशः ।समागच्छन्ति असंगेन सेनाग्राणि तथा कुरु ॥४-२९-३०॥
+ये तु अंतपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।समानयंतु ते शीघ्रम् त्वरिताः शासनात् मम ।स्वयम् च अनंतरम् सैन्यम् भवान् एव अनुपश्यतु ॥४-२९-३१॥
+त्रि पंच रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः ।तस्य प्राण अन्तिको दण्डो न अत्र कार्या विचारणा ॥४-२९-३२॥
+हरीन् च वृद्धान् उपयातु स अंगदोभवान् मम आज्ञाम् अधिकृत्य निश्चितम् ।इति व्यवस्थाम् हरि पुंगव ईश्वरोविधाय वेश्म प्रविवेश वीर्यवान् ॥४-२९-३३॥
+गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।वर्ष रात्रे स्थितो रामः काम शोक अभिपीडितः ॥४-३०-१॥
+पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र मण्डलम् ।शारदीम् रजनीम् चैव दृष्ट्वा ज्योत्स्न अनुलेपनाम् ॥४-३०-२॥
+काम वृत्तम् च सुग्रीवम् नष्टाम् च जनक आत्मजाम् ।दृष्ट्वा कालम् अतीतम् च मुमोह परम आतुरः ॥४-३०-३॥
+स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः ।मनः स्थाम् अपि वैदेहीम् चिंतयामास राघवः ॥४-३०-४॥
+दृष्ट्वा च विमलम् व्योम गत विद्युत् बलाहकम् ।सारस आरव संघुष्टम् विललाप आर्तया गिरा ॥४-३०-५॥
+आसीनः पर्वतस्य अग्रे हेम धातु विभूषिते ।शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम् ॥४-३०-६॥
+सारस आरव संनादैः सारस आरव नादिनी ।या आश्रमे रमते बाला सा अद���य मे रमते कथम् ॥४-३०-७॥
+पुष्पिताम् च आसनान् दृष्ट्वा कांचनान् इव निर्मलान् ।कथम् सा रमते बाला पश्यंती माम् अपश्यती ॥४-३०-८॥
+या पुरा कलहंसानाम् स्वरेण कल भाषिणी ।बुध्यते चारु सर्वांगी सा अद्य मे रमते कथम् ॥४-३०-९॥
+निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् ।पुण्डरीकविशालाक्षी कथम् एषा भविष्यति ॥४-३०-१०॥
+सरांसि सरितो वापीः काननानि वनानि च ।ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे ॥४-३०-११॥
+अपि ताम् मत् वियोगात् च सौकुमार्यात् च भामिनीम् ।सुदूरम् पीडयेत् कामः शरत् गुण निरंतरः ॥४-३०-१२॥
+एवम् आदि नरश्रेष्ठो विललाप नृपात्मजः ।विहंग इव सारंगः सलिलम् त्रिदशेश्वरात् ॥४-३०-१३॥
+ततः चंचूर्य रम्येषु फलार्थी गिरि सानुषु ।ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणो अग्रजम् ॥४-३०-१४॥
+स चिन्तया दुस्सहया परीतम्विसंज्ञम् एकम् विजने मनस्वी ।भ्रातुर् विषादात् त्वरितो अति दीनःसमीक्ष्य सौमित्रिः उवाच रामम् ॥४-३०-१५॥
+किम् आर्य कामस्य वशम् गतेनकिम् आत्म पौरुष्य पराभवेन ।अयम् ह्रिया संह्रियते समाधिःकिम् अत्र योगेन निवर्तितेन ॥४-३०-१६॥
+क्रियाभियोगम् मनसः प्रसादम्समाधि योग अनुगतम् च कालम् ।न जानकी मानव वंश नाथत्वया सनाथा सुलभा परेण ।न च अग्नि चूडाम् ज्वलिताम् उपेत्यन दह्यते वीर वरार्ह कश्चित् ॥४-३०-१७॥
+सलक्षणम् लक्ष्मणम् अप्रधृष्यम्स्वभावजम् वाक्यम् उवाच रामः ।हितम् च पथ्यम् च नय प्रसक्तम्ससाम धर्मार्थ समाहितम् च ॥४-३०-१८॥
+निस्संशयम् कार्यम् अवेक्षितव्यम्क्रिया विशेषो अपि अनुवर्तितव्यः ।न तु प्रवृद्धस्य दुरासदस्यकुमार वीर्यस्य फलम् च चिन्त्यम् ॥४-३०-१९॥
+अथ पद्म पलाश अक्षीम् मैथिलीम् अनुचिन्तयन् ।उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ॥४-३०-२०॥
+तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ।निर्वर्तयित्वा सस्यानि कृत कर्मा व्यवस्थितः ॥४-३०-२१॥
+दीर्घ गंभीर निर्घोषाः शैल द्रुम पुरोगमाः ।विसृज्य सलिलम् मेघाः परिश्रांता नृप आत्मज ॥४-३०-२२॥
+नील उत्पल दल श्यामः श्यामी कृत्वा दिशो दश ।विमदा इव मातंगाः शान्त वेगाः पयो धराः ॥४-३०-२३॥
+जल गर्भा महा वेगाः कुटज अर्जुन गंधिनः ।चरित्वा विरताः सौम्य वृष्टि वाताः समुद्यताः ॥४-३०-२४॥
+घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण ।नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ ॥४-३०-२५॥
+अभिवृष्टा महा मेघैः निर्मलाः चित्र सानवः ।अनुलिप्ता इव आभान्ति गिरयः चन्द्र रश्मिभिः ॥४-३०-२६॥
+शाखासु सप्त च्छद पादपानाम्प्रभासु तार अर्क निशा कराणाम् ।लीलासु चैव उत्तम वारणानाम्श्रियम् विभज्य अद्य शरत् प्रवृत्ता ॥४-३०-२७॥
+संप्रति अनेक आश्रय चित्र शोभालक्ष्मीः शरत् काल गुण उपपन्ना ।सूर्य अग्र हस्त प्रतिबोधितेषुपद्माकरेषु अभ्यधिकम् विभाति ॥४-३०-२८॥
+सप्त च्छदानाम् कुसुमोप गंधीषट् पाद वृन्दैः अनुगीयमानः ।मत्त द्विपानाम् पवन अनुसारीदर्पम् विनेष्यन् अधिकम् विभाति ॥४-३०-२९॥
+अभ्यागतैः चारु विशाल पक्षैःसरः प्रियैः पद्म रजो अवकीर्णैः ।महा नदीनाम् पुलिन उपयातैःक्रीडन्ति हंसाः सह चक्रवाकैः ॥४-३०-३०॥
+मद प्रगल्भेषु च वारिणेषुगवाम् समूहेषु च दर्पितेषु ।प्रसन्न तोयासु च निम्न गासुविभाति लक्ष्मीः बहुधा विभक्ता ॥४-३०-३१॥
+नभः समीक्ष्या अंबु धरैः विमुक्तम्विमुक्त बर्ह आभरणा वनेषु ।प्रियासु अरक्ता विनिवृत्त शोभागत उत्सवा ध्यान परा मयूराः ॥४-३०-३२॥
+मनोज्ञ गन्धैः प्रियकैः अनल्पैःपुष्प अति भार अवनत अग्र शाखैः ।सुवर्ण गौरैः नयन अभिरामैःउद्योतितान् इव वन अन्तराणि ॥४-३०-३३॥
+प्रिय अन्वितानाम् नलिनी प्रियाणाम्वन प्रियाणाम् कुसुम उद्धतानाम् ।मद उत्कटानाम् मद लालसानाम्गज उत्तमानम् गतयो अद्य मन्दाः ॥४-३०-३४॥
+व्यक्तम् नभः शस्त्र विधौत वर्णम्कृश प्रवाहानि नदी जलानि ।कह्लार शिताः पवनाः प्रवान्तितमो विमुक्ताः च दिशः प्रकाशाः ॥४-३०-३५॥
+सूर्य आतप क्रामण नष्ट पंकाभूमिः चिर उद्घाटित सांद्र रेणुः ।अन्योन्य वैरेण समायुतानाम्उद्योग कालो अद्य नर अधिपानाम् ॥४-३०-३६॥
+शरत् गुण आप्यायित रूप शोभाःप्रहर्षित पांशु समुक्षित अंगाः ।मद उत्कटाः संप्रति युद्ध लुब्धावृषा गवाम् मध्य गता नदन्ति ॥४-३०-३७॥
+स मन्मध तीव्रतर अनुरागाकुलान्विता मन्द गतिः करेणुः ।मदान्वितम् संपरिवार्य यान्तम्वनेषु भर्तारम् अनुप्रयाति ॥४-३०-३८॥
+त्यक्त्वा वराणि आत्म विभूषणानिबर्हाणि तीर उपगता नदीनाम् ।निर्भर्त्स्यमाना इव सार ओघैःप्रयान्ति दीना विमना मयूराः ॥४-३०-३९॥
+वित्रास्य कारण्डव चक्रवाकान् ।महा रवैः भिन्न कटा गजेन्द्राः ।सरस्सु बद्ध अंबुज भूषणेषुविक्षोभ्य विक्षोभ्य जलम् पिबन्ति ॥४-३०-४०॥
+व्यपेत पंकजासु स वालुकासुप्रसन��न तोयासु स गो कुलासु ।स सारसा राव विनादितासुनदिषु हंसा निपतन्ति हृष्टाः ॥४-३०-४१॥
+नदी घन प्रस्रवण उदकानाम्अति प्रवृद्ध अनिल बर्हिणानाम् ।प्लवंगमानाम् च गत उत्सवानाम्ध्रुवम् रवाः संप्रति संप्रणष्टाः ॥४-३०-४२॥
+अनेक वर्णाः सुविनष्ट कायाःनव उदितेषु अंबुधरेषु नष्टाः ।क्षुध अर्दिता घोर विषा बिलेभ्यःचिर उषिता विप्रसरन्ति सर्पाः ॥४-३०-४३॥
+चंचत् चन्द्र कर स्पर्श हर्ष उन्मीलित तारका ।अहो रागवती संध्या जहाति स्वयम् अंबरम् ॥४-३०-४४॥
+रात्रिः शशांक उदित सौम्य वक्त्रातारा गण उन्मीलित चारु नेत्रा ।ज्योत्स्ना अंशुक प्रावरणा विभातिनारी इव शुक्ल अंशुक संवृत अंगी ॥४-३०-४५॥
+विपक्व शालि प्रसवानि भुक्त्वाप्रहर्षिता सारस चारु पंक्ति ।नभः समाक्रामति शीघ्र वेगावात अवधूता ग्रथित इव माला ॥४-३०-४६॥
+सुप्त एक हंसम् कुमुदैः उपेतम्महा ह्रदस्थम् सलिलम् विभाति ।घनैः विमुक्तम् निशि पूर्ण चन्द्रम्तारा गण कीर्णम् इव अंतरिक्षम् ॥४-३०-४७॥
+प्रकीर्ण हंसा अकुल मेखलानाम्प्रबुद्ध पद्म उत्पल मालिनीनाम् ।वापीः उत्तमानाम् अधिक अद्य लक्ष्मीःवर अंगनाम् इव भूषितानाम् ॥४-३०-४८॥
+वेणु स्वर व्यंजित तूर्य मिश्रःप्रत्यूष काले अनिल संप्रवृत्तः ।संमूर्च्छितो गह्वर गो वृषाणाम्अन्योन्यम् आपूरयति इव शब्दः ॥४-३०-४९॥
+नवैः नदीनाम् कुसुम प्रहासैःव्या धूयमानैः मृदु मारुतेन ।धौत अमल क्षौम पट प्रकाशैःकूलानि काशैः उपशोभितानि ॥४-३०-५०॥
+वन प्रचण्डा मधु पान शौण्डाःप्रिय अन्विताः षट् चरणाः प्रहृष्टाः ।वनेसु मत्ताः पवन अनु यात्राम्कुर्वन्ति पद्म आसन रेणु गौराः ॥४-३०-५१॥
+जलम् प्रसन्नम् कुसुम प्रहासम्क्रौन्च स्वनम् शालि वनम् विपक्वम् ।मृदुः च वायुः विमलः च चन्द्रःशंसन्ति वर्ष व्यपनीत कालम् ॥४-३०-५२॥
+मीन उप संदर्शित मेखलानाम्नदी वधूनाम् गतयो अद्य मंदाः ।कान्त उपभुक्त अलस गामिनीनाम्प्रभात कालेषु इव कामिनीनाम् ॥४-३०-५३॥
+स चक्रवाकानि स शैवलानिकाशैः दुकूलैः इव संवृतानि ।स पत्र रेखाणि स रोचनानिवधू मुखानि इव नदी मुखानि ॥४-३०-५४॥
+प्रफुल्ल बाण आसन चित्रितेषुप्रहृष्ट षट्पदानि कूजितेषु ।गृहीत चापः उद्यत दण्ड चण्डःप्रचण्ड चारो अद्य वनेषु कामः ॥४-३०-५५॥
+लोकम् सुवृष्ट्या परितोषयित्वनदीः तटाकानि च पूरयित्वा ।निष्पन्न सस्याम् वसुधाम् च कृत्वात्��क्त्वा नभः तोय धराः प्रणष्टाः ॥४-३०-५६॥
+दर्शयन्ति शरन् नद्यः पुलिनानि शनैः शनैः ।नव संगम सव्रीडा जघनानि इव योषितः ॥४-३०-५७॥
+प्रसन्न सलिलाः सौम्य कुरराभिः विनादिताः ।चक्रवाक गण आकीर्णा विभांति सलिल आशयाः ॥४-३०-५८॥
+अन्योन्य बद्ध वैराणाम् जिगीषूणाम् नृपात्मज ।उद्योग समयः सौम्य पार्थिवानाम् उपस्थितः ॥४-३०-५९॥
+इयम् सा प्रथमा यात्रा पार्थिवानाम् नृपात्मज ।न च पश्यामि सुग्रीवम् उद्योगम् वा तथा विधम् ॥४-३०-६०॥
+असनाः सप्त पर्णाः च कोविदाराः च पुष्पिताः ।दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि सानुषु ॥४-३०-६१॥
+हंस सारस चक्राह्वैः कुररैः च समंततः ।पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण ॥४-३०-६२॥
+चत्वारो वार्षिका मासा गता वर्ष शत उपमाः ।मम शोक अभितप्तस्य तथा सीताम् अपश्यतः ॥४-३०-६३॥
+चक्रवाकी इव भर्तारम् पृष्टतो अनुगता वनम् ।विषमम् दण्डकारण्यम् उद्यान वनम् इव च अंगना ॥४-३०-६४॥
+प्रिया विहीने दुःख आर्ते हृत राज्ये विवासिते ।कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥४-३०-६५॥
+अनाथो हृत राज्यो अयम् रावणेन च धर्षितः।दीनो दूर गृहः कामी माम् चैव शरणम् गतः ॥४-३०-६६॥
+इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।अहम् वानर राजस्य परिभूतः परंतप ॥४-३०-६७॥
+स कालम् परिसंख्याय सीतायाः परिमार्गणे ।कृतार्थः समयम् कृत्वा दुर्मतिः न अवबुध्यते ॥४-३०-६८॥
+स किष्किंधाम् प्रविश्य त्वम् ब्रूहि वानर पुंगवम् ।मूर्खम् ग्राम्य सुखे सक्तम् सुग्रीवम् वचनात् मम ॥४-३०-६९॥
+अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् ।आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः ॥४-३०-७०॥
+शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् ।सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥४-३०-७१॥
+कृतार्था हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये ।तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुंजते ॥४-३०-७२॥
+नूनम् कांचन पृष्ठस्य विकृष्टस्य मया रणे ।द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत् गण उपमम् ॥४-३०-७३॥
+घोरम् ज्या तल निर्घोषम् क्रुद्धस्य मम संयुगे ।निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छसि ॥४-३०-७४॥
+कामम् एवम् गते अपि अस्य परिज्ञाते पराक्रमे ।त्वत् सहायस्य मे वीर न चिन्ता स्यात् नृपात्मज ॥४-३०-७५॥
+यद् अर्थम् अयम् आरंभः कृतः पर पुरम् जय ।समयम् न अभिजानाति क���तार्थः प्लवगेश्वरः ॥४-३०-७६॥
+वर्षा समय कालम् तु प्रतिज्ञाय हरीश्वरः ।व्यतीतान् चतुरो मासान् विहरन् न अवबुध्यते ॥४-३०-७७॥
+स अमात्य परिषत् क्रीडन् पानम् एव उपसेवते ।शोक दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम् ॥४-३०-७८॥
+उच्यताम् गच्छ सुग्रीवः त्वया वीरः महाबल ।मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः ॥४-३०-७९॥
+न स संकुचितः पंथा येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३०-८०॥
+एक एव रणे वाली शरेण निहतो मया ।त्वाम् तु सत्यात् अतिक्रांतम् हनिष्यामि स बान्धवम् ॥४-३०-८१॥
+तत् एवम् विहिते कार्ये यत् हितम् पुरुषर्षभ ।तत् तत् ब्रूहि नरश्रेष्ठ त्वर काल व्यतिक्रमः ॥४-३०-८२॥
+कुरुष्व सत्यम् मम वानरेश्वरप्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् ।मा वालिनम् प्रेत गतो यम क्षयम्त्वम् अद्य पश्येः मम चोदितः शरैः ॥४-३०-८३॥
+स पूर्वजम् तीव्र विवृद्ध कोपम्लालप्यमानम् प्रसमीक्ष्य दीनम् ।चकार तीव्राम् मतिम् उग्र तेजाहरीश्वरे मानव वंश वर्थनः ॥४-३०-८४॥
+स कामिनम् दीनम् अदीन सत्त्वःशोक अभिपन्नम् समुदीर्ण कोपम् ।नरेन्द्र सूनुर् नरदेव पुत्रम्रामानुजः पूर्वजम् इति उवाच ॥४-३१-१॥
+न वानरः स्थास्यति साधु वृत्तेन मन्यते कर्म फल अनुषंगान् ।न भोक्ष्यते वानर राज्य लक्ष्मीम्तथा हि न अभिक्रमते अस्य बुद्धिः ॥४-३१-२॥
+मति क्षयात् ग्राम्य सुखेषु सक्तःतव प्रसाद अप्रतिकार बुद्धिः ।हतो अग्रजम् पश्यतु वालिनम्न राज्यम् एवम् विगुणस्य देयम् ॥४-३१-३॥
+न धारये कोपम् उदीर्ण वेगम्निहन्मि सुग्रीवम् असत्यम् अद्य ।हरि प्रवीरैः सह वालि पुत्रोनरेन्द्र पुत्र्या विचयम् करोतु ॥४-३१-४॥
+तम् आत्त बाण आसनम् उत्पतंतम्निवेदित अर्थम् रण चण्ड कोपम् ।उवच रामः पर वीर हन्तास्व वेक्षितम् स अनुनयम् च वाक्यम् ॥४-३१-५॥
+न हि वै त्वत् विधो लोके पापम् एवम् समाचरेत् ।कोपम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः ॥४-३१-६॥
+न इदम् अत्र त्वया ग्राह्यम् साधु वृत्तेन लक्ष्मण ।ताम् प्रीतिम् अनुवर्तस्व पूर्व वृत्तम् च संगतम् ॥४-३१-७॥
+साम उपहितया वाचा रूक्षाणि परिवर्जयन् ।वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल पर्यये ॥४-३१-८॥
+सो अग्रजेन अनुशिष्ट अर्थो यथावत् पुरुषर्षभः ।प्रविवेश पुरीम् वीरो लक्ष्मणः पर वीर हा ॥४-३१-९॥
+ततः शुभ मतिः प्राज्ञो भ्रातुः प्रियहितेरतः ।लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः ॥४-३१-१०॥
+शक्र बाणासन प्रख्यम् धनुः कालांतक उपमः ।प्रगृह्य गिरि शृंगाभम् मन्दरः सानुमान् इव ॥४-३१-११॥
+यथा उक्त कारी वचनम् उत्तरम् चैव स उत्तरम् ।बृहस्पति समो बुद्ध्या मत्त्वा रामानुजः तदा ॥४-३१-१२॥
+काम क्रोध समुत्थेन भ्रातुः कोपाग्निना वृतः ।प्रभंजन इव अप्रीतः प्रययौ लक्ष्मणः तदा ॥४-३१-१३॥
+साल ताल अश्व कर्णाम् च तरसा पातयन् बलात् ।पर्यस्यन् गिरि कूटानि द्रुमान् अन्याम् च वेगितः ॥४-३१-१४॥
+शिलाः च शकली कुर्वन् पद्भ्याम् गज इव आशु गः ।दूरम् एक पदम् त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥४-३१-१५॥
+ताम् अपश्यत् बल आकीर्णाम् हरिराज महापुरीम् ।दुर्गाम् इक्ष्वाकु शार्दूलः किष्किंधाम् गिरि संकटे ॥४-३१-१६॥
+रोषात् प्रस्फुरमाण ओष्ठः सुग्रीवम् प्रति लक्ष्मणः ।ददर्श वानरान् भीमान् किष्किंधाया बहिः चरान् ॥४-३१-१७॥
+तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुषर्षभम्शैल शृंगाणि शतशः प्रवृद्धाम् च महीरुहान् ।जगृहुः कुंजर प्रख्या वानराः पर्वत अंतरे ॥४-३१-१८॥
+तान् गृहीत प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः ।बभूव द्विगुणम् क्रुद्धो बहु इंधन इव अनलः ॥४-३१-१९॥
+तम् ते भयपरीत अंगाः ख्सुब्धम् दृष्ट्वा प्लवंगमाः ।काल मृत्यु युगांताअभम् शतशो विद्रुता दिशः ॥४-३१-२०॥
+ततः सुग्रीव भवनम् प्रविश्य हरिपुंगवाः ।क्रोधम् आगमनम् चैव लक्ष्मणस्य न्यवेदयन् ॥४-३१-२१॥
+तारया सहितः कामी सक्तः कपिवृषः तदा ।न तेषाम् कपि वीराणाम् शुश्राव वचनम् तदा ॥४-३१-२२॥
+ततः सचिव संदिष्टा हरयो रोमहर्षणाः ।गिरि कुंजर मेघ आभा नगर्या निर्ययुः तदा ॥४-३१-२३॥
+नख दंष्ट्र आयुधा सर्वे वीराः विकृत दर्शनाः ।सर्वे शार्दूल दर्पाः च सर्वे च विकृत आननाः ॥४-३१-२४॥
+दश नाग बलाः केचित् केचित् दश गुणोत्तराः ।केचित् नाग सहस्रस्य बभूवुः तुल्य वर्चसः ॥४-३१-२५॥
+ततः तैः कपिभिर् व्याप्ताम् द्रुम हस्तैर् महाबलैः ।अपश्यत् लक्ष्मणः क्रुद्धः किष्किंधाम् ताम् दुरासदम् ॥४-३१-२६॥
+ततः ते हरयः सर्वे प्राकार परिख अंतरात् ।निष्क्रम्य उदग्र सत्त्वाः तु तस्थुर् आविष्कृतम् तदा ॥४-३१-२७॥
+सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् ।दृष्ट्वा कोप वशम् वीरः पुनर् एव जगाम सः ॥४-३१-२८॥
+स दीर्घ उष्ण महा उच्छ्वासः कोप संरक्त लोचनः ।बभूव नर शा���्दूल स धूम इव पावकः ॥४-३१-२९॥
+बाण शल्य स्फुरत् जिह्वः सायक आसन भोगवान् ।स्व तेजो विष संघातः पंच आस्य इव पन्नगः ॥४-३१-३०॥
+तम् दीप्तम् इव कालाग्निम् नागेन्द्रम् इव कोपितम् ।समासाद्य अंगदः त्रासात् विषादम् अगमत् परम् ॥४-३१-३१॥
+सो अंगदम् रोष ताम्राक्षः संदिदेश महायशाः ।सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत ॥४-३१-३२॥
+एष रामानुजः प्राप्तः त्वत् सकाशम् अरिन्दमः ।भ्रातुर् व्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ॥४-३१-३३॥
+तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः ।इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिन्दम ॥४-३१-३४॥
+लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो अंगदो अब्रवीत् ।पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः ॥४-३१-३५॥
+अथ अंगदः तस्य सुतीव्र वाचासंभ्रांत भावः परिदीन वक्त्रः ।निर्गत्य पूर्वम् नृपतेः तरस्वीततो रुमायाः चरणौ ववन्दे ॥४-३१-३६॥
+संगृह्य पादौ पितुः उग्रतेजाजग्राह मातुः पुनर् एव पादौ ।पादौ रुमायाः च निपीडयित्वानिवेदयामास ततः तत् अर्थम् ॥४-३१-३७॥
+स निद्रा मद संवीतो वानरो न विबुद्धवान् ।बभूव मद मत्तः च मदनेन च मोहितः ॥४-३१-३८॥
+ततः किल किलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः ।प्रसादयन्तः तम् क्रुद्धम् भय मोहित चेतसः ॥४-३१-३९॥
+ते महा ओघ निभम् दृष्ट्वा वज्र अशनि सम स्वनम् ।सिंह नादम् समम् चक्रुर् लक्ष्मणस्य समीपतः ॥४-३१-४०॥
+तेन शब्देन महता प्रत्यबुध्यत वानरः ।मद विह्वल ताम्राक्षो व्याकुल स्रग्वि भूषणः ॥४-३१-४१॥
+अथ अंगद वचः श्रुत्वा तेन एव च समागतौ ।मंत्रिणो वानरेन्द्रस्य सम्मत उदार दर्शिनौ ॥४-३१-४२॥
+प्लक्षः च एव प्रभावः च मंत्रिणौ अर्थ धर्मयोः ।वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः ॥४-३१-४३॥
+प्रसादयित्वा सुग्रीवम् वचनैः स अर्थ निश्चितैः ।आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम् ॥४-३१-४४॥
+सत्य संधौ महाभागौ भ्रातरौ राम लक्ष्मणौ ।वयस्य भावम् संप्राप्तौ राज्य अर्हौ राज्य दायिनौ ॥४-३१-४५॥
+तयोः एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः ।यस्य भीताः प्रवेपन्ते नादान् मुंचन्ति वानराः ॥४-३१-४६॥
+स एष राघव भ्राता लक्ष्मणो वाक्य सारथिः ।व्यवसाय रथः प्राप्तः तस्य रामस्य शासनात् ॥४-३१-४७॥
+अयम् च तनयो राजन् ताराया दयितो अंगदः ।लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ ॥४-३१-४८॥
+सः अयम् ��ोष परीताक्षो द्वारि तिष्ठति वीर्यवान् ।वानरान् वानरपते चक्षुसा निर्दहन इव ॥४-३१-४९॥
+तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्र सह बान्धवः ।गच्छ शीघ्रम् महाराज रोषो हि अद्य उपशम्यताम् ॥४-३१-५०॥
+यथा आह रामो धर्मात्मा तत् कुरुष्व समाहितः ।राजन् तिष्ठ स्व समये भव सत्य प्रतिश्रवः ॥४-३१-५१॥
+अंगदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान् ॥४-३२-१॥
+स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरु लाघवम् ।मंत्रज्ञान् मंत्र कुशलो मंत्रेषु परिनिष्ठितः ॥४-३२-२॥
+न मे दुर् व्याहृतम् किंचित् न अपि मे दुर् अनुष्ठितम् ।लक्ष्मणो राघव भ्राता क्रुद्धः किम् इति चिंतये ॥४-३२-३॥
+असुहृद्भिः मम अमित्रैः नित्यम् अन्तर दर्शिभिः ।मम दोषान् असंभूतान् श्रावितो राघवानुजः ॥४-३२-४॥
+अत्र तावत् यथा बुद्धि सर्वैः एव यथा विधि ।भावस्य निश्चयः तावत् विज्ञेयो निपुणम् शनैः ॥४-३२-५॥
+न खलु अस्ति मम त्रासो लक्ष्मणान् न अपि राघवात् ।मित्रम् तु अस्थान कुपितम् जनयति एव संभ्रमम् ॥४-३२-६॥
+सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् ।अनित्यत्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते ॥४-३२-७॥
+अतो निमित्तम् त्रस्तो अहम् रामेण तु महात्मना ।यन् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तन् मया ॥४-३२-८॥
+सुग्रीवेण एवम् उक्ते तु हनुमान् हरि पुंगवः ।उवाच स्वेन तर्केण मध्ये वानर मंत्रिणाम् ॥४-३२-९॥
+सर्वथा न एतद् आश्चर्यम् यत् त्वम् हरिगणेश्वर ।न विस्मरसि सुस्निग्धम् उपकारम् कृतम् शुभम् ॥४-३२-१०॥
+राघवेण तु वीरेण भयम् उत्सृज्य दूरतः ।त्वत् प्रिय अर्थम् हतो वाली शक्र तुल्य पराक्रमः ॥४-३२-११॥
+सर्वथा प्रणयात् क्रुद्धो राघवो न अत्र संशयः ।भ्रातरम् संप्रहितवान् लक्ष्मणम् लक्ष्मि वर्धनम् ॥४-३२-१२॥
+त्वम् प्रमत्तो न जानीषे कालम् कलविदाम् वर ।फुल्ल सप्त च्छद श्यामा प्रवृत्ता तु शरत् शिवा ॥४-३२-१३॥
+निर्मल ग्रह नक्षत्रा द्यौः प्रनष्ट बलाहका ।प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च ॥४-३२-१४॥
+प्राप्तम् उद्योग कालम् तु न अवैषि हरिपुंगव ।त्वम् प्रमत्त इति व्यक्तम् लक्ष्मणो अयम् इह आगतः ॥४-३२-१५॥
+आर्तस्य हृत दारस्य परुषम् पुरुष अन्तरात् ।वचनम् मर्षणीयम् ते राघवस्य महात्मनः ॥४-३२-१६॥
+कृत अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् ।���ंतरेण अंजलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥४-३२-१७॥
+नियुक्तैः मंत्रिभिः वाच्यो अवश्यम् पार्थिवो हितम् ।इत एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः ॥४-३२-१८॥
+अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः ।स देव असुर गंधर्वम् वशे स्थापयितुम् जगत् ॥४-३२-१९॥
+न स क्षमः कोपयितुम् यः प्रसाद्य पुनर् भवेत् ।पूर्व उपकारम् स्मरता कृतज्ञेन विशेषतः ॥४-३२-२०॥
+तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृत् जनः ।राजन् तिष्ठ स्व समये भर्तुः भार्या इव तत् वशे ॥४-३२-२१॥
+न राम रामानुज शासनम् त्वयाकपीन्द्र युक्तम् मनसा अपि अपोहितुम् ।मनो हि ते ज्ञास्यति मानुषम् बलम्स राघवस्य अस्य सुरेन्द्र वर्चसः ॥४-३२-२२॥
+अथ प्रतिसंआदिष्टो लक्ष्मणः परवीरहा ।प्रविवेश गुहाम् रम्याम् किष्किंधाम् राम शासनात् ॥४-३३-१॥
+द्वारस्था हरयः तत्र महाकाया महाबलाः ।बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्रांजलयः स्थिताः ॥४-३३-२॥
+निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ आत्मजम् ।बभूवुः हरयः त्रस्ता न च एनम् पर्यवारयन् ॥४-३३-३॥
+स तम् रत्नमयीम् दिव्याम् श्रीमान् पुष्पित काननाम् ।रम्याम् रत्न समाकीर्णाम् ददर्श महतीम् गुहाम् ॥४-३३-४॥
+हर्म्य प्रासाद संबाधाम् नाना रत्नोपशोभिताम् ।सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभिताम् ॥४-३३-५॥
+देव गंधर्व पुत्रैः च वानरैः काम रूपिभिः ।दिव्य माल्य अम्बर धारैः शोभिताम् प्रिय दर्शनैः ॥४-३३-६॥
+चन्दन अगरु पद्मानाम् गन्धैः सुरभि गन्धिताम् ।मैरेयाणाम् मधूनाम् च सम्मोदित महा पथाम् ॥४-३३-७॥
+विंध्य मेरु गिरि प्रख्यैः प्रासादैः न एक भूमिभिः ।ददर्श गिरि नद्यः च विमलाः तत्र राघवः ॥४-३३-८॥
+अंगदस्य गृहम् रम्यम् मैन्दस्य द्विविदस्य च ।गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥४-३३-९॥
+विद्युन्मालेः च संपातेः सूर्याक्षस्य हनूमतः ।वीरबाहोः सुबाहोः च नलस्य च महात्मनः ॥४-३३-१०॥
+कुमुदस्य सुषेणस्य तार जाम्बवतोः तथा ।दधिवक्त्रस्य नीलस्य सुपाटल सुनेत्रयोः ॥४-३३-११॥
+एतेषाम् कपि मुख्यानाम् राज मार्गे महात्मनाम् ।ददर्श गृह मुख्यानि महासाराणि लक्ष्मणः ॥४-३३-१२॥
+पाण्डुर अभ्र प्रकाशानि गन्ध माल्य युतानि च ।प्रभूत धन धान्यानि स्त्री रत्नैः शोभितानि च ॥४-३३-१३॥
+पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् ।वानरेन्द्र गृहम् रम्यम् महेन्द्र ���दन उपमम् ॥४-३३-१४॥
+शुल्कैः प्रासाद शिखरैः कैलास शिखर उपमैः ।सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभितम् ॥४-३३-१५॥
+महेन्द्र दत्तैः श्रीमद्भिः नील जीमूत संनिभैः ।दिव्य पुष्प फलैः वृक्षैः शीत च्छायैः मनोरमैः ॥४-३३-१६॥
+हरिभिः संवृत द्वारम् बलिभिः शस्त्र पाणिभिः ।दिव्य माल्य आवृतम् शुभ्रम् तप्त कांचन तोरणम् ॥४-३३-१७॥
+सुग्रीवस्य गृहम् रम्यम् प्रविवेश महाबलः ।अवार्यमाणः सौमित्रिः महाअभ्रम् इव भास्करः ॥४-३३-१८॥
+स सप्त कक्ष्या धर्मात्मा यान आसन समावृताः ।प्रविश्य सुमहत् गुप्तम् ददर्श अंतःपुरम् महत् ॥४-३३-१९॥
+हैम राजत पर्यन्कैः बहुभिः च वर आसनैः ।महा अर्ह आस्तरण उपेतैः तत्र तत्र समावृतम् ॥४-३३-२०॥
+प्रविशन् एव सततम् शुश्राव मधुर स्वनम् ।तंत्री गीत समाकीर्णम् सम ताल पदाक्षरम् ॥४-३३-२१॥
+बह्वीः च विविध आकारा रूप यौवन गर्विताः ।स्त्रियः सुग्रीव भवने ददर्श स महाबलः ॥४-३३-२२॥
+दृष्ट्वा अभिजन संपन्नाः तत्र माल्य कृत स्रजः ।वर माल्य कृत व्यग्रा भूषण उत्तम भूषिताः ॥४-३३-२३॥
+न अतृप्तान् न अति च व्यग्रान् न अनुदात्त परिच्छदान् ।सुग्रीव अनुचरान् च अपि लक्षयामास लक्ष्मणः ॥४-३३-२४॥
+कूजितम् नूपुराणाम् च कंचनीम् निःस्वनम् तथा ।स निशम्य ततः श्रीमान् सौमित्रिः लज्जितो अभवत् ॥४-३३-२५॥
+रोष वेग प्रकुपितः श्रुत्वा च आभरण स्वनम् ।चकार ज्या स्वनम् वीरो दिशः शब्देन पूरयन् ॥४-३३-२६॥
+चारित्रेण महाबाहुः अपकृष्टः स लक्ष्मनः ।तस्थौ एकांतम् आश्रित्य राम शोक समन्वितः ॥४-३३-२७॥
+तेन चाप स्वनेन अथ सुग्रीवः प्लवगाधिपः ।विज्ञाय आगमनम् त्रस्तः स चचाल वर आसनात् ॥४-३३-२८॥
+अंगदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् ।सुव्यक्तम् एष संप्रप्तः सौमित्रिः भ्रातृ वत्सलः ॥४-३३-२९॥
+अंगदेन समाख्यतो ज्या स्वनेन च वानरः ।बुबुधे लक्ष्मणम् प्राप्तम् मुखम् च अस्य व्यशुष्यत ॥४-३३-३०॥
+ततः ताराम् हरि श्रेष्ठः सुग्रीवः प्रिय दर्शनाम् ।उवाच हितम् अव्यग्र त्रास संभ्रांत मानसः ॥४-३३-३१॥
+किम् नु रुट् कारणम् सुभ्रु प्रकृत्या मृदु मानसः ।स रोष इव संप्राप्तो येन अयम् राघवानुजः ॥४-३३-३२॥
+किम् पश्यसि कुमारस्य रोष स्थानम् अनिन्दिते ।न खलु अकारणे कोपम् आहरेत् नरपुंगवः ॥४-३३-३३॥
+यदि अस्य कृतम् अस्माभिः बुध्यसे किंचित् अप्रियम् ।तत् बुध्या संप्रधार्य आशु क्षिप्रम् एव अभिधीयताम् ॥४-३३-३४॥
+अथवा स्वयम् एव एनम् द्रष्टुम् अर्हसि भामिनी ।वचनैः स्वांत्व युक्तैः च प्रसादयितुम् अर्हसि ॥४-३३-३५॥
+त्वत् दर्शने विशुद्ध आत्मा न स कोपम् करिष्यति ।न हि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम् ॥४-३३-३६॥
+त्वया स्वांत्वैः उपक्रांतम् प्रसन्न इन्द्रिय मानसम् ।ततः कमलपत्राक्षम् द्रक्ष्याअमि अहम् अरिंदमम् ॥४-३३-३७॥
+सा प्रस्खलंती मद विह्वल अक्षीप्रलंब कांची गुण हेम सूत्रा ।सलक्षणा लक्ष्मण संनिधानम्जगाम तारा नमित अंग यष्टिः ॥४-३३-३८॥
+स ताम् समीक्ष्य एव हरि ईश पत्नीम्तस्थौ उदासीनतया महात्मा ।अवाङ्मुखो आभूत् मनुजेन्द्र पुत्रःस्त्री सन्निकर्षात् विनिवृत्त कोपम् ॥४-३३-३९॥
+सा पान योगात् च निवृत्त लज्जादृष्टि प्रसादात् च नरेन्द्र सूनोः ।उवाच तारा प्रणय प्रगल्भम्वाक्यम् महार्थम् परिसांत्व रूपम् ॥४-३३-४०॥
+किम् कोप मूलम् मनुजेन्द्र पुत्रकः ते न सन्तिष्ठति वाक् निदेशे ।कः शुष्क वृक्षम् वनम् आपतन्तम्दवाग्निम् आसीदति निर्विशंकः ॥४-३३-४१॥
+स तस्य वचनम् श्रुत्वा सांत्व पूर्वम् अशंकितः ।भूयः प्रणय दृष्टार्थम् लक्ष्मणो वाक्यम् अब्रवीत् ॥४-३३-४२॥
+किम् अयम् काम वृत्तः ते लुप्त धर्मार्थ संग्रहः ।भर्ता भर्तृ हिते युक्ते न च एवम् अवबुध्यसे ॥४-३३-४३॥
+न चिंतयति राज्यार्थम् सः अस्मान् शोक परायणान् ।स अमात्य परिषत् तारे कामम् एव उपसेवते ॥४-३३-४४॥
+स मासान् चतुर कृत्वा प्रमाणम् प्लवगेश्वरः ।व्यतीतान् तान् मद उदग्रो विहरन् न अवबुध्यते ॥४-३३-४५॥
+न हि धर्मार्थ सिद्ध्यर्थम् पानम् एवम् प्रशस्यते ।पानात् अर्थस्य कामः च धर्मः च परिहीयते ॥४-३३-४६॥
+धर्म लोपो महान् तावत् कृते हि अप्रति कुर्वतः ।अर्थ लोपः च मित्रस्य नाशे गुणवतो महान् ॥४-३३-४७॥
+मित्रम् हि अर्थ गुण श्रेष्ठम् सत्य धर्म परायणम् ।तत् द्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम् ॥४-३३-४८॥
+तत् एवम् प्रस्तुते कार्ये कार्यम् अस्माभिः उत्तरम् ।यत् कार्यम् कार्य तत्त्वज्ञे त्वम् उदाहर्तुम् अर्हसि ॥४-३३-४९॥
+सा तस्य धर्मार्थ समाधि युक्तम्निशम्य वाक्यम् मधुर स्वभावम् ।तारा गतार्थे मनुजेन्द्र कार्येविश्वास युक्तम् तम् उवाच भूयः ॥४-३३-५०॥
+न कोप कालः क्षितिपाल पुत्रन च अपि कोपः स्व जने विधेयः ।त्वत् अर्थ कामस्य जनस्य तस्यप्रमादम�� अपि अर्हसि वीर सोढुम् ॥४-३३-५१॥
+कोपम् कथम् नाम गुण प्रकृष्टःकुमार कुर्यात् अपकृष्ट सत्त्वे ।कः त्वत् विधः कोप वशम् हि गच्छेसत्त्व अवरुद्धः तपसः प्रसूतिः ॥४-३३-५२॥
+जानामि कोपम् हरि वीर बन्धोःजानामि कार्यस्य च काल संगम् ।जानामि कार्यम् त्वयि यत् कृतम् नःतत् च अपि जानामि यत् अत्र कार्यम् ॥४-३३-५३॥
+तत् च अपि जानामि यथा अविषह्यम्बलम् नरश्रेष्ठ शरीरजस्य ।जानामि यस्मिन् च जने अवबद्धम्कामेन सुग्रीवम् अस्तकम् अद्य ॥४-३३-५४॥
+न काम तंत्रे तव बुद्धिः अस्तित्वम् वै यथा मन्यु वशम् प्रपन्नः ।न देश कालौ हि न च अर्थ धर्मौअवेक्षते काम रतिः मनुष्यः ॥४-३३-५५॥
+तम् काम वृत्तम् मम सन्निकृष्टम्काम अभियोगात् च विमुक्त लज्जम् ।क्षमस्व तावत् पर वीर हन्तःतव भ्रातर्म वानर वंश नाथम् ॥४-३३-५६॥
+महर्षयो धर्म तपोभिरामाःकामा अनुकामाः प्रति बद्ध मोहाः ।अयम् प्रकृत्या चपलः कपिः तुकथम् न सज्जेत सुखेषु राजा ॥४-३३-५७॥
+इति एवम् उक्त्वा वचनम् महार्थम्सा वानरी लक्ष्मणम् अप्रमेयम् ।पुनः स खेदम् मद विह्वलाक्षीभर्तुर् हितम् वाक्यम् इदम् बभाषे ॥४-३३-५८॥
+उद्योगः तु चिर आज्ञप्तः सुग्रीवेण नरोत्तम ।काम्स्य अपि विधेयेन तव अर्थ प्रति साधने ॥४-३३-५९॥
+आगता हि महा वीर्या हरयः काम रूपिणः ।कोटि शत सहस्राणि नाना नग निवासिनः ॥४-३३-६०॥
+तत् आगच्छ महाबाहो चारित्रम् रक्षितम् त्वया ।अच्छलम् मित्र भावेन सताम् दरा अवलोकनम् ॥४-३३-६१॥
+ताराया च अभ्यनुज्ञात त्वरया चा अपि चोदितः ।प्रविवेश महाबाहुः अभ्यंतरम् अरिन्दमः ॥४-३३-६२॥
+ततः सुग्रीवम् आसीनम् कांचने परम आसने ।महाअर्ह आस्तरणोपेते ददर्श आदित्य संनिभम् ॥४-३३-६३॥
+दिव्य आभरण चित्रांगम् दिव्य रूपम् यशस्विनम् ।दिव्य माल्यांबर धरम् महेन्द्रम् इव दुर्जयम् ॥४-३३-६४॥
+दिव्य आभरण माल्याभिः प्रमदाभिः समावृतम् ।संरब्धतर रक्ताक्षो बभूव अंतक संनिभः ॥४-३३-६५॥
+रुमाम् तु वीरः परिरभ्य गाढम्वर आसनस्थो वर हेम वर्णः ।ददर्श सौमित्रिम् अदीन सत्त्वम्विशाल नेत्रः स विशाल नेत्रम् ॥४-३३-६६॥
+तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् ।सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथित इन्द्रियः ॥४-३४-१॥
+क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा ।भ्रातुर् व्यसन संतप्तम् दृष्ट्वा दशरथ आत्मजम् ॥४-३४-२॥
+उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् ।महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥४-३४-३॥
+उत्पतंतम् अनूत्पेतू रुमा प्रभृतयः स्त्रियः ।सुग्रीवम् गगने पूर्णम् चंद्रम् तारा गणा इव ॥४-३४-४॥
+संरक्त नयनः श्रीमान् संचचार कृतांजलिः ।बभूव अवस्थितः तत्र कल्प वृक्षो महान् इव ॥४-३४-५॥
+रुमा द्वितीयम् सुग्रीवम् नारी मध्य गतम् स्थितम् ।अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा ॥४-३४-६॥
+सत्त्व अभिजन संपन्नः स अनुक्रोशो जितेन्द्रियः ।कृतज्ञः सत्य वादी च राजा लोके महीयते ॥४-३४-७॥
+यस्तु राजा स्थितो अधर्मे मित्राणाम् उपकारिणाम् ।मिथ्या प्रतिज्ञाम् कुरुते को नृशंस तरः ततः ॥४-३४-८॥
+शतम् अश्व अनृते हन्ति सहस्रम् तु गव अनृते ।आत्मानम् स्व जनम् हन्ति पुरुषः पुरुष अनृते ॥४-३४-९॥
+पूर्वम् कृतार्थो मित्राणाम् न तत् प्रति करोति यः ।कृतघ्नः सर्व भूतानाम् स वध्यः प्लवगेश्वर ॥४-३४-१०॥
+गीतो अयम् ब्रह्मणा श्लोकः सर्व लोक नमस्कृतः ।दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवम्गम ॥४-३४-११॥
+गो घ्ने च एव सुरापे च चौरे भग्न व्रते तथा ।निष्कृतिर् विहिता सद्भिः कृतघ्ने न अस्ति निष्कृतिः ॥४-३४-१२॥
+अनार्य त्वम् कृतघ्नः च मिथ्या वादी च वानर ।पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत् ॥४-३४-१३॥
+ननु नाम कृतार्थेन त्वया रामस्य वानर ।सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता ॥४-३४-१४॥
+स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।न त्वाम् रामो विजानीते सर्पम् मण्डूक राविणम् ॥४-३४-१५॥
+महाभागेन रामेण पापः करुण वेदिना ।हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना ॥४-३४-१६॥
+कृतम् चेत् न अभिजानीषे राघवस्य महात्मनः ।सद्यः त्वम् निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् ॥४-३४-१७॥
+न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३४-१८॥
+न नूनम् इक्ष्वाकु वरस्य कार्मुकात्शरान् च तान् पश्यसि वज्र संनिभान् ।ततः सुखम् नाम विषेवसे सुखीन राम कार्यम् मनसा अपि अवेक्षसे ॥४-३४-१९॥
+तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा ।अब्रवीत् लक्ष्मणम् तारा तारा अधिप निभ आनना ॥४-३५-१॥
+न एवम् लक्ष्मण वक्तव्यो न अयम् परुषम् अर्हति ।हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः ॥४-३५-२॥
+न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुण�� ।न एव अनृत कथो वीर न जिह्मः च कपीश्वरः ॥४-३५-३॥
+उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः ।रामेण वीर सुग्रीवो यत् अन्यैः दुष्करम् रणे ॥४-३५-४॥
+राम प्रसादात् कीर्तिम् च कपि राज्यम् च शाश्वतम् ।प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप ॥४-३५-५॥
+सुदुःख शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् ।प्राप्त कालम् न जानीते विश्वामित्रो यथा मुनिः ॥४-३५-६॥
+घृताच्याम् किल संसक्तो दश वर्षाणि लक्ष्मण ।अहो अमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥४-३५-७॥
+स हि प्राप्तम् न जानीते कालम् कालविदाम् वरः ।विश्वामित्रो महातेजाः किम् पुनर् यः पृथग् जनः ॥४-३५-८॥
+देह धर्म गतस्य अस्य परिश्रान्तस्य लक्ष्मण ।अवितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति ॥४-३५-९॥
+न च रोष वशम् तात गंतुम् अर्हसि लक्ष्मण ।निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥४-३५-१०॥
+सत्त्व युक्ता हि पुरुषाः त्वत् विधाः पुरुषर्षभ ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥४-३५-११॥
+प्रसादये त्वाम् धर्मज्ञ सुग्रीवार्थे समाहिता ।महान् रोष समुत्पन्नः संरंभः त्यज्यताम् अयम् ॥४-३५-१२॥
+रुमाम् माम् च अंगदम् राज्यम् धन धान्य पशूनि च ।राम प्रियार्थम् सुग्रीवः त्यजेत् इति मतिर् मम ॥४-३५-१३॥
+समानेष्यति सुग्रीवः सीतया सह राघवम् ।शशांकम् इव रोहिण्या हत्वा तम् राक्षस अधमम् ॥४-३५-१४॥
+शत कोटि सहस्राणि लंकायाम् किल रक्षसाम् ।अयुतानि च षट् त्रिंशत् सहस्राणि शतानि च ॥४-३५-१५॥
+अहत्वा ताम् च दुर्धर्षान् राक्षसान् काम रूपिणः ।न शक्यो रावणो हंतुम् येन सा मैथिली हृता ॥४-३५-१६॥
+ते न शक्या रणे हंतुम् असहायेन लक्ष्मण ।रावणः क्रूर कर्मा च सुग्रीवेण विशेषतः ॥४-३५-१७॥
+एवम् आख्यातवान् वाली स हि अभिज्ञो हरीश्वरः ।आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम् ॥४-३५-१८॥
+त्वत् सहाय निमित्तम् हि प्रेषिता हरिपुंगवाः ।आनेतुम् वानरान् युद्धे सुबहून् हरिपुंगवान् ॥४-३५-१९॥
+ताम् च प्रतीक्षमाणो अयम् विक्रांतान् सुमहा बलान् ।राघवस्य अर्थ सिद्धि अर्थम् न निर्याति हरि ईश्वरः ॥४-३५-२०॥
+कृता सुसंस्था सौमित्रे सुग्रीवेण यथा पुरा ।अद्य तैः वानरैः सर्वैः आगंतव्यम् महाबलैः ॥४-३५-२१॥
+ऋक्ष कोटि सहस्राणि गोलांगूल शतानि च ।अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिन्दमकोट्यो अनेकाः तु काकुत्स्थ कपीन��म् दीप्त तेजसाम् ॥४-३५-२२॥
+तव हि मुखम् इदम् निरीक्ष्य कोपात्क्षतज समे नयने निरीक्षमाणाः ।हरि वर वनिता न यान्ति शान्तिम्प्रथम भयस्य हि शन्किताः स्म सर्वाः ॥४-३५-२३॥
+इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् ।मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः ॥४-३६-१॥
+तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः ।लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत् ॥४-३६-२॥
+ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् ।चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः ॥४-३६-३॥
+स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन् ॥४-३६-४॥
+प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया ॥४-३६-५॥
+कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज ॥४-३६-६॥
+सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।सहाय मात्रेण मया राघवः स्वेन तेजसा ॥४-३६-७॥
+सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः ।शैलः च वसुधा चैव बाणेन एकेन दारिताः ॥४-३६-८॥
+धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै ॥४-३६-९॥
+अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ ।गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् ॥४-३६-१०॥
+यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा ।प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति ॥४-३६-११॥
+इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह ॥४-३६-१२॥
+सर्वथा हि मम भ्राता स नाथो वानरेश्वर ।त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥४-३६-१३॥
+यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् ।अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम् ॥४-३६-१४॥
+सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः ॥४-३६-१५॥
+धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः ।उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् ॥४-३६-१६॥
+दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति ।वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम ॥४-३६-१७॥
+सदृशः च असि रामस्य विक्रमेण बलेन च ।सहायो दैवतैः दत्तः चिराय हरि पुंगव ॥४-३६-१८॥
+किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह ।सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम् ॥४-३६-१९॥
+यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् ।मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम ॥४-३६-२०॥
+एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना ।हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत् ॥४-३७-१॥
+महेन्द्र हिमवत् विंध्य कैलास शिखरेषु च ।मन्दरे पाण्डु शिखरे पंच शैलेषु ये स्थिताः ॥४-३७-२॥
+तरुण आदित्य वर्णेषु भ्राजमानेषु नित्यशः ।पर्वतेषु समुद्र अंते पश्चिमस्याम् तु ये दिशि ॥४-३७-३॥
+आदित्य भवने चैव गिरौ संध्या अभ्र संनिभे ।पद्म ताल वनम् भीमाः संश्रिता हरि पुंगवाः ॥४-३७-४॥
+अंजन अंबुद संकाशाः कुंजर प्रतिम ओजसः ।अंजने पर्वते चैव ये वसन्ति प्लवंगमाः ॥४-३७-५॥
+महाशैल गुहा आवासा वानराः कनक प्रभाः ।मेरु पार्श्व गताः चैव ये च धूम्र गिरिम् श्रिताः ॥४-३७-६॥
+तरुण आदित्य वर्णाः च पर्वते ये महाअरुणे ।पिबंतो मधु मैरेयम् भीम वेगाः प्लवंगमाः ॥४-३७-७॥
+वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।तापस आश्रम रम्येषु वन अन्तेषु समंततः ॥४-३७-८॥
+तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व वानरान् ।साम दान आदिभिः कल्पैः वानरैः वेगवत्तरैः ॥४-३७-९॥
+प्रेषिताः प्रथमम् ये च मया आज्ञाताः महाजवाः ।त्वरण अर्थम् तु भूयः त्वम् संप्रेषय हरीश्वरान् ॥४-३७-१०॥
+ये प्रसक्ताः च कामेषु दीर्घ सूत्राः च वानराः ।इह आनयस्व तान् शीघ्रम् सर्वान् एव कपीश्वरान् ॥४-३७-११॥
+अहोभिः दशभिः ये च न आगच्छन्ति मम आज्ञया ।हन्तव्याः ते दुरात्मानो राज शासन दूषकाः ॥४-३७-१२॥
+शतानि अथ सहस्राणि कोट्यः च मम शासनात् ।प्रयान्तु कपि सिंहानाम् निदिशे मम ये स्थिताः ॥४-३७-१३॥
+मेघ पर्वत संकाशाः छादयन्त इव अंबरम् ।घोर रूपाः कपि श्रेष्ठा यान्तु मत् शासनात् इतः ॥४-३७-१४॥
+ते गतिज्ञा गतिम् गत्वा पृथिव्याम् सर्व वानराः ।आनयंतु हरीन् सर्वान् त्वरिताः शासनान् मम ॥४-३७-१५॥
+तस्य वानर राजस्य श्रुत्वा वायु सुतो वचः ।दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥४-३७-१६॥
+ते पदम् विष्णु विक्रान्तम् पतत्रि ज्योतिः अध्वगाः ।प्रयाताः प्रहिता राज्ञा हरयः तु क्षणेन वै ॥४-३७-१७॥
+ते समुद्रेषु गिरिषु वनेषु च सरःसु च ।वानरा वानरान् सर्वान् राम हेतोः अचोदयन् ॥४-३७-१८॥
+मृत्यु काल उपमस्य आज्ञ���म् राज राजस्य वानराः ।सुग्रीवस्य आययुः श्रुत्वा सुग्रीव भय शन्किताः ॥४-३७-१९॥
+ततः ते अंजन संकाशा गिरेः तस्मात् महाजवाः ।तिस्रः कोट्यः प्लवंगानाम् निर्ययुर् यत्र राघवः ॥४-३७-२०॥
+अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरिवरे रताः ।संतप्त हेम वर्ण आभा तस्मात् कोट्यो दश च्युताः ॥४-३७-२१॥
+कैलास शिखरेभ्यः च सिंह केसर वर्चसाम् ।ततः कोटि सहस्राणि वानराणाम् समागमन् ॥४-३७-२२॥
+फल मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः ।तेषाम् कोटि सहस्राणाम् सहस्रम् समवर्तत ॥४-३७-२३॥
+अंगारक समानानाम् भीमानाम् भीम कर्मणाम् ।विंध्यात् वानर कोटीनाम् सहस्राणि अपतन् द्रुतम् ॥४-३७-२४॥
+क्षीर उद वेला निलयाः तमाल वन वासिनः ।नारि केल अशनाः चैव तेषाम् संख्या न विद्यते ॥४-३७-२५॥
+वनेभ्यो गह्वरेभ्यः च सरित्भ्यः च महाबलाः ।आगच्छत् वानरी सेना पिबन्ति इव दिवा करम् ॥४-३७-२६॥
+ये तु त्वरयितुम् याता वानराः सर्व वानरान् ।ते वीरा हिमवत् शैले ददृशुः तम् महाद्रुमम् ॥४-३७-२७॥
+तस्मिन् गिरि वरे पुण्ये यज्ञो माहेश्वरः पुरा ।सर्व देव मनः तोषो बभूव सु मनोरमः ॥४-३७-२८॥
+अन्न निस्यंद जातानि मूलानि च फलानि च ।अमृत स्वादु कल्पानि ददृशुः तत्र वानराः ॥४-३७-२९॥
+तत् अन्न संभवम् दिव्यम् फलम् मूलम् मनोहरम् ।यः कश्चित् सकृत् अश्नाति मासम् भवति तर्पितः ॥४-३७-३०॥
+तानि मूलानि दिव्यानि फलानि च फल अशनाः ।औषधानि च दिव्यानि जगृहुर् हरि पुंगवाः ॥४-३७-३१॥
+तस्मात् च यज्ञ आयतनात् पुष्पाणि सुरभीणि च ।आनिन्युर् वानरा गत्वा सुग्रीव प्रिय कारणात् ॥४-३७-३२॥
+ते तु सर्वे हरिवराः पृथिव्याम् सर्व वानरान् ।संचोदयित्वा त्वरितम् यूथानाम् जग्मुर् अग्रतः ॥४-३७-३३॥
+ते तु तेन मुहूर्तेन कपयः शीघ्र चारिणः ।किष्किंधाम् त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥४-३७-३४॥
+ते गृहीत्वा ओषधीः सर्वाः फल मूलम् च वानराः ।तम् प्रतिग्राहयामासुर् वचनम् च इदम् अब्रुवन् ॥४-३७-३५॥
+सर्वे परिसृताः शैलाः सरितः च वनानि च ।पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते ॥४-३७-३६॥
+एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग अधिपः ।प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम् ॥४-३७-३७॥
+प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् ।वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् ॥४-३८-१॥
+विसर्जयित्वा स हरीन् सहस्रान् तान् क��त कर्मणः ।मेने कृतार्थम् आत्मानम् राघवम् च महाबलम् ॥४-३८-२॥
+स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् ॥४-३८-३॥
+किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते ।तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥४-३८-४॥
+सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह ।एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया ॥४-३८-५॥
+तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् ।विसर्जयामास तदा तारा अद्याः च एव योषितः ॥४-३८-६॥
+एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् ।तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः ॥४-३८-७॥
+बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः ।तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः ॥४-३८-८॥
+उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः ।श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः ॥४-३८-९॥
+समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् ।ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः ॥४-३८-१०॥
+लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् ।इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम् ॥४-३८-११॥
+बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः ।पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि ॥४-३८-१२॥
+शुक्लैः च वाल व्यजनैः धूयमानैः समंततः ।शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः ॥४-३८-१३॥
+निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् ।स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः ॥४-३८-१४॥
+परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम् ॥४-३८-१५॥
+अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः ।आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत् ॥४-३८-१६॥
+कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा ।तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम् ॥४-३८-१७॥
+वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् ।पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम् ॥४-३८-१८॥
+प्रेम्णा च बहुमानात् च राघवः परिषस्वजे ।परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत् ॥४-३८-१९॥
+निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः ।धर्मम् अर्थम् च कामम् च काले यः तु निषेवते ॥४-३८-२०॥
+विभज्य सततम् वीर स राजा हरिसत्तम ।हित्वा धर्मम् तथा अर्थम् च कामम् यः तु नि��ेवते ॥४-३८-२१॥
+स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः ॥४-३८-२२॥
+त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते ।उद्योग समयः तु एष प्राप्तः शत्रु निषूदन ॥४-३८-२३॥
+संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः ।एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत् ॥४-३८-२४॥
+प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया ॥४-३८-२५॥
+तव देव प्रसदात् च भ्रातुः च जयताम् वर ।कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः ॥४-३८-२६॥
+एते वानर मुख्याः च शतशः शत्रु सूदन ।प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान् ॥४-३८-२७॥
+ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव ।कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः ॥४-३८-२८॥
+देव गन्धर्व पुत्राः च वानराः काम रूपिणः ।स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव ॥४-३८-२९॥
+शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः ।अयुतैः च आवृता वीरा शंकुभिः च परंतप ॥४-३८-३०॥
+अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः ।समुद्राः च परार्धाः च हरयो हरि यूथपाः ॥४-३८-३१॥
+आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः ।मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः ॥४-३८-३२॥
+ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे ।निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम् ॥४-३८-३३॥
+ततः समुद्योगम् अवेक्ष्य वीर्यवान्हरि प्रवीरस्य निदेश वर्तिनः ।बभूव हर्षात् वसुधा अधिप आत्मजःप्रबुद्ध नील उत्पल तुल्य दर्शनः ॥४-३८-३४॥
+इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः ।बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥४-३९-१॥
+यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति ।आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः ॥४-३९-२॥
+चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् ।त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप ॥४-३९-३॥
+एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् ।जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम् ॥४-३९-४॥
+त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् ।त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि ॥४-३९-५॥
+जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः ।वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शच���म् ॥४-३९-६॥
+न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः ।पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा ॥४-३९-७॥
+एतस्मिन् अन्तरे च एव रजः समभिवर्तत ।उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम् ॥४-३९-८॥
+दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः ।चचाल च मही सर्वा स शैल वन कानना ॥४-३९-९॥
+ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः ।कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः ॥४-३९-१०॥
+निमेष अंतर मात्रेण ततः तैः हरि यूथपैः ।कोटी शत परीवारैः कामरूपिभिः आवृता ॥४-३९-११॥
+नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः ।हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः ॥४-३९-१२॥
+तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः ।पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः ॥४-३९-१३॥
+कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा ।वीरः शतबलिः नाम वानरः प्रत्यदृश्यत ॥४-३९-१४॥
+ततः कांचन शैल आभः ताराया वीर्यवान् पिता ।अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत ॥४-३९-१५॥
+तथा अपरेण कोटीनाम् साहस्रेण समन्वितः ।पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः ॥४-३९-१६॥
+पद्म केसर संकाशः तरुण अर्क निभ आननः ।बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः ॥४-३९-१७॥
+अनीकैः बहु साहस्रैः वानराणाम् समन्वितः ।पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥४-३९-१८॥
+गो लांगूल महाराजो गवाक्षो भीम विक्रमः ।वृतः कोटि सहस्रेण वानराणाम् अदृश्यत ॥४-३९-१९॥
+ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः ।वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत ॥४-३९-२०॥
+महा अचल निभैः घोरैः पनसो नाम यूथपः ।आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः ॥४-३९-२१॥
+नील अंजन चय आकारो नीलो नाम अथ यूथपः ।अदृश्यत महाकायः कोटिभिः दशभिः वृतः ॥४-३९-२२॥
+ततः कांचन आभो गवयो नाम यूथपः ।आजगाम महावीर्यः कोटिभिः पंचभिः वृतः ॥४-३९-२३॥
+दरीमुखः च बलवान् यूथपो अभ्याययौ तदा ।वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः ॥४-३९-२४॥
+मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ ।कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम् ॥४-३९-२५॥
+गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः ।आजगाम महातेजाः सुग्रीवस्य समीपतः ॥४-३९-२६॥
+ऋक्ष राजो महातेजा जांबवान् नाम नामतः ।कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः ॥४-३९-२७॥
+रुमणो नाम तेजस���वी विक्रान्तैः वानरैः वृतः ।आगतो बलवान् तूर्णम् कोटि शत समावृतः ॥४-३९-२८॥
+ततः कोटि सहस्राणाम् सहस्रेण शतेन च ।पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः ॥४-३९-२९॥
+ततः पद्म सहस्रेण वृतः शन्कु शतेन च ।युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः ॥४-३९-३०॥
+ततः तारा द्युतिः तारो हरिः भीम पराक्रमः ।पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत ॥४-३९-३१॥
+इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत ।एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः ॥४-३९-३२॥
+ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः ।आयुतेन वृतः चैव सहस्रेण शतेन च ॥४-३९-३३॥
+ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली ॥४-३९-३४॥
+कैलास शिखर आकारैः वानरैः भीम विक्रमैः ।वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत ॥४-३९-३५॥
+नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः ।कोटी शतेन संप्राप्तः सहस्रेण शतेन च ॥४-३९-३६॥
+ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः ।संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः ॥४-३९-३७॥
+शरभः कुमुदो वह्निः वानरो रंहः एव च ।एते च अन्ये च बहवो वानराः काम रूपिणः ॥४-३९-३८॥
+आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च ।यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते ॥४-३९-३९॥
+आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः ।आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव ॥४-३९-४०॥
+कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः ।शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४-३९-४१॥
+अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् ।सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा ॥४-३९-४२॥
+सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत् ॥४-३९-४३॥
+यथा सुखम् पर्वत निर्झरेषुवनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवत् बलानिबलम् बलज्ञः प्रतिपत्तुम् ईष्टे ॥४-३९-४४॥
+अथ राजा समृद्ध अर्थः सुग्रीवः प्लवगेश्वरः ।उवाच नरशार्दूलम् रामम् परबलार्दनम् ॥४-४०-१॥
+आगता विनिविष्टाः च बलिनः कामरूपिणः ।वानरेन्द्रा महेन्द्र आभा ये मत् विषय वासिनः ॥४-४०-२॥
+त इमे बहु विक्रान्तैः बलिभिः भीम विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-३॥
+ख्यात कर्म अपदानाः च बलवन���तो जित क्लमाः ।पराक्रमेषु विख्याता व्यवसायेषु च उत्तमाः ॥४-४०-४॥
+पृथिवि अंबु चरा राम नाना नग निवासिनः ।कोटि ओघाः च इमे प्राप्ता वानराः तव किंकराः ॥४-४०-५॥
+निदेश वर्तिनः सर्वे सर्वे गुरु हिते स्थिताः ।अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्ति अरिंदम ॥४-४०-६॥
+त इमे बहु साहस्रैः अनेकैः बहु विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-७॥
+यत् मन्यसे नरव्याघ्र प्राप्त कालम् तत् उच्यताम् ।तत् सैन्यम् त्वत् वशे युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-८॥
+कामम् एषाम् इदम् कार्यम् विदितम् मम तत्त्वतः ।तथा अपि तु यथा युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-९॥
+तथा ब्रुवाणम् सुग्रीवम् रामो दशरथात्मजः ।बाहुभ्याम् संपरिष्वज्य इदम् वचनम् अब्रवीत् ॥४-४०-१०॥
+ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा ।स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥४-४०-११॥
+अधिगम्य तु वैदेहीम् निलयम् रावणस्य च ।प्राप्त कालम् विधास्यामि तस्मिन् काले सह त्वया ॥४-४०-१२॥
+न अहम् अस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।त्वम् अस्य हेतुः कार्यस्य प्रभुः च प्लवगेश्वर ॥४-४०-१३॥
+त्वम् एव आज्ञापय विभो मम कार्य विनिश्चयम् ।त्वम् हि जानासि यत् कार्यम् मम वीर न संशयः ॥४-४०-१४॥
+सुहृद् द्वितीयो विक्रान्तः प्राज्ञः काल विशेष वित् ।भवान् अस्मत् हिते युक्तः सुहृद् आप्तो अर्थवित्तमः ॥४-४०-१५॥
+एवम् उक्तः तु सुग्रीवो विनतम् नाम यूथपम् ।अब्रवीत् राम सांनिध्ये लक्ष्मणस्य च धीमतः ॥४-४०-१६॥
+शैलाभम् मेघ निर्घोषम् ऊर्जितम् प्लवगेश्वरम् ।सोम सूर्य निभैः सार्धम् वानरैः वानरोत्तम ॥४-४०-१७॥
+देश काल नयैः युक्तः विज्ञः कार्य विनिश्चये ।वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ॥४-४०-१८॥
+अधिगच्छ दिशम् पूर्वाम् स शैल वन काननाम् ।तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च ॥४-४०-१९॥
+मार्गध्वम् गिरि दुर्गेषु वनेषु च नदीषु च ।नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा ॥४-४०-२०॥
+कालिंदीम् यमुनाम् रम्याम् यामुनम् च महागिरिम् ।सरस्वतीम् च सिंधुम् च शोणम् मणि निभ उदकम् ॥४-४०-२१॥
+महीम् कालमहीम् चैव शैल कानन शोभिताम् ।ब्रह्ममालान् विदेहान् च मालवान् काशि कोसलान् ॥४-४०-२२॥
+मागधाम् च महाग्रामान् पुण्ड्रान् अंगाम् तथैव च ।भूमिम् च कोशकाराणाम् भूमिम् च रजत आकराम् ॥४-४०-२३॥
+सर्वम् च त��् विचेतव्यम् मार्गयद्भिः ततः ततः ।रामस्य दयिताम् भार्याम् सीताम् दशरथः स्नुषाम् ॥४-४०-२४॥
+समुद्रम् अवगाढान् च पर्वतान् पत्तनानि च ।मंदरस्य च ये कोटिम् संश्रिताः केचित् आलयाः ॥४-४०-२५॥
+कर्ण प्रावरणाः चैव तथा च अपि ओष्ठ कर्णकाः ।घोर लोह मुखाः चैव जवनाः च एक पादकाः ॥४-४०-२६॥
+अक्षया बलवंतः च तथैव पुरुष आदकाः ।किराताः तीक्ष्ण चूडाः च हेमाभाः प्रिय दर्शनाः ॥४-४०-२७॥
+आम मीन अशनाः चापि किराता द्वीप वासिनः ।अंतर् जल चरा घोरा नरव्याघ्रा इति स्मृताः ॥४-४०-२८॥
+एतेषाम् आश्रयाः सर्वे विचेयाः कानन ओकसः ।गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च ॥४-४०-२९॥
+यत्नवन्तो यव द्वीपम् सप्त राज्य उपशोभितम् ।सुवर्ण रूप्यकम् द्वीपम् सुवर्ण आकर मण्डितम् ॥४-४०-३०॥
+यव द्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः ।दिवम् स्पृशति शृन्गेण देव दानव सेवितः ॥४-४०-३१॥
+एतेषाम् गिरि दुर्गेषु प्रपातेषु वनेषु च ।मार्गध्वम् सहिताः सर्वे राम पत्नीम् यशस्विनीम् ॥४-४०-३२॥
+ततो रक्त जलम् प्राप्य शोण आख्यम् शीघ्र वाहिनीम् ।गत्वा पारम् समुद्रस्य सिद्ध चारण सेवितम् ॥४-४०-३३॥
+तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-३४॥
+पर्वत प्रभवा नद्यः सुभीम बहु निष्कुटाः ।मार्गितव्या दरीमन्तः पर्वताः च वनानि च ॥४-४०-३५॥
+ततः समुद्र द्वीपान् च सुभीमान् द्रष्टुम् अर्हथ ।ऊर्मिमंतम् महारौद्रम् क्रोशंतम् अनिल उद्धितम् ॥४-४०-३६॥
+तत्र असुरा महाकायाः छायाम् गृह्णन्ति नित्यशः ।ब्रह्मणा समनुज्ञाता दीर्घ कालम् बुभुक्षिताः ॥४-४०-३७॥
+तम् काल मेघ प्रतिमम् महोरग निषेवितम् ।अभिगम्य महानादम् तीर्थेन एव महोदधिम् ॥४-४०-३८॥
+ततो रक्तजलम् भीमम् लोहितम् नाम सागरम् ।गत्वा प्रेक्ष्यथ ताम् चैव बृहतीम् कूटशाल्मलीम् ॥४-४०-३९॥
+गृहम् च वैनतेयस्य नाना रत्न विभूषितम् ।तत्र कैलास संकाशम् विहितम् विश्वकर्मणा ॥४-४०-४०॥
+तत्र शैल निभा भीमा मन्देहा नाम राक्षसाः ।शैल शृंगेषु लंबन्ते नाना रूपा भयावहाः ॥४-४०-४१॥
+ते पतन्ति जले नित्यम् सूर्यस्य उदयनम् प्रति ।अभितप्ताः च सूर्येण लंबन्ते स्म पुनः पुनः ॥४-४०-४२॥
+निहता ब्रह्म तेजोभिः अहनि अहनि राक्षसाः ।ततः पाण्डुर मेघाभम् क्षीरौदम् नाम सागरम् ॥४-४०-४३॥
+गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ता हारम् इव ऊर्म��भिः ।तस्य मध्ये महा श्वेतो ऋषभो नाम पर्वतः ॥४-४०-४४॥
+दिव्य गन्धैः कुसुमितै आचितैः च नगैः वृतः ।सरः च राजतैः पद्मैः ज्वलितैः हेम केसरैः ॥४-४०-४५॥
+नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् ।विबुधाः चारणा यक्षाः किन्नराः स अप्सरो गणाः ॥४-४०-४६॥
+हृष्टाः समधिगच्छन्ति नलिनीम् ताम् रिरंसवः ।क्षीरोदम् समतिक्रम्य ततो द्रक्ष्यथ वानराः ॥४-४०-४७॥
+जलोदम् सागरम् शीघ्रम् सर्व भूत भयावहम् ।तत्र तत् कोपजम् तेजः कृतम् हयमुखम् महत् ॥४-४०-४८॥
+अस्य आहुः तन् महावेगम् ओदनम् स चराचरम् ।तत्र विक्रोशताम् नादो भूतानाम् सागर ओकसाम् ।श्रूयते च असमर्थानाम् दृष्ट्वा तत् वडवा मुखम् ॥४-४०-४९॥
+स्वादु उदस्य उत्तरे देशे योजनानि त्रयोदश ।जातरूप शिलो नाम सुमहान् कनक प्रभः ॥४-४०-५०॥
+तत्र चन्द्र प्रतीकाशम् पन्नगम् धरणी धरम् ।पद्म पत्र विशालाक्षम् ततो द्रक्ष्यध वानराः ॥४-४०-५१॥
+आसीनम् पर्वतस्य अग्रे सर्व भूत नमस्कृतम् ।सहस्र शिरसम् देवम् अनंतम् नील वाससम् ॥४-४०-५२॥
+त्रिशिराः कांचनः केतुः तालः तस्य महात्मनः ।स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः ॥४-४०-५३॥
+पूर्वस्याम् दिशि निर्माणम् कृतम् तत् त्रिदशेश्वरैः ।ततः परम् हेममयः श्रीमान् उदय पर्वतः ॥४-४०-५४॥
+तस्य कोटिः दिवम् स्पृष्ट्वा शत योजनम् आयता ।जातरूपमयी दिव्या विराजति स वेदिका ॥४-४०-५५॥
+सालैः तालैः तमालैः च कर्णिकारैः च पुष्पितैः ।जातरूपमयैः दिव्यैः शोभते सूर्य सन्निभैः ॥४-४०-५६॥
+तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ।शृंगम् सौमनसम् नाम जातरूपमयम् ध्रुवम् ॥४-४०-५७॥
+तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुः त्रिविक्रमे ।द्वितीयम् शिखरम् मेरोः चकार पुरुषोत्तमः ॥४-४०-५८॥
+उत्तरेण परिक्रम्य जंबू द्वीपम् दिवाकरः ।दृश्यो भवति भूयिष्ठम् शिखरम् तन् महोच्छ्रयम् ॥४-४०-५९॥
+तत्र वैखानसा नाम वालखिल्या महर्षयः ।प्रकाशमाना दृश्यन्ते सूर्य वर्णाः तपस्विनः ॥४-४०-६०॥
+अयम् सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।तस्मिन् तेजः च चक्षुः च सर्व प्राणभृताम् अपि ॥४-४०-६१॥
+शैलस्य तस्य पृष्ठेषु कंदरेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-६२॥
+कांचनस्य च शैलस्य सूर्यस्य च महात्मनः ।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥४-४०-६३॥
+पूर्वम् एतत् कृतम् द्वारम् पृथिव्या भुवन���्य च ।सूर्यस्य उदयनम् चैव पूर्वा हि एषा दिक् उच्यते ॥४-४०-६४॥
+तस्य शलस्य पृष्ठेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गतव्या ततः ततः ॥४-४०-६५॥
+ततः परम् अगम्या स्यात् दिक् पूर्वा त्रिदश आवृता ।रहिता चन्द्र सूर्याभ्याम् अदृश्या तिमिर आवृता ॥४-४०-६६॥
+शैलेषु तेषु सर्वेषु कंदरेषु वनेषु च ।ये च न उक्ता मयोद्देशा विचेया तेषु जानकी ॥४-४०-६७॥
+एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४०-६८॥
+अभिगम्य तु वैदेहीम् निलयम् रावणस्य च ।मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम् ॥४-४०-६९॥
+ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सिद्ध अर्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् ॥४-४०-७०॥
+महेन्द्र कांताम् वन षण्ड मण्डिताम्दिशम् चरित्वा निपुणेन वानराः ।अवाप्य सीताम् रघु वंशज प्रियाम्ततो निवृत्ताः सुखिनो भविष्यथ ॥४-४०-७१॥
+ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥
+नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥
+सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥
+मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥
+अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥
+तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥
+ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥
+सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥
+ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।वरदाम् च महाभागाम् महोरग निषेविताम् ।मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥
+अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥
+तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥
+नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् प��ण्ड्यान् केरलान् ॥४-४१-१२॥
+अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥
+सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥
+तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥
+द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥
+ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥
+कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥
+युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥
+अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥
+जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥
+देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥
+तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥
+अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥
+स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥
+दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥
+एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥
+तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥
+चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥
+तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥
+प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥
+अध्वना दुर्विगाह���न योजनानि चतुर्दश ।ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥
+सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।तत्र भुक्त्वा वर अर्हाणि मूलानि च फलानि च ॥४-४१-३३॥
+मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥
+अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥
+शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥
+विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैः घोरैः तीष्क्ण दम्ष्ट्रैः महा विषैः ॥४-४१-३७॥
+सर्प राजो महाघोरो यस्याम् वसति वासुकिः ।निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥
+तत्र च अंतरोद्देशा ये केचन समावृताः ।तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥
+सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥
+दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥
+रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥
+शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥
+अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥
+राजधानी यमस्य एषा कष्टेन तमसा आवृता ।एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥
+सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥
+यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥
+ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥
+अमित बल पराक्रमा भवन्तोविपुल गुणेषु कुलेषु च प्रसूताः ।मनुज पति सुताम् यथा लभध्वम्तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥
+ततः प्रस्थाप्य सुग्रीवः तान् हरीन् दक्षिणाम् दिशम् ।अब्रवित् मेघ संकाशम् सुशेषणम् नाम वानरम् ॥४-४२-१॥
+तारायाः पितरम् राजा श्वशुरम् भीम विक्रमम् ।अब्रवीत् प्रांजलिः वाक्यम् अभिगम्य प्रणम्य च ॥४-४२-२॥
+महर्षि पुत्रम् मारीचम् अर्चिष्मन्तम् महाकपिम् ।वृ^इतम् कपिवरैः शूरैः महेन्द्र सदृ^इश द्युतिम् ॥४-४२-३॥
+बुद्धि विक्रम सम्पन्नान् वैनतेय सम द्युतिम् ।मरीचि पुत्रान् मारीचान् अर्चिर्माल्यान् महबलान् ॥४-४२-४॥
+ऋषि पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् ।द्वाभ्याम् शत सहस्राभ्याम् कपीनाम् कपि सत्तमाः ॥४-४२-५॥
+सुशेषण प्रमुखा यूयम् वैदेहीम् परिमार्गथ ।सौराष्ट्रान् सह बाह्लीकान् चंद्रचित्रान् तथैव च ॥४-४२-६॥
+स्फीतान् जन पदान् रम्यान् विपुलानि पुराणि च ।पुंनाग गहनम् कुक्षिम् वकुल उद्दालक आकुलम् ॥४-४२-७॥
+तथा केतक खंडान् च मार्गध्वम् हरि पुंगवाः ।प्रत्यक् स्रोतो वहाः चैव नद्यः शीतजलाः शिवाः ॥४-४२-८॥
+तापसानाम् अरण्यानि कांतारा गिरयः च ये ।तत्र स्थलीः मरुप्राया अति उच्च शिखराः शिलाः ॥४-४२-९॥
+गिरि जाल आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् ।ततः पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ ॥४-४२-१०॥
+तिमि नक्र आकुल जलम् गत्वा द्रक्ष्यथ वानराः ।ततः केतक खंडेषु तमाल गहनेषु च ॥४-४२-११॥
+कपयो विहरिष्यन्ति नारिकेल वनेषु च ।तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च ॥४-४२-१२॥
+वेलातल निवेष्टेषु पर्वतेषु वनेषु च ।मुरची पत्तनम् चैव रम्यम् चैव जटा पुरम् ॥४-४२-१३॥
+अवंतीम् अंगलेपाम् च तथा च अलक्षितम् वनम् ।राष्ट्राणि च विशालानि पत्तनानि ततः ततः ॥४-४२-१४॥
+सिंधु सागरयोः चैव संगमे तत्र पर्वतः ।महान् हेम गिरिः नाम शत शृंगो महाद्रुमः ॥४-४२-१५॥
+तत्र प्रस्थेषु रम्येषु सिंहाः पक्ष गमाः स्थिताः ।तिमि मत्स्य गजाम्ब् चैव नीडानि आरोपयन्ति ते ॥४-४२-१६॥
+तानि नीडानि सिंहानाम् गिरि शृंग गताः च ये ।दृप्ताः तृप्ताः च मातंगाः तोयद स्वन निःस्वनाः ॥४-४२-१७॥
+विचरन्ति विशाले अस्मिन् तोय पूर्णे समन्ततः ।तस्य शृंगम् दिव स्पर्शम् कांचनम् चित्र पादपम् ॥४-४२-१८॥
+सर्वम् आशु विचेतव्यम् कपिभिः काम रूपिभिः ।कोटिम् तत्र समुद्रे तु कांचनीम् शत योजनम् ॥४-४२-१९॥
+दुर्दर्शाम् पारियात्रस्य गता द्रक्ष्यथ वानराः ।कोट्यः तत्र चतुर्विम्शत् गंधर्वाणाम् तरस्विनाम् ॥४-४२-२०॥
+वसन्ति अग्नि निकाशानाम् घोराणाम् काम रूपिणाम् ।पावक अर्चिः प्रतीकाशाः समवेताः समन्ततः ॥४-४२-२१॥
+न अति आसादयित्वाः ते वानरैः ��ीम विक्रमैः ।न अदेयम् च फलम् तस्मात् देशात् किम्चित् प्लवंगमैः ॥४-४२-२२॥
+दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।फल मूलानि ते तत्र रक्षन्ते भीम विक्रमाः ॥४-४२-२३॥
+तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी ।न हि तेभ्यो भयम् किंचित् कपित्वम् अनुवर्तताम् ॥४-४२-२४॥
+तत्र वैदूर्य वर्णाभो वज्र संस्थान संस्थितः ।नाना द्रुम लता आकीर्णो वज्रः नाम महागिरिः ॥४-४२-२५॥
+श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् ।गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवंगमाः ॥४-४२-२६॥
+चतुर् भागे समुद्रस्य चक्रवान् नाम पर्वतः ।तत्र चक्रम् सहस्रारम् निर्मितम् विश्वकर्मणा ॥४-४२-२७॥
+तत्र पंचजनम् हत्वा हयग्रीवम् च दानवम् ।आजहार ततः चक्रम् शंखम् च पुरुषोत्तमः ॥४-४२-२८॥
+तस्य सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-२९॥
+योजनानि चतुः षष्टिः वराहो नाम पर्वतः ।सुवर्ण शृंगः सुमहान् अगाधे वरुण आलये ॥४-४२-३०॥
+तत्र प्राक् ज्योतिषम् नाम जातरूपमयम् पुरम् ।यस्मिन् वसति दुष्ट आत्मा नरको नाम दानवः ॥४-४२-३१॥
+तत्र सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-३२॥
+तम् अतिक्रम्य शैलेन्द्रम् कांचनान् अन्तर दर्शनम् ।पर्वतः सर्व सौवर्णो धारा प्रस्रवण आयुतः ॥४-४२-३३॥
+तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः ।अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः ॥४-४२-३४॥
+यस्मिन् हरि हयः श्रीमान् महेन्द्रः पाकशासनः ।अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥४-४२-३५॥
+तम् अतिक्रम्य शैलेन्द्रम् महेन्द्र परिपालितम् ।षष्टिम् गिरि सहस्राणि कांचनानि गमिष्यथ ॥४-४२-३६॥
+तरुण आदित्य वर्णानि भ्राजमानानि सर्वतः ।जातरूपमयैः वृक्षैः शोभितानि सुपुष्पितैः ॥४-४२-३७॥
+तेषाम् मध्ये स्थितो राजा मेरुः उत्तम पर्वतः ।आदित्येन प्रसन्नेन शैलो दत्त वरः पुरा ॥४-४२-३८॥
+तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वत् आश्रयाः ।मत् प्रसादात् भविष्यन्ति दिवा रात्रौ च कांचनाः ॥४-४२-३९॥
+त्वयि ये च अपि वत्स्यन्ति देव गन्धर्व दानवाः ।ते भविष्यन्ति भक्ताः च प्रभया कांचन प्रभाः ॥४-४२-४०॥
+विश्वेदेवाः च वसवो मरुतः च दिव ओकसः ।आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम पर्वतम् ॥४-४२-४१॥
+आदित्यम् उपतिष्ठन्ति तैः च सूर्यो अभिपूजितः ।अदृ��्यः सर्व भूतानाम् अस्तम् गच्छति पर्वतम् ॥४-४२-४२॥
+योजनानाम् सहस्राणि दश तानि दिवाकरः ।मुहूर्त अर्धेन तम् शीघ्रम् अभियाति शिल उच्चयम् ॥४-४२-४३॥
+शृंगे तस्य महत् दिव्यम् भवनम् सूर्य संनिभम् ।प्रासाद गण संबाधम् विहितम् विश्वकर्मणा ॥४-४२-४४॥
+शोभितम् तरुभिः चित्रैः नाना पक्षि समाकुलैः ।निकेतम् पाश हस्तस्य वरुणस्य महात्मनः ॥४-४२-४५॥
+अन्तरा मेरुम् अस्तम् च तालो दश शिरा महान् ।जातरूपमयः श्रीमान् भ्राजते चित्र वेदिकः ॥४-४२-४६॥
+तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-४७॥
+यत्र तिष्ठति धर्मज्ञः तपसा स्वेन भावितः ।मेरु सावर्णिर् इति एष ख्यातो वै ब्रह्मणा समः ॥४-४२-४८॥
+प्रष्टव्यो मेरुसावर्णिः महर्षिः सूर्य संनिभः ।प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति ॥४-४२-४९॥
+एतावत् जीव लोकस्य भास्करो रजनी क्षये ।कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम् ॥४-४२-५०॥
+एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४२-५१॥
+अवगम्य तु वैदेहीम् निलयम् रावणस्य च ।अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत ॥४-४२-५२॥
+ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४-४२-५३॥
+श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट कारिभिः ।गुरुः एष महाबाहुः श्वशुरो मे महाबलः ॥४-४२-५४॥
+भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि ।प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम् ॥४-४२-५५॥
+दृष्टायाम् तु नरेन्द्रस्या पत्न्याम् अमित तेजसः ।कृत कृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥४-४२-५६॥
+अतो अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् ।संप्रधार्य भवद्भिः च देश काल अर्थ संहितम् ॥४-४२-५७॥
+ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीव वाक्यम् निपुणम् निशम्य ।आमंत्र्य सर्वे प्लवगाधिपम् तेजग्मुर् दिशम् ताम् वरुण अभिगुप्ताम् ॥४-४२-५८॥
+ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् ।वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥४-४३-१॥
+उवाच राजा सर्वज्ञः सर्व वानर सत्तम ।वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥४-४३-२॥
+वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् ।वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥४-४३-३॥
+दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् ।सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४-४३-४॥
+अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥४-४३-५॥
+कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना ।तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥४-४३-६॥
+अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् ।तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥४-४३-७॥
+एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा ।तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥४-४३-८॥
+अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः ।अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥४-४३-९॥
+इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च ।भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥४-४३-१०॥
+तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथैव च ।प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥४-४३-११॥
+कांबोज यवनान् चैव शकान् पत्तनानि च ।अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥४-४३-१२॥
+लोध्र पद्मक खण्डेषु देवदारु वनेषु च ।रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥४-४३-१३॥
+ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् ।कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥४-४३-१४॥
+महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥४-४३-१५॥
+तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् ।ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥४-४३-१६॥
+ततो देवसखो नाम पर्वतः पतग आलय ।नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥४-४३-१७॥
+तस्य कानन खण्डेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-१८॥
+तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् ।अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥४-४३-१९॥
+तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् ।कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥४-४३-२०॥
+तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् ।कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥४-४३-२१॥
+विशाला नलिनी यत्र प्रभूत कमलोत्पला ।हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥४-४३-२२॥
+तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः ।धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥४-४३-२३॥
+तस्य चन्द्र निकशेषु पर्वतेषु ���ुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-२४॥
+क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् ।अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥४-४३-२५॥
+वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः ।देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥४-४३-२६॥
+क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च ।निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥४-४३-२७॥
+अवृक्षम् काम शैलम् च मानसम् विहग आलयम् ।न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥४-४३-२८॥
+स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः ।क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥
+मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् ।मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥४-४३-३०॥
+स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु ।तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥४-४३-३१॥
+सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः ।वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥४-४३-३२॥
+प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ।हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥४-४३-३३॥
+तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः ।औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥४-४३-३४॥
+गजः पर्येति तम् देशम् सदा सह करेणुभिः ।तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् ।अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥४-४३-३५॥
+गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते ।विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥४-४३-३६॥
+तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा ।उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥४-४३-३७॥
+ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च ।उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥४-४३-३८॥
+ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः ।नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥४-४३-३९॥
+रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः ।तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥
+महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः ।नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥
+निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः ।उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४-४३-४२॥
+सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः ।जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४-४३-४३॥
+नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः ।दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४-४३-४४॥
+नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः ।मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च ।स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४-४३-४५॥
+सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः ।महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४-४३-४६॥
+शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च ।मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४-४३-४७॥
+पानानि च महा अर्हाणि भक्ष्याणि विविधानि च ।स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४-४३-४८॥
+गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा ।रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४-४३-४९॥
+सर्वे सुकृत कर्माणः सर्वे रति परायणाः ।सर्वे काम अर्थ सहिता वसंति सह योषितः ॥४-४३-५०॥
+गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः ।श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥४-४३-५१॥
+तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः ।अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥४-४३-५२॥
+तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः ।तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥४-४३-५३॥
+इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये ।देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥४-४३-५४॥
+स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते ।सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥४-४३-५५॥
+भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः ।ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥४-४३-५६॥
+न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः ।अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥४-४३-५७॥
+सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः ।तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥४-४३-५८॥
+एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४३-५९॥
+सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् ।यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥४-४३-६०॥
+ततः कृतम् दाशरथेः महत् प्रियम्महत्तरम् च अपि ततो मम प्रियम् ।कृतम् भविष्यति अनिलोअनलोउपमाविदेहजा दर्शनजेन कर्मणा ॥४-४३-६१॥
+ततः कृतार्थाः सहिताः सबान्धवामया अर्चिताः सर्व गुणैः मनो रमैः ।चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअःसह प्रिया भूत धराः प्लवंग��ाः ॥४-४३-६२॥
+विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥४-४४-१॥
+अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥४-४४-२॥
+न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥४-४४-३॥
+स असुराः सह गंधर्वाः स नाग नर देवताः ।विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४-४४-४॥
+गतिः वेगः च तेजः च लाघवम् च महाकपे ।पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥४-४४-५॥
+तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥४-४४-६॥
+त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।देश काल अनुवृत्तिः च नयः च नय पण्डित ॥४-४४-७॥
+ततः कार्य समासंगम् अवगम्य हनूमति ।विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥४-४४-८॥
+सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥४-४४-९॥
+तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥४-४४-१०॥
+तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥४-४४-११॥
+ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥४-४४-१२॥
+अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥४-४४-१३॥
+व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥४-४४-१४॥
+स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥४-४४-१५॥
+स तत् प्रकर्षन् हरिणाम् महत् बलम्बभूव वीरः पवनात्मजः कपिः ।गत अंबुदे व्योम्नि विशुद्ध मण्डलःशशी इव नक्षत्र गणोपशोभितः ॥४-४४-१६॥
+अतिबल बलम् आश्रितः तव अहम्हरि वर विक्रम विक्रमैः अनल्पैः ।पवन सुत यथा अधिगम्यते साजनक सुता हनुमन् तथा कुरुष्व ॥४-४४-१७॥
+सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥४-४५-१॥
+एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः ।तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥४-४५-२॥
+शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे ।रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥४-४५-३॥
+प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः ।उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥४-४५-४॥
+प्रतस्थे सहसा वीरो हरिः शतबलिः तदा ।पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥४-४५-५॥
+तारा अंगदादि सहितः प्लवगः पवनात्मजः ।अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥४-४५-६॥
+पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः ।प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥४-४५-७॥
+ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥४-४५-८॥
+एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥४-४५-९॥
+नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः ।क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥४-४५-१०॥
+एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥४-४५-११॥
+अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे ।ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥४-४५-१२॥
+वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति ।एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥४-४५-१३॥
+विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् ।धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥४-४५-१४॥
+अहम् योजन संख्यायाः प्लविता न अत्र संशयः ।शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥४-४५-१५॥
+भू तले सागरे वा अपि शैलेषु च वनेषु च ।पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥४-४५-१६॥
+इति एकैकः तदा तत्र वानरा बल दर्पिताः ।ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥४-४५-१७॥
+गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् ।कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः ॥४-४६-१॥
+सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् ।श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम ॥४-४६-२॥
+यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् ।परिकालयते वाली मलयम् प्रति पर्वतम् ॥४-४६-३॥
+तदा विवेश महिषो मलयस्य गुहाम् प्रति ।विवेश वाली तत्र अपि मलयम् तत् जिघांसया ॥४-४६-४॥
+ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् ।न च निष्क्रमते वाली तदा संवत्सरे गते ॥४-४६-५॥
+ततः क्षतज वेगेन आपुपूरे तदा बिलम् ।तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः ॥४-४६-६॥
+अथ अहम् गत बुद्धिः तु सुव्��क्तम् निहतो गुरुः ।शिला पर्वत संकाशा बिल द्वारि मया कृता ॥४-४६-७॥
+अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति ।ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते ॥४-४६-८॥
+राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह ।मित्रैः च सहितः तत्र वसामि विगत ज्वरः ॥४-४६-९॥
+आजगाम ततो वाली हत्वा तम् दानवर्षभः ।ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः ॥४-४६-१०॥
+स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः ।परिकालयते क्रोधात् धावंतम् सचिवैः सह ॥४-४६-११॥
+ततो अहम् वालिना तेन सानुबन्धः प्रधावितः ।नदीः च विविधाः पश्यन् वनानि नगराणि च ॥४-४६-१२॥
+आदर्श तल संकाशा ततो वै पृथिवी मया ।अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता ॥४-४६-१३॥
+पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् ।पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च ॥४-४६-१४॥
+उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् ।क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् ॥४-४६-१५॥
+परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् ।पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो ॥४-४६-१६॥
+दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् ।विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् ॥४-४६-१७॥
+द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् ।अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः ॥४-४६-१८॥
+स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् ।प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः ॥४-४६-१९॥
+हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् ।यदा न विन्दे शरणम् वालिना समभिद्रुतः ॥४-४६-२०॥
+ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् ।इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः ॥४-४६-२१॥
+मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले ।प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् ॥४-४६-२२॥
+तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति ।ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज ॥४-४६-२३॥
+न विवेश तदा वाली मतंगस्य भयात् तदा ।एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् ।पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः ॥४-४६-२४॥
+दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः ।व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥४-४७-१॥
+ते सरांसि सरित् कक्षान् आकाशम् नगराणि च ।नदी दुर्गान् तथा शैला��् विचिन्वन्ति समन्ततः ॥४-४७-२॥
+सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः ।तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥४-४७-३॥
+विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः ।समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४-४७-४॥
+सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् ।आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥४-४७-५॥
+तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः ।कपि राजेन संगम्य निराशाः कपि कुंजराः ॥४-४७-६॥
+विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह ।अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥४-४७-७॥
+दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः ।आगतः सह सैन्येन वीरः शतबलिः तदा ॥४-४७-८॥
+सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः ।समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥४-४७-९॥
+तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च ।आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥४-४७-१०॥
+विचिताः पर्वताः सर्वे वनानि गहनानि च ।निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥४-४७-११॥
+गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः ।विचिताः च महागुल्मा लता वितत संतताः ॥४-४७-१२॥
+गहनेषु च देशेषु दुर्गेषु विषमेषु च ।सत्त्वानि अतिप्रमाणानि विचितानि हतानि च ।ये चैव गहना देशा विचिताः ते पुनः पुनः ॥४-४७-१३॥
+उदार सत्त्व अभिजनो हनूमान्स मैथिलीम् ज्ञास्यसि वानरेन्द्र ।दिशम् तु याम् एव गता तु सीताताम् आस्थितो वायु सुतो हनूमान् ॥४-४७-१४॥
+सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः ।सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥४-४८-१॥
+स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः ।ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥४-४८-२॥
+पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् ।वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥४-४८-३॥
+अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् ।न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥४-४८-४॥
+ते भक्षयन्तो मूलानि फलानि विविधानि अपि ।अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥४-४८-५॥
+स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् ।निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥४-४८-६॥
+ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः ।स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥४-४८-७॥
+त्यक्त्वा तु तम् ततः देशम् सर��वे वै हरि यूथपाः ।देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥४-४८-८॥
+यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः ।निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥४-४८-९॥
+न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥४-४८-१०॥
+न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः ।स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥४-४८-११॥
+प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः ।कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥४-४८-१२॥
+महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः ।तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥४-४८-१३॥
+प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः ।तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥४-४८-१४॥
+अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् ।तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥४-४८-१५॥
+प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः ।तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥४-४८-१६॥
+हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः ।ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥४-४८-१७॥
+ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् ।तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥४-४८-१८॥
+गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् ।सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥४-४८-१९॥
+अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् ।तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥४-४८-२०॥
+रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह ।स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥४-४८-२१॥
+असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः ।ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥४-४८-२२॥
+व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् ।विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥४-४८-२३॥
+अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् ।ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥४-४८-२४॥
+अथ अंगदः तदा सर्वान् वानरान् इदम् अब्रवीत् ।परिश्रान्तो महा प्राज्ञः समाश्वास्य शनैर् वचः ॥४-४९-१॥
+वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।दरी गिरि गुहाः चैव विचिता नः समंततः ॥४-४९-२॥
+तत्र तत्र सह अस्माभिः जानकी न च दृश्यते ।तथा रक���षः अपहर्ता च सीतायाः चैव दुष्कृती ॥४-४९-३॥
+कालः च नः महान् यातः सुग्रीवः च उग्र शासनः ।तस्मात् भवन्तः सहिता विचिन्वन्तु समंततः ॥४-४९-४॥
+विहाय तन्द्रीम् शोकम् च निद्राम् चैव समुत्थिताम् ।विचिनुध्वम् तथा सीताम् पश्यामो जनक आत्मजाम् ॥४-४९-५॥
+अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् ।कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम् ॥४-४९-६॥
+अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वन ओकसः ।खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतत् विचिन्वताम् ॥४-४९-७॥
+अवश्यम् कुर्वताम् दृश्यते कर्मणः फलम् ।परम् निर्वेदम् आगम्य न हि नः मीलनम् क्षमम् ॥४-४९-८॥
+सुग्रीवः क्रोधनो राजा तीक्ष्ण दण्डः च वानराः ।भेतव्यम् तस्य सततम् रामस्य च महात्मनः ॥४-४९-९॥
+हितार्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते ।उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः ॥४-४९-१०॥
+अंगदस्य वचः श्रुत्वा वचनम् गंधमादनः ।उवाच व्यक्तया वाचा पिपासा श्रम खिन्नया ॥४-४९-११॥
+सदृशम् खलु वः वाक्यम् अंगदो यत् उवाच ह ।हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम् ॥४-४९-१२॥
+पुनः मार्गामहे शैलान् कन्दराम् च शिलान् तथा ।काननानि च शून्यानि गिरि प्रस्रवणानि च ॥४-४९-१३॥
+यथा उद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ।विचिन्वन्तु वनम् सर्वे गिरि दुर्गाणि संगताः ॥४-४९-१४॥
+ततः समुत्थाय पुनः वानराः ते महाबलाः ।विन्ध्य कानन संकीर्णाम् विचेरुर् दक्षिणाम् दिशम् ॥४-४९-१५॥
+ते शारद अभ्र प्रतिमम् श्रीमत् रजत पर्वतम् ।शृंगवन्तम् दरीवंतम् अधिरुह्य च वानराः ॥४-४९-१६॥
+तत्र लोध्र वनम् रम्यम् सप्त पर्ण वनानि च ।विचिन्वन्तो हरि वराः सीता दर्शन कान्क्षिणः ॥४-४९-१७॥
+तस्य अग्रम् अधिरूढाः ते श्रान्ता विपुल विक्रमाः ।न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम् ॥४-४९-१८॥
+ते तु दृष्टि गतम् दृष्ट्वा तम् शैलम् बहु कंदरम् ।अध्यारोहन्त हरयो वीक्षमाणाः समंततः ॥४-४९-१९॥
+अवरुह्य ततो भूमिम् श्रान्ता विगत चेतसः ।स्थित्वा मुहूर्तम् तत्र अथ वृक्ष मूलम् उपाश्रिताः ॥४-४९-२०॥
+ते मुहूर्तम् समाश्वस्ताः किंचित् भग्न परिश्रमाः ।पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम् ॥४-४९-२१॥
+हनुमत् प्रमुखाः ते तु प्रस्थिताः प्लवग ऋषभाः ।विंध्यम् एव आदितः कृत्वा विचेरुः ते समंततः ॥४-४९-२२॥
+सह त��रा अंगदाभ्याम् तु संगम्य हनुमान् कपिः ।विचिनोति च विन्ध्यस्य गुहाः च गहनानि च ॥४-५०-१॥
+सिंह शार्दूल जुष्टाः च गुहाः च परितः तथा ।विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥४-५०-२॥
+आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् ।तेषाम् तत्र एव वसताम् स कालो व्यत्यवर्तत ॥४-५०-३॥
+स हि देशो दुरन्वेष्यो गुहा गहनवान् महान् ।तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥४-५०-४॥
+परस्परेण रहिता अन्योन्यस्य अविदूरतः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥४-५०-५॥
+मैन्दः च द्विविदः चैव हनुमान् जांबवान् अपि ।अंगदो युव राजः च तारः च वनगोचरः ॥४-५०-६॥
+गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ।विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥४-५०-७॥
+दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् ।क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥४-५०-८॥
+अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् ।तत्र क्रौन्चाः च हंसाः च सारसाः च अपि निष्क्रमन् ॥४-५०-९॥
+जल आर्द्राः चक्रवाकाः च रक्त अंगाः पद्म रेणुभिः ।ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥४-५०-१०॥
+विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः ।संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥४-५०-११॥
+अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः ।नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥४-५०-१२॥
+दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशः ।ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥४-५०-१३॥
+अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः ।गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥४-५०-१४॥
+वयम् सर्वे परिश्रांता न च पश्याम मैथिलीम् ।अस्मात् च अपि बिलात् हंसाः क्रौन्चाः च सह सारसैः ॥४-५०-१५॥
+जल आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशः ।नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥४-५०-१६॥
+तथा च इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः ।इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥४-५०-१७॥
+अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् ।निशम्य तस्मात् सिंहाः च तान् तान् च मृग पक्षिणः ॥४-५०-१८॥
+प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् ।न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः ॥४-५०-१९॥
+वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते ।ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥४-५���-२०॥
+प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् ।ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥४-५०-२१॥
+अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् ।ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥४-५०-२२॥
+परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः ।ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥४-५०-२३॥
+आलोकम् ददृशुः वीरा निराशा जीविते यदा ।ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥४-५०-२४॥
+ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् ।सालान् तालान् तमालान् च पुन्नागान् वंजुलान् धवान् ॥४-५०-२५॥
+चंपकान् नाग वृक्षान् च कर्णिकारान् च पुष्पितान् ।स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥४-५०-२६॥
+आपीडैः च लताभिः च हेम आभरण भूषितैः ।तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥४-५०-२७॥
+विभ्राजमानान् वपुषा पादपान् च हिरण्मयान् ।नील वैदूर्य वर्णाः च पद्मिनीः पतगैः आवृताः ॥४-५०-२८॥
+महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः ।जातरूपमयैः मत्स्यैः महद्भिः च अथ पन्कजैः ॥४-५०-२९॥
+नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः ।कांचनानि विमानानि राजतानि तथा एव च ॥४-५०-३०॥
+तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥४-५०-३१॥
+ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः ।पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥४-५०-३२॥
+कांचन भ्रमरान् चैव मधूनि च समन्ततः ।मणि कांचन चित्राणि शयनानि आसनानि च ॥४-५०-३३॥
+विविधानि विशालानि ददृशुः ते समन्ततः ।हेम रजत कांस्यानाम् भाजनानाम् च राशयः ॥४-५०-३४॥
+अगुरूणाम् च दिव्यानाम् चंदनानाम् च संचयम् ।शुचीनि अभ्यवहाराणि मूलानि च फलानि च ॥४-५०-३५॥
+महा अर्हाणि च पानानि मधूनि रसवन्ति च ।दिव्यानाम् अम्बराणाम् च महा अर्हाणाम् च संचयान् ॥४-५०-३६॥
+कंबलानाम् च चित्राणाम् अजिनानाम् च संचयान् ।तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥४-५०-३७॥
+ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् ।तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥४-५०-३८॥
+ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः ।ताम् च ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥४-५०-३९॥
+तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा ।विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः ।प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥४-५०-४०॥
+ततो हनूमान् गिरि सन्निकाशःकृत अंजलिः ताम् अभिवाद्य वृद्धाम् ।पप्रच्छ का त्वम् भवनम् बिलम् चरत्नानि च इमानि वदस्व कस्य ॥४-५०-४१॥
+इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् ।अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥४-५१-१॥
+इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥४-५१-२॥
+महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः ।इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥४-५१-३॥
+दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः ।कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥४-५१-४॥
+शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।कांचनानि विमानानि राजतानि गृहाणि च ॥४-५१-५॥
+तपनीय गव अक्षाणि मणि जाल आवृतानि च ।पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥४-५१-६॥
+इमे जांबूनदमयाः पादपाः कस्य तेजसा ।कांचनानि च पद्मानि जातानि विमले जले ॥४-५१-७॥
+कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः ।आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥४-५१-८॥
+अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि ।एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥४-५१-९॥
+प्रति उवाच हनूमंतम् सर्व भूत हिते रता ।मयो नाम महातेजा मायावी दानवर्षभः ॥४-५१-१०॥
+तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् ।पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥४-५१-११॥
+येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् ।स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥४-५१-१२॥
+पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् ।विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥४-५१-१३॥
+उवास सुखितः कालम् कंचित् अस्मिन् महावने ।तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥४-५१-१४॥
+विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः ।इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥४-५१-१५॥
+शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् ।दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥४-५१-१६॥
+इदम् रक्षामि भवनम् हेमाया वानरोत्तम ।मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥४-५१-१७॥
+तया दत्त वरा च अस्मि रक्षामि भवनम् महान् ।किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥४-५१-१८॥
+कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् ।शुचीनि अभ्यवहार्याणि म���लानि च फलानि च ।भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥४-५१-१९॥
+अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् ।इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥४-५२-१॥
+वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् ।यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥४-५२-२॥
+तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः ।आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥४-५२-३॥
+राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५२-४॥
+लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥४-५२-५॥
+वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥४-५२-६॥
+अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् ।सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा -सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥४-५२-७॥
+रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् ।सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥४-५२-८॥
+विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् ।वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥४-५२-९॥
+विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः ।न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥४-५२-१०॥
+चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् ।लता पादप संछन्नम् तिमिरेण समावृतम् ॥४-५२-११॥
+अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः ।कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥४-५२-१२॥
+साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः ।तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥४-५२-१३॥
+अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः ।ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥४-५२-१४॥
+इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥४-५२-१५॥
+त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः ।आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥४-५२-१६॥
+अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः ।यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥४-५२-१७॥
+ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः ।एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥४-५२-१८॥
+प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् ।सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥४-५२-१९॥
+चरंत्या मम धर्मेण न कार्यम् इह केनचित् ।एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥४-५२-२०॥
+उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् ।शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥४-५२-२१॥
+यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना ।स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥४-५२-२२॥
+सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि ।तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥४-५२-२३॥
+त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् ।महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥४-५२-२४॥
+तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः ।एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥४-५२-२५॥
+जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् ।तपसः सुप्रभावेन नियम उपार्जितेन च ॥४-५२-२६॥
+सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् ।निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥४-५२-२७॥
+न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः ।ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥४-५२-२८॥
+सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः ।वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥४-५२-२९॥
+निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा ।उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥४-५२-३०॥
+निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् ।एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥४-५२-३१॥
+एष प्रसवणः शैलः सागरो अयम् महा उदधिः ।स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः ।इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥४-५२-३२॥
+ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् ।अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥४-५३-१॥
+मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् ।तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४-५३-२॥
+विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे ।उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥४-५३-३॥
+ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा -ततः पुष्प अतिभार अग्रान् लता शत समावृतान् ।द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥४-५३-४॥
+ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् ।नष्ट संदेश काल अर्था निपेतुर् धर���ी तले ॥४-५३-५॥
+ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः ।वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥४-५३-६॥
+स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः ।युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥४-५३-७॥
+शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥४-५३-८॥
+वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः ।प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥४-५३-९॥
+भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः ।हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥४-५३-१०॥
+कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः ।माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥४-५३-११॥
+इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः ।हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥४-५३-१२॥
+आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् ।प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥४-५३-१३॥
+तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः ।न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥४-५३-१४॥
+अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति ।तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥४-५३-१५॥
+त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च ।ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥४-५३-१६॥
+वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः ।न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥४-५३-१७॥
+नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा ।स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥४-५३-१८॥
+घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः ।किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे ।इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥४-५३-१९॥
+एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् ।सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥४-५३-२०॥
+तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः ।समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥४-५३-२१॥
+अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् ।राघव प्रिय कामाय घातयिष्यति असंशयम् ॥४-५३-२२॥
+न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः ।प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥४-५३-२३॥
+इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा ।नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥४-५३-२४॥
+प्लवंगमानाम् तु भय अर्दितानाम्श्रुत्वा वचः तार इदम् बभाषे ।अलम् विषादेन बिलम् प्रविश्यवसाम सर्वे यदि रोचते वः ॥४-५३-२५॥
+इदम् हि माया विहितम् सुदुर्गमम्प्रभूत वृक्ष उदक भोज्य पेयम् ।इह अस्ति नः न एव भयम् पुरंदरात्न राघवात् वानर राजतो अपि वा ॥४-५३-२६॥
+श्रुत्वा अंगदस्य अपि वचो अनुकूलम्ऊचुः च सर्वे हरयः प्रतीताः ।यथा न हन्येम तथा विधानम्असक्तम् अद्य एव विधीयताम् नः ॥४-५३-२७॥
+तथा ब्रुवति तारे तु तारा अधिपति वर्चसि ।अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत् ॥४-५४-१॥
+बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् ।चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम् ॥४-५४-२॥
+आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः ।शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया ॥४-५४-३॥
+बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः ।शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम् ॥४-५४-४॥
+भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः ।अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः ॥४-५४-५॥
+स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् ।भेदयामास तान् सर्वान् वानरान् वाक्य संपदा ॥४-५४-६॥
+तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् ।भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः ॥४-५४-७॥
+त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् ।दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता ॥४-५४-८॥
+नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव ।न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया ॥४-५४-९॥
+त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते ।यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः ॥४-५४-१०॥
+न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम् ॥४-५४-११॥
+विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा ।आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः ॥४-५४-१२॥
+याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् ।एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे ॥४-५४-१३॥
+स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा ।लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा ॥४-५४-१४॥
+लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः ।वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः ॥४-५४-१५॥
+अवस्थाने यदा एव त्वम् आसिष्यसि परंतप ।तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः ॥४-५४-१६॥
+स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः ।खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः ॥४-५४-१७॥
+स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः ।तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि ॥४-५४-१८॥
+अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः ।अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः ॥४-५४-१९॥
+अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् ।आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति ॥४-५४-२०॥
+धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः ।शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत् ॥४-५४-२१॥
+प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् ।तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम् ॥४-५४-२२॥
+श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् ।स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥४-५५-१॥
+स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व -स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् ।विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥४-५५-२॥
+भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् ।धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥
+कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना ।युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४-५५-४॥
+सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः ।विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥४-५५-५॥
+लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा ।आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥४-५५-६॥
+तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि ।आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥४-५५-७॥
+राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा ।कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥४-५५-८॥
+भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् ।किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥४-५५-९॥
+उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् ।शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥४-५५-१०॥
+बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् ।अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥४-५५-११॥
+अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् ।इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ��४-५५-१२॥
+अभिवादन पूर्वम् तु राजा कुशलम् एव च ।अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥४-५५-१३॥
+वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः ।आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥४-५५-१४॥
+मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ ।प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥
+विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् ।एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥४-५५-१६॥
+विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः ।तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥४-५५-१७॥
+नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः ।सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥४-५५-१८॥
+परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् ।तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥४-५५-१९॥
+उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् ।दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥४-५५-२०॥
+मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह ।रामस्य वन वासम् च क्षयम् दशरथस्य च ॥४-५५-२१॥
+जनस्थान वधम् चैव वधम् चैव जटायुषः ।हरणम् चैव वैदेह्या वालिनः च वधम् तथा ।राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥४-५५-२२॥
+स संविशद्भिः बहुभिः महीधरोमहाअद्रि कूट प्रमितैः प्लवंगमैः ।बभूव सन्नादित निर्दर अन्तरोभृशम् नदद्भिः जलदैः इव अंबरम् ॥४-५५-२३॥
+उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥४-५६-१॥
+सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥४-५६-२॥
+कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥४-५६-३॥
+विधिः किल नरम् लोके विधानेन अनुवर्तते ।यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४-५६-४॥
+परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥
+तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥४-५६-६॥
+पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥४-५६-७॥
+रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥४-५६-८॥
+वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥४-५६-९॥
+तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥
+अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥४-५६-११॥
+प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥४-५६-१२॥
+कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।स सुखी गृध्र राजः तु रावणेन हतो रणे ।मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥४-५६-१३॥
+जटायुषो विनाशेन राज्ञो दशरथस्य च ।हरणेन च वैदेह्याः संशयम् हरयो गताः ॥४-५६-१४॥
+राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।राघवस्य च बाणेन वालिनः च तथा वधः ॥४-५६-१५॥
+राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥४-५६-१६॥
+तत् असुखम् अनुकीर्तितम् वचोभुवि पतितान् च निरीक्ष्य वानरान् ।भृश चकित मतिः महामतिःकृपणम् उदाहृतवान् स गृध्रराजः ॥४-५६-१७॥
+तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥४-५६-१८॥
+को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥४-५६-१९॥
+कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥४-५६-२०॥
+इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥
+अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥४-५६-२२॥
+भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥
+यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥४-५६-२४॥
+शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः ।श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः ॥४-५७-१॥
+ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः ।चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति ॥४-५७-२॥
+सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति ��कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः ॥४-५७-३॥
+एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः ।अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा ॥४-५७-४॥
+बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् ।मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ ॥४-५७-५॥
+सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ ।लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम ॥४-५७-६॥
+राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५७-७॥
+लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः ॥४-५७-८॥
+तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् ॥४-५७-९॥
+ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा ।रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् ।परिश्रान्तः च वृद्धः च रावणेन हतो रणे ॥४-५७-१०॥
+एवम् गृध्रो हतः तेन रावणेन बलीयसा ।संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् ॥४-५७-११॥
+ततो मम पितृव्येण सुग्रीवेण महात्मना ।चकार राघवः सख्यम् सः अवधीत् पितरम् मम ॥४-५७-१२॥
+मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।निहत्य वालिनम् रामः ततः तम् अभिषेचयत् ॥४-५७-१३॥
+स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः ।राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् ॥४-५७-१४॥
+एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः ।वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव ॥४-५७-१५॥
+ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः ।अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् ॥४-५७-१६॥
+मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् ।व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः ॥४-५७-१७॥
+ते वयम् कपि राजस्य सर्वे वचन कारिणः ।कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः ॥४-५७-१८॥
+क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे ।गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् ॥४-५७-१९॥
+इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त जीवितैः ।स बाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥४-५८-१॥
+यवीयान् मम स भ्राता जटायुः नाम वानराः ।यम् आख्यात हतम् युद्धे रावणेन बलीयसा ॥४-५८-२॥
+वृद्ध भावात् अपक्षत्वात् शृण्वन् तत् अपि मर्षये ।न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर विमोक्षणे ॥४-५८-३॥
+पुरा वृत्र वधे वृत्ते स च अहम् च जय एषिणौ ।आदित्यम् उपयातौ स्वो ज्वलंतम् रश्मि मालिनम् ॥४-५८-४॥
+आवृत्य आकाश मार्गेण जवेन स्वर् गतौ भृशम् ।मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति ॥४-५८-५॥
+तम् अहम् भ्रातरम् दृष्ट्वा सूर्य रश्मिभिः अर्दितम् ।पक्षाभ्यम् छादयामास स्नेहात् परम विह्वलम् ॥४-५८-६॥
+निर्दग्ध पत्रः पतितो विन्ध्ये अहम् वानरर्षभाः ।अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये ॥४-५८-७॥
+जटायुषः तु एवम् उक्तो भ्रात्रा सम्पातिना तदा ।युव राजो महाप्राज्ञः प्रत्युवाच अंगदः तदा ॥४-५८-८॥
+जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया ।आख्याहि यदि जानासि निलयम् तस्य रक्षसः ॥४-५८-९॥
+अदीर्घ दर्शिनम् तम् वा रावणम् राक्षसाधिपम् ।अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥४-५८-१०॥
+ततो अब्रवीत् महातेजा भ्राता ज्येष्ठो जटायुषः ।आत्म अनुरूपम् वचनम् वानरान् संप्रहर्षयन् ॥४-५८-११॥
+निर्दग्ध पक्षो गृध्रो अहम् गत वीर्यः प्लवम् गमाः ।वाङ् मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् ॥४-५८-१२॥
+जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि ।देव असुर विमर्दाम् च हि अमृतस्य च मंथनम् ॥४-५८-१३॥
+रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया ।जरया च हतम् तेजः प्राणाः च शिथिला मम ॥४-५८-१४॥
+तरुणी रूप संपन्ना सर्व आभरण भूषिता ।ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥४-५८-१५॥
+क्रोशन्ती राम राम इति लक्ष्मण इति च भामिनी ।भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती ॥४-५८-१६॥
+सूर्य प्रभा इव शैल अग्रे तस्याः कौशेयम् उत्तमम् ।असिते राक्षसे भाति यथा वा तडित् अंबुदे ॥४-५८-१७॥
+ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् ।श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः ॥४-५८-१८॥
+पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।अध्यास्ते नगरीम् लंकाम् रावणो नाम राक्षसः ॥४-५८-१९॥
+इतो द्वीपे समुद्रस्य संपूर्णे शत योजने ।तस्मिन् लंका पुरी रम्या निर्मिता विश्वकर्मणा ॥४-५८-२०॥
+जांबूनदमयैः द्वारैः चित्रैः कांचन वेदिकैः ।प्रासादैः हेम वर्णैः च महद्भिः सुसमाकृता ॥४-५८-२१॥
+प्राकारेण अर्क वर्णेन महता च समन्विता ।तस्याम् वसति वैदेही दीना कौशेय वासिनी ॥४-५८-२२॥
+रावण अन्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।जनकस्य आत्मजाम् राज्ञः तस्या���् द्रक्ष्यथ मैथिलीम् ॥४-५८-२३॥
+लंकायाम् अथ गुप्तायाम् सागरेण समंततः ।संप्राप्य सागरस्य अंतम् संपूर्णम् शत योजनम् ॥४-५८-२४॥
+आसाद्य दक्षिणम् तीरम् ततो द्रक्ष्यथ रावणम् ।तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ॥४-५८-२५॥
+ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।आद्यः पंथाः कुलिंगानाम् ये च अन्ये धान्य जीविनः ॥४-५८-२६॥
+द्वितीयो बलि भोजानाम् ये च वृक्ष फल अशिनः ।भासाः तृतीयम् गच्छन्ति क्रौन्चाः च कुररैः सह ॥४-५८-२७॥
+श्येनाः चतुर्थम् गच्छन्ति गृध्रा गच्छन्ति पंचमम् ।बल वीर्य उपपन्नानाम् रूप यौवन शालिनाम् ॥४-५८-२८॥
+षष्ठः तु पन्था हंसानाम् वैनतेय गतिः परा ।वैनतेयात् च नः जन्म सर्वेषाम् वानरर्षभाः ॥४-५८-२९॥
+गर्हितम् तु कृतम् कर्म येन स्म पिशित अशनाः ।प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ कृतम् भवेत् ॥४-५८-३०॥
+इह स्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा ।अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुर् बलम् तथा ॥४-५८-३१॥
+तस्मात् आहार वीर्येण निसर्गेण च वानराः ।आयोजन शतात् साग्रात् वयम् पश्याम नित्यशः ॥४-५८-३२॥
+अस्माकम् विहिता वृत्तिः निसार्गेण च दूरतः ।विहिता पाद मूले तु वृत्तिः चरण योधिनाम् ॥४-५८-३३॥
+उपायो दृश्यताम् कश्चित् लंघने लवण अंभसः ।अभिगम्य तु वैदेहीम् समृद्ध अर्था गमिष्यथ ॥४-५८-३४॥
+समुद्रम् नेतुम् इच्छामि भवद्भिः वरुण आलयम् ।प्रदास्यामि उदकम् भ्रातुः स्वर् गतस्य महात्मनः ॥४-५८-३५॥
+ततो नीत्वा तु तम् देशम् तीरे नद नदी पतेः ।निर्दग्ध पक्षम् संपातिम् वानराः सुमहौओजसः ॥४-५८-३६॥
+तम् पुनः प्रत्यानयित्वा वै तम् देशम् पतग ईश्वरम् ।बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते ॥४-५८-३७॥
+ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् ।निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः ॥४-५९-१॥
+जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः ।भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत् ॥४-५९-२॥
+क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम् ॥४-५९-३॥
+को दाशरथि बाणानाम् वज्र वेग निपातिनाम् ।स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम् ॥४-५९-४॥
+स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् ।पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत् ॥४-५९-५॥
+श्रूयताम् इह वैदेह्या यथा मे ह���णम् श्रुतम् ।येन च अपि मम आख्यातम् यत्र च आयत लोचना ॥४-५९-६॥
+अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते ।चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः ॥४-५९-७॥
+तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथा कालम् बिभर्ति पतताम् वरः ॥४-५९-८॥
+तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः ।मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम् ॥४-५९-९॥
+स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः ।गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः ॥४-५९-१०॥
+स मया आहार संरोधात् पीडितः प्रीति वर्धनः ।अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत् ॥४-५९-११॥
+अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः ।महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः ॥४-५९-१२॥
+तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् ।पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः ॥४-५९-१३॥
+तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् ।स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः ॥४-५९-१४॥
+सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः ।तेन साम्ना विनीतेन पन्थानम् अनुयाचितः ॥४-५९-१५॥
+न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि ।नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः ॥४-५९-१६॥
+स यातः तेजसा व्योम संक्षिपन् इव वेगतः ।अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः ॥४-५९-१७॥
+दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः ।कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥४-५९-१८॥
+एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः ।स च मे रावणो राजा रक्षसाम् प्रतिवेदितः ॥४-५९-१९॥
+पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् ।भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम् ॥४-५९-२०॥
+राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् ।एष काल अत्ययः तात इति वाक्यविदाम् वरः ॥४-५९-२१॥
+एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् ।तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे ॥४-५९-२२॥
+अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् ।यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना ॥४-५९-२३॥
+श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् ।वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः ॥४-५९-२४॥
+यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः ।तत् भवन्तो मति श्रेष्ठा बलवन��तो मनस्विनः ॥४-५९-२५॥
+प्रहिताः कपि राजेन देवैः अपि दुरासदाः ।राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः ॥४-५९-२६॥
+त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे ।कामम् खलु दशग्रीवः तेजो बल समन्वितः ।भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम् ॥४-५९-२७॥
+तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥४-५९-२८॥
+ततः कृत उदकम् स्नातम् तम् गृध्रम् हरि यूथपाः ।उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥४-६०-१॥
+तम् अंगदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् ।जनित प्रत्ययो हर्षात् संपातिः पुनः अब्रवीत् ॥४-६०-२॥
+कृत्वा निःशब्दम् एक अग्राः शृण्वन्तु हरयो मम ।तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥४-६०-३॥
+अस्य विन्ध्यस्य शिखरे पतितो अस्मि पुरा अनघ ।सूर्य ताप परीत अंगो निर्दग्धः सूर्य रश्मिभिः ॥४-६०-४॥
+लब्ध संज्ञः तु षड् रात्रात् विवशो विह्वलन् इव ।वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन ॥४-६०-५॥
+ततः तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।वनानि च प्रदेशान् च समीक्ष्य मतिः आगताम् ॥४-६०-६॥
+हृष्ट पक्षि गण आकीर्णः कन्दर उदर कूटवान् ।दक्षिणस्य उदधेः तीरे विन्ध्यो अयम् इति निश्चितः ॥४-६०-७॥
+आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सुपूजितम् ।ऋषिः निशाकरो नाम यस्मिन् उग्र तपा अभवत् ॥४-६०-८॥
+अष्टौ वर्ष सहस्राणि तेन अस्मिन् ऋषिणा गिरौ ।वसतो मम धर्मज्ञो स्वर् गते तु निशाकरे ॥४-६०-९॥
+अवतीर्य च विन्ध्य अग्रात् कृच्छ्रेण विषमात् शनैः ।तीक्ष्ण दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः ॥४-६०-१०॥
+तम् ऋषिम् द्रष्टु कामो अस्मि दुःखेन अभ्यागतो भृशम् ।जटायुषा मया चैव बहुशो अभिगतो हि सः ॥४-६०-११॥
+तस्य आश्रम पदाभ्याशे ववुः वाताः सुगन्धिनः ।वृक्षो न अपुष्पितः कश्चित् अफलो वा न दृश्यते ॥४-६०-१२॥
+उपेत्य च आश्रमम् पुण्यम् वृक्ष मूलम् उपाश्रितः ।द्रष्टु कामः प्रतीक्षे च भगवंतम् निशाकरम् ॥४-६०-१३॥
+अथ पश्यमि दूरस्थम् ऋषिम् ज्वलित तेजसम् ।कृत अभिषेकम् दुर्धर्षम् उपावृत्तम् उदन् मुखम् ॥४-६०-१४॥
+तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नाना सरीसृपाः ।परिवार्य उपगच्छन्ति दातारम् प्राणिनो यथा ॥४-६०-१५॥
+ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः ।प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम् ॥४-६०-���६॥
+ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः ।मुहूर्त मात्रान् निर्गम्य ततः कार्यम् अपृच्छत ॥४-६०-१७॥
+सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् ते न अवगम्यते ।अग्नि दग्धौ इमौ पक्षौ प्राणाः चापि शरीरके ॥४-६०-१८॥
+गृध्रौ द्वौ दृष्ट पूर्वौ मे मातरिश्व समौ जवे ।गृध्राणाम् चैव राजानौ भ्रातरौ काम रूपिणौ ॥४-६०-१९॥
+ज्येष्ठो अवित स्त्वम् तु संपाते जटायुः अनुजः तव ।मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम ॥४-६०-२०॥
+किम् ते व्याधि समुत्थानम् पक्षयोः पतनम् कथम् ।दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः ॥४-६०-२१॥
+ततः तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् ।आचचक्षे मुनेः सर्वम् सूर्य अनुगमनम् तथा ॥४-६१-१॥
+भगवन् व्रण युक्तत्वात् लज्जया च अकुल इन्द्रियः ।परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम् ॥४-६१-२॥
+अहम् चैव जटायुः च संघर्षात् दर्प मोहितौ ।आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम् ॥४-६१-३॥
+कैलास शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् ।रविः स्यात् अनुयातव्यो यावत् अस्तम् महागिरिम् ॥४-६१-४॥
+अपि आवाम् युगपत् प्राप्तौ अपश्याव मही तले ।रथ चक्र प्रमाणानि नगराणि पृथक् पृथक् ॥४-६१-५॥
+क्वचित् वादित्र घोषः च क्वचित् भूषण निःस्वनः ।गायन्तीः स्म अंगना बह्वीः पश्यावो रक्त वाससः ॥४-६१-६॥
+तूर्णम् उत्पत्य च आकाशम् आदित्य पथम् आस्थितौ ।आवाम् आलोकयावः तत् वनम् शाद्वल संस्थितम् ॥४-६१-७॥
+उपलैः इव संछन्ना दृश्यते भूः शिल उच्चयैः ।आपगाभिः च संवीता सूत्रैः इव वसुंधरा ॥४-६१-८॥
+हिमवान् चैव विन्ध्यः च मेरुः च सुमहान् गिरिः ।भू तले संप्रकाशन्ते नागा इव जल आशये ॥४-६१-९॥
+तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा अवयोः ।समाविशत मोहः च ततो मूर्च्छा च दारुणा ॥४-६१-१०॥
+न च दिक् ज्ञायते याम्या न आग्नेयी न च वारुणी ।युग अन्ते नियतो लोको हतो दग्ध इव अग्निना ॥४-६१-११॥
+मनः च मे हतम् भूयः चक्षुः प्राप्य तु संश्रयम् ।यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी ॥४-६१-१२॥
+यत्नेन महता भूयो भास्करः प्रतिलोकितः ।तुल्यः पृथ्वी प्रमाणेन भास्करः प्रतिभाति नौ ॥४-६१-१३॥
+जटायुः माम् अनापृच्छ्य निपपात महीम् ततः ।तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम् ॥४-६१-१४॥
+पक्षभ्याम् च मया गुप्तो जटायुः न प्रदह्यत ।प्रमादात् तत्र निर्दग्धः पतन् वायु पथात् अहम् ॥४-६१-१५॥
+आशन्के तम् निपतितम् जनस्थाने जटायुषम् ।अहम् तु पतितो विन्ध्ये दग्ध पक्षो जडी कृतः ॥४-६१-१६॥
+राज्यात् हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च ।सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखरात् गिरेः ॥४-६१-१७॥
+एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः ।अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत् ॥४-६२-१॥
+पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः ।चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते ॥४-६२-२॥
+पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् ।दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम ॥४-६२-३॥
+राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः ।तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४-६२-४॥
+अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः ॥४-६२-५॥
+नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति ।राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः ॥४-६२-६॥
+सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली ।न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी ॥४-६२-७॥
+परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः ।यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम् ॥४-६२-८॥
+तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति ।अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति ॥४-६२-९॥
+यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः ।देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति ॥४-६२-१०॥
+एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः ।आख्येया राम महिषी त्वया तेभ्यो विहंगम ॥४-६२-११॥
+सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि ।देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे ॥४-६२-१२॥
+उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् ।इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि ॥४-६२-१३॥
+त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः ।ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च ॥४-६२-१४॥
+इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ ।न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् ।महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः ॥४-६२-१५॥
+एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥४-६३-१॥
+कंदरात् तु विसर्पित्वा पर्वतस्य शन��ः शनैः ।अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥४-६३-२॥
+अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥४-६३-३॥
+महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४-६३-४॥
+उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥४-६३-५॥
+सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥४-६३-६॥
+पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥४-६३-७॥
+न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥४-६३-८॥
+उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥४-६३-९॥
+प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥४-६३-१०॥
+आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥४-६३-११॥
+तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥४-६३-१२॥
+पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥४-६३-१३॥
+उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥४-६३-१४॥
+अथ पवन समान विक्रमाःप्लवग वराः प्रतिलब्ध पौरुषाः ।अभिजित् अभिमुखाम् दिशम् ययुःजनक सुता परिमार्गण उन्मुखाः ॥४-६३-१५॥
+आख्याता गृध्र राजेन समुत्प्लुत्य प्लवंगमाः ।संगताः प्रीति संयुक्ता विनेदुः सिंह विक्रमाः ॥४-६४-१॥
+संपातेः वचनम् श्रुत्वा हरयो रावण क्षयम् ।हृष्टाः सागरम् आजग्मुः सीता दर्शन कान्क्षिणः ॥४-६४-२॥
+अभिक्रम्य तु तम् देशम् ददृशुर् भीम विक्रमाः ।कृत्स्नम् लोकस्य महतः प्रतिबिंबम् इव स्थितम् ॥४-६४-३॥
+दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् ।संनिवेशम् ततः चक्रुः सहिता वानर उत्तमाः ॥४-६४-४॥
+प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतः ।क्वचित् पर्वत मात्रैः च जल राशिभिः आवृतम् ॥४-६४-५॥
+संकुलम् दानव इन्द्रैः च पाताल तल वास���भिः ।रोम हर्ष करम् दृष्ट्वा विषेदुः कपिकुंजराः ॥४-६४-६॥
+आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः ।विषेदुः सहिता सर्वे कथम् कार्यम् इति ब्रुवन् ॥४-६४-७॥
+विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् ।आश्वासयामास हरीन् भय आर्तान् हरि सत्तमः ॥४-६४-८॥
+न विषादे मनः कार्यम् विषादो दोषवत्तरः ।विषादो हन्ति पुरुषम् बालम् क्रुद्ध इव उरगः ॥४-६४-९॥
+यो विषादो प्रसहते विक्रमे समुपस्थिते ।तेजसा तस्य हीनस्य पुरुष अर्थो न सिद्ध्यति ॥४-६४-१०॥
+तस्याम् रात्र्याम् व्यतीतायाम् अंगदो वानरैः सह ।हरि वृद्धैः समागम्य पुनर् मंत्रम् अमंत्रयत् ॥४-६४-११॥
+सा वानराणाम् ध्वजिनी परिवार्य अंगदम् बभौ ।वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता ॥४-६४-१२॥
+को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तंभयितुम् भवेत् ।अन्यत्र वालि तनयात् अन्यत्र च हनूमतः ॥४-६४-१३॥
+ततः तान् हरि वृद्धान् च तत् च सैन्यम् अरिन्दमः ।अनुमान्य अंगदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत् ॥४-६४-१४॥
+क इदानीम् महातेजा लंघयिष्यति सागरम् ।कः करिष्यति सुग्रीवम् सत्य सन्धम् अरिन्दमम् ॥४-६४-१५॥
+को वीरो योजन शतम् लंघयेत प्लवंगमाः ।इमान् च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥४-६४-१६॥
+कस्य प्रसादात् दारान् च पुत्रान् चैव गृहाणि च ।इतो निवृत्ताः पश्येम सिद्ध अर्थाः सुखिनो वयम् ॥४-६४-१७॥
+कस्य प्रसादात् रामम् च लक्ष्मणम् च महाबलम् ।अभिगच्छेम संहृष्टाः सुग्रीवम् च महाबलम् ॥४-६४-१८॥
+यदि कश्चित् समर्थो वः सागर प्लवने हरिः ।स ददातु इह नः शीघ्रम् पुण्याम् अभय दक्षिणाम् ॥४-६४-१९॥
+अंगदस्य वचः श्रुत्वा न कश्चित् किंचित् अब्रवीत् ।स्तिमिता इव अभवत् सर्वा सा तत्र हरि वाहिनी ॥४-६४-२०॥
+पुनर् एव अंगदः प्राह तान् हरीन् हरि सत्तमः ।सर्वे बलवताम् श्रेष्ठा भवन्तो दृढ विक्रमाः ।व्यपदेश्य कुले जाताः पूजिताः च अपि अभीक्ष्णशः ॥४-६४-२१॥
+न हि वो गमने संगः कदाचित् अपि कस्यचित् भवेत् ।ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥४-६४-२२॥
+अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् ।जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥४-६६-१॥
+वीर वानर लोकस्य सर्व शास्त्र विदाम् वर ।तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥४-६६-२॥
+हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि ।राम लक्ष्मणयो�� च अपि तेजसा च बलेन च ॥४-६६-३॥
+अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४-६६-४॥
+बहुशो हि मया दृष्टः सागरे स महाबलः ।भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥४-६६-५॥
+पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव ।विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥४-६६-६॥
+बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम ।विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥४-६६-७॥
+अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला ।अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥
+विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि ।अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥४-६६-९॥
+दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः ।मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥४-६६-१०॥
+विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी ।अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥४-६६-११॥
+तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् ।स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥४-६६-१२॥
+स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ ।स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥४-६६-१३॥
+ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् ।दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥४-६६-१४॥
+स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः ।मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥४-६६-१५॥
+सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत् ।एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥४-६६-१६॥
+अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥४-६६-१७॥
+मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि ।वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥४-६६-१८॥
+महासात्त्वो महातेज महाबल पराक्रमः ।लंघने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥
+एवम् उक्ता ततः तुष्टा जननी ते महाकपेः ।गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥
+अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने ।फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा -फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥४-६६-२१॥
+शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे ।तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥४-६६-२२॥
+त्वाम् अपि उप��तम् तूर्णम् अंतरीक्षम् महाकपे ।क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥४-६६-२३॥
+तदा शैलाग्र शिखरे वामो हनुर् अभज्यत ।ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥४-६६-२४॥
+ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् ।त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥४-६६-२५॥
+संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥४-६६-२६॥
+प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ ।अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥४-६६-२७॥
+वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च ।सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥४-६६-२८॥
+स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो ।स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥४-६६-२९॥
+मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः ।त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥४-६६-३०॥
+वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् ।दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥४-६६-३१॥
+त्रिविक्रमे मया तात स शैल वन कानना ।त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥
+तथा च ओषधयो अस्माभिः संचिता देव शासनात् ।निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥४-६६-३३॥
+स इदानीम् अहम् वृद्धः परिहीन पराक्रमः ।साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥४-६६-३४॥
+तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि ।त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥४-६६-३५॥
+उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् ।परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥४-६६-३६॥
+विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे ।विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥४-६६-३७॥
+ततः कपीनाम् ऋषभेण चोदितःप्रतीत वेगः पवन आत्मजः कपिः ।प्रहर्षयन् ताम् हरि वीर वाहिनीम्चकार रूपम् महत् आत्मनः तदा ॥४-६६-३८॥
+तम् दृष्ट्वा जृंभमाणम् ते क्रमितुम् शत योजनम् ।वेगेन आपूर्यमाणम् च सहसा वानरोत्तमम् ॥४-६७-१॥
+सहसा शोकम् उत्सृज्य प्रहर्षेण समन्विताः ।विनेदुः तुष्टुवुः च अपि हनूमन्तम् महाबलम् ॥४-६७-२॥
+प्रहृष्टा विस्मिताः च अपि ते वीक्षन्ते समंततः ।त्रिविक्रम कृत उत्साहम् नारायणम् इव प्रजाः ॥४-६७-३॥
+संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।समाविद्ध्��� च लांगूलम् हर्षात् बलम् उपेयिवान् ॥४-६७-४॥
+तस्य संस्तूयमानस्य सर्वैः वनर पुंगवैः ।तेजसा आपूर्यमाणस्य रूपम् आसीत् अनुत्तमम् ॥४-६७-५॥
+यथा विजृंभते सिंहो विवृते गिरि गह्वरे ।मारुतस्य औरसः पुत्रः तथा संप्रति जृंभते ॥४-६७-६॥
+अशोभत मुखम् तस्य जृंभमाणस्य धीमतः ।अंबरीष उपमम् दीप्तम् विधूम इव पावकः ॥४-६७-७॥
+हरीणाम् उत्थितो मध्यात् संप्रहृष्ट तनू रुहः ।अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् ॥४-६७-८॥
+अरुजन् पर्वत अग्राणि हुताशन सखो अनिलः ।बलवान् अप्रमेयः च वायुः आकाश गोचरः ॥४-६७-९॥
+तस्य अहम् शीघ्र वेगस्य शीघ्र गस्य महात्मनः ।मारुतस्य औरसः पुत्रः प्लवने च अस्मि तत् समः ॥४-६७-१०॥
+उत्सहेयम् हि विस्तीर्णम् आलिखंतम् इव अंबरम् ।मेरुम् गिरिम् असंगेन परिगंतुम् सहस्रशः ॥४-६७-११॥
+बाहु वेग प्रणुन्नेन सागरेण अहम् उत्सहे ।समाप्लावयितुम् लोकम् स पर्वत नदी ह्रदम् ॥४-६७-१२॥
+मम ऊरु जन्घा वेगेन भविष्यति समुत्थितः ।समुत्थित महा ग्राहः समुद्रो वरुण आलयः ॥४-६७-१३॥
+पन्नग अशनम् आकाशे पतन्तम् पक्षि सेवितम् ।वैनतेयम् अहम् शक्तः परिगंतुम् सहस्रशः ॥४-६७-१४॥
+उदयात् प्रस्थितम् वा अपि ज्वलंतम् रश्मि मालिनम् ।अन् अस्तमितम् आदित्यम् अभिगंतुम् समुत्सहे ॥४-६७-१५॥
+ततो भूमिम् असंस्पृष्ट्वा पुनः आगन्तुम् उत्सहे ।प्रवेगेन एव महता भीमेन प्लवगर्षभाः ॥४-६७-१६॥
+उत्सहेयम् अतिक्रांतुम् सर्वान् आकाश गोचरान् ।सागरम् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥४-६७-१७॥
+पर्वतान् चूर्णष्यामि प्लवमानः प्लवंगमाः ।हरिष्यामि ऊरु वेगेन प्लवमानो महाअर्णवम् ॥४-६७-१८॥
+लतानाम् विविधाम् पुष्पम् पादपानाम् च सर्वशः ।अनुयास्यति माम् अद्य प्लवमानम् विहायसा ॥४-६७-१९॥
+भविष्यति हि मे पन्थाः स्वातेः पन्था इव अंबरे ।चरन्तम् घोरम् आकाशम् उत्पतिष्यन्तम् एव च ॥४-६७-२०॥
+द्रक्ष्यन्ति निपतन्तम् च सर्व भूतानि वानराः ।महा मेरु प्रतीकाशम् माम् द्रक्ष्यध्वम् प्लवंगमाः ॥४-६७-२१॥
+दिवम् आवृत्य गच्छन्तम् ग्रसमानम् इव अंबरम् ।विधमिष्यामि जीमूतान् कंपयिष्यामि पर्वतान् ।सागरम् शोषयिष्यामि प्लवमानः समाहितः ॥४-६७-२२॥
+वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा ।ऋते सुपर्ण राजानम् मारुतम् वा महाबलम् ।न तत् भूतम् प्रपश्यामि यत् माम् प्लुतम् अनुव्रजेत् ॥४-६७-२३॥
+नि��ेष अन्तर मात्रेण निरालंबनम् अंबरम् ।सहसा निपतिष्यामि घनात् विद्युत् इव उत्थिता ॥४-६७-२४॥
+भविष्यति हि मे रूपम् प्लवमानस्य सागरम् ।विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव ॥४-६७-२५॥
+बुद्ध्या च अहम् प्रपश्यामि मनः चेष्टा च मे तथा ।अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवंगमाः ॥४-६७-२६॥
+मारुतस्य समो वेगे गरुडस्य समो जवे ।अयुतम् योजनानाम् तु गमिष्यामि इति मे मतिः ॥४-६७-२७॥
+वासवस्य स वज्रस्य ब्रह्मणो वा स्वयंभुवः ।विक्रम्य सहसा हस्तात् अमृतम् तत् इह आनये ॥४-६७-२८॥
+लंकाम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः ।तम् एवम् वानर श्रेष्ठम् गर्जन्तम् अमित प्रभम् ॥४-६७-२९॥
+प्रहृष्टा हरयः तत्र समुदैक्षन्त विस्मिताः ।तत् च अस्य वचनम् श्रुत्वा ज्ञातीनाम् शोक नाशनम् ॥४-६७-३०॥
+उवाच परिसंहृष्टो जांबवान् प्लवगेश्वरः ।वीर केसरिणः पुत्र वेगवन् मारुत आत्मज ॥४-६७-३१॥
+ज्ञातीनाम् विपुलः शोकः त्वया तात प्रणाशितः ।तव कल्याण रुचयः कपि मुख्याः समागताः ॥४-६७-३२॥
+मंगलम् कार्य सिद्धि अर्थम् करिष्यन्ति समाहिताः ।ऋषीणाम् च प्रसादेन कपि वृद्ध मतेन च ॥४-६७-३३॥
+गुरूणाम् च प्रसादेन प्लवस्व त्वम् महाअर्णवम् ।स्थास्यामः च एक पादेन यावत् आगमनम् तव ॥४-६७-३४॥
+त्वत् गतानि च सर्वेषाम् जीवितानि वन ओकसाम् ।ततः च हरि शार्दूलः तान् उवाच वन ओकसः ॥४-६७-३५॥
+को अपि लोके न मे वेगम् प्लवने धारयिष्यति ।एतानि हि नगस्य अस्य शिला संकट शालिनः ॥४-६७-३६॥
+शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।येषु वेगम् गमिष्यामि महेन्द्र शिखरेषु अहम् ॥४-६७-३७॥
+नाना द्रुम विकीर्णेषु धातु निष्पन्द शोभिषु ।एतानि मम वेगम् हि शिखराणि महान्ति च ॥४-६७-३८॥
+प्लवतो धारयिष्यन्ति योजनानाम् इतः शतम् ।ततः तु मारुत प्रख्यः स हरिः मारुत आत्मजः ।आरुरोह नग श्रेष्ठम् मह्न्द्रम् अरिंअर्दमः ॥४-६७-३९॥
+वृतम् नाना विधैः पुष्पैः मृग सेवित शाद्वलम् ।लता कुसुम संबाधम् नित्य पुष्प फल द्रुमम् ॥४-६७-४०॥
+सिंह शार्दूल चरितम् मत्त मातंग सेवितम् ।मत्त द्विज गण उद् धुष्टम् सलिल उत्पीड संकुलम् ॥४-६७-४१॥
+महद्भिः उच्छ्रितम् शृन्गैः महेन्द्रम् स महाबलः ।विचचार हरिश्रेष्ठो महेन्द्र साम विक्रमः ॥४-६७-४२॥
+बाहुभ्याम् पीडितः तेन महाशैलो महात्मना ।ररास सिंह अभिहतो महान् मत्त इव द्विपः ॥४-६७-४३॥
+मुमोच सलिल उत्पीडान् विप्रकीर्ण शिलोउच्चयः ।वित्रस्त मृग मातंगः प्रकंपित महा द्रुमः ॥४-६७-४४॥
+नानागंधर्वमिथुनैर्पानसंसर्गकर्कशैः ।उत्पतद्भिर्विहंगैश्चविद्याधरगणैरपि - यद्वा -नाना गन्धर्व मिथुनैः पान संसर्ग कर्कशैः ।उत् पतद्भिः विहंगैः च विद्याधर गणैः अपि ॥४-६७-४५॥
+त्यज्यमान महा सानुः संनिलीन महा उरगः ।शैल शृन्ग शिला उत्पातः तदा अभूत् स महा गिरिः ॥४-६७-४६॥
+निःश्वसद्भिस्तदातैतुभुजगैरर्धनिःसृतैः ।सपताकैवाभातिसतदाधरणीधरः।यद्वा -निःश्वसद्भिः तदा तैः तु भुजगैः अर्ध निःसृतैः ।स पताक इव आभाति स तदा धरणी धरः ॥४-६७-४७॥
+ऋषिभित्राससंभ्रान्तैस्त्यज्यमानश्शिलोच्चयः - यद्वा -ऋषिभिः त्रास संभ्रांतैः त्यज्यमानः शिला उच्चयः ।सीदन् महति कांतारे सार्थ हीन इव अध्व गः ॥४-६७-४८॥
+स वेगवान् वेग समाहित आत्माहरि प्रवीरः पर वीर हन्ता ।मनः समाधाय महाअनुभावोजगाम लंकाम् मनसा मनस्वी ॥४-६७-४९॥
+ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥
+दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥५-१-२॥
+अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।धीरः सलिलकल्पेषु विच्चार यथासुखम् ॥५-१-३॥
+द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी॥५-१-४॥
+नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥५-१-५॥
+कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः ।यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः ॥५-१-६॥
+स तस्य गिरिवर्यस्य तले नागवरायुते ।तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥
+स सूर्याय महेन्द्राय पवनाय स्वयंभुवे ।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥
+अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो ।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म् ॥५-१-९॥
+प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु ॥५-१-१०॥
+निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥
+स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥
+तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना ।सर्��तः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥
+तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥५-१-१४॥
+पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥
+मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥
+गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥
+स महासत्त्वसंनादः शैलपीडानिमित्तजः ।पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥
+शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥
+तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥
+यानि चौषधजालानि तस्मिन् जातानि पर्वते ।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥५-१-२१॥
+भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥५-१-२२॥
+पानभूमिगतं हित्वा हैममासवभाजनम् ।पात्रणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥
+लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥
+कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः ।र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥
+हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥५-१-२६॥
+दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्॥५-१-२७॥
+शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्।चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे॥५-१-२८॥
+एष पर्वतसंकाशो हनूमान् मारुतात्मजः ।तितीर्षति महावेगः समुद्रं मकरालयम् ॥५-१-२९॥
+रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् ।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥५-१-३०॥
+इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥
+दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।ननाद सुमहानादं सुमहानिव तोयदः ॥५-१-३२॥
+आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥
+तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥
+बाहू संस्तंभयामास महापरिघसंनिभौ ।ससाद च कपिः क्ट्यां चरणौ संचुकोच च ॥५-१-३५॥
+संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥
+मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥
+पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥५-१-३८॥
+यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥५-१-३९॥
+न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥५-१-४०॥
+यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥५-१-४१॥
+सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥५-१-४२॥
+एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥५-१-४३॥
+उत्पपाताथ वेगेन वेगवानविचारयन् ।सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥
+समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥
+स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥
+ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः ॥५-१-४७॥
+तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥
+सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥
+सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥
+स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥
+विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥
+लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५-१-५३॥
+ताराचितमिवाकाशं प्रबभौ च महार्णवः ।पुष्पौघेनानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५-१-५४॥
+तस्य वेगसमाधूतै�� पुष्पैस्तोयमदृश्यत ॥५-१-५५॥
+ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥५-१-५६॥
+पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम् ॥५-१-५७॥
+पिपासुरिव चाकाशं ददृशे स महाकपिः ।तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५-१-५८॥
+नयने विप्रकाशेते पर्वतस्थाविवानलौ ।पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥५-१-५९॥
+चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥५-१-६०॥
+सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥५-१-६१॥
+अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥५-१-६२॥
+व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥५-१-६३॥
+महता दारितेनेव गिरिर्गैरिकधातुना ।तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥५-१-६४॥
+कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ॥५-१-६५॥
+दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥५-१-६६॥
+प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥५-१-६७॥
+यं यं देशं समुद्रस्य जगाम स महाकपिः ।स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥
+सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् ।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥
+कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥५-१-७०॥
+विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥
+मेरुमन्दरसंकाशानुद्धतान् स महार्णवे ।अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥
+तस्य वेगसमुद्धूतं जलं सजलदं तदा ।अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम् ॥५-१-७३॥
+तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥
+प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः ।व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥५-१-७५॥
+दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।छाया वानरसिंहस्य जले चार���तराभवत् ॥५-१-७६॥
+श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥५-१-७७॥
+शुशुभे स महातेजा महाकायो महाकपिः ।वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥
+येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥
+आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥
+पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥
+प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः ।प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥५-१-८२॥
+प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः ॥५-१-८३॥
+तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।सिषेवे च तदा वायू रामकार्याद्थसिद्धये ॥५-१-८४॥
+ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा ।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥५-१-८५॥
+नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ॥५-१-८६॥
+प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ॥५-१-८७॥
+इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥५-१-८८॥
+करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः ॥५-१-८९॥
+इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति ।तथा मया विधातव्यं विश्रमेत यथा कपिः ॥५-१-९०॥
+शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि ॥५-१-९१॥
+हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।त्वमिहासुरसंघानां पाताLअतलवासिनां ॥५-१-९२॥
+देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ।त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥५-१-९३॥
+पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥५-१-९४॥
+तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान् ॥५-१-९५॥
+हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥५-१-९६॥
+मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥५-१-९७॥
+कर्तव्यमकृतं कार्यं सतां मन्युमुदीर��ेत् ।सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥५-१-९८॥
+अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।चामीकरमहानाभ देवगन्धर्व सेवित ॥५-१-९९॥
+हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥५-१-१००॥
+श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।हिरण्य नाभो मैनाको निशम्य लवणाम्भसः ॥५-१-१०१॥
+उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥५-१-१०२॥
+यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥५-१-१०३॥
+द्र्शयामास शृङ्गाणि सागरेण नियोजितः ।शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥५-१-१०४॥
+आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ।तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः ॥५-१-१०५॥
+आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ।जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः ॥५-१-१०६॥
+आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥५-१-१०७॥
+मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥५-१-१०८॥
+उरसा पातयामास जीमूतमिव मारुतः ।स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥५-१-१०९॥
+बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।तमाकाशगतं वीरमाकाशे समुपस्थितः ॥५-१-११०॥
+प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥५-१-१११॥
+दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम ।निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥५-१-११२॥
+राघवस्य कुले जातैरुदधिः परिवर्धितः ।स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥५-१-११३॥
+कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥५-१-११४॥
+त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।योजनानां शतं चापि कपिरेष समाप्लुतः ॥५-१-११५॥
+तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ॥५-१-११६॥
+तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥५-१-११७॥
+अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११८॥
+वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।तेषां ���ुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११९॥
+अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता ।धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥५-१-१२०॥
+त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२१॥
+पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२२॥
+पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥५-१-१२३॥
+ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः ।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥५-१-१२४॥
+ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः ।पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥५-१-१२५॥
+स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना ॥५-१-१२६॥
+अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥५-१-१२७॥
+ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥५-१-१२८॥
+अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥५-१-१२९॥
+श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥५-१-१३०॥
+एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३१॥
+त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे ॥५-१-१३२॥
+इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३३॥
+स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥५-१-१३४॥
+अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥५-१-१३५॥
+भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥५-१-१३६॥
+तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३७॥
+देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३८॥
+उवाच वचनं धीमान् परितोषात्सगद्गदम् ।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३९॥
+हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥५-१-१४०॥
+साह्यं ते सुमहद्विक्रान्तस्य हनूमतः ।क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४१॥
+रामस्यैष हितायैव याति दाशरथेर्हरिः ।सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥५-१-१४२॥
+ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४३॥
+स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४४॥
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४५॥
+अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४६॥
+राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥५-१-१४७॥
+बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४८॥
+एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४९॥
+विकृतं च विरूपं च सर्वस्य च भयावहम् ।प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१५०॥
+मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५१॥
+एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥५-१-१५२॥
+रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५३॥
+अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।तस्य सीत हृता भार्या रावणेन यशस्विनी ॥५-१-१५४॥
+तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् ।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५५॥
+अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५६॥
+एवमुक्ता हनुमता सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥५-१-१५७॥
+तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।बलं जिज्ञासमाना वै नागमाता हनूमतः ॥५-१-१५८॥
+प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५९॥
+व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः ॥५-१-१��०॥
+अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम ।वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा ॥५-१-१६१॥
+व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः ।तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम् ॥५-१-१६२॥
+चकार सुरसा चास्यं विंशद्योजनमायतम् ।हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥५-१-१६३॥
+चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥५-१-१६४॥
+चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः ॥५-१-१६५॥
+चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् ।हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥५-१-१६६॥
+तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥५-१-१६७॥
+सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः ।सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥
+प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥५-१-१६९॥
+तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥
+अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानयस्व वैदेहीं राघवेण महात्मना ॥५-१-१७१॥
+तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम् ॥५-१-१७२॥
+स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥
+चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥
+सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।विमानैः संपतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥
+वज्राशनिसमाघातैः पावकैरुपशोभिते ।कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥५-१-१७६॥
+वहता हव्यमत्यर्थं सेविते चित्रभानुना ।ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥
+महर्षिगणगन्धर्वनागयक्षसमाकुले ।विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥
+देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥
+बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥५-१-१८०॥
+प्रदृश्यमानः सर्वत्र हनुमान���मारुतात्मजः ।भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥५-१-१८१॥
+प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥५-१-१८२॥
+अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता ।इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥५-१-१८३॥
+इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।छायायां गृह्यमाणायां चिन्तयामास वानरः ॥५-१-१८४॥
+समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः ।प्रतिलोमेन वातेन महानौरिव सागरे ॥५-१-१८५॥
+तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः ।ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥५-१-१८६॥
+छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥५-१-१८७॥
+आग्राहि महावीर्यं तदिदं नात्र संशयः ।स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रवृषीव वलाहकः ॥५-१-१८८॥
+तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥५-१-१८९॥
+वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् ।घनराजीव गर्जन्ती वानरं सम्भिद्रवत् ॥५-१-१९०॥
+स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।कायमात्रं च मेधावी मर्माणि च महाकपिः ॥५-१-१९१॥
+स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥५-१-१९२॥
+आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥५-१-१९३॥
+ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः ।उत्पपाताथ वेगेन मनः संपातविक्रमः ॥५-१-१९४॥
+तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च ।स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥५-१-१९५॥
+हृतहृत्सा हनुमता पपात विधुराम्भसि ।तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥५-१-१९६॥
+भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ।भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥५-१-१९७॥
+साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥५-१-१९८॥
+धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ।स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥५-१-१९९॥
+जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥५-१-२००॥
+योजनानां शतस्यान्ते वनराजिं ददर्श सः ।ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥५-१-२०१॥
+द्वीपं शाखामृगश्र���ष्ठो मलयोपवनानि च ।सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥५-१-२०२॥
+सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥५-१-२०३॥
+निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः ॥५-१-२०४॥
+मयि कौतूहलं कुर्युरिति मेने महाकपिः ।ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥५-१-२०५॥
+पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥५-१-२०६॥
+त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।स चारुनानाविधरूपधारी ।परं समासाद्य समुद्रतीरम् ।परैरशक्यः प्रतिपन्नरूपः ।समीक्षितात्मा समवेक्षितार्थः ॥५-१-२०७॥
+ततः स लम्बस्य गिरेः समृद्धे ।विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनाLइकेरे ।महाभ्रकूटप्रतिमो महात्मा ॥५-१-२०८॥
+ततस्तु संप्राप्य समुद्रतीरं ।समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।कपिस्तु तस्मिन्निपपात पर्वते ।विधूय रूपं व्यथयन्म्Rऋगद्विजान् ॥५-१-२०९॥
+स सागरं दानवपन्नगायुतं ।बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ।ददर्श लङ्काममरावतीमिव ॥५-१-२१०॥
+स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥५-२-१॥
+ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥५-२-२॥
+योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।अनिःस्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥
+शतान्यहं योजनानां क्रमेयं सुबहुन्यपि ।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥
+स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५-२-५॥
+शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥
+शैलांश्च तरुसंचन्नान् वनराजीश्च पुष्पिताः ।अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥५-२-७॥
+स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥५-२-८॥
+सरLआन् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।प्रियाLआन्मुचुLइन्दांश्च कुटजान् केतकानपि ॥५-२-९॥
+प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥
+पुष्पभारनिबद्धांश्च तथा मुकुLइत���नपि ।पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥
+हंसकारण्डवाकीर्णान्वापीः पद्मोत्मलायुताः ।आक्रीडान् विविधान् रम्यान्विविधांश्च जलाशयान् ॥५-२-१२॥
+संततान् विविधैर्वऋकैः सर्वर्तुफलपुष्पितैः ।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥
+समासाद्य च लक्ष्मीवन् लङ्कां रावणपालिताम् ।परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥
+सीतापहरणार्थेन रावणेन सुरक्षिताम् ।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥५-२-१५॥
+काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥५-२-१६॥
+पाण्डुराभिः प्रतोLईभिरुच्चाभिरभिसंवृताम् ।अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥५-२-१७॥
+तोरणैः काञ्चनैर्दिव्यैर्लतापङ्किविचित्रितैः ।ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥५-२-१८॥
+गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥५-२-१९॥
+पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥५-२-२०॥
+पप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥५-२-२१॥
+मन्सेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥
+कैलासशिखरप्रख्यामालिख्स्न्तीमिवाम्बरम् ।डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥
+संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥
+दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः ।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥
+तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥
+आगत्यापीह हरयो भविष्यन्ति निररथकाः ।न हि युद्धेन व लङ्का शक्या जेतुं सुरैरपि ॥५-२-२७॥
+इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।प्राप्यापि स महाबाहुः किम् करिष्यति राघवः ॥५-२-२८॥
+अवकाशो न सान्त्वस्य रक्षसेष्वभिगम्यते ।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥
+चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥
+यावज्जानामि वैदेहीं यदि जीवति वा न वा ।तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनक��त्मजाम् ॥५-२-३१॥
+ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥५-२-३२॥
+अनेन रूपेण मया न शक्या रक्षसां पुरी ।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥
+उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥
+लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥५-२-३५॥
+तां पुरीं तादृशीं दृष्ट्वा दुराधर्शां सुरासुरैः ।हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥५-२-३६॥
+केनोपायेन पशेयं मैथिलीं जनकात्मजाम् ।अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥
+न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥
+भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥
+अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥
+न विनश्येत्कथं कार्यं वैक्लब्यम् न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-२-४१॥
+मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥
+न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥
+वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥५-२-४४॥
+इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥५-२-४५॥
+तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥
+रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।विचिन्वन् भवनं स्र्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥
+इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।आचकांक्षे ततो वीरो वैदेह्या द्रशनोतुसकः ॥५-२-४८॥
+सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥५-२-४९॥
+प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५-२-५०॥
+प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥
+सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।तलैः स्फतिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥
+वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥
+काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥
+अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।आसीद्विष्ण्डो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥
+स पाण्डुराविद्धविमानमालिनीं ।महार्हजाम्बूनदजालतोरणाम् ।यशस्विनीं रावणबाहुपालितां ।क्षपाचरैर्भिमबलैः समावृताम् ॥५-२-५६॥
+चन्द्रोऽपि साचिव्यमिवास्य कुर्वं ।स्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोक ।मुत्तिष्ठते नैकसहस्ररश्मिः ॥५-२-५७॥
+शङ्खप्रभं क्षीरमृणालवर्ण ।मुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स हरिप्रवीरः ।प्लोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥
+स लम्ब शिखरे लम्बे लम्ब तोयद सम्निभे ।सत्त्वम् आस्थाय मेधावी हनुमान् मारुत आत्मजः ॥५-३-१॥
+निशि लन्काम् महा सत्त्वः विवेश कपि कुन्जरः ।रम्य कानन तोय आढ्याम् पुरीम् रावण पालिताम् ॥५-३-२॥
+शारद अम्बु धर प्रख्यैः भवनैः उपशोभिताम् ।सागर उपम निर्घोषाम् सागर अनिल सेविताम् ॥५-३-३॥
+सुपुष्ट बल सम्गुप्ताम् यथैव विटपावतीम् ।चारु तोरण निर्यूहाम् पाण्डुर द्वार तोरणाम्॥५-३-४॥
+भुजग आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव ।ताम् सविद्युत् घन आकीर्णाम् ज्योतिः मार्ग निषेविताम् ॥५-३-५॥
+चण्ड मारुत निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् ।शातकुम्भेन महता प्राकारेण अभिसम्वृताम् ॥५-३-६॥
+किन्किणी जाल घोषाभिः पताकाभिः अलम्कृताम् ।आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥५-३-७॥
+विस्मय आविष्ट हृदयः पुरीम् आलोक्य सर्वतः ।जाम्बूनदमयैः द्वारैः वैदूर्य कृत वेदिकैः ॥५-३-८॥
+मणि स्फटिक मुक्ताभिः मणि कुट्टिम भूषितैः ।तप्त हाटक निर्यूहैः राजत अमल पाण्डुरैः ॥५-३-९॥
+वैदूर्य तल सोपानैः स्फाटिक अन्तर पाम्सुभिः ।चारु सम्जवन उपेतैः खम् इव उत्पतितैः शुभैः ॥५-३-१०॥
+क्रौन्च बर्हिण सम्घुष्टे राज हम्स निषेवितैः ।तूर्य आभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥५-३-११॥
+वस्वोकसारा प्रतिमाम् समीक्ष्य नगरीम् ततः ।खम् इव उत्पतिताम् लन्काम् जहर्ष हनुमान् कपिः ॥५-३-१२॥
+ताम् समीक्ष्य पुरीम् लन्काम् ���ाक्षस अधिपतेः शुभाम् ।अनुत्तमाम् ऋद्धि युताम् चिन्तयाम् आस वीर्यवान् ॥५-३-१३॥
+न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् ।रक्षिता रावण बलैः उद्यत आयुध धारिभिः ॥५-३-१४॥
+कुमुद अन्गदयोः वा अपि सुषेणस्य महा कपेः ।प्रसिद्धा इयम् भवेत् भूमिः मैन्द द्विविदयोः अपि ॥५-३-१५॥
+विवस्वतः तनूजस्य हरेः च कुश पर्वणः ।ऋक्षस्य केतु मालस्य मम चैव गतिः भवेत् ॥५-३-१६॥
+समीक्ष्य तु महा बाहः राघवस्य पराक्रमम् ।लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥५-३-१७॥
+ताम् रत्न वसन उपेताम् कोष्ठ आगार अवतम्सकाम् ।यन्त्र अगार स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥५-३-१८॥
+ताम् नष्ट तिमिराम् दीपैः भास्वरैः च महा गृहैः ।नगरीम् राक्षस इन्द्रस्य ददर्श स महा कपिः ॥५-३-१९॥
+अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् ।नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥
+सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता ।स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥
+पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत ।मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥५-३-२२॥
+कस्त्वम् केन च कार्येण इह प्राप्तो वनालय ।कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते ॥५-३-२३॥
+न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया ।रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥
+अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि ॥५-३-२५॥
+का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि ।किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा ॥५-३-२६॥
+हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।उवाच वचनम् क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥
+अहम् राक्षसराजस्य रावणस्य महात्मनः ।आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥
+न शक्या मामवज्ञाय प्रवेष्टुम् नगरी त्वया ।अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥
+अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गम ।सर्वतः परिरक्षामि ह्येतत्ते कथितम् मया ॥५-३-३०॥
+लङ्काया वचनम् श्रुत्वा हनुमान् मारुतात्मजः ।यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥५-३-३१॥
+स ताम् स्त्रीरूपविकृताम् दृष्ट्वा वानरपुङ्गवः ।आबभाषेऽथ मेधावि सत्त्वान् प्लवगर्षभः ॥५-३-३२॥
+द्रक्ष्यामि नगरीम् लङ्काम् साट्टप्राकारतोरणाम् ।इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हि मे ॥५-३-३३॥
+वनान्युपवनानीह लङ्कायाः काननानि च ।सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि मे ॥५-३-३४॥
+तस्य तद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् ॥५-३-३५॥
+मामनिर्जत्य दुर्बद्धे राक्षसेश्वरपालिता ।न शक्यमद्य ते द्रष्टुम् पुरीयम् वनराधम ॥५-३-३६॥
+ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।दृष्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥
+ततः कृत्वा महानादम् सा वै लङ्का भयावहम् ।तलेन वानरश्रेष्ठम् ताडयामास वेगिता ॥५-३-३८॥
+ततः स कपिशार्दुलो लङ्काया ताडितो भृशम् ।ननाद सुमहानादम् वीर्यवान् पवनात्मजः ॥५-३-३९॥
+ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुLईः ।मुष्ह्टिनाभिजघूनैनाम् हनुमान् क्रोधमूर्चितः ॥५-३-४०॥
+स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः ।सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥५-३-४१॥
+पपात सहसा भूमौ विकृताननदर्शना ।ततस्तु हनुमान् प्राज्ञस्ताम् दृष्ट्वा विनिपातिताम् ॥५-३-४२॥
+कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ।ततो वै भृशसम्विग्ना लङ्का गद्गदाक्षरम् ॥५-३-४३॥
+उवाचागर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् ।प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥५-३-४४॥
+समये सौम्य तिष्ठन्ति स्त्त्ववन्तो महाबलाः ।अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥५-३-४५॥
+निर्जिताहम् त्वया वीर विक्रमेण महाबल ।इदम् तु तथ्यम् शृणु वै ब्रुवन्त्य मे हरीश्वर ॥५-३-४६॥
+स्वयम्भुवा पुरा दत्तम् वरदानम् यथा मम ।यदा त्वाम् वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥५-३-४७॥
+तदा त्वया हि विज्ञेयम् रक्षसाम् भयामागतम् ।स हि म् समयः सौम्य प्राप्तोऽय तव द्र्शनात् ॥५-३-४८॥
+स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।सीतानिमित्तंम् राज्ञस्तु रावणस्य दुरात्मनः ॥५-३-४९॥
+विधत्स्व सर्वकार्याणि यानि यानिह वाञ्चसि ।तत्प्रविश्य हरिश्रेष्ठम् पुरीम् रावणपालिताम् ॥५-३-५०॥
+विधत्स्व सर्वकार्याण् यानि यानीह वाञ्चसि ।प्रविश्य शापोपहताम् हरीश्वर ।शुभाम् पुरीम् राक्षसराजपालिताम् ।यदृच्छया त्वम् जनकात्मजाम् सतीम् ।विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥
+स निर्जत्य पुरीम् लण्का श्रेष्ठाम् ताम् कामरूपिणीम् ।विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥५-४-१॥
+अद्वारेण मःआतेजा हौमान् कपिसत्तमः ।प्रविश्य नगरीम् लङ्काम् कपिराजहितम्करः ॥५-४-२॥
+चक्रेणाऽथ पदम् सव्यम् शत्रूणाम् स तु मूर्धनि ।प्रविष्टः सत्त्वसंपन्नो विशायाम् मारुतात्मजः ॥५-४-३॥
+स महापथमास्थाय मुक्तापुष्पविराजितम् ।ततस्तु ताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः ॥५-४-४॥
+हसित उद्घुष्ट निनदैः तूर्य घोष पुरः सरैः ।वज्र अन्कुश निकाशैः च वज्र जाल विभूषितैः ॥५-४-५॥
+गृह मेधैः पुरी रम्या बभासे द्यौः इव अम्बुदैः ।प्रजज्वाल तदा लन्का रक्षः गण गृहैः शुभैः ॥५-४-६॥
+सित अभ्र सदृशैः चित्रैः पद्म स्वस्तिक सम्स्थितैः ।वर्धमान गृहैः च अपि सर्वतः सुविभाषितैः ॥५-४-७॥
+ताम् चित्र माल्य आभरणाम् कपि राज हितम् करः ।राघव अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ॥५-४-८॥
+भवनाद्भवनं गच्छ्न् ददर्श पवनात्मजः ।विविधाकृतिरूपाणि भवनानि ततस्ततः ॥५-४-९॥
+शुश्राव मधुरम् गीतम् त्रि स्थान स्वर भूषितम् ।स्त्रीणाम् मद समृद्धानाम् दिवि च अप्सरसाम् इव ॥५-४-१०॥
+शुश्राव कान्ची निनदम् नूपुराणाम् च निह्स्वनम् ।सोपान निनदामः चैव भवनेषु महात्मनम् ॥५-४-११॥
+आस्फोटित निनादामः च क्ष्वेडितामः च ततः ततः ।शुश्राव जपताम् तत्र मन्त्रन् रक्षोगृहेषु वै ॥५-४-१२॥
+स्वाध्याय निरतामः चैव यातु धानान् ददर्श सः ।रावण स्तव सम्युक्तान् गर्जतः राक्षसान् अपि ॥५-४-१३॥
+राज मार्गम् समावृत्य स्थितम् रक्षः बलम् महत् ।ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ॥५-४-१४॥
+दीक्षितान् जटिलान् मुण्डान् गः अजिन अम्बर वाससः ।दर्भ मुष्टि प्रहरणान् अग्नि कुण्ड आयुधामः तथा ॥५-४-१५॥
+कूट मुद्गर पाणीमः च दण्ड आयुध धरान् अपि ।एक अक्ष अनेक कर्णामः च चलल् लम्ब पयः धरान् ॥५-४-१६॥
+करालान् भुग्न वक्त्रामः च विकटान् वामनामः तथा ।धन्विनः खड्गिनः चैव शतघ्नी मुसल आयुधान् ॥५-४-१७॥
+परिघ उत्तम हस्तामः च विचित्र कवच उज्ज्वलान् ।नातिस्थूलान् नातिकृशान् नातिदीर्घ अतिह्रस्वकान् ॥५-४-१८॥
+नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।विरूपान् बहु रूपामः च सुरूपामः च सुवर्चसः ॥५-४-१९॥
+ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।शक्ति वृक्ष आयुधामः चैव पट्टिश अशनि धारिणः ॥५-४-२०॥
+क्षेपणी पाश हस्तामः च ददर्श स महा कपिः ।स्रग्विणः त्व् अनुलिप्तामः च वर आभरण भूषितान् ॥५-४-२१॥
+नानावेषसमायुक्तान्यथास्वैरगतान् बहून् ।तीक्ष्ण शूल धरामः चैव वज्रिणः च महा बलान् ॥५-४-२२॥
+शत साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः ।रक्षोधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः ॥५-४-२३॥
+स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् ।राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥५-४-२४॥
+पुण्डरीकावतम्साभिः परिखाभिरलम्कृतम् ।प्राकार आवृतम् अत्यन्तम् ददर्श स महा कपिः ॥५-४-२५॥
+त्रिविष्टप निभम् दिव्यम् दिव्य नाद विनादितम् ।वाजि हेषित सम्घुष्टम् नादितम् भूषणैः तथा ॥५-४-२६॥
+रथैः यानैः विमानैः च तथा गज हयैः शुभैः ।वारणैः च चतुः दन्तैः श्वेत अभ्र निचय उपमैः ॥५-४-२७॥
+भूषितम् रुचिर द्वारम् मत्तैः च मृग पक्षिभिः ।राक्षस अधिपतेः गुप्तम् आविवेश गृहम् कपिः ॥५-४-२८॥
+सहेमजाम्बूनदचक्रवाLअम् ।महार्ह मुक्तामणिभूषितान्तम् ।परार्थ्यकालागुरुचन्दनाक्तं ।स रावणान्तःपुरमाविवेश ॥५-४-२९॥
+॥ इति रामायने सुन्दरकाण्डे चतुर्थः सर्गः ॥
+ततः स मध्यंगतमंशुमन्तं ।ज्योत्स्नावितानम् महदुद्वमन्तम् ।ददर्श धीमान् दिवि भानुमन्तम् ।गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥
+लोकस्य पापानि विनाशयन्तम् ।महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तम् ।ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥
+या भाति लक्ष्मीर्भुवि मन्दरस्था ।तथा प्रदोषेषु च सागरस्था ।तथैव तोयेषु च पुष्करस्था ।रराज सा चारुनिशाकरस्था ॥५-५-३॥
+हम्सो यथा राजतपञ्जरसथः ।सिम्हो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थ ।श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥
+स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धश्^इङ्गो ।रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥
+विनष्टशीताम्बुतुषारपङ्को ।महाग्रहग्राहविनष्टपङ्कः ।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥
+शीलातलम् प्राप्य यथा मृगेन्द्रो ।महारणम् प्राप्य यथा गजेन्द्रह् ।राज्यम् समासाद्य यथा नरेन्द्र ।स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥
+प्रकाशचन्द्रोदयनष्टदोषः ।प्रवृत्तरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः ।स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥
+तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तम्चराश्चापि तथा प्रवृत्ता ।विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥
+मत्तप्रमत्तानि समाकुलानि ।तथाश्वभद्रासनसम्कुलानि ।वीरः श्रिया चापि समाकुलानि ।ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥
+परस्परं चाधिकमाक्षिपन्ति ।भुआम्श्च पीनानधिनिक्षिपन्ति ।मत्तप्रलापानधिकम् क्षिपन्ति ।मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥
+रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।गात्राणि कान्तासु च विक्षिपन्ति ।रूपाअणि चित्राणि च विक्षिपन्ति ।दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥
+ददर्श कान्ताश्च समालभन्त्य ।स्तथा परास्तत्र पुनः स्वपन्त्यः ।सुरूपवक्त्राश्च तथा हसन्त्यः ।क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥
+महागजैश्चापि तथा नदद्भिः ।सुपूजितैश्चापि तथा सुसद्भिः ।रराज वीरैश्च विनिःश्वसद्भि ।र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥
+बुद्धिप्रधानान् रुचिराभिधानान् ।सम्श्रद्दधानान् जगतः प्रधानान् ।नानाविधानान् रुचिराभिधानान् ।ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥
+ननन्द दृष्ट्वा स च तान् सुरूपा ।न्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स तदानुरूपान् ।ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥
+ततो वरार्हः सुविशुद्धभावा ।स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।प्रियेषु पानेषु च सक्तभावा ।ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥
+श्रिया ज्वलन्तीस्त्रपयोगूढा ।निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा ।यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥
+अन्याः पुनर्हर्म्यतलोपविष्टा ।स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।भर्तुः प्रिया धर्मपरा निविष्टा ।ददर्श धीमान् मदनाभिविष्टाः ॥५-५-१९॥
+अप्रावृताः काञ्चनराजिवर्णाः ।काश्चित्परार्थ्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥
+ततह् प्रियान् प्राप्य मनोभिरामान् ।सुप्रीतियुक्ताः सुमनोभिरामाः ।गृहेषु हृष्टाः परमाभिरामाः ।हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥
+चन्द्रप्रकाशाश्च हि वक्त्रमाला ।वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषाणानाम् च ददर्श मालाः ।शतह्रदानामिव चारुमालाः ॥५-५-२२॥
+न त्वेव सीताम् परमाभिजाताम् ।पथि स्थिते राजकुले प्रजाताम् ।लताम् प्रपुल्लामिव साधु जाताम् ।ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥
+सनातने वर्त्मानि सम्निविष्टाम् ।रामेक्षणां ���ां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥
+उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।पुरा वरार्होत्तमनिष्ककण्ठीम् ।सुजातपक्ष्मामभिरक्तकण्ठीम् ।वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥
+अव्यक्तरेखामिव चन्द्ररेखां ।पाम्सुप्रदिग्धामिव हेमरेखाम् ।क्षतप्ररूढामिव बाणरेखां ।वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥
+सीतामपश्यन् मनुजेश्वरस्य ।रामस्य पत्नीम् वदताम् वरस्य ।बभूव दुःखाभिहतश्चिरस्य ।प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥
+स निकामम् विमानेषु विषण्णः काम रूपधृत् ।विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥५-६-१॥
+आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ।प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्व्Rतम् ॥५-६-२॥
+रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् ।समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥५-६-३॥
+रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः ।विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् व्Rतम् ॥५-६-४॥
+गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः ।उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५-६-५॥
+सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः ।घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥५-६-६॥
+बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् ।महा रथ समावासम् महा रथ महा आसनम् ॥५-६-७॥
+दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः ।विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥५-६-८॥
+विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् ।मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥५-६-९॥
+मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् ।वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥५-६-१०॥
+तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः ।भेरी म्Rदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥५-६-११॥
+भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् ।नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥५-६-१२॥
+समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् ।महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥५-६-१३॥
+महा जन समाकीर्णम् ददर्श स महा कपिः ।विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥५-६-१४॥
+लन्का आभरणम् इति एव सो अमन्यत महा कपिः ।चचार हनुमाम्स्तत्र रावणस्य समीपतः ॥५-६-१५॥
+गृहाद् गृहम् राक्षसानाम् उद्यानानि �� वानरः ।वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥५-६-१६॥
+अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् ।ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥५-६-१७॥
+अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् ।विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥५-६-१८॥
+महा उदरस्य च तथा विरूप अक्षस्य चैव हि ।विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥५-६-१९॥
+वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः ।शुकस्य च महा वेगः सारणस्य च धीमतः ।तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥५-६-२०॥
+जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥५-६-२१॥
+रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च ।वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥
+धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः ।विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥
+शुक नाभस्य वक्रस्य शठस्य विकटस्य च ।ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥५-६-२४॥
+युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः ।विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥५-६-२५॥
+करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥५-६-२६॥
+तेषु तेषु महा अर्हेषु भवनेषु महा यशाः ।तेषाम् R^द्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥५-६-२७॥
+सर्वेषाम् समतिक्रम्य भवनानि समन्ततः ।आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥५-६-२८॥
+रावणस्य उपशायिन्यो ददर्श हरि सत्तमः ।विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥५-६-२९॥
+शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः ।ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे ।राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥५-६-३०॥
+रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥५-६-३१॥
+कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् ।निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥५-६-३२॥
+निहन्त्RRन् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः ।क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥५-६-३३॥
+मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः ।सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥५-६-३४॥
+हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः ।ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥
+शिबिका विविध आकाराः स कपिर् मारुत आत्मजः ।लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥५-६-३६॥
+क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि ।कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥५-६-३७॥
+ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ।स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥५-६-३८॥
+ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् ।अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥५-६-३९॥
+धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव ।अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥५-६-४०॥
+विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः ।जाम्बू नदमयानि एव शयनानि आसनानि च ॥५-६-४१॥
+भाजनानि च शुभ्राणि ददर्श हरि यूथपः ।मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥५-६-४२॥
+मनो रमम् असम्बाधम् कुबेर भवनम् यथा ।नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥५-६-४३॥
+मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् ।प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥५-६-४४॥
+सुव्यूढ कक्ष्यम् हनुमान् प्रविवेश महा गृहम् ।
+स वेश्म जालम् बलवान् ददर्श ।व्यासक्त वैदूर्य सुवर्ण जालम् ।यथा महत् प्राव्Rषि मेघ जालम् ।विद्युत् पिनद्धम् सविहम्ग जालम् ॥५-७-१॥
+निवेशनानाम् विविधाः च शालाः ।प्रधान शन्ख आयुध चाप शालाः ।मनो हराः च अपि पुनर् विशाला ।ददर्श वेश्म अद्रिषु चन्द्र शालाः ॥५-७-२॥
+गृहाणि नाना वसु राजितानि ।देव असुरैः च अपि सुपूजितानि ।सर्वैः च दोषैः परिवर्जितानि ।कपिर् ददर्श स्व बल अर्जितानि ॥५-७-३॥
+तानि प्रयत्न अभिसमाहितानि ।मयेन साक्षाद् इव निर्मितानि ।मही तले सर्व गुण उत्तराणि ।ददर्श लन्का अधिपतेर् ग्Rहाणि ॥५-७-४॥
+ततो ददर्श उच्च्रित मेघ रूपम् ।मनो हरम् कान्चन चारु रूपम् ।रक्षो अधिपस्य आत्म बल अनुरूपम् ।गृह उत्तमम् हि अप्रतिरूप रूपम् ॥५-७-५॥
+मही तले स्वर्गम् इव प्रकीर्णम् ।श्रिया ज्वलन्तम् बहु रत्न कीर्णम् ।नाना तरूणाम् कुसुम अवकीर्णम् ।गिरेर् इव अग्रम् रजसा अवकीर्णम् ॥५-७-६॥
+नारी प्रवेकैर् इव दीप्यमानम् ।तडिद्भिर् अम्भोदवद् अर्च्यमानम् ।हम्स प्रवेकैर् इव वाह्यमानम् ।श्रिया युतम् खे सुक्Rताम् विमानम् ॥५-७-७॥
+यथा नग अग्रम् बहु धातु चित्रम् ।यथा नभः च ग्रह चन्द्र चित्रम् ।ददर्श युक्ती कृत मेघ चित्रम् ।विमान रत्नम् बहु रत्न चित्रम् ॥५-७-८॥
+मही कृता पर्वत राजि पूर्णा ।शैलाः कृता वृक्ष वितान पूर्णाः ।वृक्षाः क्Rताः पुष्प वितान पूर्णाः ।पुष्पम् क्Rतम् केसर पत्र पूर्णम् ॥५-७-९॥
+कृतानि वेश्मानि च पाण्डुराणि ।तथा सुपुष्पा अपि पुष्करिण्यः ।पुनः च पद्मानि सकेसराणि ।धन्यानि चित्राणि तथा वनानि ॥५-७-१०॥
+पुष्प आह्वयम् नाम विराजमानम् ।रत्न प्रभाभिः च विवर्धमानम् ।वेश्म उत्तमानाम् अपि च उच्च मानम् ।महा कपिः तत्र महा विमानम् ॥५-७-११॥
+कृताः च वैदूर्यमया विहम्गा ।रूप्य प्रवालैः च तथा विहम्गाः ।चित्राः च नाना वसुभिर् भुजम्गा ।जात्या अनुरूपाः तुरगाः शुभ अन्गाः ॥५-७-१२॥
+प्रवाल जाम्बूनद पुष्प पक्षाः ।सलीलम् आवर्जित जिह्म पक्षाः ।कामस्य साक्षाद् इव भान्ति पक्षाः ।कृता विहम्गाः सुमुखाः सुपक्षाः ॥५-७-१३॥
+नियुज्यमानाः च गजाः सुहस्ताः ।सकेसराः च उत्पल पत्र हस्ताः ।बभूव देवी च कृता सुहस्ता ।लक्ष्मीः तथा पद्मिनि पद्म हस्ता ॥५-७-१४॥
+इति इव तद् ग्Rहम् अभिगम्य शोभनम् ।सविस्मयो नगम् इव चारु शोभनम् ।पुनः च तत् परम सुगन्धि सुन्दरम् ।हिम अत्यये नगम् इव चारु कन्दरम् ॥५-७-१५॥
+ततः स ताम् कपिर् अभिपत्य पूजिताम् ।चरन् पुरीम् दश मुख बाहु पालिताम् ।अदृश्य ताम् जनक सुताम् सुपूजिताम् ।सुदुह्खिताम् पति गुण वेग निर्जिताम् ॥५-७-१६॥
+ततः तदा बहु विध भावित आत्मनः ।कृत आत्मनो जनक सुताम् सुवर्त्मनः ।अपश्यतो अभवद् अतिदुह्खितम् मनः ।सुचक्षुषः प्रविचरतो महात्मनः ॥५-७-१७॥
+स तस्य मध्ये भवनस्य सम्स्थितम् ।महद्विमानम् मणिवज्रचित्रितम् ।प्रतप्तजाम्बूनदजालकृत्रिमम् ।ददर्श वीरः पवनात्मजः कपिः ॥५-८-१॥
+तदप्रमेयाप्रतिकारकृत्रिमम् ।कृतम् स्वयम् साध्विति विश्वकर्मणाः ।दिवम् गतम् वायुपथप्रतिष्ठितम् ।व्यराजतादित्यपथस्य लक्ष्मिवत् ॥५-८-२॥
+न तत्र किम्चिन्न कृतम् प्रयत्नतो ।न तत्र किम्चिन्न महर्हरत्नवत् ।न ते विशेषा नियताः सुरेष्वपि ।न तत्र किम्चिन्न महाविशेषवत् ॥५-८-३॥
+तपह्समाधानपराक्रमार्जितम् ।मनःसमाधानविचारचारिणम् ।अनेकसम्स्थानविषेषनिर्मितम् ।ततस्ततस्तुल्यविशेषदर्शनम् ॥५-८-४॥
+विशेषमालम्ब्य विशेषसम्स्थितम् ।विचित्रकूटम् बहुकूटमण्डितम् ।मनोऽभिरामम् शरद्न्दुनिर्मलम् ।विचित्रकूटम् शिखरम् गिरेर्यथा ॥५-८-५॥
+वहन्ति यम् कुण्डशोभितानना ।महाशना व्योमचरा निशाचराः ।विवृत्तविध्वस्तविशाललोचना ।महाजवा भूतगणाः सहस्रशः ॥५-८-६॥
+वसन्तपुष्पोत्करचारुदर्शनम् ।वसन्तमासदपि कान्तदर्शनम् ।स पुष��पकम् तत्र विमानमुत्तमम् ।ददर्श तद्वानरवीरसत्तमः ॥५-८-७॥
+तस्य आलय वरिष्ठस्य मध्ये विपुलम् आयतम् ।ददर्श भवन श्रेष्ठम् हनूमान् मारुत आत्मजः ॥५-९-१॥
+अर्ध योजन विस्तीर्णम् आयतम् योजनम् हि तत् ।भवनम् राक्षस इन्द्रस्य बहु प्रासाद सम्कुलम् ॥५-९-२॥
+मार्गमाणः तु वैदेहीम् सीताम् आयत लोचनाम् ।सर्वतः परिचक्राम हनूमान् अरि सूदनः ॥५-९-३॥
+उत्तमम् राक्षसावासम् हनुमानवलोकयन् ।आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥
+चतुर् विषाणैर् द्विरदैः त्रिविषाणैः तथैव च ।परिक्षिप्तम् असम्बाधम् रक्ष्यमाणम् उदायुधैः ॥५-९-५॥
+राक्षसीभिः च पत्नीभी रावणस्य निवेशनम् ।आह्Rताभिः च विक्रम्य राज कन्याभिर् आव्Rतम् ॥५-९-६॥
+तन् नक्र मकर आकीर्णम् तिमिम्गिल झष आकुलम् ।वायु वेग समाधूतम् पन्नगैर् इव सागरम् ॥५-९-७॥
+या हि वैश्वरणे लक्ष्मीर् या च इन्द्रे हरि वाहने ।सा रावण ग्Rहे सर्वा नित्यम् एव अनपायिनी ॥५-९-८॥
+या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।ताद्Rशी तद् विशिष्टा वा Rद्धी रक्षो ग्Rहेष्व् इह ॥५-९-९॥
+तस्य हर्म्यस्य मध्यस्थम् वेश्म च अन्यत् सुनिर्मितम् ।बहुनिर्यूह सम्कीर्णम् ददर्श पवन आत्मजः ॥५-९-१०॥
+ब्रह्मणो अर्थे क्Rतम् दिव्यम् दिवि यद् विश्व कर्मणा ।विमानम् पुष्पकम् नाम सर्व रत्न विभूषितम् ॥५-९-११॥
+परेण तपसा लेभे यत् कुबेरः पितामहात् ।कुबेरम् ओजसा जित्वा लेभे तद् राक्षस ईश्वरः ॥५-९-१२॥
+ईहा म्Rग समायुक्तैः कार्य स्वर हिरण्मयैः ।सुक्Rतैर् आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥५-९-१३॥
+मेरु मन्दर सम्काशैर् उल्लिखद्भिर् इव अम्बरम् ।कूट अगारैः शुभ आकारैः सर्वतः समलम्क्Rतम् ॥५-९-१४॥
+ज्वलन अर्क प्रतीकाशम् सुक्Rतम् विश्व कर्मणा ।हेम सोपान सम्युक्तम् चारु प्रवर वेदिकम् ॥५-९-१५॥
+जाल वात अयनैर् युक्तम् कान्चनैः स्थाटिकैर् अपि ।इन्द्र नील महा नील मणि प्रवरवेदिकम् ॥५-९-१६॥
+विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।विस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥
+चन्दनेन च रक्तेन तपनीयनिभेन च ।सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥
+कूटागारैर्वराकारैर्विविधैः समलम्कृतम् ।विमानम् पुष्पकम् दिव्यम् आरुरोह महा कपिः ॥५-९-१९॥
+तत्रस्थः स तदा गन्धम् पान भक्ष्य अन्न सम्भवम् ।दिव्यम् सम्मूर्चितम् जिघ्रन् रूपवन्तम् इव अनिलम् ॥५-९-२०॥
+स गन्धः तम् महा सत्त्वम् बन्धुर् बन्धुम् इव उत्तमम् ।इत एहि इति उवाच इव तत्र यत्र स रावणः ॥५-९-२१॥
+ततः ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् ।रावणस्य मनः कान्ताम् कान्ताम् इव वर स्त्रियम् ॥५-९-२२॥
+मणि सोपान विक्Rताम् हेम जाल विराजिताम् ।स्फाटिकैर् आव्Rत तलाम् दन्त अन्तरित रूपिकाम् ॥५-९-२३॥
+मुक्ताभिः च प्रवालैः च रूप्य चामी करैर् अपि ।विभूषिताम् मणि स्तम्भैः सुबहु स्तम्भ भूषिताम् ॥५-९-२४॥
+नम्रैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।स्तम्भैः पक्षैर् इव अत्युच्चैर् दिवम् सम्प्रस्थिताम् इव ॥५-९-२५॥
+महत्या कुथय आस्त्रीणम् प्Rथिवी लक्षण अन्कया ।पृथिवीम् इव विस्तीर्णाम् सराष्ट्र ग्Rह मालिनीम् ॥५-९-२६॥
+नादिताम् मत्त विहगैर् दिव्य गन्ध अधिवासिताम् ।पर अर्ध्य आस्तरण उपेताम् रक्षो अधिप निषेविताम् ॥५-९-२७॥
+धूम्राम् अगरु धूपेन विमलाम् हम्स पाण्डुराम् ।चित्राम् पुष्प उपहारेण कल्माषीम् इव सुप्रभाम् ॥५-९-२८॥
+मनः सम्ह्लाद जननीम् वर्णस्य अपि प्रसादिनीम् ।ताम् शोक नाशिनीम् दिव्याम् श्रियः सम्जननीम् इव ॥५-९-२९॥
+इन्द्रियाणि इन्द्रिय अर्थैः तु पन्च पन्चभिर् उत्तमैः ।तर्पयाम् आस माता इव तदा रावण पालिता ॥५-९-३०॥
+स्वर्गो अयम् देव लोको अयम् इन्द्रस्य इयम् पुरी भवेत् ।सिद्धिर् वा इयम् परा हि स्याद् इति अमन्यत मारुतिः ॥५-९-३१॥
+प्रध्यायत इव अपश्यत् प्रदीपामः तत्र कान्चनान् (ःइअतुस्!)।धूर्तान् इव महा धूर्तैर् देवनेन पराजितान् ॥५-९-३२॥
+दीपानाम् च प्रकाशेन तेजसा रावणस्य च ।अर्चिर्भिर् भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥५-९-३३॥
+ततो अपश्यत् कुथा आसीनम् नाना वर्ण अम्बर स्रजम् ।सहस्रम् वर नारीणाम् नाना वेष विभूषितम् ॥५-९-३४॥
+परिव्Rत्ते अर्ध रात्रे तु पान निद्रा वशम् गतम् ।क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥५-९-३५॥
+तत् प्रसुप्तम् विरुरुचे निह्शब्द अन्तर भूषणम् ।निह्शब्द हम्स भ्रमरम् यथा पद्म वनम् महत् ॥५-९-३६॥
+तासाम् सम्व्Rत दन्तानि मीलित अक्षाणि मारुतिः ।अपश्यत् पद्म गन्धीनि वदनानि सुयोषिताम् ॥५-९-३७॥
+प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा क्षये ।पुनः सम्व्Rत पत्राणि रात्राव् इव बभुः तदा ॥५-९-३८॥
+इमानि मुख पद्मानि नियतम् मत्त षट्पदाः ।अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३९॥
+इति वा अमन्यत श्रीमान् उपपत्त्या महा कपिः ।मेने हि गुणतः तानि समानि सलिल उद्भवैः ॥५-९-४०॥
+सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता ।शारदी इव प्रसन्ना द्यौः ताराभिर् अभिशोभिता ॥५-९-४१॥
+स च ताभिः परिव्Rतः शुशुभे राक्षस अधिपः ।यथा हि उडु पतिः श्रीमामः ताराभिर् अभिसम्व्Rतः ॥५-९-४२॥
+याः च्यवन्ते अम्बरात् ताराः पुण्य शेष समाव्Rताः ।इमाः ताः सम्गताः क्Rत्स्ना इति मेने हरिः तदा ॥५-९-४३॥
+ताराणाम् इव सुव्यक्तम् महतीनाम् शुभ अर्चिषाम् ।प्रभा वर्ण प्रसादाः च विरेजुः तत्र योषिताम् ॥५-९-४४॥
+व्याव्Rत्त गुरु पीन स्रक् प्रकीर्ण वर भूषणाः ।पान व्यायाम कालेषु निद्रा अपह्Rत चेतसः ॥५-९-४५॥
+व्याव्Rत्त तिलकाः काश्चित् काश्चिद् उद्भ्रान्त नूपुराः ।पार्श्वे गलित हाराः च काश्चित् परम योषितः ॥५-९-४६॥
+मुखा हार व्Rताः च अन्याः काश्चित् प्रस्रस्त वाससः ।व्याविद्ध रशना दामाः किशोर्य इव वाहिताः ॥५-९-४७॥
+सुकुण्डल धराः च अन्या विच्चिन्न म्Rदित स्रजः ।गज इन्द्र म्Rदिताः फुल्ला लता इव महा वने ॥५-९-४८॥
+चन्द्र अम्शु किरण आभाः च हाराः कासाम्चिद् उत्कटाः ।हम्सा इव बभुः सुप्ताः स्तन मध्येषु योषिताम् ॥५-९-४९॥
+अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः ।हेम सूत्राणि च अन्यासाम् चक्र वाका इव अभवन् ॥५-९-५०॥
+हम्स कारण्डव आकीर्णाः चक्र वाक उपशोभिताः ।आपगा इव ता रेजुर् जघनैः पुलिनैर् इव ॥५-९-५१॥
+किन्किणी जाल सम्काशाः ता हेम विपुल अम्बुजाः ।भाव ग्राहा यशः तीराः सुप्ता नद्य इव आबभुः ॥५-९-५२॥
+मृदुष्व् अन्गेषु कासाम्चित् कुच अग्रेषु च सम्स्थिताः ।बभूवुर् भूषणानि इव शुभा भूषण राजयः ॥५-९-५३॥
+अम्शु कान्ताः च कासाम्चिन् मुख मारुत कम्पिताः ।उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ॥५-९-५४॥
+ताः पाताका इव उद्धूताः पत्नीनाम् रुचिर प्रभाः ।नाना वर्ण सुवर्णानाम् वक्त्र मूलेषु रेजिरे ॥५-९-५५॥
+ववल्गुः च अत्र कासाम्चित् कुण्डलानि शुभ अर्चिषाम् ।मुख मारुत सम्सर्गान् मन्दम् मन्दम् सुयोषिताम् ॥५-९-५६॥
+शर्कर आसव गन्धः स प्रक्Rत्या सुरभिः सुखः ।तासाम् वदन निह्श्वासः सिषेवे रावणम् तदा ॥५-९-५७॥
+रावण आनन शन्काः च काश्चिद् रावण योषितः ।मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥५-९-५८॥
+अत्यर्थम् सक्त मनसो रावणे ता वर स्त्रियः ।अस्वतन्त्राः सप���्नीनाम् प्रियम् एव आचरमः तदा ॥५-९-५९॥
+बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः ।अम्शुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५-९-६०॥
+अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनर् भुजम् ।अपरा त्व् अन्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥५-९-६१॥
+ऊरु पार्श्व कटी प्Rष्ठम् अन्योन्यस्य समाश्रिताः ।परस्पर निविष्ट अन्ग्यो मद स्नेह वश अनुगाः ॥५-९-६२॥
+अन्योन्यस्य अन्ग सम्स्पर्शात् प्रीयमाणाः सुमध्यमाः ।एकी क्Rत भुजाः सर्वाः सुषुपुः तत्र योषितःअन्योन्य भुज सूत्रेण स्त्री माला ग्रथिता हि सा ।माला इव ग्रथिता सूत्रे शुशुभे मत्त षट्पदा ॥५-९-६३॥
+लतानाम् माधवे मासि फुल्लानाम् वायु सेवनात् ।अन्योन्य माला ग्रथितम् सम्सक्त कुसुम उच्चयम् ॥५-९-६४॥
+व्यतिवेष्टित सुस्कन्थम् अन्योन्य भ्रमर आकुलम् ।आसीद् वनम् इव उद्धूतम् स्त्री वनम् रावणस्य तत् ॥५-९-६५॥
+उचितेष्व् अपि सुव्यक्तम् न तासाम् योषिताम् तदा ।विवेकः शक्य आधातुम् भूषण अन्ग अम्बर स्रजाम् ॥५-९-६६॥
+रावणे सुख सम्विष्टे ताः स्त्रियो विविध प्रभाः ।ज्वलन्तः कान्चना दीपाः प्रेक्षन्त अनिमिषा इव ॥५-९-६७॥
+राज Rषि पित्R दैत्यानाम् गन्धर्वाणाम् च योषितः ।रक्षसाम् च अभवन् कन्याः तस्य काम वशम् गताः ॥५-९-६८॥
+युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥
+न तत्र काचित् प्रमदा प्रसह्य ।वीर्य उपपन्नेन गुणेन लब्धा ।न च अन्य कामा अपि न च अन्य पूर्वा ।विना वर अर्हाम् जनक आत्मजाम् तु ॥५-९-७०॥
+न च अकुलीना न च हीन रूपा ।न अदक्षिणा न अनुपचार युक्ता ।भार्या अभवत् तस्य न हीन सत्त्वा ।न च अपि कान्तस्य न कामनीया ॥५-९-७१॥
+बभूव बुद्धिः तु हरि ईश्वरस्य ।यदि ईद्Rशी राघव धर्म पत्नी ।इमा यथा राक्षस राज भार्याः ।सुजातम् अस्य इति हि साधु बुद्धेः ॥५-९-७२॥
+पुनः च सो अचिन्तयद् आर्त रूपो ।ध्रुवम् विशिष्टा गुणतो हि सीता ।अथ अयम् अस्याम् क्Rतवान् महात्मा ।लन्का ईश्वरः कष्टम् अनार्य कर्म ॥५-९-७३॥
+तत्र दिव्य उपमम् मुख्यम् स्फाटिकम् रत्न भूषितम् ।अवेक्षमाणो हनुमान् ददर्श शयन आसनम् ॥५-१०-१॥
+दान्तकाञ्चनिचित्राङ्गेर्वैश्च वरासनैः ।महार्हस्तरणोपेतैरुपपन्नम् महाधनैः ॥५-१०-२॥
+तस्य च एकतमे देशे सो अग्र्य माल्य विभूषितम् ।ददर्श पाण्डुरम् चत्रम् तारा अधिपति सम्निभम��� ॥५-१०-३॥
+जातरूपपरिक्षिप्तम् चित्रभानुसमप्रभम् ।अशोकमालाविततम् ददर्श परमासनम् ॥५-१०-४॥
+वाल व्यजन हस्ताभिर् वीज्यमानम् समन्ततः ।गन्धैः च विविधैर् जुष्टम् वर धूपेन धूपितम् ॥५-१०-५॥
+परम आस्तरण आस्तीर्णम् आविक अजिन सम्व्र्तम् ।दामभिर् वर माल्यानाम् समन्ताद् उपशोभितम् ॥५-१०-६॥
+तस्मिन् जीमूत सम्काशम् प्रदीप्त उत्तम कुण्डलम् ।लोहित अक्षम् महा बाहुम् महा रजत वाससम् ॥५-१०-७॥
+लोहितेन अनुलिप्त अन्गम् चन्दनेन सुगन्धिना ।सम्ध्या रक्तम् इव आकाशे तोयदम् सतडिद् गुणम् ॥५-१०-८॥
+वृतम् आभरणैर् दिव्यैः सुरूपम् काम रूपिणम् ।सव्र्क्ष वन गुल्म आढ्यम् प्रसुप्तम् इव मन्दरम् ॥५-१०-९॥
+क्रीडित्वा उपरतम् रात्रौ वर आभरण भूषितम् ।प्रियम् राक्षस कन्यानाम् राक्षसानाम् सुख आवहम् ॥५-१०-१०॥
+पीत्वा अपि उपरतम् च अपि ददर्श स महा कपिः ।भास्करे शयने वीरम् प्रसुप्तम् राक्षस अधिपम् ॥५-१०-११॥
+निह्श्वसन्तम् यथा नागम् रावणम् वानर उत्तमः ।आसाद्य परम उद्विग्नः सो अपासर्पत् सुभीतवत् ॥५-१०-१२॥
+अथ आरोहणम् आसाद्य वेदिका अन्तरम् आश्रितः ।सुप्तम् राक्षस शार्दूलम् प्रेक्षते स्म महा कपिः ॥५-१०-१३॥
+शुशुभे राक्षस इन्द्रस्य स्वपतः शयन उत्तमम् ।गन्ध हस्तिनि सम्विष्टे यथा प्रस्रवणम् महत् ॥५-१०-१४॥
+कान्चन अन्गद नद्धौ च ददर्श स महात्मनः ।विक्षिप्तौ राक्षस इन्द्रस्य भुजाव् इन्द्र ध्वज उपमौ ॥५-१०-१५॥
+ऐरावत विषाण अग्रैर् आपीडित क्र्त व्रणौ ।वज्र उल्लिखित पीन अम्सौ विष्णु चक्र परिक्षितौ ॥५-१०-१६॥
+पीनौ समसुजात अम्सौ सम्गतौ बल सम्युतौ ।सुलक्षण नख अन्गुष्ठौ स्वन्गुली तल लक्षितौ ॥५-१०-१७॥
+सम्हतौ परिघ आकारौ व्र्त्तौ करि कर उपमौ ।विक्षिप्तौ शयने शुभ्रे पन्च शीर्षाव् इव उरगौ ॥५-१०-१८॥
+शश क्षतज कल्पेन सुशीतेन सुगन्धिना ।चन्दनेन पर अर्ध्येन स्वनुलिप्तौ स्वलम्क्र्तौ ॥५-१०-१९॥
+उत्तम स्त्री विम्र्दितौ गन्ध उत्तम निषेवितौ ।यक्ष पन्नग गन्धर्व देव दानव राविणौ ॥५-१०-२०॥
+ददर्श स कपिः तस्य बाहू शयन सम्स्थितौ ।मन्दरस्य अन्तरे सुप्तौ महा अर्ही रुषिताव् इव ॥५-१०-२१॥
+ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस अधिपः ।शुशुभे अचल सम्काशः श्र्न्गाभ्याम् इव मन्दरः ॥५-१०-२२॥
+चूत पुम्नाग सुरभिर् बकुल उत्तम सम्युतः ।मृष्ट अन्न रस सम्युक्तः पान गन्ध पुरः सरः ��५-१०-२३॥
+तस्य राक्षस सिम्हस्य निश्चक्राम मुखान् महान् ।शयानस्य विनिह्श्वासः पूरयन्न् इव तद् ग्र्हम् ॥५-१०-२४॥
+मुक्ता मणि विचित्रेण कान्चनेन विराजता ।मुकुटेन अपव्र्त्तेन कुण्डल उज्ज्वलित आननम् ॥५-१०-२५॥
+रक्त चन्दन दिग्धेन तथा हारेण शोभिता ।पीन आयत विशालेन वक्षसा अभिविराजितम् ॥५-१०-२६॥
+पाण्डुरेण अपविद्धेन क्षौमेण क्षतज ईक्षणम् ।महा अर्हेण सुसम्वीतम् पीतेन उत्तम वाससा ॥५-१०-२७॥
+माष राशि प्रतीकाशम् निह्श्वसन्तम् भुजन्गवत् ।गान्गे महति तोय अन्ते प्रसुतमिव कुन्जरम् ॥५-१०-२८॥
+चतुर्भिः कान्चनैर् दीपैर् दीप्यमानैः चतुर् दिशम् ।प्रकाशी क्र्त सर्व अन्गम् मेघम् विद्युद् गणैर् इव ॥५-१०-२९॥
+पाद मूल गताः च अपि ददर्श सुमहात्मनः ।पत्नीः स प्रिय भार्यस्य तस्य रक्षः पतेर् ग्र्हे ॥५-१०-३०॥
+शशि प्रकाश वदना वर कुण्डल भूषिताः ।अम्बाल माल्य आभरणा ददर्श हरि यूथपः ॥५-१०-३१॥
+नृत्त वादित्र कुशला राक्षस इन्द्र भुज अन्कगाः ।वर आभरण धारिण्यो निषन्ना दद्र्शे कपिः ॥५-१०-३२॥
+वज्र वैदूर्य गर्भाणि श्रवण अन्तेषु योषिताम् ।ददर्श तापनीयानि कुण्डलानि अन्गदानि च ॥५-१०-३३॥
+तासाम् चन्द्र उपमैर् वक्त्रैः शुभैर् ललित कुण्डलैः ।विरराज विमानम् तन् नभः तारा गणैर् इव ॥५-१०-३४॥
+मद व्यायाम खिन्नाः ताः राक्षस इन्द्रस्य योषितः ।तेषु तेष्व् अवकाशेषु प्रसुप्ताः तनु मध्यमाः ॥५-१०-३५॥
+अङ्गहारैस्तथैवान्या कोवलैर्नृत्तशालिनी ।विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥
+काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते ।महा नदी प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥५-१०-३७॥
+अन्या कक्ष गतेन एव मड्डुकेन असित ईक्षणा ।प्रसुप्ता भामिनी भाति बाल पुत्रा इव वत्सला ॥५-१०-३८॥
+पटहम् चारु सर्व अन्गी पीड्य शेते शुभ स्तनी ।चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥५-१०-३९॥
+काचिद् अम्शम् परिष्वज्य सुप्ता कमल लोचना ।रहः प्रियतमम् गृह्य सकामेव च कामिनी ॥५-१०-४०॥
+विपञ्चैइम् परिगृह्यान्या नियता नृत्तशालिनी ।निद्रा वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥५-१०-४१॥
+अन्या कनक सम्काशैर् म्र्दु पीनैर् मनो रमैः ।मृदन्गम् परिपीड्य अन्गैः प्रसुप्ता मत्त लोचना ॥५-१०-४२॥
+भुज पार्श्व अन्तरस्थेन कक्षगेन क्र्श उदरी ।पणवेन सह अनिन्द्या सुप्ता मद क्र्त श्रमा ॥५-१०-४३॥
+डिण्डिमम् परिग्र्ह्य अन्या तथैव आसक्त डिण्डिमा ।प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥५-१०-४४॥
+काचिद् आडम्बरम् नारी भुज सम्भोग पीडितम् ।कृत्वा कमल पत्र अक्षी प्रसुप्ता मद मोहिता ॥५-१०-४५॥
+कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी ।वसन्ते पुष्प शबला माला इव परिमार्जिता ॥५-१०-४६॥
+पाणिभ्याम् च कुचौ काचित् सुवर्ण कलश उपमौ ।उपगूह्य अबला सुप्ता निद्रा बल पराजिता ॥५-१०-४७॥
+अन्या कमल पत्र अक्षी पूर्ण इन्दु सद्र्श आनना ।अन्याम् आलिन्ग्य सुश्रोणी प्रसुप्ता मद विह्वला ॥५-१०-४८॥
+आतोद्यानि विचित्राणि परिष्वज्य वर स्त्रियः ।निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥५-१०-४९॥
+तासाम् एक अन्त विन्यस्ते शयानाम् शयने शुभे ।ददर्श रूप सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५-१०-५०॥
+मुक्ता मणि समायुक्तैर् भूषणैः सुविभूषिताम् ।विभूषयन्तीम् इव च स्व श्रिया भवन उत्तमम् ॥५-१०-५१॥
+गौरीम् कनक वर्ण आभाम् इष्टाम् अन्तः पुर ईश्वरीम् ।कपिर् मन्द उदरीम् तत्र शयानाम् चारु रूपिणीम् ॥५-१०-५२॥
+स ताम् दृष्ट्वा महा बाहुर् भूषिताम् मारुत आत्मजः ।तर्कयाम् आस सीता इति रूप यौवन सम्पदा ॥५-१०-५३॥
+हर्षेण महता युक्तो ननन्द हरि यूथपः ।आश्पोटयाम् आस चुचुम्ब पुच्चम् ।ननन्द चिक्रीड जगौ जगाम।स्तम्भान् अरोहन् निपपात भूमौ ।निदर्शयन् स्वाम् प्रक्र्तिम् कपीनाम् ॥५-१०-५४॥
+अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा ।जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥५-११-१॥
+न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी ।न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥५-११-२॥
+न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् ।न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥५-११-३॥
+अन्या इयम् इति निश्चित्य पान भूमौ चचार सः ।क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥५-११-४॥
+नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा ।मुरजेषु म्Rदन्गेषु पीठिकासु च सम्स्थिताः ॥५-११-५॥
+तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः ।अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥५-११-६॥
+रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा ।देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥५-११-७॥
+रत अभिरत सम्सुप्तम् ददर्श हरि यूथपः ।तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥५-११-८॥
+गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः ।स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥५-११-९॥
+करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः ।सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥५-११-१०॥
+ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे ।मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥५-११-११॥
+तत्र न्यस्तानि माम्सानि पान भूमौ ददर्श सः ।रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥५-११-१२॥
+ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा ।वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥५-११-१३॥
+शल्यान् म्Rग मयूरामः च हनूमान् अन्ववैक्षत ।कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥५-११-१४॥
+महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् ।लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥५-११-१५॥
+तथा अम्ल लवण उत्तम्सैर् विविधै राग षाडवैः ।हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥५-११-१६॥
+पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि ।कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥५-११-१७॥
+तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः ।पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥५-११-१८॥
+बहु प्रकारैर् विविधैर् वर सम्स्कार सम्स्कृतैः ।माम्सैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥५-११-१९॥
+दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि ।शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥५-११-२०॥
+वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् ।सम्तता शुशुभे भूमिर् माल्यैः च बहु सम्स्थितैः ॥५-११-२१॥
+हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि ।जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥५-११-२२॥
+राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥५-११-२३॥
+सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च ।राजतानि च पूर्णानि भाजनानि महा कपिः ॥५-११-२४॥
+क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः ।क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥५-११-२५॥
+क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः ।क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥५-११-२६॥
+क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः ।क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥५-११-२७॥
+शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः ।परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥५-११-२८॥
+काचिच् च वस्त्रम् अन्यस्या अपह्Rत्य उपगुह्य च ।उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥५-११-२९॥
+तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् ।न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥५-११-३०॥
+चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च ।विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३१॥
+बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् ।स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः ।प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥५-११-३२॥
+श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥५-११-३३॥
+काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये ।तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥५-११-३४॥
+पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि ।एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥५-११-३५॥
+ददर्श सुमहा तेजा न ददर्श च जानकीम् ।निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥५-११-३६॥
+जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः ।पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥५-११-३७॥
+इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति ।न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥५-११-३८॥
+अयम् च अत्र मया दृष्टः पर दार परिग्रहः ।तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥५-११-३९॥
+निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी ।कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥५-११-४०॥
+न तु मे मनसः किम्चिद् वैकृत्यम् उपपद्यते ।मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥५-११-४१॥
+शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् ।न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥५-११-४२॥
+स्त्रियो हि स्त्रीषु द्Rश्यन्ते सदा सम्परिमार्गणे ।यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥५-११-४३॥
+न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् ।तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥५-११-४४॥
+रावण अन्तः पुरम् सरम् दृश्यते न च जानकी ।देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥५-११-४५॥
+अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् ।ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥५-११-४६॥
+अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ।स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥५-��१-४७॥
+स तस्य मध्ये भवनस्य वानरो ।लता ग्Rहामः चित्र गृहान् निशा गृहान् ।जगाम सीताम् प्रति दर्शन उत्सुको ।न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥
+स चिन्तयाम् आस ततो महा कपिः ।प्रियाम् अपश्यन् रघु नन्दनस्य ताम् ।ध्रुवम् नु सीता म्रियते यथा न मे ।विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥
+सा राक्षसानाम् प्रवरेण बाला ।स्व शील सम्रक्षण तत् परा सती ।अनेन नूनम् प्रतिदुष्ट कर्मणा ।हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥
+विरूप रूपा विकृता विवर्चसो ।महा आनना दीर्घ विरूप दर्शनाः ।समीक्ष्य सा राक्षस राज योषितो ।भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥
+सीताम् अद्Rष्ट्वा हि अनवाप्य पौरुषम् ।विह्Rत्य कालम् सह वानरैः चिरम् ।न मे अस्ति सुग्रीव समीपगा गतिः ।सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥
+दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः ।न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥
+किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः ।गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥
+अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् ।ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥
+किम् वा वक्ष्यति व्Rद्धः च जाम्बवान् अन्गदः च सः ।गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥
+अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् ।अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥
+करोति सफलम् जन्तोः कर्म यच् च करोति सः ।तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥
+अदृष्टामः च विचेष्यामि देशान् रावण पालितान् ।आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥
+चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च ।निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥
+इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे ।भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥
+उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् ।अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥
+प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि ।सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥
+चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते ।रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥
+प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः ।श्वभ्राः च प���ष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥
+राक्षस्यो विविध आकारा विरूपा विकृताः तथा ।दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥
+रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः ।दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥
+नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः ।दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥
+प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः ।दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥
+सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः ।विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥
+उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च ।व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥
+अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः ।चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥
+विमानात् तु सुसम्क्रम्य प्राकारम् हरि यूथपः ।हनूमान् वेगवान् आसीद् यथा विद्युद् घन अन्तरे ॥५-१३-१॥
+सम्परिक्रम्य हनुमान् रावणस्य निवेशनान् ।अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः ॥५-१३-२॥
+भूयिष्ठम् लोडिता लन्का रामस्य चरता प्रियम् ।न हि पश्यामि वैदेहीम् सीताम् सर्व अन्ग शोभनाम् ॥५-१३-३॥
+पल्वलानि तटाकानि सराम्सि सरितः तथा ।नद्यो अनूपवन अन्ताः च दुर्गाः च धरणी धराः ॥५-१३-४॥
+लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ।इह सम्पातिना सीता रावणस्य निवेशने ॥५-१३-५॥
+आख्याता गृध्र राजेन न च पश्यामि ताम् अहम् ।किम् नु सीता अथ वैदेही मैथिली जनक आत्मजा ॥५-१३-६॥
+उपतिष्ठेत विवशा रावणम् दुष्ट चारिणम् ।क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः ॥५-१३-७॥
+बिभ्यतो राम बाणानाम् अन्तरा पतिता भवेत् ।अथवा ह्रियमाणायाः पथि सिद्ध निषेविते ॥५-१३-८॥
+मन्ये पतितम् आर्याया हृदयम् प्रेक्ष्य सागरम् ।रावणस्य ऊरु वेगेन भुजाभ्याम् पीडितेन च ॥५-१३-९॥
+तया मन्ये विशाल अक्ष्या त्यक्तम् जीवितम् आर्यया ।उपरि उपरि वा नूनम् सागरम् क्रमतः तदा ॥५-१३-१०॥
+विवेष्टमाना पतिता समुद्रे जनक आत्मजा ।आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः ॥५-१३-११॥
+अबन्धुर् भक्षिता सीता रावणेन तपस्विनी ।अथवा राक्षस इन्द्रस्य पत्नीभिर् असित ईक्षणा ॥५-१३-१२॥
+अदुष्टा दुष्ट भावाभिर् भक्षिता सा भविष्यति ।सम्पूर्ण चन्द्र प्रतिमम् पद्म पत्र निभ ईक्षणम् ॥५-१३-१३॥
+र��मस्य ध्यायती वक्त्रम् पन्चत्वम् कृपणा गता ।हा राम लक्ष्मण इति एव हा अयोध्येति च मैथिली ॥५-१३-१४॥
+विलप्य बहु वैदेही न्यस्त देहा भविष्यति ।अथवा निहिता मन्ये रावणस्य निवेशने ॥५-१३-१५॥
+नूनम् लालप्यते मन्दम् पन्जरस्था इव शारिका ।जनकस्य कुले जाता राम पत्नी सुमध्यमा ॥५-१३-१६॥
+कथम् उत्पल पत्र अक्षी रावणस्य वशम् व्रजेत् ।विनष्टा वा प्रनष्टा वा मृता वा जनक आत्मजा ॥५-१३-१७॥
+रामस्य प्रिय भार्यस्य न निवेदयितुम् क्षमम् ।निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने ॥५-१३-१८॥
+कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे ।अस्मिन्न् एवम् गते कर्ये प्राप्त कालम् क्षमम् च किम् ॥५-१३-१९॥
+भवेद् इति मतिम् भूयो हनुमान् प्रविचारयन् ।यदि सीताम् अदृष्ट्वा अहम् वानर इन्द्र पुरीम् इतः ॥५-१३-२०॥
+गमिष्यामि ततः को मे पुरुष अर्थो भविष्यति ।मम इदम् लन्घनम् व्यर्थम् सागरस्य भविष्यति ॥५-१३-२१॥
+प्रवेशः चिव लन्काया राक्षसानाम् च दर्शनम् ।किम् वा वक्ष्यति सुग्रीवो हरयो व समागताः ॥५-१३-२२॥
+किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ आत्मजौ ।गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् ॥५-१३-२३॥
+न दृष्टा इति मया सीता ततः त्यक्ष्यन्ति जीवितम् ।परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय तापनम् ॥५-१३-२४॥
+सीता निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति ।तम् तु कृच्च्र गतम् दृष्ट्वा पन्चत्व गत मानसम् ॥५-१३-२५॥
+भृश अनुरक्तो मेधावी न भविष्यति लक्ष्मणः ।विनष्टौ भ्रातरौ श्रुत्वा भरतो अपि मरिष्यति ॥५-१३-२६॥
+भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति ।पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥५-१३-२७॥
+कौसल्या च सुमित्रा च कैकेयी च न सम्शयः ।कृतज्ञः सत्य सम्धः च सुग्रीवः प्लवग अधिपः ॥५-१३-२८॥
+रामम् तथा गतम् दृष्ट्वा ततः त्यक्ष्यन्ति जीवितम् ।दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥५-१३-२९॥
+पीडिता भर्तृ शोकेन रुमा त्यक्ष्यति जीवितम् ।वालिजेन तु दुह्खेन पीडिता शोक कर्शिता ॥५-१३-३०॥
+पन्चत्व गमने राज्ञः तारा अपि न भविष्यति ।माता पित्रोर् विनाशेन सुग्रीव व्यसनेन च ॥५-१३-३१॥
+कुमारो अपि अन्गदः कस्माद् धारयिष्यति जीवितम् ।भर्तृजेन तु शोकेन अभिभूता वन ओकसः ॥५-१३-३२॥
+शिराम्सि अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च ।सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥५-१३-३३॥
+लालिताः कपि राजेन प्राणामः त्यक्ष्यन्ति वानराः ।न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥५-१३-३४॥
+क्रीडाम् अनुभविष्यन्ति समेत्य कपि कुन्जराः ।सपुत्र दाराः सामात्या भर्तृ व्यसन पीडिताः ॥५-१३-३५॥
+शैल अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा ॥५-१३-३६॥
+उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः ।घोरम् आरोदनम् मन्ये गते मयि भविष्यति ॥५-१३-३७॥
+इक्ष्वाकु कुल नाशः च नाशः चैव वन ओकसाम् ।सो अहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः ॥५-१३-३८॥
+न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना ।मयि अगच्चति च इहस्थे धर्म आत्मानौ महा रथौ ॥५-१३-३९॥
+आशया तौ धरिष्येते वनराः च मनस्विनः ।हस्त आदानो मुख आदानो नियतो वृक्ष मूलिकः ॥५-१३-४०॥
+वानप्रस्थो भविष्यामि अदृष्ट्वा जनक आत्मजाम् ।सागर अनूपजे देशे बहु मूल फल उदके ॥५-१३-४१॥
+चिताम् कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी सुतम् ।उपविष्टस्य वा सम्यग् लिन्गिनम् साधयिष्यतः ॥५-१३-४२॥
+शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च ।इदम् अपि ऋषिभिर् दृष्टम् निर्याणम् इति मे मतिः ॥५-१३-४३॥
+सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ।सुजात मूला सुभगा कीर्ति माला यशस्विनी ॥५-१३-४४॥
+प्रभग्ना चिर रात्री इयम् मम सीताम् अपश्यतः ।तापसो वा भविष्यामि नियतो वृक्ष मूलिकः ॥५-१३-४५॥
+न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित ईक्षणाम् ।यदि इतः प्रतिगच्चामि सीताम् अनधिगम्य ताम् ॥५-१३-४६॥
+अन्गदः सहितैः सर्वैर् वानरैर् न भविष्यति ।विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ॥५-१३-४७॥
+तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति सम्गमः ।एवम् बहु विधम् दुह्खम् मनसा धारयन् मुहुः ॥५-१३-४८॥
+न अध्यगच्चत् तदा पारम् शोकस्य कपि कुन्जरः ।रावणम् वा वधिष्यामि दशग्रीवम् महा बलम् ॥५-१३-४९॥
+कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति ।अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् ॥५-१३-५०॥
+रामाय उपहरिष्यामि पशुम् पशु पतेर् इव ।इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् ॥५-१३-५१॥
+ध्यान शोका परीत आत्मा चिन्तयाम् आस वानरः ।यावत् सीताम् न पश्यामि राम पत्नीम् यशस्विनीम् ॥५-१३-५२॥
+तावद् एताम् पुरीम् लन्काम् विचिनोमि पुनः पुनः ।सम्पाति वचन��च् च अपि रामम् यदि आनयामि अहम् ॥५-१३-५३॥
+अपश्यन् राघवो भार्याम् निर्दहेत् सर्व वानरान् ।इह एव नियत आहारो वत्स्यामि नियत इन्द्रियः ॥५-१३-५४॥
+न मत् कृते विनश्येयुः सर्वे ते नर वानराः ।अशोक वनिका च अपि महती इयम् महा द्रुमा ॥५-१३-५५॥
+इमाम् अभिगमिष्यामि न हि इयम् विचिता मया ।वसून् रुद्रामः तथा आदित्यान् अश्विनौ मरुतो अपि च ॥५-१३-५६॥
+नमः कृत्वा गमिष्यामि रक्षसाम् शोक वर्धनः ।जित्वा तु राक्षसान् देवीम् इक्ष्वाकु कुल नन्दिनीम् ॥५-१३-५७॥
+सम्प्रदास्यामि रामाया यथा सिद्धिम् तपस्विने ।स मुहूर्तम् इव ध्यात्वा चिन्ता विग्रथित इन्द्रियः ॥५-१३-५८॥
+उदतिष्ठन् महा बाहुर् हनूमान् मारुत आत्मजः ।नमो अस्तु रामाय सलक्ष्मणाय ।देव्यै च तस्यै जनक आत्मजायै ।नमो अस्तु रुद्र इन्द्र यम अनिलेभ्यो ।नमो अस्तु चन्द्र अर्क मरुद् गणेभ्यः ॥५-१३-५९॥
+स तेभ्यः तु नमः कृत्वा सुग्रीवाय च मारुतिः ।दिशः सर्वाः समालोक्य अशोक वनिकाम् प्रति ॥५-१३-६०॥
+स गत्वा मनसा पूर्वम् अशोक वनिकाम् शुभाम् ।उत्तरम् चिन्तयाम् आस वानरो मारुत आत्मजः ॥५-१३-६१॥
+ध्रुवम् तु रक्षो बहुला भविष्यति वन आकुला ।अशोक वनिका चिन्त्या सर्व सम्स्कार सम्स्कृता ॥५-१३-६२॥
+रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् ।भगवान् अपि सर्व आत्मा न अतिक्षोभम् प्रवायति ॥५-१३-६३॥
+सम्क्षिप्तो अयम् मया आत्मा च राम अर्थे रावणस्य च ।सिद्धिम् मे सम्विधास्यन्ति देवाः सर्षि गणाः त्व् इह ॥५-१३-६४॥
+ब्रह्मा स्वयम्भूर् भगवान् देवाः चैव दिशन्तु मे ।सिद्धिम् अग्निः च वायुः च पुरु हूतः च वज्रधृत् ॥५-१३-६५॥
+वरुणः पाश हस्तः च सोम आदित्यै तथैव च ।अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥५-१३-६६॥
+सिद्धिम् सर्वाणि भूतानि भूतानाम् चैव यः प्रभुः ।दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥५-१३-६७॥
+तद् उन्नसम् पाण्डुर दन्तम् अव्रणम् ।शुचि स्मितम् पद्म पलाश लोचनम् ।द्रक्ष्ये तद् आर्या वदनम् कदा न्व् अहम् ।प्रसन्न तारा अधिप तुल्य दर्शनम् ॥५-१३-६८॥
+क्षुद्रेण पापेन नृशम्स कर्मणा ।सुदारुण अलाम्कृत वेष धारिणा।बल अभिभूता अबला तपस्विनी ।कथम् नु मे दृष्ट पथे अद्य सा भवेत् ॥५-१३-६९॥
+स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् ।अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥५-१४-१॥
+स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः ।पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥
+सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् ।उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥५-१४-३॥
+अथ आम्र वण सम्चन्नाम् लता शत समावृताम् ।ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥५-१४-४॥
+स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् ।राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥
+विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥५-१४-६॥
+वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः ।कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥५-१४-७॥
+प्रहृष्ट मनुजे कले मृग पक्षि समाकुले ।मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥५-१४-८॥
+मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् ।सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥५-१४-९॥
+उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः ।अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥५-१४-१०॥
+पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः ।अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥
+दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् ।द्Rष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥
+वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः ।रराज वसुधा तत्र प्रमदा इव विभूषिता ॥५-१४-१३॥
+तरस्विना ते तरवः तरसा अभिप्रकम्पिताः ।कुसुमानि विचित्राणि सस्Rजुः कपिना तदा ॥५-१४-१४॥
+निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः ।निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥
+हनूमता वेगवता कम्पिताः ते नग उत्तमाः ।पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥५-१४-१६॥
+विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः ।बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥५-१४-१७॥
+विधूत केशी युवतिर् यथा मृदित वर्णिका ।निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥५-१४-१८॥
+तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता ।बभूव अशोक वनिका प्रभग्न वर पादपा ॥५-१४-१९॥
+महा लतानाम् दामानि व्यधमत् तरसा कपिः ।यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥५-१४-२०॥
+स तत्र मणि भूमीः च राजतीः च मनो रमाः ।तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥५-१४-२१॥
+वापीः च विविध आकाराः पूर्णाः परम वारिणा ।महा अ���्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥५-१४-२२॥
+मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः ।कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥५-१४-२३॥
+फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः ।नत्यूह रुत सम्घुष्टा हम्स सारस नादिताः ॥५-१४-२४॥
+दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः ।अम्Rत उपम तोयाभिः शिवाभिर् उपसम्स्कृताः ॥५-१४-२५॥
+लता शतैर् अवतताः सन्तानक समावृताः ।नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥५-१४-२६॥
+ततो अम्बु धर सम्काशम् प्रव्Rद्ध शिखरम् गिरिम् ।विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥५-१४-२७॥
+शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् ।ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥५-१४-२८॥
+ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः ।अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥५-१४-२९॥
+जले निपतित अग्रैः च पादपैर् उपशोभिताम् ।वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥५-१४-३०॥
+पुनर् आव्Rत्त तोयाम् च ददर्श स महा कपिः ।प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥५-१४-३१॥
+तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः ।ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥५-१४-३२॥
+कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा ।मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥५-१४-३३॥
+विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥५-१४-३४॥
+काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् ।ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥५-१४-३५॥
+सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ।लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्Rताम् ॥५-१४-३६॥
+काञ्चनीम् शिम्शुपाम् एकाम् ददर्श स महा कपिः ।वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥
+सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च ।सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥५-१४-३८॥
+तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः ।अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥५-१४-३९॥
+ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् ।किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥५-१४-४०॥
+स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् ।ताम् आरुह्य महा वेगः शिम्शपाम् पर्ण सम्व्Rताम् ॥५-१४-४१॥
+इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् ।इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्Rच्चया ॥५-१४-४२॥
+अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः ।चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥५-१४-४३॥
+इयम् च नलिनी रम्या द्विज सम्घ निषेविता ।इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥५-१४-४४॥
+सा राम राम महिषी राघवस्य प्रिया सदा ।वन सम्चार कुशला नूनम् एष्यति जानकी ॥५-१४-४५॥
+अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा ।वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥५-१४-४६॥
+राम शोक अभिसम्तप्ता सा देवी वाम लोचना ।वन वास रता नित्यम् एष्यते वन चारिणी ॥५-१४-४७॥
+वने चराणाम् सततम् नूनम् स्पृहयते पुरा ।रामस्य दयिता भार्या जनकस्य सुता सती॥५-१४-४८॥
+सम्ध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी ।नदीम् च इमाम् शिव जलाम् सम्ध्या अर्थे वर वर्णिनी ॥५-१४-४९॥
+तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा ।शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५-१४-५०॥
+यदि जिवति सा देवी तारा अधिप निभ आनना ।आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५-१४-५१॥
+एवम् तु मत्वा हनुमान् महात्मा ।प्रतीक्षमाणो मनुज इन्द्र पत्नीम्।अवेक्षमाणः च ददर्श सर्वम् ।सुपुष्पिते पर्ण घने निलीनः ॥५-१४-५२॥
+स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् ।अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥५-१५-१॥
+सन्तान कलताभिः च पादपैर् उपशोभिताम् ।दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् ॥५-१५-२॥
+ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् ।हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् ॥५-१५-३॥
+कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् ।बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् ॥५-१५-४॥
+सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः ।पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् ॥५-१५-५॥
+प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत ।निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥५-१५-६॥
+विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतम्सकैः ।आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः ॥५-१५-७॥
+पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् ।कर्णिकारैः कुसुमितैः किम्शुकैः च सुपुष्पितैः ॥५-१५-८॥
+स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः ।पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा ॥५-१५-९॥
+विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः ।शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः ॥५-१५-१०॥
+नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः ।नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा ॥५-१५-११॥
+अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् ॥५-१५-१२॥
+पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा ।सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः ॥५-१५-१३॥
+नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः ।अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् ॥५-१५-१४॥
+शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् ।अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः ॥५-१५-१५॥
+स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् ।मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् ॥५-१५-१६॥
+प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् ।मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया ॥५-१५-१७॥
+विमलम् प्राम्शु भावत्वाद् उल्लिखन्तम् इव अम्बरम् ।ततो मलिन सम्वीताम् राक्षसीभिः समावृताम् ॥५-१५-१८॥
+उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः ।ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् ॥५-१५-१९॥
+मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् ।पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-२०॥
+पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा ।सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् ॥५-१५-२१॥
+व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् ।ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् ॥५-१५-२२॥
+अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च ।शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् ॥५-१५-२३॥
+प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् ।स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव ॥५-१५-२४॥
+नील नाग आभया वेण्या जघनम् गतया एकया ।नीलया नीरदापाये वनराज्या महीमिव ॥५-१५-२५॥
+सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् ।ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् ॥५-१५-२६॥
+तर्कयाम् आस सीता इति कारणैः उपपादिभिः ।ह्रियमाणा तदा तेन रक्षसा काम रूपिणा ॥५-१५-२७॥
+यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना ।पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् ॥५-१५-२८॥
+कुर्वन्तीम् प्रभया देवीम् सर्वा विति���िरा दिशः ।ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् ॥५-१५-२९॥
+सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा ।इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव ॥५-१५-३०॥
+भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् ।निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव ॥५-१५-३१॥
+शोक जालेन महता विततेन न राजतीम् ।सम्सक्ताम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-३२॥
+ताम् स्मृतीम् इव सम्दिघ्दाम् ऋद्धिम् निपतिताम् इव ।विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥५-१५-३३॥
+स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव ।अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥५-१५-३४॥
+राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् ।अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः ॥५-१५-३५॥
+बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा ।वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः ॥५-१५-३६॥
+मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् ।प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् ॥५-१५-३७॥
+तस्य सम्दिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु ।आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥५-१५-३८॥
+दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् ।सम्स्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् ॥५-१५-३९॥
+ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् ।तर्कयाम् आस सीता इति कारणैः उपपादयन् ॥५-१५-४०॥
+वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् ।तानि आभरण जालानि गात्र शोभीनि अलक्षयत् ॥५-१५-४१॥
+सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसम्स्थितौ ।मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च ॥५-१५-४२॥
+श्यामानि चिर युक्तत्वात् तथा सम्स्थानवन्ति च ।तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् ॥५-१५-४३॥
+तत्र यानि अवहीनानि तानि अहम् न उपलक्षये ।यानि अस्या न अवहीनानि तानि इमानि न सम्शयः ॥५-१५-४४॥
+पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् ।उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः ॥५-१५-४५॥
+भूषणानि च मुख्यानि दृष्टानि धरणी तले ।अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥५-१५-४६॥
+इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् ।तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् ॥५-१५-४७॥
+इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया ।प्रनष्टा अपि सती यस्य म���सो न प्रणश्यति ॥५-१५-४८॥
+इयम् सा यत् कृते रामः चतुर्भिः परितप्यते ।कारुण्येन आनृशम्स्येन शोकेन मदनेन च ॥५-१५-४९॥
+स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशम्स्यतः ।पत्नी नष्टा इति शोकेन प्रियेति मदनेन च ॥५-१५-५०॥
+अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् ।रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा ॥५-१५-५१॥
+अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् ।तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति ॥५-१५-५२॥
+दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् ।सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति ॥५-१५-५३॥
+एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः ।जगाम मनसा रामम् प्रशशम्स च तम् प्रभुम् ॥५-१५-५४॥
+प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः ।गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत् ॥५-१६-१॥
+स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः ।सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥५-१६-२॥
+मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया ।यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः ॥५-१६-३॥
+रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे ॥५-१६-४॥
+तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् ।राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा ॥५-१६-५॥
+ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् ।जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥५-१६-६॥
+अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः ।रावण प्रतिमो वीर्ये कबन्धः च निपातितः ॥५-१६-७॥
+विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः ।वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः ॥५-१६-८॥
+चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः ॥५-१६-९॥
+करः च निहतः सम्ख्ये त्रिशिराः च निपातितः ।दूषणः च महा तेजा रामेण विदित आत्मना ॥५-१६-१०॥
+ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् ।अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम् ॥५-१६-११॥
+सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः ।अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता ॥५-१६-१२॥
+यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् ।अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥५-१६-१३॥
+राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा ।त्��ैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम् ॥५-१६-१४॥
+इयम् सा धर्म शीलस्य जनकस्य महात्मनः ।सुता मैथिलराजस्य सीता भर्तृदृढ व्रता ॥५-१६-१५॥
+उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते ।पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः ॥५-१६-१६॥
+विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः ।स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी ॥५-१६-१७॥
+धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः ।इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥५-१६-१८॥
+सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता ।अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम् ॥५-१६-१९॥
+सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा ।या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥५-१६-२०॥
+सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी ।सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥५-१६-२१॥
+इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः ।रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥५-१६-२२॥
+अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति ।राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥५-१६-२३॥
+काम भोगैः परित्यक्ता हीना बन्धु जनेन च ।धारयति आत्मनो देहम् तत् समागम कान्क्षिणी ॥५-१६-२४॥
+न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् ।एकस्थ हृदया नूनम् रामम् एव अनुपश्यति ॥५-१६-२५॥
+भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि ।एषा हि रहिता तेन शोभन अर्हा न शोभते ॥५-१६-२६॥
+दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः ।धारयति आत्मनो देहम् न दुह्खेन अवसीदति ॥५-१६-२७॥
+इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् ।सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः ॥५-१६-२८॥
+क्षिति क्षमा पुष्कर सम्निभ अक्षी ।या रक्षिता राघव लक्ष्मणाभ्याम् ।सा राक्षसीभिर् विकृत ईक्षणाभिः ।सम्रक्ष्यते सम्प्रति वृक्ष मूले ॥५-१६-२९॥
+हिम हत नलिनी इव नष्ट शोभा ।व्यसन परम्परया निपीड्यमाना ।सह चर रहिता इव चक्र वाकी ।जनक सुता कृपणाम् दशाम् प्रपन्ना ॥५-१६-३०॥
+अस्या हि पुष्प अवनत अग्र शाखाः ।शोकम् दृढम् वै जनयति अशोकाः ।हिम व्यपायेन च शीतरश्मिः ।रभ्युत्थितो न एक सहस्र रश्मिः ॥५-१६-३१॥
+इति एवम् अर्थम् कपिर् अन्ववेक्ष्य ।सीता इयम् इति एव निविष्ट बुद्धिः ।सम्श्रित्य तस्मिन् निषसाद वृक्षे ।बली हरीणाम् ऋषभ��� तरस्वी ॥५-१६-३२॥
+ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः ।प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। ५-१७- १।।
+साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ।। ५-१७-२।।
+स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् ।शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। ५-१७-३।।
+दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः ।स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।। ५-१७-४।।
+एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा ।अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ।। ५-१७-५।।
+अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ।ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ।। ५-१७-६।।
+लम्बकर्णललाटाम् च लम्बोदरपयोधराम् ।लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ।। ५-१७-७।।
+ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा ।करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ।। ५-१७-८।।
+विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।कालायसमहाशूलकूटमुद्गधारिणीः ।। ५-१७-९।।
+वराहमृगशार्दूलमहिषाजशिवामुखीः ।गजोष्ट्र हयपादीश्च निखातशिरसोपराः ।। ५-१७-१०।।
+एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ।। ५-१७-११।।
+अतिनासाश्च तिर्यङ्नासा अनासिकाः ।गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ।। ५-१७-१२।।
+हस्तिपादा महापादा गोपादाः पादचूळिकाः ।अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ।। ५-१७-१३।।
+अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा ।अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ।। ५-१७-१४।।
+हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ।। ५-१७-१५।।
+कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः ।पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ।। ५-१७-१६।।
+मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ।। ५-१७-१७।।
+स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ।। ५-१७-१८।।
+लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् ।निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ।। ५-१७-१९।।
+क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव ।चारित्रव्यपदेशा��्यां भर्तृदर्शनदुर्गताम् ।। ५-१७-२०।।
+भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् ।राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ।। ५-१७-२१।।
+वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव ।चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ।। ५-१७-२२।।
+क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ।। ५-१७-२३।।
+अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ।। ५-१७-२४।।
+ददर्श हनुमान् देवीम् लतामकुसुमामिव ।सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ।। ५-१७-२५।।
+मृणाली पङ्कदिग्धेव विभाति च न भाति च ।मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।। ५-१७-२६।।
+संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः ।ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ।। ५-१७-२७।।
+रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् ।ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् ।मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ।। ५-१७-२८।।
+दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ।। ५-१७-२९।।
+ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।। ५-१७-३०।।
+हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् ।मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ।। ५-१७-३१।।
+नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् ।सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ।। ५-१७-३२
+तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् ।विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् ।। ५-१८-१।।
+षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् ।शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ।। ५-१८-२।।
+अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। ५-१८-३।।
+विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् ।स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् ।। ५-१८-४।।
+भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः ।न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।। ५-१८-५।।
+स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् ।तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः ।। ५-१८-६।।
+वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।सदामदैश्च विहगैर्व���चित्राम् परमाद्भुताम् ।। ५-१८-७।।
+ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः ।वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ।। ५-१८-८।।
+नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।अशोकवनकामेव प्राविशत्संततद्रुमाम् ।। ५-१८-९।।
+अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः ।। ५-१८-१०।।
+दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।वालव्यजनहस्ताश्च तालवृन्तानि चापराः ।। ५-१८-११।।
+काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः ।। ५-१८-१२।।
+काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् ।दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ।। ५-१८-१३।।
+राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् ।सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ।। ५-१८-१४।।
+निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः ।अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव ।। ५-१८-१५।।
+व्याविद्धहारकेयूराः समामृदितवर्णकाः ।समागळितकेशान्ताः सस्वेदवदनास्तथा ।। ५-१८-१६।।
+घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ।। ५-१८-१७।।
+प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः ।बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ।। ५-१८-१८।।
+स च कामपराधीनः पतिस्तासां महाबलः ।सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ।। ५-१८-१९।।
+ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् ।शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ।। ५-१८-२०।।
+तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ।। ५-१८-२१।।
+दीपिकाभिरनेकाभिः समन्तादवभासितम् ।गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः ।। ५-१८-२२।।
+कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।समक्षमिव कन्दर्पमपविद्धशरासनम् ।। ५-१८-२३।।
+मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ।। ५-१८-२४।।
+तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् ।समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ।। ५-१८-२५।।
+अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।रूपयौवनसंपन्ना रावणस्य वरस्तियः ।। ५-१८-२६।।
+ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् ।। ५-१८-२७।��
+क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ।। ५-१८-२८।।
+वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः ।तं ददर्श महातेजास्तेजोवन्तं महाकपिः ।। ५-१८-२९।।
+रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः ।अवप्लुतो महातेजा हनुमान्मारुतात्मजः ।। ५-१८-३०।।
+स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ।। ५-१८-३१।।
+स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।दिदृक्षुरसितापाङ्गमुपावर्तत रावणः ।। ५-१८-३२
+तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। ५.१९.१।।।।
+दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।। ५.१९.२।।।।
+तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।। ५.१९.३।।।।
+न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।।५.१९.४।।।।
+एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।। ५.१९.५।।।।
+नाहमौपयिकी भार्या परभार्या सती तव ।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।। ५.१९.६।।।।
+यथा तव तथान्येषां रक्ष्या दारा निशाचर ।आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।। ५.१९.७।।।।
+अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ।। ५.१९.८।।।।
+इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।। ५.१९.९।।।।
+अकृतात्मानमासाद्य राजानमनये रतम् ।समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।। ५.१९.१०।।।।
+तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला ।अपराधात्तवैकस्य नचिराद्विनशिष्यति ।। ५.१९.११।।।।
+स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ।। ५.१९.१२।।।।
+एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।। ५.१९.१३।।।।
+शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।अनन्या राघवेणाहं भास्करेण प्रभा यथा ।। ५.१९.१४।।।।
+उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।कथं नामोपधास्यामि ��ुजमन्यस्य कस्य चित् ।। ५.१९.१५।।।।
+अहमौपयिकी भार्या तस्यैव वसुधापतेः ।व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ।। ५.१९.१६।।।।
+साधु रावण रामेण मां समानय दुःखिताम् ।वने वाशितया सार्धं करेण्वेव गजाधिपम् ।। ५.१९.१७।।।।
+मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ।। ५.१९.१८।।।।
+वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् ।त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ।। ५.१९.१९।।।।
+रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ।। ५.१९.२०।।।।
+इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ।। ५.१९.२१।।।।
+रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ।। ५.१९.२२।।।।
+राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।। ५.१९.२३।।।।
+अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।। ५.१९.२४।।।।
+जनस्थाने हतस्थाने निहते रक्षसां बले ।अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ।। ५.१९.२५।।।।
+आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ।। ५.१९.२६।।।।
+न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।। ५.१९.२७।।।।
+तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।। ५.१९.२८।।।।
+क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ।। ५.१९.२९।।
+सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। ५.२०.१।।।।
+यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। ५.२०.२।।।।
+संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।द्रवतो मार्गमासाद्य हयानिव सुसारथिः ।। ५.२०.३।।।।
+वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।। ५.२०.४।।।।
+एतस्मात्कारणान्न तां घतयामि वरानने ।वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ।। ५.२०.५।।।।
+परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ।। ५.२०.६।।।।
+एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।। ५.२०.७।।।।
+द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।ततः शयनमारोह मम त्वं वरवर्णिनि ।। ५.२०.८।।।।
+द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ।। ५.२०.९।।।।
+तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ।। ५.२०.१०।।।।
+ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। ५.२०.११।।।।
+ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ।। ५.२०.१२।।।।
+नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ।निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ।। ५.२०.१३।।।।
+मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ।। ५.२०.१४।।।।
+राक्षसाधम रामस्य भार्याममिततेजसः ।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ।। ५.२०.१५।।।।
+यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने ।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ।। ५.२०.१६।।।।
+स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।चक्षुषो विषयं तस्य न तावदुपगच्छसि ।। ५.२०.१७।।।।
+इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ।। ५.२०.१८।।।।
+तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ।। ५.२०.१९।।।।
+असन्देशात्तु रामस्य तपसश्चानुपालनात् ।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।। ५.२०.२०।।।।
+नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।विधिस्तव वधार्थाय विहितो नात्र संशयः ।। ५.२०.२१।।।।
+शूरेण धनदभ्राता बलैः समुदितेन च ।अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ।। ५.२०.२२।।।।
+सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। ५.२०.२३।।।।
+नीलजीमूतसङ्काशो महाभुजशिरोधरः ।सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ।। ५.२०.२४।।।।
+चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूष��ः ।। ५.२०.२५।।।।
+श्रोणीसूत्रेण महता मेककेन सुसंवृतः ।अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ।। ५.२०.२६।।।।
+तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ।। ५.२०.२७।।।।
+अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।। ५.२०.२८।।।।
+अनयेनाभिसम्पन्नमर्थहीनमनुव्रते ।नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। ५.२०.२९।।।।
+इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।। ५.२०.३०।।।।
+एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। ५.२०.३१।।।।
+हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। ५.२०.३२।।।।
+अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।। ५.२०.३३।।।।
+यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।। ५.२०.३४।।।।
+प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ।। ५.२०.३५।।।।
+इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।। ५.२०.३६।।।।
+उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।। ५.२०.३७।।।।
+मया क्रीड महाराजसीतया किं तवानया ।अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।। ५.२०.३८।।।।
+एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।। ५.२०.३९।।।।
+देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ।। ५.२०.४०।।।।
+स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः ।।।
+विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम् ।। ५.२०.४१।।
+इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। ५.२१.१।।।।
+निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। ५.२१.२।।।।
+ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।परं परुषया वाचा वैदेहीम् इदमब्रुवन् ।। ५.२१.३।।।।
+पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। ५.२१.४।।।।
+ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।। ५.२१.५।।।।
+प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।। ५.२१.६।।।।
+पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।। ५.२१.७।।।।
+तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ।। ५.२१.८।।।।
+ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ।। ५.२१.९।।।।
+येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।। ५.२१.१०।।।।
+वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः ।बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ।। ५.२१.११।।।।
+प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।सर्वासां च महाभागां त्वामुपैष्यति रावणः ।। ५.२१.१२।।।।
+समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ।। ५.२१.१३।।।।
+असकृद्देवता युद्धे नागगन्धर्वदानवाः ।निर्जिताः समरे येन स ते पार्श्वमुपागतः ।। ५.२१.१४।।।।
+तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ।किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ।। ५.२१.१५।।।।
+यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ।। ५.२१.१६।।।।
+पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ।। ५.२१.१७।।।।
+तस्य नैरृतराजस्य राजराजस्य भामिनि ।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।। ५.२१.१८।।।।
+साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ।। ५.२१.१९।।
+ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ।। ५.२२.१।।।।
+किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।महार्हशयनोपेते न वासमनुमन्यसे ।। ५.२२.२।।।।
+मानुषी मानुषस्यैव भार्यात्वं बहु म���्यसे ।प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। ५.२२.३।।।।
+मानुषी मानुषं तं तु राममिच्छसि शोभने ।राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ।। ५.२२.४।।।।
+राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।। ५.२२.५।।।।
+यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ।। ५.२२.६।।।।
+न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।। ५.२२.७।।।।
+सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ।। ५.२२.८।।।।
+अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ।। ५.२२.९।।।।
+तामभिक्रम्य संरब्धा वेपमानां समन्ततः ।भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ।। ५.२२.१०।।।।
+ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ।। ५.२२.११।।।।
+सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ।। ५.२२.१२।।।।
+ततस्तां शिंशपां सीता राक्षसीभिः समावृता ।अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।। ५.२२.१३।।।।
+तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ।। ५.२२.१४।।।।
+ततस्तां विनता नाम राक्षसी भीमदर्शना ।अब्रवीत्कुपिताकारा कराला निर्णतोदरी ।। ५.२२.१५।।।।
+सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः ।सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।। ५.२२.१६।।।।
+परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ।। ५.२२.१७।।।।
+रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ।। ५.२२.१८।।।।
+दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् ।मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।। ५.२२.१९।।।।
+दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ।अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। ५.२२.२०।।।।
+किं ते रामेण वैदेहि कृपणेन गतायुषा ।। ५.२२.२१।।।।
+एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।अ���्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ।।५.२२.२२।।।।
+अन्या तु विकटा नाम लम्बमानपयोधरा ।अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ।। ५.२२.२३।।।।
+बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ।। ५.२२.२४।।।।
+आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। ५.२२.२५।।।।
+रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ।न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ।। ५.२२.२६।।।।
+कुरुष्व हितवादिन्या वचनं मम मैथिलि ।अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।। ५.२२.२७।।।।
+भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।सीते राक्षसराजेन सह क्रीड यथासुखम् ।। ५.२२.२८।।।।
+जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ।। ५.२२.२९।।।।
+उद्यानानि च रम्याणि पर्वतोपवनानि च ।सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। ५.२२.३०।।।।
+स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।। ५.२२.३१।।।।
+उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ।। ५.२२.३२।।।।
+ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ।भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।। ५.२२.३३।।।।
+इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ।रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।। ५.२२.३४।।।।
+यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। ५.२२.३५।।।।
+ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ।। ५.२२.३६।।।।
+निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।। ५.२२.३७।।।।
+ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ।। ५.२२.३८।।।।
+विभजाम ततः सर्वा विवादो मे न रोचते ।पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ।। ५.२२.३९।।।।
+ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।अजामुखा यदुक्तं हि तदेव मम रोचते ।। ५.२२.४०।।।।
+सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ।। ५.२२.४१।।।।
+एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा ।राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ।। ५.२२.४२।।
+तथा तासां वदन्तीनां परुषं दारुणं बहु ।राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२३.१।।।।
+एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२३.२।।।।
+न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२३.३।।।।
+सा राक्षसी मध्यगता सीता सुरसुतोपमा ।न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२३.४।।।।
+वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५।।।।
+सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२३.६।।।।
+सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ।। ५.२३.७।।।।
+सा वेपमाना पतिता प्रवाते कदली यथा ।राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ।। ५.२३.८।।।।
+तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२३.९।।।।
+सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२३.१०।।।।
+हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ।। ५.२३.११।।।।
+लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२३.१२।।।।
+यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ।जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२३.१३।।।।
+एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ।। ५.२३.१४।।।।
+भर्तारं तमपश्यन्ती राक्षसीवशमागता ।सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२३.१५।।।।
+तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२३.१६।।।।
+सर्वथा तेन हीनाया रामेण विदितात्मना ।तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२३.१७।।।।
+कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२३.१८।।।।
+जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ।। ५.२३.१९।।।।
+��िगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२३.२०।।
+प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२४.१।।।।
+उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२४.२।।।।
+राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२४.३।।।।
+राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२४.४।।।।
+न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसी मध्ये विना रामं महारथम् ।। ५.२४.५।।।।
+धिङ्मामनार्यामसतीं याहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२४.६।।।।
+का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ।। ५.२४.७।।।।
+भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२४.८।।।।
+चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२४.९।।।।
+प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२४.१०।।।।
+छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ।। ५.२४.११।।।।
+ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ।। ५.२४.१२।।।।
+राक्षसानां जनस्थाने सहस्राणि चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२४.१३।।।।
+निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२४.१४।।।।
+विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२४.१५।।।।
+कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधी ह विद्यते ।। ५.२४.१६।।।।
+किं नु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२४.१७।।।।
+इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ।। ५.२४.१८।।।।
+हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजोऽपि स रणे रावणेन निपातितः ।। ५.२४.१९।।।।
+कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२४.२०।।।।
+यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ।। ५.२४.२१।।।।
+विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।।५.२४.२२।।।।
+ततो निहतनथानां राक्षसीनां गृहे गृहे ।यथाहमेवं रुदती तथा भूयो न संशयः ।अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ।। ५.२४.२३।।।।
+न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ।चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला ।अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२४.२४।।।।
+अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ।। ५.२४.२५।।।।
+यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ।अचिरेणैव कालेन भविष्यति हतप्रभा ।। ५.२४.२६।।।।
+नूनं लङ्का हते पापे रावणे राक्षसाधिपे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२४.२७।।।।
+पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा ।भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ।। ५.२४.२८।।।।
+नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ।। ५.२४.२९।।।।
+सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२४.३०।।।।
+यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२४.३१।।।।
+अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ।। ५.२४.३२।।।।
+अकार्यं ये न जानन्ति नैरृताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२४.३३।।।।
+नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२४.३४।।।।
+साहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२४.३५।।।।
+यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।। ५.२४.३६।।।।
+नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२४.३७।।।।
+नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२४.३८।।।।
+धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२४.३९।।।।
+अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२४.४०।।।।
+दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ।। ५.२४.४१।।।।
+किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे ।याहं सीता वरार्हेण हीना रामेण भामिनी ।। ५.२४.४२।।।।
+श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२४.४३।।।।
+अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ ।भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ।। ५.२४.४४।।।।
+अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२४.४५।।।।
+साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ।। ५.२४.४६।।।।
+धन्याः खलु महात्मानो मुनयः सत्यसंमताः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२४.४७।।।।
+प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२४.४८।।।।
+साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२४.४९।।
+तथा तासां वदन्तीनां परुषं दारुणं बहु ।राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२५.१।।।।
+एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२५.२।।।।
+न मानुषी राक्षसस्य भार्या भवितुमर्हति ।कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२५.३।।।।
+सा राक्षसीमध्यगता सीता सुरसुतोपमा ।न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२५.४।।।।
+वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५.२५.५।।।।
+सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२५.६।।।।
+सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ।। ५.२५.७।।।।
+सा वेपमाना पतिता प्रवाते कदली यथा ।राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ।। ५.२५.८।।।।
+तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२५.९।।।।
+सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२५.१०।।।।
+रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च ।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। ५.२५.११।।।।
+लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः ।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२५.१२।।।।
+यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२५.१३।।।।
+एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ।। ५.२५.१४।।।।
+भर्तारं तमपश्यन्ती राक्षसीवशमागता ।सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२५.१५।।।।
+तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् ।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२५.१६।।।।
+सर्वथा तेन हीनाया रामेण विदितात्मना ।तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२५.१७।।।।
+कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२५.१८।।।।
+जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ।। ५.२५.१९।।।।
+धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२५.२०।।
+प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२६.१।।।।
+उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२६.२।।।।
+राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२६.३।।।।
+राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२६.४।।।।
+नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५.२६.५।।।।
+अश्मसारमिदं नूनमथवाप्यजरामरम् ।हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ५.२६.६।।।।
+धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२६.७।।।।
+का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। ५.२६.८।।।।
+भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न च��प्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२६.९।।।।
+चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२६.१०।।।।
+प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२६.११।।।।
+छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। ५.२६.१२।।।।
+ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। ५.२६.१३।।।।
+राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२६.१४।।।।
+निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२६.१५।।।।
+विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२६.१६।।।।
+कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधीह विद्यते ।। ५.२६.१७।।।।
+किं तु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२६.१८।।।।
+इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। ५.२६.१९।।।।
+हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। ५.२६.२०।।।।
+कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२६.२१।।।।
+यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ५.२६.२२।।।।
+विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। ५.२६.२३।।।।
+ततो निहतनाथानां राक्षसीनां गृहे गृहे ।यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। ५.२६.२४।।।।
+अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। ५.२६.२५।।।।
+चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२६.२६।।।।
+अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। ५.२६.२७।।।।
+यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।अचिरेण तु कालेन भविष्यति हतप्रभा ।। ५.२६.२८।।।।
+नूनं लङ्का हते पापे रावणे राक्षसाधमे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२६.२९।।।।
+पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। ५.२६.३०।।।।
+नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। ५.२६.३१।।।।
+सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२६.३२।।।।
+यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२६.३३।।।।
+अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। ५.२६.३४।।।।
+अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२६.३५।।।।
+नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२६.३६।।।।
+सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२६.३७।।।।
+यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। ५.२६.३८।।।।
+नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२६.३९।।।।
+नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२६.४०।।।।
+धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२६.४१।।।।
+अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२६.४२।।।।
+दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। ५.२६.४३।।।।
+किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। ५.२६.४४।।।।
+श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२६.४५।।।।
+अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। ५.२६.४६।।।।
+अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२६.४७।।।।
+सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।��� ५.२६.४८।।।।
+धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२६.४९।।।।
+प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२६.५०।।।।
+सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२६.५१।।
+इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। ५.२७.१।।।।
+ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। ५.२७.२।।।।
+अद्येदानीं तवानार्ये सीते पापविनिश्चये ।राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ।। ५.२७.३।।।।
+सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ।। ५.२७.४।।।।
+आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ।। ५.२७.५।।।।
+स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।राक्षसानामभावाय भर्तुरस्या भवाय च ।। ५.२७.६।।।।
+एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः ।सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ।कथयस्व त्वया दृष्टः स्वप्नो ऽयं कीदृशो निशि ।। ५.२७.७।।।।
+तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।। ५.२७.८।।।।
+गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।। ५.२७.९।।।।
+युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ।। ५.२७.१०।।।।
+स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।रामेण सङ्गता सीता भास्करेण प्रभा यथा ।। ५.२७.११।।।।
+राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम् ।आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ।। ५.२७.१२।।।।
+ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा ।शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।। ५.२७.१३।।।।
+ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ।भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ।। ५.२७.१४।।।।
+भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ।। ५.२७.१५।।।।
+ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ।। ५.२७.१६।।।।
+पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।इहोपयातः काकुत्स्थः सीतया सह भार्यया ।। ५.२७.१७।।।।
+लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ।। ५.२७.१८।।।।
+आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ।। ५.२७.१९।।।।
+एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ।। ५.२७.२०।।।।
+न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ।राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ।। ५.२७.२१।।।।
+रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ।। ५.२७.२२।।।।
+विमानात् पुष्पकादद्य रावणः पतितो भुवि ।कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ।। ५.२७.२३।।।।
+रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।। ५.२७.२४।।।।
+पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।पतितो ऽवाविछरा भूमौ गर्दभाद्भयमोहितः ।। ५.२७.२५।।।।
+सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ।उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ।। ५.२७.२६।।।।
+दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ।मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ।। ५.२७.२७।।।।
+कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना ।काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।। ५.२७.२८।।।।
+एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः ।रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ।। ५.२७.२९।।।।
+वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।। ५.२७.३०।।।।
+एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ।। ५.२७.३१।।।।
+शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ।। ५.२७.३२।।।।
+आरुह्य शौलसङ्काशं मेघस्तनितनिःस्वनम् ।चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ।चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ।। ५.२७.३३।।।।
+समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ।पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।। ५.२७.३४।।।।
+लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा ।सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।। ५.२७.��५।।।।
+लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।दग्धा रामस्य दूतेन वानरेण तरस्विना ।। ५.२७.३६।।।।
+पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।। ५.२७.३७।।।।
+कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।। ५.२७.३८।।।।
+अपगच्छत नश्यध्वं सीतामाप स राघवः ।घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ।। ५.२७.३९।।।।
+प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।।। ५.२७.४०।।।।
+तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।अभियाचाम वैदैहीमेतद्धि मम रोचते ।। ५.२७.४१।।।।
+यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।। ५.२७.४२।।।।
+भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।। ५.२७.४३।।।।
+प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।। ५.२७.४४।।।।
+अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ।। ५.२७.४५।।।।
+छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम् ।अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५.२७.४६।।।।
+अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।। ५.२७.४७।।।।
+निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ।। ५.२७.४८।।।।
+दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।ईषच्च हृषितो वा ऽस्या दक्षिणाया ह्यदक्षिणः ।। ५.२७.४९।।।।
+अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपमानः सूचयति राघवं पुरतः स्थितम् ।। ५.२७.५०।।।।
+पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ।। ५.२७.५१।।
+सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। ५.२८.१।।।।
+सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। ५.२८.२।।।।
+सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। ५.२८.३।।।।
+सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य ।। ५.२८.४।।।।
+नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य ।भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ।। ५.२८.५।।।।।
+नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ।। ५.२८.६।।।।
+दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ।। ५.२८.७।।।।
+हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ।। ५.२८.८।।।।
+तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ।। ५.२८.९।।।।
+नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ।। ५.२८.१०।।।।
+हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र ।रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ।। ५.२८.११।।।।
+अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ।। ५.२८.१२।।।।
+मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् ।या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ।। ५.२८.१३।।।।
+पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ।। ५.२८.१४।।।।
+अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।मोघं चरित्वा ऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ।। ५.२८.१५।।।।
+सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ।। ५.२८.१६।।।।
+इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ।। ५.२८.१७।।।।
+शोकाभितप्ता बहुधा विचिन्त्�� सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा ।उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। ५.२८.१८।।।।
+उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य ।। ५.२८.१९।।।।
+तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ।शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ।। ५.२८.२०।।
+तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। ५.२९.१।।।।
+तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ।। ५.२९.२।।।।
+भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः ।अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ।। ५.२९.३।।।।
+गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ।। ५.२९.४।।।।
+शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ।। ५.२९.५।।।।
+एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः ।वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ।। ५.२९.६।।।।
+तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म ।वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ।। ५.२९.७।।।।
+सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ।। ५.२९.८।।
+हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।।।।
+अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।।।।
+यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।।।।
+चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।।।।
+राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।।।।
+युक्तं तस्याप्रमेय��्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।।।।
+अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।।।।
+यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।।।।
+गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।।।।
+मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।।।।
+निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।।।।
+अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।।।।
+रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।।।।
+सीतासन्देशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।।।।
+यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।।।।
+अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।।।।
+अहं त्वति तनुश्चैव वानरश्च विशेषतः ।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।।।।
+यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ।वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।।।।
+अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।।।।
+सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।।।।
+ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।।।।
+सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।।।।
+ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।।।।
+गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।।।।
+मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।।।।
+ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।।।।
+ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।।।।
+संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।।।।
+मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।।।।
+हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।।।।
+उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।।।।
+विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।।।।
+विमृशंश्च न पश्यामि यो हते मयि वानरः ।शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।।।।
+कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।।।।
+असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।।।।
+प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।।।।
+भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।।।।
+अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।।।।
+न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।।।।
+कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।।।।
+राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।।।।
+इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।।।।
+श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।।।।
+इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मध��रमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। ५.३०.४४।।
+एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।।।।
+राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।।।।
+राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।।।।
+अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।।।।
+पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।।।।
+तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।।।।
+रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।।।।
+तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।।।।
+तेन तत्र महारण्ये मृगयां परिधावता ।राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।।।।
+जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।ततस्त्वमर्षापहृता जानकी रावणेन तु ।वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।।।।
+स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।।।।
+ततः स वालिनं हत्वा रामः परपुरञ्जयः ।प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।।।।
+सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।।।।
+अहं संपातिवचनाच्छतयोजनमायतम् ।अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।।।।
+यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।।।।
+विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।।।।
+ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।।।।
+निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।।।।
+सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाण�� तमचिन्त्यबुद्धिम् ।ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५.३१.१९।।
+ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। ५.३२.१।।।।
+सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। ५.३२.२।।।।
+मैथिली चिन्तयामास विस्मयं परमं गता ।अहो भीममिदं रूपं वानरस्य दुरासदम् ।दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। ५.३२.३।।।।
+विललाप भृशं सीता करुणं भयमोहिता ।रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। ५.३२.४।।।।
+रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।। ५.३२.५।।।।
+सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। ५.३२.६।।।।
+सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ५.३२.७।।।।
+सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ५.३२.८।।।।
+स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ५.३२.९।।।।
+स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। ५.३२.१०।।।।
+रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। ५.३२.११।।।।
+अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। ५.३२.१२।।।।
+मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। ५.३२.१३।।।।
+नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ।। ५.३२.१४।।
+सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। ५.३३.१।।।।
+तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। ५.३३.२।।।।
+कानु पद्मपलाशाक्षि क्लिष्टकौशेयवास���नि ।द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ५.३३.३।।।।
+किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ५.३३.४।।।।
+सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। ५.३३.५।।।।
+का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासे मे ।। ५.३३.६।।।।
+किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। ५.३३.७।।।।
+का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। ५.३३.८।।।।
+कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। ५.३३.९।।।।
+को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। ५.३३.१०।।।।
+रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। ५.३३.११।।।।
+व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। ५.३३.१२।।।।
+रावणेन जनस्थानाद् बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। ५.३३.१३।।।।
+यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। ५.३३.१४।।।।
+सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। ५.३३.१५।।।।
+पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। ५.३३.१६।।।।
+दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। ५.३३.१७।।।।
+समा द्वादश तत्राहं राघवस्य निवेशने ।भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ५.३३.१८।।।।
+तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। ५.३३.१९।।।।
+तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। ५.३३.२०।।।।
+न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५.३३.२१।।।।
+यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। ५.३३.२२।।।।
+स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।मुमोह व���नं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। ५.३३.२३।।।।
+ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। ५.३३.२४।।।।
+स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। ५.३३.२५।।।।
+दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। ५.३३.२६।।।।
+स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ५.३३.२७।।।।
+सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। ५.३३.२८।।।।
+प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। ५.३३.२९।।।।
+त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। ५.३३.३०।।।।
+वसतो दणऽडकारण्ये तस्याहममितौजसः ।रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। ५.३३.३१।।।।
+द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ५.३३.३२।।
+तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। ५.३४.१।।।।
+अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। ५.३४.२।।।।
+यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। ५.३४.३।।।।
+लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ।। ५.३४.४।।।।
+सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३४.५।।।।
+कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।एति जीवन्तमानन्दो नरं वर्षशतादपि ।। ५.३४.६।।।।
+तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। ५.३४.७।।।।
+तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।सीतायाः शोकदीनायाः समीपमुपचक्रमे ।। ५.३४.८।।।।
+यथा यथा समीपं स हनुमानुपसर्पति ।तथा तथा रावणं सा तं सीता परिशङ्कते ।। ५.३४.९।।।।
+अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।रूपान्तरमुपागम्य स एवायं हि रावणः ।। ५.३४.१०।।।।
+तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। ५.३४.११।।।।
+हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।। ५.३४.१२।।।।
+तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।।। ५.३४.१३।।।।
+मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।। ५.३४.१४।।।।
+स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।। ५.३४.१५।।।।
+उपवासकृशां दीनां कामरूप निशाचर ।सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।। ५.३४.१६।।।।
+अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।। ५.३४.१७।।।।
+यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।गुणान् रामस्य कथय प्रियस्य मम वानर ।। ५.३४.१८।।।।
+चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।। ५.३४.१९।।मि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।।।
+अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।। ५.३४.२०।।।।
+स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ।। ५.३४.२१।।।।
+नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।। ५.३४.२२।।।।
+किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।। ५.३४.२३।।।।
+अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ।। ५.३४.२४।।।।
+इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। ५.३४.२५।।।।
+एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।न प्रतिव्याजहाराथ वानरं जनकात्मजा ।। ५.३४.२६।।।।
+सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।। ५.३४.२७।।।।
+आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।। ५.३४.२८।।।।
+सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।रूपवान् ��ुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।। ५.३४.२९।।
+.स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।। ५.३४.३०।।।।
+बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।। ५.३४.३१।।।।
+अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ।। ५.३४.३२।।।।
+नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।। ५.३४.३३।।।।
+तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।। ५.३४.३४।।।।
+लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ।। ५.३४.३५।।।।
+रामस्य च सखा देवि सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।। ५.३४.३६।।।।
+नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ।। ५.३४.३७।।।।
+नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। ५.३४.३८।।।।
+अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।। ५.३४.३९।।।।
+कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ।। ५.३४.४०।।।।
+नाहमस्मि तथा देवि यथा मामवगच्छसि ।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ।। ५.३४.४१।।
+तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।।।।
+क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।।।।
+यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।।।।
+कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।।।।
+एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।।।।
+जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।।।।
+यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।।।।
+रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।।।।
+तेजसा ऽ ऽदित��यसङ्काशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।।।।
+रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।।।।
+रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।।।।
+अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।।।।
+राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।।।।
+यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।।।।
+विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।।।।
+दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।।।।
+त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।।।।
+त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।।।।
+चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।।।।
+दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।।।।
+सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।।।।
+भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।।।।
+तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।।।।
+त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।।।।
+ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।।।।
+वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।।।।
+ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।।।।
+स तौ दृ��्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।।।।
+ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।।।।
+तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।।।।
+तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।।।।
+निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।।।।
+ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।।।।
+ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।।।।
+ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।।।।
+स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।।।।
+ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।।।।
+तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।।।।
+तानि रामाय दत्तानि मयैवोपहृतानि च ।स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।।।।
+तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।।।।
+पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।।।।
+शयितं च चिरं तेन दुःकार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।।।।
+तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।।।।
+स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।।।।
+त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।।।।
+तवादर्शनशोकेन राघवः प्रविचाल्यते ।महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।।।।
+काननानि सुरम्याणि नदीः प्रस्रवणानि च ।चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।।।।
+स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।।।।
+सहितौ रामसुग्रीवावुभावकुरुतां तदा ।समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।।।।
+ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।।।।
+ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।।।।
+रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।।।।
+स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।।।।
+आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।।।।
+ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।।।।
+अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।।।।
+तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।।।।
+ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।।।।
+विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।।।।
+दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।।।।
+तवनाशं च वैदेहि वालिनश्च वधं तथा ।प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।।।।
+तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।।।।
+गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।।।।
+यवीयान् केन म भ्राता हतः क्व च निपातितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।।।।
+अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।।।।
+जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।।।।
+तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।।।।
+विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।।।।
+अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।।।।
+तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।।।।
+लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।।।।
+एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।।।।
+तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।।।।
+कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।।।।
+तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।।।।
+मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।।।।
+दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।।।।
+दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।।।।
+राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।।।।
+माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।।।।
+स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।।।।
+तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।।।।
+विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।।।।
+एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।।।।
+अतुलं च गता हर्षं प्रहर्षेण च जानकी ।नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।।।।
+चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशाल���क्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।।।।
+हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।।।।
+एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।।।।
+हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ५.३५.८९।।
+भूय एव महातेजा हनुमान् मारुतात्मजः ।अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।।।।
+वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।।।।
+प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।।।।
+गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।।।।
+चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।।।।
+ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।।।।
+विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।।।।
+शतयोजनविस्तीर्णः सागरो मकरालयः ।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।।।।
+नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।।।।
+अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।।।।
+प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।।।।
+दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।।।।
+कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।।।।
+अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।।।।
+कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।।।।
+कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.���६.१६।।।।
+द्विविधं त्रिविधोपायमुपायमपि सेवते ।विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।।।।
+कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।।।।
+कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।।।।
+कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।।।।
+सुखानामुचितो नित्यमसुखानामनूचितः ।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।।।।
+कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।।।।
+मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।।।।
+कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।।।।
+वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।।।।
+कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।।।।
+रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।।।।
+कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।।।।
+धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।।।।
+न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।।।।
+इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।।।।
+सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।।।।
+न त्वामिहस्थां जानीते रामः कमललोचने ।तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।।।।
+श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।।।।
+विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।।।।
+तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।।।।
+तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।।।।
+मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।।।।
+यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।।।।
+क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।।।।
+न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।।।।
+नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।।।।
+नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।।।।
+अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।।।।
+दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।।।।
+स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।।।।
+सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ५.३६.४७।।
+सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। ५.३७.१।।।।
+अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।यच्च नान्यमना रामो यच्च शोकपरायणः ।। ५.३७.२।।।।
+ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ५.३७.३।।।।
+विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ५.३७.४।।।।
+शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५.३७.५।।।।
+राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ���। ५.३७.६।।।।
+स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ५.३७.७।।।।
+वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।रावणेन नृशंसेन समयो यः कृतो मम ।। ५.३७.८।।।।
+विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ५.३७.९।।।।
+मम प्रतिप्रदानं हि रावणस्य न रोचते ।रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। ५.३७.१०।।।।
+ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। ५.३७.११।।।।
+असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। ५.३७.१२।।।।
+उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। ५.३७.१३।।।।
+चतुर्दश सहस्राणि राक्षसानां जघान यः ।जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। ५.३७.१४।।।।
+न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। ५.३७.१५।।।।
+शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। ५.३७.१६।।।।
+इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। ५.३७.१७।।।।
+कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३७.१८।।।।
+अथवा मोचयिष्यामि त्वामद्यैव वरानने ।अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। ५.३७.१९।।।।
+त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। ५.३७.२०।।।।
+द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। ५.३७.२२।।।।
+त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। ५.३७.२३।।।।
+पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। ५.३७.२४।।।।
+कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। ५.३७.२५।।।।
+न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। ५.३७.२६।।।।
+यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। ५.३७.२७।।।।
+मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३७.२८।।।।
+हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।तदेव खलु ते मन्ये कपित्वं हरियूथप ।। ५.३७.२९।।।।
+कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। ५.३७.३०।।।।
+सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। ५.३७.३१।।।।
+न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। ५.३७.३२।।।।
+इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। ५.३७.३३।।।।
+स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। ५.३७.३४।।।।
+मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ५.३७.३५।।।।
+हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। ५.३७.३६।।।।
+सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। ५.३७.३७।।।।
+तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ५.३७.३८।।।।
+तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। ५.३७.३९।।।।
+तव सत्त्वं बलं चैव विजानामि महाकपे ।वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ५.३७.४०।।।।
+प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। ५.३७.४१।।।।
+जानामि गमने शक्तिं नयने चापि ते मम ।अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ५.३७.४२।।।।
+अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ५.३७.४३।।।।
+अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। ५.३७.४४।।।।
+पतिता सागरे चाहं तिमिनक्रझषाकुले ।भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ५.३७.४५।।।।
+न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। ५.३७.४६।।।।
+ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ���.३७.४७।।।।
+तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ५.३७.४८।।।।
+सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ५.३७.४९।।।।
+युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। ५.३७.५०।।।।
+अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५.३७.५१।।।।
+अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५.३७.५२।।।।
+मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। ५.३७.५३।।।।
+अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। ५.३७.५४।।।।
+कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५.३७.५५।।।।
+अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। ५.३७.५६।।।।
+त्वया हि सह रामस्य महानागमने गुणः ।।। ५.३७.५७।।।।
+मयि जीवितमायत्तं राघवस्य महात्मनः ।भ्रातऽणां च महाबाहो तव राजकुलस्य च ।। ५.३७.५८।।।।।
+तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५.३७.५९।।।।
+भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। ५.३७.६०।।।।
+यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।अनीशा किं करिष्यामि विनाथा विवशा सती ।। ५.३७.६१।।।।
+यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। ५.३७.६२।।।।
+श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। ५.३७.६३।।।।
+समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ५.३७.६४।।।।
+सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ५.३७.६५।।।।
+स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। ५.३७.६६।।
+ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः ।सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ।। ५.३८.१।।।।
+युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।। ५.३८.२।।।।
+स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ।। ५.३८.३।।।।
+द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।। ५.३८.४।।।।
+एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।। ५.३८.५।।।।
+श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ।। ५.३८.६।।।।
+कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ।। ५.३८.७।।।।।
+लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ।। ५.३८.८।।।।
+इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।। ५.३८.९।।।।
+यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ।। ५.३८.१०।।।।
+एवमुक्ता हनुमता सीता सुरसुतोपमा ।उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ।। ५.३८.११।।।।
+इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्।शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ।। ५.३८.१२।।।।
+तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ।। ५.३८.१३।।।।
+तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ।। ५.३८.१४।।।।
+ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ।। ५.३८.१५।।।।
+दारयन् स च मां काकस्तत्रैव परिलीयते ।न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ।। ५.३८.१६।।।।
+उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ।। ५.३८.१७।।।।
+त्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।भक्षगृध्रेन काकेन दारिता त्वामुपागता ।। ५.३८.१८।।.३८.१७।।।।
+आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।क्रुद्ध्यन्ती च प्र��ृष्टेन त्वया ऽहं परिसान्त्विता ।। ५.३८.१९।।।।
+बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।लक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ।। ५.३८.२०।।।।
+परिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् ।पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ।स तत्र पुनरेवाथ वायसः समुपागमत् ।। ५.३८.२१।।।।
+ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् ।वायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ।। ५.३८.२२।।।।
+पुनः पुनरथोत्पत्य विददार स मां भृशम् ।ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।। ५.३८.२३।।।।
+वायसेन ततस्तेन बलवत्क्लिश्यमानया ।स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ।। ५.३८.२४।।।।
+स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ।। ५.३८.२५।।।।
+केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.३८.२६।।।।
+वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।। ५.३८.२७।।।।
+पुत्रः किल स शक्रस्य वायसः पततां वरः ।धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।। ५.३८.२८।।।।
+ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।। ५.३८.२९।।।।
+स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् ।स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ।। ५.३८.३०।।।।
+स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।ततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ।। ५.३८.३१।।।।
+अनुसृप्तस्तदा काको जगाम विविधां गतिम् ।लोककाम इमं लोकं सर्वं वै विचचार ह ।। ५.३८.३२।।।।
+स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ।। ५.३८.३३।।।।
+स तं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।। ५.३८.३४।।।।
+न शर्म लब्ध्वा तमेव शरणं गतः ।। ५.३८.३५।।।।
+परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।। ५.३८.३६।।।।
+हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् ।ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।। ५.३८.३७।।।।
+स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।। ५.३८.३८।।णम् ।।।
+मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।। ५.३८.३९।।।।
+स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।। ५.३८.४०।।।।
+आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ।। ५.३८.४१।।।।
+जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।भर्तारं ससमुद्रायाधरण्या वासवोपमम् ।। ५.३८.४२।।।।
+एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.३८.४३।।।।
+न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।। ५.३८.४४।।।।
+तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः ।किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।। ५.३८.४५।।।।
+भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।कस्य हेतोर्न मां वीरः परित्राति महाबलः ।। ५.३८.४६।।।।
+यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.३८.४७।।।।
+ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ।। ५.३८.४८।।।।
+वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् ।अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ।। ५.३८.४९।।।।
+त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ।रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।। ५.३८.५०।।।।
+कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।। ५.३८.५१।।।।
+इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।। ५.३८.५२।।।।
+त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.३८.५३।।।।
+हत्वा च समरे क्रूरं रावणं सहबान्धवम् ।राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।। ५.३८.५४।।।।
+सुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः ।इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।। ५.३८.५५।।।।
+कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५.३८.५६।।।।
+स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।। ५.३८.५७।।।।
+पितरं मातरं चैव संमान्याभिप्रसाद्य ��� ।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।। ५.३८.५८।।।।
+आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।। ५.३८.५९।।।।
+संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।। ५.३८.६०।।।।
+ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।। ५.३८.६१।।।।
+वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।। ५.३८.६२।।।।
+मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।। ५.३८.६३।।।।
+यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।। ५.३८.६४।।।।
+यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ५.३८.६५।।।।
+राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ।। ५.३८.६६।।।।
+इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।जीवितं धारयिष्यामि मासं दशरथात्मज ।। ५.३८.६७।।।।
+ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।। ५.३८.६८।।।।
+त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।प्रदेयो राघवायेति सीता हनुमते ददौ ।। ५.३८.६९।।।।
+प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।।। ५.३८.७०।।।।
+मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च ।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।। ५.३८.७१।।।।
+हर्षेण महता युक्तः सीतादर्शनजेन सः ।हृदयेन गतो रामं शरीरेण तु विष्ठितः ।। ५.३८.७२।।।।
+मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ।। ५.३८.७३।।
+मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।।।।
+मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।।।।
+स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।।।।
+त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।।।।
+स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।।।।
+ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।।।।
+कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। ५.३९.७।।।।
+सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।।।।
+यथा स च महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।।।।
+जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।।।।
+नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।।।।
+मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।।।।
+सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।।।।
+क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।।।।
+नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।।।।
+अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।।।।
+स हि सागरपर्यन्तां महीं शासितुमीहते ।त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।।।।
+तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।।।।
+ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।।।।
+यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।।।।
+मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।।।।
+गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।।।।
+तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।।।।
+अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।।।।
+कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।।।।
+त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।।।।
+तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।।।।
+काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।।।।
+बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।।।।
+शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।।।।
+तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।।।।
+तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।।।।
+देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।।।।
+स वानरसहस्राणां कोटीभिरभिसंवृतः ।क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।।।।
+तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।।।।
+येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।।।।
+असकृत् तैर्महोत्साहैः ससागरधराधरा ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।।।।
+मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।।।।
+अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।।।।
+तदलं परितापेन देवि शोको व्यपैतु ते ।एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।।।।
+मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।।।।
+तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।।।।
+सगणं रावणं हत्वा राघवो रघुनन्दनः ।त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।।।।
+तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।।।।
+निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।।।।
+क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।।।।
+एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।।।।
+तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।।।।
+नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।।।।
+शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।।।।
+स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।।।।
+मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।।।।
+रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।।।।
+नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। ५.३९.५४।।
+श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। ५.४०.१।।।।
+त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। ५.४०.२।।।।
+यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। ५.४०.३।।।।
+अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। ५.४०.४।।।।
+मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५.४०.५।।।।
+स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ५.४०.६।।।।
+एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ५.४०.७।।।।
+एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ५.४०.८।।।।
+असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ५.४०.९।।।।
+धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। ५.४०.१०।।।।
+घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। ५.४०.११।।।।
+वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। ५.४०.१२।।।।
+त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.४०.१३।।।।
+कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। ५.४०.१४।।।।
+तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.४०.१५।।।।
+हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। ५.४०.१६।।।।
+यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। ५.४०.१७।।।।
+सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। ५.४०.१८।।।।
+स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। ५.४०.१९।।।।
+तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।वर्धमानं महावेगमुवाच जनकात्मजा ।। ५.४०.२०।।।।
+अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।। ५.४०.२१।।।।
+हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। ५.४०.२२।।।।
+यथा च स महाबाहुर्मां तारयति राघवः ।अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। ५.४०.२३।।।।
+इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.४०.२४।।।।
+स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ।। ५.४०.२५।।
+स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। ५.४१.१।।।।
+अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। ५.४१.२।।।।
+न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। ५.४१.३।।।।
+न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। ५.४१.४।।।।
+कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। ५.४१.५।।।।
+न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। ५.४१.६।।।।
+इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। ५.४१.७।।।।
+कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। ५.४१.८।।।।
+ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। ५.४१.९।।।।
+इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। ५.४१.१०।।।।
+इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। ५.४१.११।।।।
+ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। ५.४१.१२।।।।
+अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। ५.४१.१३।।।।
+ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। ५.४१.१४।।।।
+ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। ५.४१.१५।।।।
+तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। ५.४१.१६।।।।
+नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।न बभौ तद्वनं तत्र दावानलहतं यथा ।। ५.४१.१७।।।।
+व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।। ५.४१.१८।। किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।।।
+लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्य���लमृगैश्च निर्धुतैः ।शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। ५.४१.१९।।।।
+सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। ५.४१.२०।।।।
+स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। ५.४१.२१।।
+ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।।।।
+विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। ५.४२.२।।।।
+ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। ५.४२.३।।।।
+स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। ५.४२.४।।।।
+ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।। ५.४२.५।।।।
+को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।कथं त्वया सहानेन संवादः कृत इत्युत ।। ५.४२.६।।।।
+आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।संवादमसितापाङ्गे त्वया किं कृतवानयम् ।। ५.४२.७।।।।
+अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।। ५.४२.८।।।।
+यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।अहिरेव ह्यहेः पादान् विजानाति न संशयः ।। ५.४२.९।।।।
+अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।। ५.४२.१०।।।।
+वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।। ५.४२.११।।।।
+रावणस्य समीपे तु राक्षस्यो विकृताननाः ।विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। ५.४२.१२।।।।
+अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।। ५.४२.१३।।।।
+न च तं जानकी सीता हरिं हरिणलोचना ।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।। ५.४२.१४।।।।
+वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।। ५.४२.१५।।।।
+तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। ५.४२.१६।।।।
+न तत्र कश्चिदुद्देशो यस्तेन न ��िनाशितः ।यत्र सा जानकी सीता स तेन न विनाशितः ।। ५.४२.१७।।।।
+जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।। ५.४२.१८।।।।
+चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।। ५.४२.१९।।।।
+तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।सीता संभाषिता येन तद्वनं च विनाशितम् ।। ५.४२.२०।।।।
+मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।। ५.४२.२१।।।।
+राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।। ५.४२.२२।।।।
+तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ५.४२.२३।।।।
+आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।। ५.४२.२४।।।।
+तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।। ५.४२.२५।।।।
+निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।महोदरा महादंष्ट्रा घोररूपा महाबलाः ।युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। ५.४२.२६।।।।
+ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।। ५.४२.२७।।।।
+ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।। ५.४२.२८।।।।
+मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।। ५.४२.२९।।।।
+हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।। ५.४२.३०।।।।
+स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४२.३१।।।।
+तस्यास्फोटितशब्देन महता सानुनादिना ।पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।। ५.४२.३२।।।।
+जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४२.३३।।।।
+दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४२.३४।।।।
+न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४२.३५।।।।
+अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४२.३६।।।।
+तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।। ५.४२.३७।।।।
+स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४२.३८।।।।
+स तैः परिवृतः शूरैः सर्वतः स महाबलः ।आससादायसं भीमं परिघं तोरणाश्रितम्।स तं परिघमादय जघान रजनीचरान् ।। ५.४२.३९।।।।
+स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।। ५.४२.४०।।।।
+स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।। ५.४२.४१।।।।
+ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।। ५.४२.४२।।।।
+स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ।। ५.४२.४३।।
+वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। ५.४३.२।।।।
+चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। ५.४३.३।।।।
+आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। ५.४३.४।।।।
+संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। ५.४३.५।।।।
+स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४३.६।।।।
+तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। ५.४३.७।।।।
+अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४३.८।।।।
+दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४३.९।।।।
+न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४३.१०।।।।
+अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४३.११।।।।
+एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। ५.४३.१२।।।।
+तेन शब्देन महता चैत्��पालाः शतं ययुः ।गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। ५.४३.१३।।।।
+ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। ५.४३.१४।।।।
+आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। ५.४३.१५।।।।
+ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।। ५.४३.१६।।।।
+प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।ततस्तं भ्रामयामास शताधारं महाबलः ।। ५.४३.१७।।।।
+तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।। ५.४३.१८।।टयित्वा वेगेन हनुमान् पवनात्मजः ।।।
+दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। ५.४३.१९।।।।
+मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। ५.४३.२०।।।।
+अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.४३.२१।।।।
+दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ५.४३.२२।।।।
+सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ५.४३.२३।।।।
+ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। ५.४३.२४।।।।
+नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। ५.४३.२५।।
+सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। ५.४४.१।।।।
+रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। ५.४४.२।।।।
+धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। ५.४४.३।।।।
+तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ५.४४.४।।।।
+रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ।। ५.४४.५।।।।
+तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ५.४४.६।।।।
+अर्धचन्द्रेण वदने शिरस्येकेन कर्णि���ा ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ५.४४.७।।।।
+तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ५.४४.८।।।।
+तत्तस्य रक्तं रक्तेन ऽञ्जितं शुशुभे मुखम् ।यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ५.४४.९।।।।
+चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।। ५.४४.१०।।।।
+ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ५.४४.११।।।।
+विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ।। ५.४४.१२।।।।
+भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। ५.४४.१३।।।।
+सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ।। ५.४४.१४।।।।
+स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगतः ।। ५.४४.१५।।।।
+अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ।। ५.४४.१६।।।।
+तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। ५.४४.१७।।।।
+स हतस्तरसा तेन जम्बुमाली महाबलः ।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ।। ५.४४.१८।।।।
+जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। ५.४४.१९।।।।
+स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ।। ५.४४.२०।।
+ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।।।
+महाबलपरीवारा धनुष्मन्तो महाबलाः ।कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।।।।
+हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।।।।
+तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।।।।
+जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।।।।
+ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।।।।
+सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।।।।
+अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।।।।
+स शरान् मोघयामास तेषामाशुचरः कपिः ।रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।।।।
+स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।।।।
+स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।।।।
+तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।।।।
+प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।।।।
+ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।।।।
+विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।।।।
+स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।।।।
+स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।।
+हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। ५.४६.१।।।।
+स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। ५.४६.२।।।।
+सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। ५.४६.३।।।।
+यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। ५.४६.४।।।।
+यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।कर्म चापि समाधेयं देशकालविरोधिनम् ।। ५.४६.५।।।।
+न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।। ५.४६.६।।।।
+सनागयक्षगन्धर्वा देवासुरमहर्षयः ।युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।। ५.४६.७।।।।
+तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।तदेव नात्र स��्देहः प्रसह्य परिगृह्यताम् ।। ५.४६.८।।।।
+नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।। ५.४६.९।।।।
+वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।। ५.४६.१०।।।।
+नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।। ५.४६.११।।।।
+महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।। ५.४६.१२।।।।
+कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।। ५.४६.१३।।।।
+तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।। ५.४६.१४।।।।
+ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।समुत्पेतुर्महावेगा हुताशसमतेजसः ।। ५.४६.१५।।।।
+रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।। ५.४६.१६।।।।
+ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।। ५.४६.१७।।।।
+तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।महामतिं महावेगं महाकायं महाबलम् ।। ५.४६.१८।।।।
+तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४६.१९।।।।
+तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।। ५.४६.२०।।।।
+स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।। ५.४६.२१।।।।
+ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।। ५.४६.२२।।।।
+स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।। ५.४६.२३।।।।
+अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।चकार कदनं भूयो व्यवर्धत च वेगवान् ।। ५.४६.२४।।।।
+स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।निपपात महवेगो विद्युद्राशिर्गिराविव ।। ५.४६.२५।।।।
+ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।। ५.४६.२६।।।।
+तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।। ५.४६.२७।।।।
+स ताभ्यां सहसोत्पत्य विष्ठितो विमल�� ऽम्बरे ।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।। ५.४६.२८।।।।
+तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। ५.४६.२९।।।।
+स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।। ५.४६.३०।।।।
+ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।। ५.४६.३१।।।।
+भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।। ५.४६.३२।।।।
+पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।। ५.४६.३३।।।।
+स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।। ५.४६.३४।।।।
+समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।। ५.४६.३५।।।।
+ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।बलं तदवशेषं च नाशयास वानरः ।। ५.४६.३६।।।।
+अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।। ५.४६.३७।।।।
+हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।। ५.४६.३८।।।।
+ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४६.३९।।
+सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। ५.४७.१।।।।
+स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। ५.४७.२।।।।
+ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। ५.४७.३।।।।
+तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ।। ५.४७.४।।।।
+सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।। ५.४७.५।।।।
+विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।। ५.४७.६।।।।
+स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।बल���ः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ।। ५.४७.७।।।।
+स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ।। ५.४७.८।।।।
+स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ।। ५.४७.९।।।।
+स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।। ५.४७.१०।।।।
+ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ।। ५.४७.११।।।।
+स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ।। ५.४७.१२।।।।
+ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ।। ५.४७.१३।।।।
+ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ।। ५.४७.१४।।।।
+स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ।। ५.४७.१५।।।।
+ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ।। ५.४७.१६।।।।
+स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ।। ५.४७.१७।।।।
+ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ।। ५.४७.१८।।।।
+ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ।। ५.४७.१९।।।।
+स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ।। ५.४७.२०।।।।
+स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ।। ५.४७.२१।।।।
+समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ।। ५.४७.२२।।।।
+स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ।। ५.४७.२३।।।।
+तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ।। ५.४७.२४।।।।
+ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ।। ५.४७.२५।।।।
+अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ।। ५.४७.२६।।।।
+अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ।। ५.४७.२७।।।।
+पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ।। ५.४७.२८।।।।
+न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः ।। ५.४७.२९।।।।
+इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः ।। ५.४७.३०।।।।
+स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ।। ५.४७.३१।।।।
+ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ।। ५.४७.३२।।।।
+स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ।। ५.४७.३३।।।।
+ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ।। ५.४७.३४।।।।
+स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ।। ५.४७.३५।।।।
+स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुते��� राक्षसः ।महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ।। ५.४७.३६।।।।
+महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ।। ५.४७.३७।।।।
+निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।। ५.४७.३८।।
+ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। ५.४८.१।।।।
+त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।। ५.४८.२।।।।
+तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। ५.४८.३।।।।
+न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। ५.४८.४।।।।
+न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। ५.४८.५।।।।
+ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। ५.४८.६।।।।
+निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। ५.४८.७।।।।
+बलानि सुसमृद्धानि साश्वनागरथानि च ।सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। ५.४८.८।।।।
+न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।। ५.४८.९।।।।
+इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। ५.४८.१०।।।।
+बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। ५.४८.११।।।।
+न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। ५.४८.१२।।।।
+तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। ५.४८.१३।।।।
+न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।इय��� च राजधर्माणां क्षत्रस्य च मतिर्मता ।। ५.४८.१४।।।।
+नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। ५.४८.१५।।।।
+ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। ५.४८.१६।।।।
+ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। ५.४८.१७।।।।
+श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।निर्जगाम महातेजाः समुद्र इव पर्वसु ।। ५.४८.१८।।।।
+स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। ५.४८.१९।।।।
+स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। ५.४८.२०।।।।
+स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। ५.४८.२१।।।।
+सुमहच्चापमादाय शितशल्यांश्च सायकान् ।हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। ५.४८.२२।।।।
+तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। ५.४८.२३।।।।
+समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। ५.४८.२४।।।।
+आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।विननाद महानादं व्यवर्धत च वेगवान् ।। ५.४८.२५।।।।
+इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। ५.४८.२६।।।।
+ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। ५.४८.२७।।।।
+स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। ५.४८.२८।।।।
+ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। ५.४८.२९।।।।
+ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। ५.४८.३०।।।।
+शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्���संग्रहम् ।। ५.४८.३१।।।।
+शराणआमग्रतस्तस्य पुनः समभिवर्तत ।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। ५.४८.३२।।।।
+तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। ५.४८.३३।।।।
+हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। ५.४८.३४।।।।
+ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। ५.४८.३५।।।।
+ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। ५.४८.३६।।।।
+ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। ५.४८.३७।।।।
+अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। ५.४८.३८।।।।
+तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।अभवन्निर्विचेष्टश्च पपात च महीतले ।। ५.४८.३९।।।।
+ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। ५.४८.४०।।।।
+ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।हनूमांश्चिन्तयामास वरदानं पितामहात् ।। ५.४८.४१।।।।
+न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। ५.४८.४२।।।।
+स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। ५.४८.४३।।।।
+अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। ५.४८.४४।।।।
+ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। ५.४८.४५।।।।
+स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। ५.४८.४६।।।।
+ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। ५.४८.४७।।।।
+स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।कौतूहलान्मां यदि राक्षसेन्द्रो द���रष्ठुं व्यवस्येदिति निश्चितार्थः ।। ५.४८.४८।।।।
+स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। ५.४८.४९।।।।
+अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। ५.४८.५०।।।।
+अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। ५.४८.५१।।।।
+अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। ५.४८.५२।।।।
+हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। ५.४८.५३।।।।
+अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। ५.४८.५४।।।।
+तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ५.४८.५५।।।।
+को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। ५.४८.५६।।।।
+हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। ५.४८.५७।।।।
+अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। ५.४८.५८।।।।
+स ददर्श महातेजा रावणः कपिसत्तमम् ।रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। ५.४८.५९।।।।
+राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। ५.४८.६०।।।।
+स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। ५.४८.६१।।।।
+यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।। ५.४८.६२।।
+ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। ५.४९.१।।।।
+भ्राजमानं महार्हेण काञ्चनेन विराजता ।मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। ५.४९.२।।।।
+वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ५.४९.३।।।।
+मह��र्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। ५.४९.४।।।।
+विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५.४९.५।।।।
+शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ५.४९.६।।।।
+नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। ५.४९.७।।।।
+बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। ५.४९.८।।।।
+महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। ५.४९.९।।।।
+अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। ५.४९.१०।।।।
+दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ५.४९.११।।।।
+सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। ५.४९.१२।।।।
+सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। ५.४९.१३।।।।
+अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। ५.४९.१४।।।।
+स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। ५.४९.१५।।।।
+भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।मनसा चिन्तयामास तेजसा तस्य मोहितः ।। ५.४९.१६।।।।
+अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। ५.४९.१७।।।।
+यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। ५.४९.१८।।।।
+अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। ५.४९.१९।।।।
+अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। ५.४९.२०।।
+तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ।। ५.५०.१।।।।
+शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। ५.५०.२।।।।
+येन शप्तो ऽस्मि ��ैलासे मया सञ्चालिते पुरा ।सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। ५.५०.३।।।।
+स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। ५.५०.४।।।।
+दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। ५.५०.५।।।।
+मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।आयोधने वा किं कार्यं त्वया कपे ।। ५.५०.६।।।।
+रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। ५.५०.७।।।।
+यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। ५.५०.८।।।।
+यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। ५.५०.९।।।।
+न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।। ५.५०.१०।।।।
+तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। ५.५०.११।।।।
+एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।। ५.५०.१२।।।।
+अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। ५.५०.१३।।।।
+जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। ५.५०.१४।।।।
+वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। ५.५०.१५।।।।
+रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। ५.५०.१६।।।।
+पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। ५.५०.१७।।।।
+विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। ५.५०.१८।।।।
+दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।। ५.५०.१९।।
+तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। ५.५१.१।।।।
+अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। ५.५१.२।।।।
+भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।धर्मार्थोपहि���ं वाक्यमिह चामुत्र च क्षमम् ।। ५.५१.३।।।।
+राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ५.५१.४।।।।
+ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५.५१.५।।।।
+लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ५.५१.६।।।।
+तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ५.५१.७।।।।
+स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। ५.५१.८।।।।
+तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ५.५१.९।।।।
+ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। ५.५१.१०।।।।
+त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। ५.५१.११।।।।
+स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। ५.५१.१२।।।।
+तां हरीणां सहस्राणि शतानि नियुतानि च ।दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। ५.५१.१३।।।।
+वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। ५.५१.१४।।।।
+अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। ५.५१.१५।।।।
+समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। ५.५१.१६।।।।
+तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। ५.५१.१७।।।।
+न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। ५.५१.१८।।।।
+कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। ५.५१.१९।।।।
+न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। ५.५१.२०।।।।
+तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। ५.५१.२१।।।।
+दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। ५.५१.२२।।।।
+लक्षितेयं मया सीता तथा शोकपायणा ।गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। ५.५१.२३।।।।
+नेयं जरयितुं शक्या सासुरैरमरैरपि ।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। ५.५१.२४।।।।
+तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। ५.५१.२५।।।।
+अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। ५.५१.२६।।।।
+सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। ५.५१.२७।।।।
+न तु धर्मोपसंहारमधर्मफलसंहितम् ।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। ५.५१.२८।।।।
+प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। ५.५१.२९।।।।
+जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। ५.५१.३०।।।।
+कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। ५.५१.३१।।।।
+रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। ५.५१.३२।।।।
+अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। ५.५१.३३।।।।
+यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। ५.५१.३४।।।।
+तदलं कालपाशेन सीताविग्रहरूपिणा ।स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। ५.५१.३५।।।।
+सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। ५.५१.३६।।।।
+स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् ।भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। ५.५१.३७।।।।
+सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।रामदासस्य दृतस्य वानरस्य विशेषतः ।। ५.५१.३८।।।।
+सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। ५.५१.३९।।।।
+देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। ५.५१.४०।।।।
+सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।। ५.५१.४१।।।।
+सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्���मम् ।। ५.५१.४२।।।।
+सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। ५.५१.४३।।।।
+देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ५.५१.४४।।।।
+ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। ५.५१.४५।।।।
+स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।। ५.५१.४६।।
+तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। ५.५२.१।।।।
+वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।निवेदितवतो दौत्यं नानुमेने विभीषणः ।। ५.५२.२।।।।
+तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। ५.५२.३।।।।
+निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। ५.५२.४।।।।
+क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। ५.५२.५।।।।
+राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।तव चासदृशं वीर कपेरस्य प्रमापणम् ।। ५.५२.६।।।।
+धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। ५.५२.७।।।।
+गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। ५.५२.८।।।।
+तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। ५.५२.९।।।।
+विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। ५.५२.१०।।।।
+न पापानां वधे पापं विद्यते शत्रुसूदन ।तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। ५.५२.११।।।।
+अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। ५.५२.१२।।।।
+प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। ५.५२.१३।।।।
+असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेन���प्रियमप्रमेयम् ।न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। ५.५२.१४।।।।
+वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। ५.५२.१५।।।।
+कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। ५.५२.१६।।।।
+न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। ५.५२.१७।।।।
+न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। ५.५२.१८।।।।
+साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। ५.५२.१९।।।।
+अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।इह यः पुनरागच्छेत् परं पारं महोदधेः ।। ५.५२.२०।।।।
+तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। ५.५२.२१।।।।
+अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। ५.५२.२२।।।।
+पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। ५.५२.२३।।।।
+हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। ५.५२.२४।।।।
+तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। ५.५२.२५।।।।
+निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ।। ५.५२.२६।।
+तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।।।
+सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।।।
+कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।।।
+ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।।।
+आज्ञापयद्राक्षसे��्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।।।
+वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।।।।
+संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।।।
+लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।।।
+लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।।।
+स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।।।
+कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।।।
+यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।।।
+सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।।।
+लङ्का चारयितव्या वै पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।।।
+अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।।।।
+कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।।।
+ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।।।
+शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।।।
+अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।।।
+अथापश्यद्विमानानि विचित्राणि महाकपिः ।संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।।।
+वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।।।
+चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।।।
+स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।।।
+दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।।।
+यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।।।
+श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।।।
+मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।।।
+यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।।।
+यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।।।
+यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।।।
+यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।।।
+ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।।।
+हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।।।
+दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।।।।
+प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।दृश्यते च महाज्वालः करोति न च मे रुजम् ।शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।।।
+अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।।।
+यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।।।
+सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।।।
+भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।।।।
+उत्पपाताथ वेगेन ननाद च महाकपिः ।पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।।।
+विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।।।।
+स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।।।
+विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।।।
+स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।।।
+स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।।
+वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।।।।
+किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।।।।
+वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।।।।
+दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।।।।
+यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।।।।
+ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।।।।
+गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।।।।
+अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।।।।
+ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।।।।
+वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।शुकस्य च महातेजाः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।।।।
+जम्बुमालेः सुमालेश्च ददाह भवनं ततः ।। 5.54.11
+।।्य च महातेजाः सारणस्य च धीमतः ।रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।।।।
+युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।।।।
+करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।।।।
+यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।।।।
+वर्जयित्वा महातेजा विभीषणगृहं प्रति ।क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।।।।
+तेषु तेषु महार्हेषु भवनेषु महायशाः ।गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।।।।
+सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।।।।
+ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।।।।
+प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।।।।
+श्वसनेन च संयोगादतिवेगो महाबलः ।कालाग्निरिव जज्वाल ��्रावर्धत हुताशनः ।। 5.54.21 ।।।।
+प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।।।।
+तानि काञ्चनजालानि मुक्तामणिमयानि च ।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।।।।
+तानि भग्नविमानानि निपेतुर्वसुधातले ।भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।।।।
+संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ।स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।।।।
+क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः ।काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।।।।
+पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।। 5.54.27 ।।।।
+वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।।।।
+नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः ।नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।।।।
+क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।।।।
+हनूमता वेगवता वानरेण महात्मना ।लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।।।।
+ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः ।प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।।।।
+युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् ।विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।।।।
+आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् ।शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।।।।
+तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।।।।
+वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा ।रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।।।।
+किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।इहागतोवाग्रूपधारीरक्षोपसंहारकरः प्रकोपः ।। 5.54.37
+।किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।।।।
+इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र स���ेत्य सर्वे ।सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।।।।
+ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।।।।
+हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।।।।
+हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।।।।
+स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।।।।
+भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।।।।
+त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।।।।
+स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।। 5.54.46 ।।।।
+ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।।।।
+भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।।।।
+तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।।।।
+तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।।।।
+देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।। 5.54.51 ।।
+लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः ।निर्वापयामास तदा समुद्रे हरिसत्तमः ।। 5.55.1 ।।।।
+सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ।। 5.55.2 ।।।।
+तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ।। 5.55.3 ।।।।
+धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।। 5.55.4 ।���।।
+क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि ।क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।। 5.55.5 ।।।।
+वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।। 5.55.6 ।।।।
+यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।। 5.55.7 ।।।।
+धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।। 5.55.8 ।।।।
+यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।दग्धा तेन मया भर्तुर्हतं कार्यमजानता ।। 5.55.9 ।।।।
+यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।मया हि दहता लङ्कां न सीता परिरक्षिता ।। 5.55.10 ।।।।
+ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ।। 5.55.11 ।।।।
+विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। 5.55.12 ।।।।
+यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ।। 5.55.13 ।।।।
+किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे ।शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ।। 5.55.14 ।।।।
+कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ।। 5.55.15 ।।।।
+मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ।। 5.55.16 ।।।।
+धिगस्तु राजसं भावमनीशमनवस्थितम् ।ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ।। 5.55.17 ।।।।
+विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ।। 5.55.18 ।।।।
+एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ।। 5.55.19 ।।।।
+इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ।। 5.55.20 ।।।।
+तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।। 5.55.21 ।।।।
+इति चिन्तयस्तस्य निमित्तान्युपपेदिरे ।पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ।। 5.55.22 ।।।।
+अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ।। 5.55.23 ।।।।
+न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ।। 5.55.24 ।।।।
+नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।यन्मां दहनकर्मा ऽयं नादहद्धव्यवाहनः ।। 5.55.25 ।।।।
+त्रयाणां भरतादीनां भार्तऽणां देवता च या ।रामस्य च मनःकान्ता सा कथं विनशिष्यति ।। 5.55.26 ।।।।
+यद्वा दहनकर्मा ऽयं सर्वत्र प्रभुरव्ययः ।न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ।। 5.55.27 ।।।।
+पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा ।हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ।। 5.55.28 ।।।।
+तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ।। 5.55.29 ।।।।
+स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ।। 5.55.30 ।।।।
+अहो खलु कृतं कर्म दुष्करं हि हनूमता ।अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि ।। 5.55.31 ।।।।
+प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ।। 5.55.32 ।।।।
+दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः ।। 5.55.33 ।।।।
+स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ।। 5.55.34 ।।।।
+ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। 5.55.35 ।।
+ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।।।।
+ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।।।।
+काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।।।।
+शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.56.4 ।।।।
+तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.56.5 ।।।।
+तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।। 5.56.6 ।।।।
+क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.56.7 ।।।।
+एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।। 5.56.8 ।।।।
+ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।। 5.56.9 ।।।।
+त���ङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ।। 5.56.10 ।।।।
+बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।। 5.56.11 ।।।।
+तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ।। 5.56.12 ।।।।
+देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ।। 5.56.13 ।।।।
+वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ।। 5.56.14 ।।।।
+निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।। 5.56.15 ।।।।
+मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।। 5.56.16 ।।।।
+कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।। 5.56.17 ।।।।
+लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।। 5.56.18 ।।।।
+महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।। 5.56.19 ।।।।
+व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ।। 5.56.20 ।।।।
+तमारुरोह हनुमान् पर्वतं पवनात्मजः ।रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।। 5.56.21 ।।।।
+तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।। 5.56.22 ।।।।
+स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ।। 5.56.23 ।।।।
+अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।ददर्श सागरं भीमं मीनोरगनिषेवितम् ।। 5.56.24 ।।।।
+स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।। 5.56.25 ।।।।
+स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।। 5.56.26 ।।।।
+तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।। 5.56.27 ।।।।
+कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।। 5.56.28 ।।।।
+स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।। 5.56.29 ।।।।
+अतिप्र���ाणा बलिनो दीप्तजिह्वा महाविषाः ।निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।। 5.56.30 ।।।।
+किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।। 5.56.31 ।।।।
+स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।। 5.56.32 ।।।।
+दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।धरण्यां समतां यातः स बभूव धराधरः ।। 5.56.33 ।।।।
+स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ।। 5.56.34 ।।
+सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।।।
+पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।।।
+वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।।।
+हनुमान् मारुतगतिर्महानौरिव सागरम् ।अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।।।
+ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।।।
+मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।।।
+पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।।।
+प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।।।
+विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।।।
+तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।।।
+नदन्नादेन महता मेघस्वनमहास्वनः ।प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।।।
+आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।।।
+आजगाम महातेजाः पुनर्मध्येन सागरम् ।। 5.57.13 ।।।।
+पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।।।
+स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।।।
+स पूरयामास कपिर्दिशो दश समन्ततः ।नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।।।
+स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।ननाद हरिशाद्रूलो लाङ्गूलं ��ाप्यकम्पयत् ।। 5.57.17 ।।।।
+तस्य नानद्यमानस्य सुपर्णचरिते पथि ।फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।।।
+ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।।।
+महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।।।
+ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।।।
+निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।।।
+जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।।।
+सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।।।
+तस्य बाहूरुवेगं च निनादं च महात्मनः ।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।।।
+ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।।।
+ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।।।
+गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।।।
+तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।।।
+ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।।।
+हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।।।
+ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।।।
+प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।।।
+हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।।।
+स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।।।
+निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।।।
+हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।। 5.57.37 ।।।।
+अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।।।
+एकवेणीधरा बाला रामदर्शनलालसा ।उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।।।
+ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।।।
+क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।।।
+केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।।।
+अपरे च हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।।।
+उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।।।
+सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।।।
+अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।।।
+दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।।।
+परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।।।
+दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।।।
+तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।।।
+हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ।। 5.57.51 ।।
+ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।।।।
+तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।।।।
+कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।।।।
+तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।।।।
+यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।।।।
+स नियुक्तस्ततस्ते�� संप्रहृष्टतनूरुहः ।प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।।।।
+प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।।।।
+गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।।।।
+स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। ५.५८.९ ।।।।
+उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।।।।
+प्रहतं च मया तस्य लांगूलेन महागिरेः ।शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।।।।
+व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।।।।
+पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।।।।
+पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।।।।
+श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।।।।
+अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।।।।
+रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।।।।
+एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।।।।
+तेन चाहमनुज्ञातो मैनाकेन महात्मना ।स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।।।।
+उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।।।।
+ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।।।।
+मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।।।।
+एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।।।।
+रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।।।।
+तस्य सीता हृता भार्या रावणेन दुरात्मना ।तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।।।।
+कर्तुम���्हसि रामस्य साहाय्यं विषये सती ।अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।।।।
+आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। ५.५८.२७ ।।।।
+एवमुक्ता मया सा तु सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।।।।
+एवमुक्तः सुरसया दशयोजनमायतः ।ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।।।।
+तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।।।।
+अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।।।।
+अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीं राघवेण महात्मना ।सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।।।।
+ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।। ५.५८.३३ ।।
+ वैदेहीं राघवेण महात्मना ।ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।।।।
+सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।।।।
+ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।।।।
+अधोभागे न मे दृष्टिः शोचता पातिता मया ।ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।।।।
+प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।।।।
+क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।।।।
+बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।।।।
+न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। ५.५८.४१ ।।।।
+ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।।।।
+सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।।।।
+श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।।।।
+तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।गत्वा चाहं महाध्वानं पश्यामि नगमण्��ितम् ।। ५.५८.४५ ।।।।
+दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।।।।
+तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।।।।
+जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।।।।
+प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।।।।
+यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। ५.५८.५० ।।।।
+तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।।।।
+ततः सीतामपश्यंस्तु रावणस्य निवेशने ।शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।।।।
+शोचता च मया दृष्टं प्राकारेण समावृतम् ।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।।।।
+स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। ५.५८.५४ ।।।।
+अशोकवनिकामध्ये शिंशुपापादपो महान् ।तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।।।।
+अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।।।।
+तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।।।।
+राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।।।।
+सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।।।।
+भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।।।।
+तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।।।।
+ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।।।।
+ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।।।।
+ततो रावणदाराश्च रावणश्च महाबलः ।तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।।।।
+तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।।।।
+वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।।।।
+तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।।।।
+यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।।।।
+एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।।।।
+राक्षसाधम रामस्य भार्यममिततेजसः ।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।।।।
+किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।।।।
+न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।।।।
+जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।।।।
+विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।।।।
+स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।।।।
+उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।।।।
+देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।।।।
+ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।।।।
+याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।।।।
+तृणवद्भाषितं तासां गणयामास जानकी ।गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।।।।
+वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।।।।
+ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।।।।
+तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।।।।
+तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।।।।
+जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।।।।
+रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। ५.५८.८६ ।।।।
+अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।।।।
+यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।।।।
+प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ५.५८.८९ ।।।।
+ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।।।।
+तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।।।।
+सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।।।।
+श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।।।।
+कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।।।।
+तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।।।।
+तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।।।।
+इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।।।।
+तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।।।।
+एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।।।।
+प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।।।।
+अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।।।।
+इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।।।।
+ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।।।।
+उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।।।।
+यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।।।।
+यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।।।।
+तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।।।।
+ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।।।।
+तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।।।।
+मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।।।।
+राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।।।।
+दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।।।।
+तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।।।।
+तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।।।।
+तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।।।।
+ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।।।।
+ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।।।।
+तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
+तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। ५.५८.११९ ।।म् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
+पदातिबलसम्पन्नान् प्रेषयामास रावणः ।परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।।।।
+मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।।।।
+तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।।।।
+बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।।।।
+सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।।।।
+तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।।।।
+तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।।।।
+महतापि महाबाहुः प्रत्ययेन महाबलः ।प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।।।।
+सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।।।।
+रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।।।।
+दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।।।।
+तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। ५.५८.१३१ ।।।।
+अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।।।।
+रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।।।।
+सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।।।।
+वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।।।।
+तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।।।।
+मया च कथितं तस्मै वालिनश्च वधं प्रति ।तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।।।।
+वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।।।।
+तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।।।।
+तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।।।।
+यावन्न हरयो वीरा विधमन्ति बलं तव ।। ५.५८.१४१ ।।
+तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।वानराणां प्रभावो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।।।।
+इति वानरराजस्त्वामाहेत्यभिहितो मया ।मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।।।।
+तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।।।।
+ततो विभीषणो नाम तस्य भ्राता महामतिः ।तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।।।।
+नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।।।।
+दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।।।।
+सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।।।।
+विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।।।।
+ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।।।।
+राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।।।।
+ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः ।ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।। ५.५८.१५३ ।।
+राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।
+ः ।विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।।।।
+पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।।।।
+विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।।।।
+दहता च मया लङ्कां दग्धा सीता न संशयः ।रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।।।।
+इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। ५.५८.१५८ ।।।।
+अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।।।।
+ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१���० ।।।।
+दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।।।।
+तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।।।।
+पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। ५.५८.१६३ ।।।।
+ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।।।।
+ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।।।।
+राघवस्य प्रभावेन भवतां चैव तेजसा ।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।।।।
+एतत्सर्वं मया तत्र यथावदुपपादितम् ।अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। ५.५८.१६७ ।।
+एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। ५.५९.१ ।।।।
+सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।शीलमासाद्य सीताया मम च प्रवणं मनः ।। ५.५९.२ ।।।।
+तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।। ५.५९.३ ।।।।
+न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।। ५.५९.४ ।।।।
+जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।। ५.५९.५ ।।।।
+न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।। ५.५९.६ ।।।।
+अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।। ५.५९.७ ।।।।
+किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।। ५.५९.८ ।।।।
+अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।। ५.५९.९ ।।।।
+ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।। ५.५९.१० ।।।।
+तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।। ५.५९.११ ।।।।
+मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।। ५.५९.१२ ।।।।
+सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।न जाम्बवन्तं समरे कम्पयेद��िवाहिनी ।। ५.५९.१३ ।।।।
+सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।अलमेको विनाशाय वीरो वालिसुतः कपिः ।। ५.५९.१४ ।।।।
+पनसस्योरुवेगेन नीलस्य च महात्मनः ।मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।। ५.५९.१५ ।।।।
+सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। ५.५९.१६ ।।।।
+अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।। ५.५९.१७ ।।।।
+पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।। ५.५९.१८ ।।।।
+अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।। ५.५९.१९ ।।।।
+करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।। ५.५९.२० ।।।।
+एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।। ५.५९.२१ ।।।।
+मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।। ५.५९.२२ ।।।।
+जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.५९.२३ ।।।।
+अहं कोसलराजस्य दासः पवनसम्भवः ।हनुमानिति सर्वत्र नाम विश्रावितं मया ।। ५.५९.२४ ।।।।
+अशोकवनिकामध्ये रावणस्य दुरात्मनः ।अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।। ५.५९.२५ ।।।।
+राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।। ५.५९.२६ ।।।।
+पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ।। ५.५९.२७ ।।
+वृता चन्द्रलेखेव निष्प्रभा ।अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।। ५.५९.२८ ।।।।
+तदेकवासः संवीता रजोध्वस्ता तथैव च ।शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।। ५.५९.२९ ।।।।
+सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।। ५.५९.३० ।।।।
+एकवेणीधरा दीना भर्तृचिन्तापरायणा ।अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।। ५.५९.३१ ।।।।
+रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।। ५.५९.३२ ।।।।
+ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.५९.३३ ।।।।
+नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।। ५.५९.३४ ।।।।
+सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।। ५.५९.३५ ।।।।
+एवमास्ते महाभागा सीता शोकपरायणा ।यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ।। ५.५९.३६ ।।
+तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। ५.६०.१ ।।।।
+अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। ५.६०.२ ।।।।
+दृष्टा देवी न चानीता इति तत्र निवेदनम् ।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। ५.६०.३ ।।।।
+न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। ५.६०.४ ।।।।
+तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। ५.६०.५ ।।।।
+तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। ५.६०.६ ।।।।
+न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ।। ५.६०.७ ।।
+ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। ५.६१.१ ।।।।
+प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। ५.६१.२ ।।।।
+मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।छादयन्त इवाकाशं महाकाया महाबलाः ।। ५.६१.३ ।।।।
+सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। ५.६१.४ ।।।।
+राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। ५.६१.५ ।।।।
+प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। ५.६१.६ ।।।।
+प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। ५.६१.७ ।।।।
+यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। ५.६१.८ ।।।।
+यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। ५.६१.९ ।।।।
+ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। ५.६१.१० ।।।।
+ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। ५.६१.११ ।।।।
+ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। ५.६१.१२ ।।।।
+अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।। ५.६१.१३ ।।।।
+गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। ५.६१.१४ ।।।।
+परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। ५.६१.१५ ।।।।
+द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। ५.६१.१६ ।।।।
+गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। ५.६१.१७ ।।।।
+समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। ५.६१.१८ ।।।।
+ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। ५.६१.१९ ।।।।
+स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। ५.६१.२० ।।।।
+उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। ५.६१.२१ ।।।।
+स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। ५.६१.२२ ।।।।
+नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ।। ५.६१.२३ ।।
+तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।अव्यग्रमनसो यूयं मधु सेवत वानराः ।अहमावारयिष्यामि युष्माकं परिपन्थिनः ।। ५.६२.१ ।।।।
+श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।। ५.६२.२ ।।।।
+अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।। ५.६२.३ ।।।।
+अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।। ५.६२.४ ।।।।
+पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।। ५.६२.५ ।।।।
+ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।। ५.६२.६ ।।।।
+अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।पपुः सर्वे मधु तदा रसवत् फलमाददुः ।। ५.६२.७ ।।।।
+उत्पत्य च ततः सर्वे वनपालान् समागतान् ।ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ।। ५.६२.८ ।।।।
+मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ।। ५.६२.९ ।।।।
+केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।। ५.६२.१० ।।।।
+अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।। ५.६२.११ ।।।।
+उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ।। ५.६२.१२ ।।।।
+केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।हरयो मधुना मत्ताः केचित् सुप्ता महीतले ।। ५.६२.१३ ।।।।
+कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ।। ५.६२.१४ ।।।।
+ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।। ५.६२.१५ ।।।।
+जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।। ५.६२.१६ ।।।।
+हनूमता दत्तवरैर्हतं मधुवनं बलात् ।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ।। ५.६२.१७ ।।।।
+ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ।। ५.६२.१८ ।।।।
+इहागच्छत गच्छामो वानरान् बलदर्पितान् ।बलेन वारयिष्यामो मधु भक्षयतो वयम् ।। ५.६२.१९ ।।।।
+श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।पुनर्वीरा मधुवनं तेनैव सहसा ययुः ।। ५.६२.२० ।।।।
+मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ।। ५.६२.२१ ।।।।
+ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ।। ५.६२.२२ ।।।।
+ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ।। ५.६२.२३ ।।।।
+वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ।। ५.६२.२४ ।।।।
+अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।। ५.६२.२५ ।।।।
+तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ।। ५.६२.२६ ।।।।
+मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।अथैनं निष्पिपेषाशु वेगवद्वसुधातले ।। ५.६२.२७ ।।।।
+स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ।। ५.६२.२८ ।।।।
+स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।वानरान् वारयामास दण्डेन मधुमोहितान् ।। ५.६२.२९ ।।।।
+स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। ५.६२.३० ।।।।
+एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५.६२.३१ ।।।।
+सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५.६२.३२ ।।।।
+इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।। ५.६२.३३ ।।।।
+स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ।। ५.६२.३४ ।।।।
+वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।अमर्षप्रभवो रोषः सफलो नो भविष्यति ।। ५.६२.३५ ।।।।
+एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।जगाम सहसोत्पत्य वनपालैः समन्वितः ।। ५.६२.३६ ।।।।
+निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ।। ५.६२.३७ ।।।।
+रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।समप्रतिष्ठां जगतीमाकाशान्निपपात ह ।। ५.६२.३८ ।।।।
+सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।हरिर्दधिमुखः पालैः पालानां परमेश्वरः ।। ५.६२.३९ ।।।।
+स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ।। ५.६२.४० ।।
+ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। ५.६३.१ ।।।।
+उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। ५.६३.२ ��।।।
+स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। ५.६३.३ ।।।।
+नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। ५.६३.४ ।।।।
+एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। ५.६३.५ ।।।।
+शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। ५.६३.६ ।।।।
+इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। ५.६३.७ ।।।।
+ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। ५.६३.८ ।।।।
+पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। ५.६३.९ ।।।।
+एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। ५.६३.१० ।।।।
+एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। ५.६३.११ ।।।।
+किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। ५.६३.१२ ।।।।
+एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। ५.६३.१३ ।।।।
+आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। ५.६३.१४ ।।।।
+विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।। ५.६३.१५ ।।।।
+नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। ५.६३.१६ ।।।।
+धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।। ५.६३.१७ ।।।।
+वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। ५.६३.१८ ।।।।
+कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। ५.६३.१९ ।।।।
+जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६३.२० ।।।।
+अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।वारयन्तश्च सहितास्तथा जानुभिराहताः ।। ५.६३.२१ ।।।।
+एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्��मः ।। ५.६३.२२ ।।।।
+दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।अभिगम्य तथासव- ?पिबन्ति मधु वानराः ।। ५.६३.२३ ।।।।
+न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। ५.६३.२४ ।।।।
+ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। ५.६३.२५ ।।।।
+श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। ५.६३.२६ ।।।।
+प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। ५.६३.२७ ।।।।
+इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। ५.६३.२८ ।।।।
+प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ।। ५.६३.२९ ।।
+सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।। ५.६४.१ ।।।।
+स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ।। ५.६४.२ ।।।।
+स यथैवागतः पूर्वं तथैव त्वरितं गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।। ५.६४.३ ।।।।
+स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।। ५.६४.४ ।।।।
+स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।। ५.६४.५ ।।।।
+सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।। ५.६४.६ ।।।।
+युवराजस्त्वमीशश्च वनस्यास्य महाबल ।मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।। ५.६४.७ ।।।।
+आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।। ५.६४.८ ।।।।
+स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ।। ५.६४.९ ।।।।
+प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।। ५.६४.१० ।।।।
+श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्ता��् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।। ५.६४.११ ।।।।
+शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।। ५.६४.१२ ।।।।
+पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।। ५.६४.१३ ।।।।
+सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। ५.६४.१४ ।।।।
+नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। ५.६४.१५ ।।।।
+ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ।। ५.६४.१६ ।।।।
+एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ।। ५.६४.१७ ।।।।
+तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ।। ५.६४.१८ ।।।।
+सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ।। ५.६४.१९ ।।।।
+त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। ५.६४.२० ।।।।
+एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।। ५.६४.२१ ।।।।
+उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ।। ५.६४.२२ ।।।।
+ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।विनदन्तो महानादं घना वातेरिता यथा ।। ५.६४.२३ ।।।।
+अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।उवाच शोकोपहतं रामं कमललोचनम् ।। ५.६४.२४ ।।।।
+समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ।। ५.६४.२५ ।।।।
+न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ।। ५.६४.२६ ।।।।
+यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।। ५.६४.२७ ।।।।
+पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ।। ५.६४.२८ ।।।।
+कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।। ५.६४.२९ ।।।।
+न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।व्यवसायश्च वीर्यं च सूर��य तेज इव ध्रुवम् ।। ५.६४.३० ।।।।
+जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६४.३१ ।।।।
+मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ।। ५.६४.३२ ।।।।
+ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।। ५.६४.३३ ।।।।
+ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ।। ५.६४.३४ ।।।।
+आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।। ५.६४.३५ ।।।।
+ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।निपेतुर्हरिराजस्य समीपे राघवस्य च ।। ५.६४.३६ ।।।।
+हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।नियतामक्षतां देवीं राघवाय न्यवेदयत् ।। ५.६४.३७ ।।।।
+निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।। ५.६४.३८ ।।।।
+प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।बहुमानेन महता हनुमन्तमवैक्षत ।। ५.६४.३९ ।।
+ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। ५.६५.१ ।।।।
+युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। ५.६५.२ ।।।।
+रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।रामे समनुरागं च यश्चायं समयः कृतः ।एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।। ५.६५.३ ।।।।
+वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।। ५.६५.४ ।।।।
+क्व सीता वर्तते देवी कथं च मयि वर्तते ।एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।। ५.६५.५ ।।।।
+रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।। ५.६५.६ ।।।।
+श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।। ५.६५.७ ।।।।
+समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।। ५.६५.८ ।।।।
+तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।। ५.६५.९ ।।।।।।
+तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।। ५.६५.१० ।।।।
+दृष्टा मे राक्षसीमध्ये त���्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।। ५.६५.११ ।।।।
+दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।। ५.६५.१२ ।।।।
+रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।एकवेणीधरा दीना त्वयि चिन्तापरायणा ।। ५.६५.१३ ।।।।
+अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।। ५.६५.१४ ।।।।
+इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।सा मया नरशार्दूल विश्वासमुपपादिता ।। ५.६५.१५ ।।।।
+ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.६५.१६ ।।।।
+नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।। ५.६५.१७ ।।।।
+एवं मया महाभागा दृष्टा जनकनन्दिनी ।उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। ५.६५.१८ ।।।।
+अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।। ५.६५.१९ ।।।।
+विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।अखिलेनेह यद् दृष्टमिति मामाह जानकी ।। ५.६५.२० ।।।।
+अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।। ५.६५.२१ ।।।।
+एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।। ५.६५.२२ ।।।।
+त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।। ५.६५.२३ ।।।।
+एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।। ५.६५.२४ ।।।।
+इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।। ५.६५.२५ ।।।।
+एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।सर्वथा सागरजले सन्तारः प्रविधीयताम् ।। ५.६५.२६ ।।।।
+तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।। ५.६५.२७ ।।
+एवमुक्तो हनुमता रामो दशरथात्मजः ।तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। ५.६६.१ ।।।।
+तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। ५.६६.२ ।।।।
+यथैव धेनुः स्रवति स्नेहाद्वत्सस्��� वत्सला ।तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। ५.६६.३ ।।।।
+मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ।। ५.६६.४ ।।।।
+अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।। ५.६६.५ ।।।।
+इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।। ५.६६.६ ।।।।
+अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।। ५.६६.७ ।।।।
+किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ।। ५.६६.८ ।।।।
+इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।। ५.६६.९ ।।।।
+चिरं जीवति वैदेही यदि मासं धरिष्यति ।क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ।। ५.६६.१० ।।।।
+नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ।। ५.६६.११ ।।।।
+कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ।। ५.६६.१२ ।।।।
+शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।आवृतं वदनं तस्या न विराजति राक्षसैः ।। ५.६६.१३ ।।।।
+किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।एतेन खलु जीविष्ये भेषजेनातुरो यथा ।। ५.६६.१४ ।।।।
+मधुरा मधुरालापा किमाह मम भामिनी ।मद्विहीना वरारोहा हनुमन् कथयस्व मे ।। ५.६६.१५ ।।
+एवमुक्तस्तु हनुमान् राघवेण महात्मना ।सीताया भाषितं सर्वं न्यवेदयत राघवे ।। ५.६७.१ ।।।।
+इदमुक्तवती देवी जानकी पुरुषर्षभ ।पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। ५.६७.२ ।।।।
+सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। ५.६७.३ ।।।।
+पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। ५.६७.४ ।।।।
+पुनः पुनरुपागम्य विरराद भृशं किल ।ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। ५.६७.५ ।।।।
+वायसेन च तेनैव सततं बाध्यमानया ।बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। ५.६७.६ ।।।।
+तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। ५.६७.७ ।।।।
+नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिन�� ।। ५.६७.८ ।।।।
+निरीक्षमाणः सहसा वायसं समवैक्षथाः ।नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। ५.६७.९ ।।।।
+सुतः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। ५.६७.१० ।।।।
+ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। ५.६७.११ ।।।।
+स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। ५.६७.१२ ।।।।
+क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। ५.६७.१३ ।।।।
+स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। ५.६७.१४ ।।।।
+पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ५.६७.१५ ।।।।
+वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।। ५.६७.१६ ।।।।
+मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। ५.६७.१७ ।।।।
+राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। ५.६७.१८ ।।।।
+एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.६७.१९ ।।।।
+न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। ५.६७.२० ।।।।
+तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। ५.६७.२१ ।।।।
+भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।स किमर्थं नरवरो न मां रक्षति राघवः ।। ५.६७.२२ ।।।।
+शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.६७.२३ ।।।।
+ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। ५.६७.२४ ।।।।
+वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। ५.६७.२५ ।।।।
+त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.६७.२६ ।।।।
+कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। ५.६७.२७ ।।।।
+तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।�� ५.६७.२८ ।।।।
+हत्वा च समरे रौद्र रावण सहबान्धवम् ।राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। ५.६७.२९ ।।।।
+यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। ५.६७.३० ।।।।
+सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। ५.६७.३१ ।।।।
+प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। ५.६७.३२ ।।।।
+गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।विवर्धमानं च हि मामुवाच जनकात्मजा ।। ५.६७.३३ ।।।।
+अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। ५.६७.३४ ।।।।
+हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। ५.६७.३५ ।।।।
+यथा च स महाबाहुर्मां तारयति राघवः ।असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.६७.३६ ।।।।
+इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.६७.३७ ।।।।
+एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।। ५.६७.३८ ।।
+अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। ५.६८.१ ।।।।
+एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। ५.६८.२ ।।।।
+यदि वा मन्यसे वीर वसैकाहमरिन्दम ।कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.६८.३ ।।।।
+मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।। ५.६८.४ ।।।।
+गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.६८.५ ।।।।
+तवादर्शनजः शोको भूयो मां परितापयेत् ।दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।। ५.६८.६ ।।।।
+अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.६८.७ ।।।।
+कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.६८.८ ।।।।
+त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.६८.९ ।।।।
+तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ।। ५.६८.१० ।।।।
+काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। ५.६८.११ ।।८.१० ।।।।
+बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ।। ५.६८.१२ ।।।।
+यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।रक्षसा तद्भया देव तथा नार्हति राघवः ।। ५.६८.१३ ।।।।
+बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.६८.१४ ।।।।
+तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। ५.६८.१५ ।।।।
+तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ।। ५.६८.१६ ।।।।
+देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.६८.१७ ।।।।
+तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ।। ५.६८.१८ ।।।।
+येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.६८.१९ ।।।।
+असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.६८.२० ।।।।
+मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.६८.२१ ।।।।
+अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.६८.२२ ।।।।
+तदलं परितापेन देवि मन्युर्व्यपैतु ते ।एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ।। ५.६८.२३ ।।।।
+मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ।। ५.६८.२४ ।।।।
+अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ।। ५.६८.२५ ।।।।
+नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ।। ५.६८.२६ ।।।।
+शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। ५.६८.२७ ।।।।
+निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ।। ५.६८.२८ ।।।।
+ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ।। ५.६८.२९ ।।
+श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥।।
+कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥।।
+न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥।।
+देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥।।
+प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥।।
+यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥।।
+एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥।।
+कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥।।
+भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥।।
+भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥।।
+न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥।।
+वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥।।
+यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥।।
+मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥।।
+हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥।।
+हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥।।
+सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥।।
+हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥।।
+समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
+तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥।।
+किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥।।
+सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥।।
+मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥।।
+सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥।।
+निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥।।
+इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥।।
+एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥।।
+रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥।।
+तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥।।
+हतम् च रावणम् उद्धे दर्शनादवधारय ।अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥।।
+लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥।।
+सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥।।
+तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥।।
+यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥।।
+अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥।।
+विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥।।
+मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥।।
+गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥।।
+अचिराद्द्���क्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥।।
+निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥।।
+सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥।।
+सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥।।
+तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥।।
+हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥
+सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥।।
+तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥।।
+कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥।।
+बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥।।
+यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥।।
+श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥।।
+श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥।।
+राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥।।
+विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥।।
+प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥।।
+दृढ बद्ध कवाटानि महापरिघवन्ति च ।चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥।।
+तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥।।
+द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥।।
+सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥���।
+सर्वतः च महाभीमाः शीत तोया महाशुभाः ।अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥।।
+द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥।।
+त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥।।
+एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥।।
+स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥।।
+लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥।।
+स्थिता पारे समुद्रस्य दूर पारस्य राघव ।नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥।।
+शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥।।
+परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥।।
+अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥।।
+नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥।।
+प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥।।
+न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥।।
+शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥।।
+ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥।।
+बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥।।
+हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥।।
+नीलः सेना पतिः चैव बल शेषेण किम् तव ।प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥।।
+सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥।।
+एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।मुहूर्तेन तु युक्ते�� प्रस्थानमभिरोचय ॥६-३-३४॥
+सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥।।
+मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥।।
+निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥।।
+शोकः च किल कालेन गच्चता हि अपगच्चति ।मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥।।
+न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥।।
+वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥।।
+तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥।।
+तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥।।
+अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥।।
+बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥।।
+केदारस्य इव केदारः स उदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥।।
+कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥।।
+कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥।।
+तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥।।
+सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥।।
+कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥।।
+अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥।।
+स्वभाव तनुका नूनम् शोकेन अनशनेन च ।भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥।।
+कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥।।
+कदा नु खलु माम् साध्वी सीता अम��� सुता उपमा ।स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥।।
+कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥।।
+एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥।।
+आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥
+लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥।।
+अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥।।
+तेन वानर मात्रेण दृष्टा सीता च जानकी ।प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥।।
+आविला च पुरी लंका सर्वा हनुमता कृता ।किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥।।
+उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥।।
+तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥।।
+तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥।।
+मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥।।
+दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥।।
+एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥।।
+करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥।।
+एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥।।
+मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥।।
+पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥।।
+न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥।।
+कार्यम् सम्प��रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥।।
+रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥।।
+तरसा युक्त रूपेण सानुजः सबल अनुगः ।समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥।।
+तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥
+इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥।।
+द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥।।
+सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥।।
+कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥।।
+स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥।।
+विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥।।
+मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥।।
+दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥।।
+निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥।।
+अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥।।
+स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥।।
+शूराः च बलवन्तः च वरुणस्य सुता रणे ।निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥।।
+मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥।।
+महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥।।
+जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥।।
+क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥।।
+तेषाम् वीर्य गुण उत्साहैर�� न समो राघवो रणे ।प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥।।
+तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥।।
+अनेन हि महाराज महेश्वरमनुत्तमम् ।इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥।।
+शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥।।
+रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥।।
+अनेन हि समासाद्य देवानाम् बलसागम् ।गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥।।
+पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥।।
+तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥।।
+राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
+ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥।।
+देव दानव गन्धर्वाः पिशाचपतगौरगाः ।न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥।।
+सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥।।
+सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥।।
+रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥।।
+अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥।।
+अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥।।
+अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥।।
+ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥।।
+किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥।।
+अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥।।
+इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥।।
+कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥।।
+काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥।।
+प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥।।
+ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥।।
+आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥।।
+एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥।।
+कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥।।
+सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥।।
+सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥।।
+क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥।।
+एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥।।
+अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
+ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥।।
+अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥।।
+प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥।।
+परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥।।
+प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥।।
+अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥।।
+तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥।।
+अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥।।
+प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥।।
+अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥।।
+समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥।।
+बलानि अपरिमेयानि वीर्याणि च निशा चराः ।परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥।।
+किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥।।
+खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥।।
+एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥।।
+न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥।।
+यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥।।
+यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥।।
+विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥।।
+प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥।।
+पुरा शरत् सूर्य मरीच्चि सम्निभान् ।नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।।।
+सृजति अमोघान् विशिखान् वधाय ते ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥।।
+त्यजस्व कोपम् सुख धर्म नाशनम् ।भजस्व धर्मम् रति कीर्ति वर्धनम् ।।।
+प्रसीद जीवेम सपुत्र बान्धवाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥।।
+विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
+ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥।।
+शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् ।सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥।।
+मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् ।राक्षसैराप्तपर्या��्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥।।
+मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् ।शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥।।
+प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् ।तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥।।
+गन्धर्वाणामिवावासमालयम् मरुतामिव ।रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥।।
+तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् ।अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥।।
+पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् ।शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥।।
+पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः ।मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥।।
+स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा ।असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥।।
+स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् ।जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥।।
+स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ ।उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥।।
+प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः ।देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥।।
+यदा प्रभृति वैदेही सम्प्राप्तेह परतप ।तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥।।
+सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः ।मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥।।
+अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥।।
+गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः ।दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥।।
+खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च ।न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥।।
+वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः ।समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥।।
+गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः ।उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥।।
+क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः ।श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥।।
+तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् ।रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥।।
+इदम् च यदि वामोहाल्लोभाद्वा व्या���ृतम् मया ।तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥।।
+अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते ।रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥।।
+प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥।।
+सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति ।इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥।।
+रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः ।।।
+हितम् महार्थम् मऋदु हेतुसम्हितम् ।व्यतीतकालायतिसम्प्रतिक्षमम् ।।।
+निशम्य तद्वाक्यमुपस्थितज्वरः ।प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥।।
+भयम् न पश्यामि कुतश्चिदप्यहम् ।न राघवः प्राप्स्यति जातु मैथिलीम् ।।।
+सुरैः सहेन्द्रैरपि सम्गरे कथम् ।ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥।।
+इत्येवमुक्र्वा सुरसैन्यनाशनो ।महाबलः सम्यति चण्डविक्रमः ।।।
+दशाननो भ्रातरमाप्तवादिनम् ।विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥
+स बभुव कृशो राजा मैथिलीकाममोहितः ।असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥।।
+अतीतसमये काले तस्मिन्वे युधि रावणः ।अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥।।
+स हेमजालविततम् मणिविद्रुमभूषितम् ।उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥।।
+तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥।।
+असिचर्मधरा योधाः सर्वायुधधरास्ततः ।राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥।।
+नानाविकृतवेषाश्च नानाभूषणभूषिताः ।पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥।।
+रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥।।
+गदापरिघहस्ताश्च शक्तितोमरपाणयः ।परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥।।
+ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥।।
+स नेमिघोषेण महान्सहसाभिनिनादयन् ।राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥।।
+विमलम् चातपत्रम् च पगृहीतमशोभत ।पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥।।
+हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।चामरव्यजने तस्य रेजतुः सव्यदक��षिणे ॥६-११-१२॥।।
+ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥।।
+राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥।।
+सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥।।
+ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥।।
+तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥।।
+ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥।।
+कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥।।
+अनुगेहमवस्थय विहारशयनेषु च ।उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥।।
+ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥।।
+सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥।।
+ते वाहनान्यवस्थाप्य यानानि विविधानि च ।सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥।।
+राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥।।
+ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥।।
+मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥।।
+समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥।।
+ततो महात्मा विपुलम् सुयुग्यम् ।रथम् वरम् हेमविचित्रिताङ्गम् ।शुभम् समास्थाय ययौ यशस्वी ।विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥।।
+स पूर्वजायावरजः शशम्स ।ना माथ पश्चाच्चरणौ ववन्दे ।शुकः प्रहस्तश्च तथैव तेभ्यो ।ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥।।
+सुवर्णनानामणिभुषणानाम् ।सुवाससाम् सम्सदि राक्षसानाम् ।तेषाम् परार्थ्यगुरुचन्दनानाम् ।स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥।।
+न चुक्रुशुर्नानृतमाह कश्चि ।त्सभासदो नापि जजल्पुरुच्चै��� ।सम्सिद्धार्थः सर्व एवोग्रवीर्या ।भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥।।
+स रावणः शस्त्रभृताम् मनस्विनाम् ।महाबलानाम् समितौ मनस्वी ।तप्याम् सभायाम् प्रभया चकाशे ।मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥
+स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥।।
+सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥।।
+स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥।।
+ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥।।
+विहितम् बहिरन्तश्च बलम् बलवतस्तव ।कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥।।
+प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥।।
+प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥।।
+सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥।।
+ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥।।
+अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥।।
+अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥।।
+इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥।।
+सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥।।
+तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥।।
+सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥।।
+हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥।।
+पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥।।
+शोकसम्तापनित्येन कामेन कलुषीकृतः ।सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥।।
+प्रतीक्षमाणा भर्तारम् राममायतलोचना ।तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥।।
+श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥।।
+बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥।।
+दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥।।
+तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥।।
+परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥।।
+अदेया च यथा सीता वध्यौ दशरथात्मजौ ।भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥।।
+न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥।।
+तस्य कामपरीतस्य निशम्य परिदेवितम् ।कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥।।
+यदा तु रामस्य सलक्ष्मणस्य ।प्रसह्य सीता खलु पा इहाऽहृता ।सकृत्समीक्षैव सुनिश्चितम् तदा ।भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥।।
+सर्वमेतन्महाराज कृतमप्रतिमम् तव ।विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥।।
+न्यायेन राजकार्याणि यः करोति दशानन ।न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥।।
+अनुपायेन कर्माणि विपरीतानि यानि च ।क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥।।
+यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥।।
+चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥।।
+त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥।।
+तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥।।
+अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥।।
+तावहम् योधयिष्यामि कुबेरवरुणावपि ।गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥।।
+नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।पुनर्माम् सद्वितीयेन शरेण निहनिष���यति ॥६-१२-३८॥।।
+ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।वधेव वै दाशरथेह् सुखावहम् ।जयम् तवाहर्तुमहम् तयिष्ये ।हत्वा च रामम् सह लक्ष्मणेन ।खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥।।
+रमस्व कामम् पिब चाग्र्यवारुणीम् ।कुरुष्व कार्वाणि हितानि विज्वरः ।मया तु रामे गमिते यमक्षयम् ।चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
+रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥।।
+यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥।।
+ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥।।
+बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥।।
+लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥।।
+कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥।।
+उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥।।
+इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥।।
+एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥।।
+महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥।।
+पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥।।
+सा प्रसह्य मया भुक्ता कृता विवसना ततः ।स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥।।
+तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥।।
+अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥।।
+इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥।।
+सागरस्येव मे वेगो मारुतस्येव मे गतिः ।नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥।।
+को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥।।
+न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥।।
+क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥।।
+तच्चास्य बलमादास्ये बलेन महता वृतः ।उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥।।
+न वासवेनापि सहस्रचक्षुषा ।युधास्मि शक्यो वरुणेन वा पुनः ।मया त्वियम् बाहुबलेन निर्जिता ।पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥
+निशाचरेन्द्रस्य निशम्य वाक्यम् ।स कुम्भकर्णस्य च गर्जितानि ।विभीषणो राक्षसराजमुख्य ।मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥।।
+वृतो हि बाह्वन्तरभोगराशि ।श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।सीतामहाहिस्तव केन राजन् ॥६-१४-२॥।।
+यावन्न लङ्का समभिद्रवन्ति ।वलीमुखाः पर्वतकूटमात्राः ।दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥।।
+यावन्न गृह्णन्ति शिराम्सि बाणा ।रामेरिता राक्षसपुङ्गवानाम् ।वज्रोपमा वायुसमानवेगाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥।।
+न कुम्भकर्णेन्द्रजितौ च राजम् ।स्तथा महापार्श्वमहोदरौ वा ।निकुम्भकुम्भौ च तथातिकायः ।स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥।।
+जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।गुप्तः सवित्राप्यथवा मरुद्भिः ।न वासवस्याङ्कगतो न मृत्यो ।र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥।।
+निशम्य वाक्यम् तु विभीषणस्य ।ततः प्रहस्तो वचनम् बभाषे ।न नो भयम् विद्म न दैवतेभ्यो ।न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥।।
+न यक्षगन्धर्वमहोरगेभ्यो ।भयम् न सम्ख्ये पतगोरगेभ्यः ।कथम् नु रामाद्भविता भयम् नो ।नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥।।
+प्रहस्तवाक्यम् त्वहितम् निशम्य ।विभीषणो राजहितानुकाङिक्षी ।ततो महार्थम् वचनम् बभाषे ।धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥।।
+प्रहस्त राजा च महोदरश्च ।त्वम् कुम्भकर्णश्च यथार्थजातम् ।ब्रवीत रामम् प्रति तन्न शक्यम् ।यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥।।
+वधस्तु रामस्य मया त्वया च ।प्रहस्त सर्वैरपि राक्षसैर्वा ।कथम् भवेदर्थविशारदस्य ।महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥।।
+धर्मप्रधानस्य महारथस्य ।इक्स्वाकुवम्शप्रभवस्य राज्ञः ।पुरोऽस्य देवाश्च तथाविधस्य ।कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥।।
+तीक्षणा न तावत्तव कङ्कपत्रा ।दुरापदा राघवविप्रमुक्ताः ।भित्त्वाशरीरम् प्रविशन्ति बाणाः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥।।
+भित्त्वा न तावत्प्रविशन्ति कायम् ।प्राणान्तकास्तेऽशनितुल्य्वेगाः ।शिताः शरा राघवविप्रमुक्ताः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥।।
+न रावणो नाइबलस्त्रीशीर्षो ।न कुम्भकर्णस्य सुतो निकुभः ।न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥।।
+देवान्तको वापि नरान्तको वा ।तथातिकायोऽतिरथो महात्मा ।अकम्पननश्चाद्रिसमानसारः ।स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥।।
+अयम् च राजा न्यसनाभिभूतो ।मित्रैरमित्रप्रतिमैर्भवद्भिः ।अन्वास्यते राक्षसनाशनार्थे ।तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥।।
+अनन्तभोगेन सहस्रमूर्ध्ना ।वागेन भीमेन महाबलेन ।बलात्परिक्षिप्तमिमम् भवन्तो ।राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥।।
+यावद्धि केशग्रहणात्सुहृद्भिः ।समेत्य सर्वैः परिपूर्णकामैः ।निगृह्य राजा परिरक्षितव्यो ।भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥।।
+सुवारिणा राघवसागरेण ।प्रच्चाद्यमानस्तरसा भवद्भिः ।प्रच्चाद्यमानस्तरसा भवद्भिः ।युक्तस्त्वयम् तारयितुम् समेत्य ।काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥।।
+इदम् पुरस्यास्य सराक्षसस्य ।राज्ञश्च पथ्यम् ससुहृज्जनस्य ।सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥।।
+परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।स्थानम् क्षयम् चैव तथैव वृद्धिम् ।तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥
+बृहस्पतेस्तुल्यमतेर्वचस्त ।न्निशम्य यत्नेन विभीषणस्य ।ततो महात्मा वचनम् बभाषे ।तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥।।
+किम् नाम ते तात कनिष्ठ वाक्य ।मन्र्थकम् वै बहुभीतवच्च ।अस्मिन् कुले योऽपि भवेन्न जातः ।सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥।।
+सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥।।
+किम् नाम तौ मानुषराजपुत्रा ।वस्माकमेकेन हि राक्षसेन ।सुप्राकृतेनापि निहन्तु��ेतौ ।शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥।।
+त्रिलोकनाथो नम देवराजः ।शक्तो मया भूमितले विविष्टः ।भयार्मिताश्चापि दिशः प्रपन्नाः ।सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥।।
+ऐरावतो विस्वरमुन्नदन् स ।निपातितो भूमितले मया तु ।विकृष्य दन्तौ तु मया प्रपह्य ।वित्रासिता देवगणाः समग्राः ॥६-१५-६॥।।
+सोऽहम् सुराणामपि दर्पहन्ता ।दैत्योत्तमानामपि शोककर्ता ।कथम् नरेन्द्रत्मजयोर्न शक्तो ।ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥।।
+अथेन्द्रकल्पस्य दुरासदस्य ।महाजसस्तद्वचनम् निशम्य ।ततो महार्थम् वचनम् बभाषे ।विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥।।
+न तात मन्त्रे तव निश्चयोऽस्ति ।बालस्त्वमद्याप्यविपक्वबुद्धिः ।तस्मात्त्वयाप्यात्मविनाशनाय ।वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥।।
+पुत्रप्रवादेन तु रावणस्य ।त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।यस्येदृशम् राघवतो विनाशम् ।विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥।।
+त्वमेव वध्यश्च सुदुर्मतिश्च ।स चापि वध्यो य ऐहानयत्त्वाम् ।बालम् दृढम् साहासिकम् च योऽद्य ।प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥।।
+मूढोऽप्रगल्भोऽविनयोपपन्न ।स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥।।
+को ब्रह्मदण्डप्रतिमप्रकाशा ।नर्चिष्मतः कालनिकाशरूपान् ।सहेत बाणान्यमदण्डकल्पा ।न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥।।
+धनानि रत्नानि सुभूषणानि ।वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।सीताम् च रामाय निवेद्य देवीम् ।वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
+सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥।।
+वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥।।
+जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥।।
+प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥।।
+नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥।।
+श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।पाश हस्तान् नरान् दृष्ट्वा श��णु तान् गदतो मम ॥६-१६-६॥।।
+नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥।।
+उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥।।
+विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥।।
+ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥।।
+यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥।।
+यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥।।
+यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥।।
+यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥।।
+यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥।।
+योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥।।
+इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥।।
+अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥।।
+स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥।।
+इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥।।
+न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥।।
+अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥।।
+न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥।।
+न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥।।
+काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥।।
+आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥।।
+निवार्यमाणस्य मया हित एषिणा ।न रोचते ते वचनम् निशा चर ।परीत काला हि गत आयुषो नरा ।हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
+इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः ।आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥।।
+तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् ।गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥।।
+ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥।।
+स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥।।
+तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः ।वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥।।
+चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह ।हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥।।
+एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः ।राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥।।
+सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥।।
+शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् ।निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥।।
+तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः ।उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥।।
+स उवाच च महाप्राज्ञः स्वरेण महता महान् ।सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥।।
+रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥।।
+तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् ।रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥।।
+तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् ।साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥।।
+स च न प्रतिजग्राह रावणः काल चोदितः ।उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥।।
+सो अहम् परुषितस् तेन दासवच् च अवमानितः ।त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥।।
+निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने ।सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥।।
+एतत्तु वचनम् श्रुत्वा ��ुग्रीवो लघु विक्रमः ।लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥।।
+प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः ।निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥।।
+मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥।।
+अन्तर्धनगताह्येते राक्षसाः कामरूपिणः ।शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥।।
+प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥।।
+अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् ।अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥।।
+मित्राटवीबलम् चैव मौलभृत्यबलम् तथा ।सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥।।
+प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥।।
+रावणस्य अनुजो भ्राता विभीषण इति श्रुतः ।चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥।।
+रावणेन प्रणिहितम् तम् अवेहि विभीषणम् ।तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥।।
+राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः ।प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥।।
+बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह ।रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥।।
+एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः ।वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥।।
+सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः ।समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥।।
+यद् उक्तम् कपि राजेन रावण अवरजम् प्रति ।वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥।।
+सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता ।समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥।।
+इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः ।स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥।।
+अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव ।आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥।।
+त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः ।परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३��॥।।
+तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव ।हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥।।
+इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः ।विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥।।
+शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि ।विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥।।
+चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः ।प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥।।
+अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह ।गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥।।
+यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् ।गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥।।
+शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् ।क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥।।
+प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना ।परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥।।
+जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः ।वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥।।
+बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः ।अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥।।
+ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः ।वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥।।
+अनुहो नाम तस्य एष रावणस्य विभीषणः ।पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥।।
+भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि ।यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥।।
+अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः ।उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥।।
+न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् ।अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥।।
+न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः ।वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥।।
+अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव ।तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥।।
+ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते ।सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥।।
+चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव ।अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥।।
+अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः ।विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥।।
+स एष देशः कालः च भवति इह यथा तथा ।पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥।।
+दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि ।युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥।।
+अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति ।यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥।।
+पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः ।तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥।।
+अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै ।अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥।।
+न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता ।प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥।।
+अशन्कित मतिः स्वस्थो न शठः परिसर्पति ।न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥।।
+आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् ।बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥।।
+देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर ।सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥।।
+उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् ।वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥।।
+राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः ।एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥।।
+यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति ।प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
+राघवेन अभये दत्ते सम्नतो रावण अनुजः ।विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥।।
+खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥।।
+पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥।।
+धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥।।
+भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥।।
+भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥।।
+वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥।।
+एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥।।
+अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥।।
+रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥।।
+राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥।।
+बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥।।
+सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥।।
+महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥।।
+दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥।।
+स तैस्तु सहितो राजा लोकपालानयोधयत् ।सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥।।
+विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥।।
+यानि कर्मापदानानि रावणस्य विभीषण ।अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥।।
+अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥।।
+रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥।।
+अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥।।
+श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥।।
+राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥।।
+इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥।।
+तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥।।
+एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।मध्ये वानर मुख्यानाम् राजानम् रा��� शासनात् ॥६-१९-२६॥।।
+तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥।।
+अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥।।
+सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥।।
+तराम तरसा सर्वे ससैन्या वरुण आलयम् ।एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥।।
+समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥।।
+कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥।।
+आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥।।
+सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥।।
+स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥।।
+विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥।।
+उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥।।
+समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥।।
+विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥।।
+लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥।।
+अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥।।
+एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
+राघवेणाभये दत्ते सन्नता रावणानुजः ।विभीषणो महापाज्ञो भूमिं समवलोकयन् ।खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।। ६.१९.१ ।।।।
+स तु रामस्य धर्मात्मा निपपात विभीषणः ।पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।। ६.१९.२ ।।।।
+अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।। ६.���९.३ ।।।।
+अनुजो रावणस्याहं तेन चाप्यवमानितः ।भवन्तं सर्वभूतानां शरण्यं शरणागतः ।। ६.१९.४ ।।४ ।।।।
+परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।भवद्गतं मे राज्यं च जीवितं च सुखानि च ।। ६.१९.५ ।।।।
+तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।। ६.१९.६ ।।।।
+आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।। ६.१९.७ ।।।।
+एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा ।रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।। ६.१९.८ ।।।।
+अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् ।राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ।। ६.१९.९ ।।।।
+रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। ६.१९.१० ।।।।
+राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ।। ६.१९.११ ।।।।
+बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ।। ६.१९.१२ ।।।।
+सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ।। ६.१९.१३ ।।।।
+महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।अनीकस्थास्तु तस्यैते लोकपालसमा युधि ।। ६.१९.१४ ।।।।
+दशकोटिसहस्राणि राक्षसां कामरूपिणाम् ।मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ।। ६.१९.१५ ।।।।
+स तैस्तु सहितो राजा लोकपालानयोधयत् ।। ६.१९.१६ ।।।।
+सह देवैस्तु ते भग्ना रावणेन महात्मना ।। ६.१९.१७ ।।।।
+विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।। ६.१९.१८ ।।।।
+यानि कर्मापदानानि रावणस्य विभीषण ।आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ।। ६.१९.१९ ।।।।
+अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ।। ६.१९.२० ।।।।
+रसातलं वा प्रविशेत् पातालं वापि रावणः ।पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ।। ६.१९.२१ ।।।।
+अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ।। ६.१९.२२ ।।।।
+श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।शिरसा ऽ ऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ।। ६.१९.२३ ।।।।
+राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् ।करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ।। ६.१९.२४ ��।।।
+इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ।। ६.१९.२५ ।।।।
+तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ।। ६.१९.२६ ।।।।
+एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् ।मध्येवानरमुख्यानां राजानं राजशासनात् ।। ६.१९.२७ ।।।।
+तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ।। ६.१९.२८ ।।।।
+अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।। ६.१९.२९ ।।।।
+कथं सागरमक्षोभ्यं तराम वरुणालयम् ।सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ६.१९.३० ।।।।
+उपायं नाधिगच्छामो यथा नदनदीपतिम् ।तराम तरसा सर्वे ससैन्या वरुणालयम् ।एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।। ६.१९.३१ ।।।।
+समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ६.१९.३२ ।।
+र्वे ससैन्या वरुणालयम् ।खानितः सगरेणायमप्रमेयो महोदधिः ।कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ।। ६.१९.३३ ।।।।
+एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।। ६.१९.३४ ।।।।
+ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।। ६.१९.३५ ।।।।
+प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ।। ६.१९.३६ ।।।।
+स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ।। ६.१९.३७ ।।।।
+विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते ।ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ।। ६.१९.३८ ।।।।
+सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ।। ६.१९.३९ ।।।।
+एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।समुदाचारसंयुक्तमिदं वचनमूचतुः ।। ६.१९.४० ।।।।
+किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ।। ६.१९.४१ ।।।।
+अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये ।लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ६.१९.४२ ।।।।
+विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् ।यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।। ६.१९.४३ ।।।।
+एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।संविवेश तदा रामो वेद्यामिव हुताशन��� ।। ६.१९.४४ ।।
+ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥।।
+चारो राक्षसराजस्य रावणस्य दुरात्मनः ।ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥।।
+आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥।।
+अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥।।
+उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥।।
+बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥।।
+तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥।।
+शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥।।
+शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥।।
+यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।त्वम् वै महारज कुलप्रसूतो ।महाबलश्चर्क्षरजःसुतश्च ।न कश्चनार्थस्तव वास्त्यनर्थ ।स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥।।
+अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥।।
+न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥।।
+स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥।।
+स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥।।
+सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥।।
+प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥।।
+गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥।।
+न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥।।
+अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥।।
+उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥।।
+अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥।।
+किम् मया खलु नक्तव्यो रावणो लोकरावणः ।स एवमुक्तः प्लवगाधिपस्तदा ।प्लवङ्गमानामृषभो महाबलः ।उवाच वाक्यम् रजनीचरस्य ।चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥।।
+स मेऽसि मित्रम् व तथानुकम्प्यो ।न चोपकर्तासि न मे प्रियोऽपि ।अरिश्च रामस्य सहानुबन्ध ।स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥।।
+निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।सज्ञातिवर्गम् रजनीचरेश ।लङ्काम् च सर्वाम् महता बलेन ।सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥।।
+न मोक्ष्यसे रावण राघवस्य ।सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।अन्तर्हतः सूर्यपथम् गतोऽपि।तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥।।
+गिरीशपादम्बुजसम्गतो वा ।हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥।।
+तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥।।
+अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥।।
+हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥।।
+न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥।।
+वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥।।
+गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥।।
+जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥।।
+व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥।।
+याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥।।
+सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
+ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२���-१॥।।
+बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥।।
+भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥।।
+चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥।।
+बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥।।
+तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥।।
+सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥।।
+गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥।।
+इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥।।
+तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥।।
+स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥।।
+न च दर्शयते मन्दस् तदा रामस्य सागरः ।प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥।।
+समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥।।
+अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥।।
+असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥।।
+सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥।।
+प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥।।
+भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥।।
+महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥।।
+अद्य युद्धेन महता समुद्रम् परिशोषये ।क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥।।
+असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥।।
+चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।समुद्रम् शोषय���ष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥।।
+अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥।।
+निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥।।
+एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥।।
+सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥।।
+ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥।।
+ततो वेगः समुद्रस्य सनक्र मकरो महान् ।स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥।।
+महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥।।
+व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥।।
+ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥।।
+आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥।।
+ततस्तु तम् राघव मुग्रवेगम् ।प्रकर्षमाणम् ध्मरप्रमेयम् ।सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥।।
+एतद्विनापि ह्युदधेस्तवार्य ।सम्पत्स्यते वीरतमस्य कार्यम् ।भवद्विधाः क्रोधवशम् न यान्ति ।दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥।।
+अन्तर्हितैश्चापि तथान्तरिक्षे ।ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।शब्दः कृतः कष्टमिति ब्रुवद्भि ।र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
+अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥।।
+शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥।।
+मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥।।
+विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥।।
+ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥।।
+तस्मिन्विकृष्टे सहसा राघवेण शरासने ।रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥।।
+तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥।।
+तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥।।
+प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥।।
+वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥।।
+आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥।।
+मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥।।
+अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥।।
+सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥।।
+सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥।।
+तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥।।
+ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥।।
+पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥।।
+रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥।।
+जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥।।
+धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥।।
+विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥।।
+गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥।।
+सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥।।
+पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥।।
+तत् स्वभा��ो मम अपि एष यद् अगाधो अहम् अप्लवः ।विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥।।
+न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥।।
+विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥।।
+हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥।।
+अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥।।
+महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥।।
+द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥।।
+आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥।।
+अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥।।
+मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥।।
+विपातितः शरो यत्र वज्राशनिसमप्रभः ।ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥।।
+तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥।।
+सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥।।
+तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥।।
+शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥।।
+पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥।।
+एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥।।
+तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥।।
+अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥।।
+एष सेतुम् महाउत्साहः करोतु मयि वानरः ।तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥।।
+एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥।।
+अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥।।
+असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥।।
+मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥।।
+औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥।।
+न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥।।
+तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥।।
+अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥।।
+बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥।।
+कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥।।
+चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥।।
+इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥।।
+करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥।।
+पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥।।
+समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥।।
+सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥।।
+स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥।।
+वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥।।
+पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥।।
+दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥।।
+बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥।।
+प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥।।
+कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥।।
+त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥।।
+योजनानि महावेगैः कृतानि त्वरितैस्ततः ।पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥।।
+योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥।।
+बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥।।
+शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥।।
+आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥।।
+ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥।।
+तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥।।
+तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥।।
+विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥।।
+ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥।।
+सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥।।
+अयम् हि विपुलो वीर सागरो मकरालयः ।वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥।।
+अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥।।
+अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥।।
+केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥।।
+भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥।।
+तीरे निविविशे राज्ञा बहु मूल फल उदके ।तद् अद्भुतम् राघव कर्म दुष्करम् ।समीक्ष्य देवाः सह सिद्ध चारणैः ।उपेत्य रामम् सहिता महर्षिभिः ।समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥।।
+जयस्व शत्रून् नर देव मेदिनीम् ।ससागराम् पालय शाश्वतीः समाः ।इति इव रामम् नर देव सत्कृतम् ।शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
+निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥।।
+परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥।।
+लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥।।
+वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥।।
+मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥।।
+रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥।।
+दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥।।
+रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥।।
+ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥।।
+रजसा महता चापि नक्षत्राणि हतानि च ।युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥।।
+काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥।।
+शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥।।
+क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥।।
+इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥।।
+सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥।।
+राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥
+सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।शशिना शुभिनक्षत्रा पौर्णमासीव शारद��� ॥६-२४-१॥।।
+प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।।
+ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।।
+बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।।
+राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।।
+दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।।
+अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।।
+दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।।
+आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।।
+विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।।
+पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।।
+पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।।
+इति दाशरथीरमो लक्ष्मणम् समभाषत ।बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।।
+शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।।
+तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।।
+गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥।।
+मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।।
+ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।।
+पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।।
+अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।।
+आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।।
+इति स्म दधिरे ��र्वे मानाम्सि हरिपुङ्गवाः ।ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।।
+सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।।
+मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।।
+शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।।
+किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।।
+ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।।
+सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।।
+क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।।
+न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।।
+स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।।
+स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।।
+ऋक्षवानरसम्घानामनीकानि सहस्रशः ।गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।।
+राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।।
+पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।।
+शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।।
+यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।।
+कदा समभिधानन्ति मामका राघवम् शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।।
+कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।।
+तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।।
+सागरस्येव मे वेगो मारुतस्येव मे बलम् ।न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।।
+न मे तूणीशया���् बाणान् सनिषानिव पन्नगान् ।रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।।
+न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।।
+ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।।
+अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
+सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥।।
+प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।।
+ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।।
+बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।।
+राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।।
+दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।।
+अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।।
+दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।।
+आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।।
+विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।।
+पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।।
+पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।।
+इति दाशरथीरमो लक्ष्मणम् समभाषत ।बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।।
+शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।।
+तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।।
+गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यम् पक��षमधिष्ठतः ॥६-२४-१६॥।।
+मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।।
+ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।।
+पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।।
+अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।।
+आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।।
+इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।।
+सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।।
+मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।।
+शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।।
+किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।।
+ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।।
+सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।।
+क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।।
+न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।।
+स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।।
+स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।।
+ऋक्षवानरसम्घानामनीकानि सहस्रशः ।गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।।
+राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।।
+पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।।
+शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।।
+यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।।
+कदा समभिधानन्ति मामका राघवम् शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।।
+कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।।
+तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।।
+सागरस्येव मे वेगो मारुतस्येव मे बलम् ।न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।।
+न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।।
+न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।।
+ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।।
+अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
+तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् ।निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥।।
+यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥।।
+त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् ।प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥।।
+को हि नाम सपत्नो माम् समरे जेतुम् अर्हति ।इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥।।
+आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् ।बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥।।
+ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः ।पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥।।
+ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः ।तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥।।
+आलोक्य रावणो राजा परिपप्रच्च सारणम् ।एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥।।
+के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः ।केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥।।
+सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः ।सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥।।
+आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः ।एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥।।
+यूथपानाम् सहस्राणाम् शतेन परिवारितः ।यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥।।
+लंका प्रवेपते सर्वा सशैल वन कानना ।सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥।।
+बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः ।बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥।।
+लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते ।गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥।।
+स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः ।यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥।।
+एष वानर राजेन सुर्ग्रीवेण अभिषेचितः ।यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥।।
+वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥।।
+एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा ।हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥।।
+बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥।।
+अनुवालिसुतस्यापि बलेन महता वृतः ।वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥।।
+ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥।।
+एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः ।अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥।।
+य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥।।
+श्वेतो रजत सम्काशः सबलो भीम विक्रमः ।बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥।।
+तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः ।विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥।।
+यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् ।नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥।।
+तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः ।यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥।।
+यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥।।
+अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति ।एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥।।
+यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः ।निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥।।
+विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् ।राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥।।
+शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः ।यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥।।
+परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा ।यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥।।
+न च सम्विजते मृत्योर् न च यूथाद् विधावति ।प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥।।
+पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः ।महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥।।
+राजन् सततम् अध्यास्ते शरभो नाम यूथपः ।एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥।।
+राजन् शत सहस्राणि चत्वारिम्शत् तथैव च ।यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥।।
+मध्ये वानर वीराणाम् सुराणाम् इव वासवः ।भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥।।
+घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् ।एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥।।
+युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः ।एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥।।
+यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः ।यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥।।
+स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः ।एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥।।
+पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् ।षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥।।
+त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः ।विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥।।
+यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः ।अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥।।
+गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते ।एनम् शत सहस्राणि सप्ततिः पर्युपासते ।एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥।।
+एते दुष्प्रसहा घोरा बलिनः काम रूपिणः ।यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
+ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥���-२७-१॥।।
+स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥।।
+प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥।।
+यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥।।
+यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥।।
+असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥।।
+पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥।।
+एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥।।
+ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥।।
+यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥।।
+स एष जाम्बवान् नाम महायूथप यूथपः ।प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥।।
+एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥।।
+आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥।।
+राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥।।
+यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥।।
+एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥।।
+यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥।।
+यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥।।
+येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥।।
+यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥।।
+तत्र देवासुरे युद्धे साह्या���्थम् त्रिदिवौकसाम् ।यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥।।
+यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥।।
+तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥।।
+वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥।।
+यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥।।
+एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥।।
+हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥।।
+रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥।।
+वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥।।
+स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥।।
+अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥।।
+विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥।।
+शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥।।
+परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥।।
+यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥।।
+यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥।।
+मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥।।
+मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥।।
+तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥।।
+निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥।।
+सर्वे वैश्वन�� समा ज्वलित आशी विष उपमाः ।सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥।।
+महापर्वत सम्काशा महाजीमूत निस्वनाः ।वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥।।
+मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥।।
+जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥।।
+एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥।।
+रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।गजो गव अक्षो गवयो नलो नीलः च वानरः ।एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥।।
+तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥।।
+सर्वे महाराज महाप्रभावाः ।सर्वे महाशैल निकाश कायाः ।सर्वे समर्थाः पृथिवीम् क्षणेन ।कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥
+सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥।।
+स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥।।
+एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥।।
+एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥।।
+एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥।।
+यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥।।
+ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥।।
+यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥।।
+एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥।।
+ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥।।
+काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥।���
+उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥।।
+आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥।।
+अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥।।
+पतितस्य कपेर् अस्य हनुर् एका शिला तले ।किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥।।
+सत्यम् आगम योगेन मम एष विदितो हरिः ।न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥।।
+एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥।।
+लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥।।
+इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥।।
+यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥।।
+यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥।।
+स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥।।
+विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥।।
+नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥।।
+रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥।।
+एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥।।
+रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥।।
+त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥।।
+सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥।।
+यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥।।
+दुर्गाम् पर्वत दुर्गस��थाम् प्रधानैः सह यूथपैः ।यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥।।
+कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥।।
+सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥।।
+शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥।।
+महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥।।
+महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥।।
+महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥।।
+महाखर्वसहस्राणाम् समुद्रमभिधीयते ।शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥।।
+शतमोघसहस्राणाम् महौघ इति विश्रुतः ।एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥।।
+महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥।।
+महापद्मसहस्रेण तथा खर्वशतेन च ।समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥।।
+एष कोटिमहौघेन समुद्रसदृशेन च ।विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥।।
+सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥।।
+इमाम् महाराज समीक्ष्य वाहिनीम् ।उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।ततः प्रयत्नः परमो विधीयताम् ।यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥
+शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् ।लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥।।
+समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् ।सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥।।
+अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् ।हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥।।
+सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् ।गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥।।
+किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः ।भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥।।
+अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ ।रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥।।
+न तावत् सदृशम् नाम सचिवैर् उपजीविभिः ।विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥।।
+रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् ।उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥।।
+आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः ।सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥।।
+गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते ।ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥।।
+किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः ।यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥।।
+अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥।।
+हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ ।यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥।।
+अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम ।न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥।।
+हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥।।
+रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ ।अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥।।
+उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् ।महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥।।
+ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥।।
+तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥।।
+चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् ।इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥।।
+मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः ।कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥।।
+विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः ।चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥।।
+युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥।।
+शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥।।
+कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः ।ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥।।
+प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव ��िभीषणौ ।प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥।।
+ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥।।
+शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ।मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥।।
+अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे ।वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥।।
+पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः ।ततो दशग्रीवम् उपस्थितास् ते ।चारा बहिर् नित्य चरा निशा चराः ।गिरेः सुवेलस्य समीप वासिनम् ।न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
+ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।।
+चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।।
+अयथावच् च ते वर्णो दीनः च असि निशा चर ।न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।।
+इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।।
+न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।।
+न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।।
+प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।।
+जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।।
+परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।।
+हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।।
+एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।।
+गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।।
+पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।।
+मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।शार्दूलस्य महद् वाक्यम् अथ ���वाच स रावणः ॥६-३०-१४॥।।
+यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।।
+एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।।
+कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।।
+तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।।
+अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।।
+अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।।
+गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।।
+सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।।
+सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।।
+पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।।
+नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।।
+पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।।
+दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।।
+पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।।
+नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।।
+वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।।
+लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।।
+श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।।
+विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।।
+राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।।
+इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
+ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः ।सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥।।
+चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥।।
+अयथावच् च ते वर्णो दीनः च असि निशा चर ।न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥।।
+इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् ।तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥।।
+न ते चारयितुम् शक्या राजन् वानर पुम्गवाः ।विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥।।
+न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते ।सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥।।
+प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते ।बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥।।
+जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् ।परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥।।
+परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् ।रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥।।
+हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः ।राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥।।
+एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् ।द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥।।
+गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः ।माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥।।
+पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु ।सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥।।
+मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः ।शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥।।
+यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः ।न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥।।
+एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् ।चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥।।
+कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः ।कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥।।
+तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् ।अ���श्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥।।
+अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः ।इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥।।
+अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः ।गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥।।
+गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः ।कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥।।
+सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥।।
+सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः ।मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥।।
+पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् ।अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥।।
+नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा ।मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥।।
+पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः ।गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥।।
+दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् ।श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥।।
+पुत्रो दशरथस्येष सिम्हसम्हननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥।।
+नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥।।
+वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥।।
+लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः ।यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥।।
+श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ ।वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥।।
+विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः ।विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥।।
+राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः ।परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥।।
+इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् ।सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
+सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् । ।सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ।। ६-३२-१
+नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् ।केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ।। ६-३२-२
+एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता ।विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ।। ६-३२-३।।
+सकामा भव कैकेयि हतो अयम् कुल नन्दनः ।कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ।। ६-३२-४।।
+आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् ।यन्मया चीर वसनस् तया प्रस्थापितो वनम् ।। ६-३२-५।।
+एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी ।जगाम जगतीम् बाला चिन्ना तु कदली यथा ।। ६-३२-६।।
+सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् ।तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ।। ६-३२-७।।
+हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता ।इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता ।। ६-३२-८।।
+प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते ।सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ।। ६-३२-९।।
+दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे ।यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ।। ६-३२-१०।।
+सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव ।वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ।। ६-३२-११।।
+उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम ।अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ।। ६-३२-१२।।
+अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव ।पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ।। ६-३२-१३।।
+अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् ।व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ।। ६-३२-१४।।
+तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया ।काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ।। ६-३२-१५।।
+उपशेषे महा बाहो माम् विहाय तपस्विनीम् ।प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ।। ६-३२-१६।।
+अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव ।इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ।। ६-३२-१७।।
+पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ ।पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ।। ६-३२-१८।।
+दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् ।पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ।। ६-३२-१९।।
+किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे ।बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ।। ६-३२-२०।।
+संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया ।स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिता���् ।। ६-३२-२१।।
+कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर ।अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ।। ६-३२-२२।।
+कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु ।क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ।। ६-३२-२३।।
+अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः ।अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ।। ६-३२-२४।।
+प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् ।परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ।। ६-३२-२५।।
+स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते ।तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ।। ६-३२-२६।।
+सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् ।हृदयेन विदीर्णेन न भविष्यति राघव ।। ६-३२-२७।।
+मम हेतोरनार्याया अवघः पार्थिवात्मजः ।रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ।। ६-३२-२८।।
+अहम् दाशरथेनोढा मोहात्स्वकुपांसनी ।आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ।। ६-३२-२९।।
+मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् ।याहमद्येह शोचामि भार्या सर्वातिथेरपि ।। ६-३२-३०।।
+साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः ।समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ।। ६-३२-३१।।
+शिरसा मे शिरसः च अस्य कायम् कायेन योजय ।रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ।। ६-३२-३२।।
+इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा ।भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ।। ६-३२-३३।।
+एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः ।अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः ।। ६-३२-३४।।
+विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च ।न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ।। ६-३२-३५।।
+अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः ।तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ।। ६-३२-३६।।
+मानमस्ति महारा ज राजभावात् क्षमान्वित ।किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ।। ६-३२-३७।।
+एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् ।अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ।। ६-३२-३८।।
+स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः ।सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ।। ६-३२-३९।।
+अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् ।जगाम रावणस्य एव निर्याण समनन्तरम् ।। ६-३२-४०।।
+राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः ।समर्थयाम् आस तदा राम कार्य विनिश्चयम् ।। ६-३२-४१।।
+अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः ।अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः ।। ६-३२-४२।।
+शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे ।समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ।। ६-३२-४३।।
+ततस् तथा इति प्रतिगृह्य तद् वचो ।स्तदैव दूताः सहसा महाद्बलम् ।समानयंसः चैव समागतम् च ते ।न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ।। ६-३२-४४
+सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१।।
+मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२।।
+सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३।।
+सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४।।
+ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५।।
+उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
+लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७।।
+स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८।।
+न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९।।
+न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०।।
+दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
+विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
+हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३।।
+अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४।।
+शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५।।
+उत्तीर्य सागरम् रामः सह वानर सेनया ।सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६।।
+दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७।।
+अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८।।
+स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९।।
+इति ब्रुवाणा सरमा राक्षसी सीतया सह ।सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०।।
+दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१।।
+सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२।।
+कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३।।
+तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४।
+ वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
+रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
+प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७।।
+घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
+उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९।।
+श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
+अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१।।
+विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२।।
+आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३।।
+अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४।।
+अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५।।
+तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६।।
+रावणम् समरे हत्वा नचिराद् एव मैथिलि ।त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७।।
+समागता त्वम् रामेण मोदिष्यसि महात्मना ।सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८।।
+गिरि वरम् अभितो अनुवर्तमानो ।हय इव मण्डलम् आशु यः करोति ।तम् इह शरणम् अभ्युपेहि देविदिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९
+अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥।।
+ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥।।
+उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥।।
+न हि मे क्रममाणाया निरालम्बे विहायसि ।समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥।।
+एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥।।
+समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥।।
+मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥।।
+स हि माया बलः क्रूरो रावणः शत्रु रावणः ।माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥।।
+तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥।।
+उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥।।
+यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥।।
+साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥।।
+एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥।।
+एवम् उक्त्वा ���तो गत्वा समीपम् तस्य रक्षसः ।शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥।।
+सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥।।
+सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥।।
+ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥।।
+इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥।।
+एवम् उक्ता तु सरमा सीतया वेपमानया ।कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥।।
+जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥।।
+दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥।।
+लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥।।
+एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥।।
+न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥।।
+तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥।।
+राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥।।
+प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥।।
+श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।श्रुत्वा तु तम् वानर सैन्य शब्दम् ।लन्का गता राक्षस राज भ्र्त्याः ।नष्ट ओजसो दैन्य परीत चेष्टाः ।श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥
+तेन शन्ख विमिश्रेण भेरी शब्देन राघवः ।उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥।।
+तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः ।मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥।।
+अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः ।सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥।।
+जगत्पम्तापनः क्र��रोगर्हयन् राक्षसेश्वरः ।तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥।।
+यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् ।भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥।।
+तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् ।ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥।।
+रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् ।विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥।।
+स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे ।सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥।।
+स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥।।
+न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् ।तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥।।
+यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥।।
+विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् ।असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥।।
+सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ ।धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥।।
+अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण ।धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥।।
+अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते ।तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥।।
+अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे ।स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥।।
+विवर्धयति पक्षम् च सुराणाम् सुर भावनः ।विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥।।
+Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् ।तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥।।
+तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः ।मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥।।
+जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते ।अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥।।
+दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे ।ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥।।
+आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश ।तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥।।
+चर्��माणम् तपस् तीव्रम् सम्तापयति राक्षसान् ।देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥।।
+मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥।।
+उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा ।विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥।।
+खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः ।शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥।।
+रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः ।ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥।।
+व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् ।प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥।।
+कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥।।
+गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते ।खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥।।
+मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह ।किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥।।
+पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः ।राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥।।
+वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः ।पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥।।
+पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते ।करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥।।
+कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते ।एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥।।
+विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् ।न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥।।
+येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः ।कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥।।
+ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् ।इदम् वचस् तत्र निगद्य माल्यवन् ।परीक्ष्य रक्षो अधिपतेर् मनः पुनः ।अनुत्तमेषु उत्तम पौरुषो बली ।बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥
+तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥।।
+स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥।।
+हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥।।
+मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥।।
+रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥।।
+वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥।।
+प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥।।
+आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥।।
+वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥।।
+द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥।।
+द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥।।
+यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥।।
+स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥।।
+एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥।।
+जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥।।
+रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥।।
+व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥।।
+पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥।।
+उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥।।
+राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥।।
+एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥।।
+विसर्जयाम�� आस ततह् स मन्त्रिणो ।विधानम् आज्नाप्य पुरस्य पुष्कलम् ।जय आzइषा मन्त्र गणेन पूजितो ।विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥
+नर वानर राजौ तौ स च वायु सुतः कपिः ।जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥।।
+अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥।।
+गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥।।
+इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥।।
+कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥।।
+तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥।।
+अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥।।
+भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥।।
+सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥।।
+पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥।।
+इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥।।
+नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥।।
+युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥।।
+विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥।।
+एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥।।
+गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥।।
+विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥।।
+एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥।।
+एताम् प्रव��त्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥।।
+लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥।।
+रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥।।
+षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥।।
+सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥।।
+समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥।।
+व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥।।
+शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥।।
+प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥।।
+दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥।।
+प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥।।
+विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥।।
+तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥।।
+निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥।।
+राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥।।
+एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥।।
+वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥।।
+आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥।।
+सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥।।
+ततस् तु रामो महता बलेन ।प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।प्रहृष्ट रूपो अभिजगाम लन्काम् ।कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
+स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१।।
+विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२।।
+सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३।।
+लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४।।
+येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५।।
+यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६।।
+एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७।।
+एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८।।
+पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९।।
+तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०।।
+गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११।।
+जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२।।
+एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३।।
+अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४।।
+ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५।।
+लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६।।
+ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७।।
+मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८।���
+पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।ततः स रामो हरि वाहिनी पतिर् ।विभीषणेन प्रतिनन्द्य सत्कृतः ।सलक्ष्मणो यूथप यूथ सम्वृतः ।सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९
+ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१।।
+सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२।।
+चम्पक अशोक पुम्नाग साल ताल समाकुला ।तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३।।
+हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४।।
+शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५।।
+विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६।।
+गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७।।
+तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८।।
+नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९।।
+नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०।।
+भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११।।
+विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२।।
+तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३।।
+अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४।।
+वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५।।
+कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६।।
+ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७।।
+शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८।।
+शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९।।
+मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०।।
+दशयोजनविस्तीर्णा विंशद्योजनमायता ।सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१।।
+प्रासादैश् च विमानैश् च लन्का परम भूषिता ।घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२।।
+तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३।।
+चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४।।
+मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५।।
+नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६।।
+ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७।।
+ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८।।
+ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।प्रासाद मालाभिर् अलम्कृताम् च ।पुरीम् महा यन्त्र कवाट मुख्याम् ।ददर्श रामो महता बलेन ।। ६-३९-२९
+ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोहत्ससुग्रीवो हरियूथैः समन्वितः ।। ६-४०-१।।
+स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।। ६-४०-२।।
+ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ।तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ।। ६-४०-३।।
+श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ।। ६-४०-४।।
+वीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ।। ६-४०-५।।
+शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संचन्नं मेघराशिमिवाम्बरे ।। ६-४०-६।।
+पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ।। ६-४०-७।।
+क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गो��ुरस्थले ।। ६-४०-८।।
+स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ।। ६-४०-९।।
+लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा ।। ६-४०-१०।।
+इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ।। ६-४०-११।।
+समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः ।सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ।। ६-४०-१२।।
+इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ।। ६-४०-१३।।
+परस्परं स्वेदविदिग्धगात्रौ ।परस्परम् शोणितरक्तदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ ।परस्परं शाल्मलिकिंशुकाविव ।। ६-४०-१४।।
+मुष्टिप्रहारैश्च तलप्रहारै ।ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं ।महाबलौ राक्षसवानरेन्द्रौ ।। ६-४०-१५।।
+कृत्वा नियुद्धं भृशमुग्रवेगौ ।कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ ।पादक्रमाद्गोपुरवेदिलग्नौ ।। ६-४०-१६।।
+अन्योन्यमापीड्य विलग्नदेहौ ।तौ पेतुतुः पालनिखातमध्ये ।उत्पेततुर्भूमितलम् स्पृशन्तौ ।स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ।। ६-४०-१७।।
+आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः ।संयोजयामासतुराहवे तौ ।सम्रम्भशिक्षाबलसम्प्रयुक्तौ ।सुचेरतुः सम्प्रति युद्धमार्गे ।। ६-४०-१८।।
+शार्दूलसिंहविव जातदंष्ट्रौ ।गजेन्द्रपोताविव संप्रयुक्तौ ।संहत्य संवेद्य च तौ कराभ्यां ।तऊ पेतुतुर्वै युगपद्धरायाम् ।। ६-४०-१९।।
+उद्यम्य चान्योन्यमधिक्षिपन्तौ ।संचक्रमाते बहु युद्धमार्गे ।व्यायामशिक्षाबलसंप्रयुक्तौ ।क्लमं न तौ जग्मतुराशु वीरौ ।। ६-४०-२०।।
+बाहुत्तमैर्वारणवारणाभै ।र्निवारयन्तौ परवारणाभौ।चिरेण कालेन भृशं प्रयुद्धौ ।संचेरतुर्मण्डलमार्गमाशु ।। ६-४०-२१।।
+तौ परस्पर मासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ।। ६-४०-२२।।
+मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ।। ६-४०-२३।।
+तीर्शीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ।। ६-४०-२४।।
+अभिद्रवणमाप्लावमवस्थानं सविग्रहम् ।परावृत्तमपाव��त्तमपद्रुतमवप्लुतम् ।। ६-४०-२५।।
+उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः ।। ६-४०-२६।।
+एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः ।। ६-४०-२७।।
+उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः ।। ६-४०-२८।।
+अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति ।र्निशिचरपतिमाजौ योजयित्वा श्रमेण ।गगनमतिविशालं लङ्घयित्वार्कसूम ।र्हरिगणबलमध्ये रामपार्श्वं जगाम् ।। ६-४०-२९।।
+स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा ।पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं ।तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ।। ६-४०-३०
+अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ।। ६.४१.१ ।।।।
+असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम् ।एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ।। ६.४१.२ ।।।।
+संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।कष्टं कृतमिदं वीर साहसं साहसप्रिय ।। ६.४१.३ ।।।।
+इदानीं मा कृथा वीर एवंविधमचिन्तितम् ।त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ।। ६.४१.४ ।।।।
+भरतेन महाबाहो लक्ष्मणेन यवीयसा ।शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ।। ६.४१.५ ।।पुनःपुनः ।।।।
+त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ।। ६.४१.६ ।।।।
+हत्वा ऽहं रावणं युद्धे सपुत्रबलवाहनम् ।अभिषिच्य च लङ्कायां विभीषणमथापि च ।भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ।। ६.४१.७ ।।।।
+तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।। ६.४१.८ ।।।।
+तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।मर्षयामि कथं वीर जानन् पौरुषमात्मनः ।। ६.४१.९ ।।।।
+इत्येवं वादिनं वीरमभिनन्द्य स राघवः ।लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ।। ६.४१.१० ।।।।
+परिगृह्योदकं शीतं वनानि फलवन्ति च ।बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।। ६.४१.११ ।।।।
+लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।। ६.४१.१२ ।।।।
+वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ।। ६.४१.१३ ।।।।
+मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्��वर्षन्ति मिश्रं शोणितबिन्दुभिः ।। ६.४१.१४ ।।।।
+रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ।। ६.४१.१५ ।।।।
+आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ।। ६.४१.१६ ।।।।
+रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये ।। ६.४१.१७ ।।।।
+ह्रस्वो रूक्षो ऽप्रशस्तश्च परिवेषः सुलोहितः ।। ६.४१.१८ ।।।।
+आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।। ६.४१.१९ ।।।।
+काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ।। ६.४१.२० ।।।।
+क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् ।अभियाम जवेनैव सर्वतो हरिभिर्वृताः ।। ६.४१.२१ ।।।।
+इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ।तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः ।। ६.४१.२२ ।।।।
+अवतीर्यं च धर्मात्मा तस्माच्छैलात् स राघवः ।परैः परमदुर्धर्षं ददर्श बलमात्मनः ।। ६.४१.२३ ।।।।
+सन्नह्य तु ससुग्रीवः कपिराजबलं महत् ।कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ।। ६.४१.२४ ।।।।
+ततः काले महाबाहुर्बलेन महतावृतः ।प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। ६.४१.२५ ।।।।
+तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः ।ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ।। ६.४१.२६ ।।।।
+ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् ।प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ।। ६.४१.२७ ।।।।
+शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ।। ६.४१.२८ ।।।।
+तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ।। ६.४१.२९ ।।।।
+पताकमालिनीं रम्यामुद्यानवनशोभिताम् ।चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ।। ६.४१.३० ।।।।
+तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ।। ६.४१.३१ ।।।।
+लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम् ।रामः सहानुजो धन्वी जुगोप च रुरोध च ।। ६.४१.३२ ।।।।
+लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ।उत्तरद्वारमासाद्य यत्र तिष्ठति रावण�� ।। ६.४१.३३ ।।।।
+नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ।रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ६.४१.३४ ।।।।
+सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ।लघूनां त्रासजननं पातालमिव दानवैः ।। ६.४१.३५ ।।।।
+विन्यस्तानि च योधानां बहूनि विविधानि च ।ददर्शायुधजालानि तत्रैव कवचानि च ।। ६.४१.३६ ।।।।
+पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ।। ६.४१.३७ ।।।।
+अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।ऋषभेण गवाक्षेण गजेन गवयेन च ।। ६.४१.३८ ।।।।
+हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ।प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ।। ६.४१.३९ ।।।।
+मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः ।। ६.४१.४० ।।।।
+वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः ।निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ।। ६.४१.४१ ।।।।
+शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ।। ६.४१.४२ ।।।।
+पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ।अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ।। ६.४१.४३ ।।।।
+ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ।। ६.४१.४४ ।।।।
+सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।। ६.४१.४५ ।।।।
+दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ६.४१.४६ ।।।।
+सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः ।अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ६.४१.४७ ।।।।
+अद्भुतश्च विचित्रश्च तेषामासीत् समागमः ।तत्र वानरसैन्यानां शलभानामिवोद्यमः ।। ६.४१.४८ ।।।।
+परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी ।लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।। ६.४१.४९ ।।।।
+शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।। ६.४१.५० ।।।।
+आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ।। ६.४१.५१ ।।।।
+अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ।। ६.४१.५२ ।।।।
+वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ६.४१.५३ ।।।।
+राक्षसा विस्मयं जग्मुः सहसा ऽभिन��पीडिताः ।वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।। ६.४१.५४ ।।।।
+महान् शब्दो ऽभवत्तत्र बलौघस्याभिवर्ततः ।सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ।। ६.४१.५५ ।।।।
+तेन शब्देन महता सप्राकारा सतोरणा ।लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ६.४१.५६ ।।।।
+रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ६.४१.५७ ।।।।
+राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे ।सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनःपुनः ।आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ६.४१.५८ ।।।।
+विभीषणस्यानुमते राजधर्मनुस्मरन् ।अङ्गदं वालितनयं समाहूयेदमब्रवीत् ।। ६.४१.५९ ।।
+त्य च पुनःपुनः ।गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे ।लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ।। ६.४१.६० ।।।।
+भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन ।ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ।। ६.४१.६१ ।।।।
+नागानामथ यक्षाणां राज्ञां च रजनीचर ।यच्च पापं कृतं मोहादवलिप्तेन राक्षस ।। ६.४१.६२ ।।।।
+नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।यस्य दण्डधरस्ते ऽहं दाराहरणकर्शितः ।दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ।। ६.४१.६३ ।।।।
+पदवीं देवतानां च महर्षीणां च राक्षस ।राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ।। ६.४१.६४ ।।।।
+बलेन येन वै सीतां मायया राक्षसाधम ।मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ।। ६.४१.६५ ।।।।
+अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। ६.४१.६६ ।।।।
+धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तो ऽयं विभीषणः ।लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।। ६.४१.६७ ।।।।
+न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।शक्यं मूर्खसहायेन पापेनाविदितात्मना ।। ६.४१.६८ ।।।।
+युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।। ६.४१.६९ ।।।।
+यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः ।मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ।। ६.४१.७० ।।।।
+ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ।सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।। ६.४१.७१ ।।।।
+इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।जगामाकाशमाविश्य मूर्तिमान���व हव्यवाट् ।। ६.४१.७२ ।।।।
+सो ऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।। ६.४१.७३ ।।।।
+ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः ।दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।। ६.४१.७४ ।।।।
+तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।। ६.४१.७५ ।।।।
+दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रमागतः ।। ६.४१.७६ ।।।।
+आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव ।। ६.४१.७७ ।।।।
+हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।। ६.४१.७८ ।।।।
+देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।। ६.४१.७९ ।।।।
+विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।। ६.४१.८० ।।।।
+इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ।अमर्षवशमापन्नो निशाचरगणेश्वरः ।। ६.४१.८१ ।।।।
+ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।। ६.४१.८२ ।।।।
+रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।। ६.४१.८३ ।।।।
+ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।बलं दर्शयितुं वीरो यातुधानगणे तदा ।। ६.४१.८४ ।।।।
+स तान् बाहुद्वये सक्तानादाय पतगानिव ।प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा ।। ६.४१.८५ ।।।।
+ते ऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।। ६.४१.८६ ।।।।
+ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ६.४१.८७ ।।।।
+तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ।पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।। ६.४१.८८ ।।।।
+भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।विनद्य सुमहानादमुत्पपात विहायसम् ।। ६.४१.८९ ।।।।
+व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् ।स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ६.४१.९० ।।।।
+रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।विनाशं चात्मनः पश्यन्निश्वासपरमो ऽभवत् ।। ६.४१.९१ ।।।।
+रामस्तु बह���भिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ।वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।। ६.४१.९२ ।।।।
+सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।। ६.४१.९३ ।।।।
+चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः ।पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ६.४१.९४ ।।।।
+तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ।। ६.४१.९५ ।।।।
+राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा ऽपरे ।अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।। ६.४१.९६ ।।।।
+कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ।। ६.४१.९७ ।।।।
+हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ६.४१.९८ ।।।।
+तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ।। ६.४१.९९ ।।
+ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ।। ६.४२.१ ।।।।
+रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत ।। ६.४२.२ ।।।।
+स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। ६.४२.३ ।।।।
+स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् ।। ६.४२.४ ।।।।
+स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।राघवं हरियूथांश्च ददर्शायतलोचनः ।। ६.४२.५ ।।।।
+राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। ६.४२.६ ।।।।
+दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।जगाम सहसा सीतां दूयमानेन चेतसा ।। ६.४२.७ ।।।।
+अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ६.४२.८ ।।।।
+पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ।। ६.४२.९ ।।।।
+एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।। ६.४२.१० ।।।।
+शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। ६.४२.११ ।।।।
+उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। ६.४२.१२ ।।।।
+प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। ६.४२.१३ ।।।।
+ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ।। ६.४२.१४ ।।।।
+ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ।। ६.४२.१५ ।।।।
+परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। ६.४२.१६ ।।।।
+ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः ।कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। ६.४२.१७ ।।।।
+काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।कैलासशिखराभाणि गोपुराणि प्रमथ्य च ।। ६.४२.१८ ।।।।
+आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।लङ्कां तामभिधावन्ति महावारणसन्निभाः ।। ६.४२.१९ ।।।।
+जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ६.४२.२० ।।।।
+इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। ६.४२.२१ ।।।।
+वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। ६.४२.२२ ।।।।
+पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। ६.४२.२३ ।।।।
+साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। ६.४२.२४ ।।।।
+दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। ६.४२.२५ ।।।।
+सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।। ६.४२.२६ ।।।।
+उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। ६.४२.२७ ।।।।
+गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। ६.४२.२८ ।।।।
+ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ।। ६.४२.२९ ।।।।
+सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। ६.४२.३० ।।।।
+गजो गवाक्षो गवयः शरभो गन्धमादनः ।समन्तात�� परिधावन्तो ररक्षुर्हरिवाहिनीम् ।। ६.४२.३१ ।।।।
+ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। ६.४२.३२ ।।।।
+एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ।सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। ६.४२.३३ ।।।।
+ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः ।हेमकोणाहता भीमा राक्षसानां समन्ततः ।। ६.४२.३४ ।।।।
+विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। ६.४२.३५ ।।।।
+ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः ।विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ६.४२.३६ ।।।।
+निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।समये पूर्यमाणस्य वेगा इव महोदधेः ।। ६.४२.३७ ।।।।
+ततो वानरसैन्येन मुक्तो नादः समन्ततः ।मलयः पूरितो येन स सानुप्रस्थकन्दरः ।। ६.४२.३८ ।।।।
+शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ।पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।। ६.४२.३९ ।।।।
+गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।। ६.४२.४० ।।।।
+एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ।रक्षसां वानराणां च यथा देवासुरे पुरा ।। ६.४२.४१ ।।।।
+ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ।। ६.४२.४२ ।।।।
+राजा जयति सुग्रीव इति शब्दो महानभूत् ।। ६.४२.४३ ।।।।
+राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ६.४२.४४ ।।।।
+राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।। ६.४२.४५ ।।।।
+वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः ।राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। ६.४२.४६ ।।।।
+स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.४२.४७ ।।
+युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम् ।रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ।। ६.४३.१ ।।।।
+ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।। ६.४३.२ ।।।।
+निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।राक्षसा भीमकर्माणो रावणस्य जयैषिणः ।। ६.४३.३ ।।।।
+वानराणामप��� चमूर्बृहती जयमिच्छताम् ।अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ६.४३.४ ।।।।
+एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ।। ६.४३.५ ।।।।
+अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः ।अयुध्यत महातेजास्त्र्यम्बकेण यथा ऽन्तकः ।। ६.४३.६ ।।।।
+प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे ।जम्बुमालिनमारब्धो हनुमानपि वानरः ।। ६.४३.७ ।।।।
+सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः ।समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ।। ६.४३.८ ।।।।
+तपनेन गजः सार्धं राक्षसेन महाबलः ।निकुम्भेन महातेजा नीलो ऽपि समयुद्ध्यत ।। ६.४३.९ ।।।।
+वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ।। ६.४३.१० ।।।।
+आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ।। ६.४३.११ ।।।।
+वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः ।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ।। ६.४३.१२ ।।।।
+वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत ।। ६.४३.१३ ।।।।
+धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ।स विद्युन्मालिना सार्धमयुध्यत महाकपिः ।। ६.४३.१४ ।।।।
+वानराश्चापरे भीमा राक्षसैरपरैः सह ।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ।। ६.४३.१५ ।।।।
+तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम् ।रक्षसां वानराणां च वीराणां जयमिच्छताम् ।। ६.४३.१६ ।।।।
+हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः ।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.४३.१७ ।।।।
+आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। ६.४३.१८ ।।।।
+तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमानङ्गदो वेगवान् कपिः ।। ६.४३.१९ ।।।।
+सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ।। ६.४३.२० ।।।।
+जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ।। ६.४३.२१ ।।।।
+तस्य तं रथमास्थाय हनूमान् मारुतत्मजः ।प्रममाथ तलेनाशु सह तेनैव रक्षसा ।। ६.४३.२२ ।।।।
+नदन् प्रतपनो घोरो नलं सो ऽप्यन्वधावत ।। ६.४३.२३ ।।।।
+नलः प्रतपनस्याशु पातयामास चक्षुषी ।भिन्नगात्रः शरै���्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।। ६.४३.२४ ।।।।
+ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ।। ६.४३.२५ ।।।।
+अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ।। ६.४३.२६ ।।।।
+तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै ।क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ।। ६.४३.२७ ।।।।
+वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।पपात सरथः साश्वः पुराट्ट इव भूतले ।। ६.४३.२८ ।।।।
+निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ।। ६.४३.२९ ।।।।
+पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।बिभेद समरे नीलं निकुम्भः प्रजहास च ।। ६.४३.३० ।।।।
+तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ।। ६.४३.३१ ।।।।
+वज्राशनिसमस्पर्शो द्विविदो ऽप्यशनिप्रभम् ।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ।। ६.४३.३२ ।।।।
+द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ।। ६.४३.३३ ।।।।
+स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः ।सालेन सरथं साश्वं निजघानाशनिप्रभम् ।। ६.४३.३४ ।।।।
+विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।सुषेणं ताडयामास ननाद च मुहुर्मुहुः ।। ६.४३.३५ ।।।।
+तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।। ६.४३.३६ ।।।।
+लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ।। ६.४३.३७ ।।।।
+ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ।। ६.४३.३८ ।।।।
+तमापतन्तं गदया विद्युन्माली निशाचरः ।वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ६.४३.३९ ।।।।
+गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।तां शिलां पातयामास तस्योरसि महामृधे ।। ६.४३.४० ।।।।
+शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ।। ६.४३.४१ ।।।।
+एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ।। ६.४३.४२ ।।।।
+निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।बभूवायोधनं घोरं गोमायुगणसङ्कुलम् ।। ६.४३.४३ ।।।।
+कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।विमर्दे तुमुले तस्मिन् देवासुररणोपमे ।। ६.४३.४४ ।।।।
+विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ।। ६.४३.४५ ।।
+युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।। ६.४४.१ ।।।।
+अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।। ६.४४.२ ।।।।
+राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।। ६.४४.३ ।।।।
+जहि दारय चैहीति कथं विद्रवसीति च ।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।। ६.४४.४ ।।।।
+कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।। ६.४४.५ ।।।।
+तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।। ६.४४.६ ।।।।
+ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।। ६.४४.७ ।।।।
+वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ।। ६.४४.८ ।।।।
+लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।। ६.४४.९ ।।।।
+तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।। ६.४४.१० ।।।।
+वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।। ६.४४.११ ।।।।
+ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। ६.४४.१२ ।।।।
+हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्तानां वानराणां च सम्बभूवातिदारुणः ।। ६.४४.१३ ।।।।
+हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।। ६.४४.१४ ।।।।
+शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।। ६.४४.१५ ।।।।
+सा बभूव निशा घोरा हरिराक्षसहारिणी ।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।। ६.४४.१६ ।।।।
+ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।। ६.४४.१७ ।।।।
+तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।। ६.४४.१८ ।।।।
+तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।। ६.४४.१९ ।।।।
+यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।। ६.४४.२० ।।।।
+ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् ।। ६.४४.२१ ।।।।
+तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।दिशश्चकार विमलाः प्रदिशश्च महाबलः ।। ६.४४.२२ ।।।।
+ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ।। ६.४४.२३ ।।।।
+सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।बभूव रजनी चित्रा खद्योतैरिव शारदी ।। ६.४४.२४ ।।।।
+राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।सा बभूव निशा घोरा भूयो घोरतरा तदा ।। ६.४४.२५ ।।।।
+तेन शब्देन महता प्रवृद्धेन समन्ततः ।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।। ६.४४.२६ ।।।।
+गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ।। ६.४४.२७ ।।।।
+अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।रावणिं निजघानाशु सारथिं च हयानपि ।। ६.४४.२८ ।।।।
+वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।। ६.४४.२९ ।।।।
+तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।। ६.४४.३० ।।।।
+प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ।। ६.४४.३१ ।।।।
+ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ।। ६.४४.३२ ।।।।
+इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।। ६.४४.३३ ।।।।
+एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ।। ६.४४.३४ ।।।।
+सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ।। ६.४४.३५ ।।।।
+स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।अद्यैव क्षमितव्यं मे भवन्तो विगतज्वरा��� ।। ६.४४.३६ ।।।।
+सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।। ६.४४.३७ ।।।।
+स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।। ६.४४.३८ ।।।।
+मायया संवृतस्तत्र मोहयन् राघवौ युधि ।अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ।। ६.४४.३९ ।।।।
+तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ।। ६.४४.४० ।।।।
+प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ।। ६.४४.४१ ।।
+स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् ।दिदेशातिबलो रामो दश वानरयूथपान् ।। ६.४५.१ ।।।।
+द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।। ६.४५.२ ।।।।
+विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।। ६.४५.३ ।।।।
+ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ।। ६.४५.४ ।।।।
+तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः ।। ६.४५.५ ।।।।
+तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।। ६.४५.६ ।।।।
+रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।भृशमावेशयामास रावणिः समितिञ्जयः ।। ६.४५.७ ।।।।
+निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ।। ६.४५.८ ।।।।
+तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।। ६.४५.९ ।।।।
+ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतो ऽब्रवीत् ।। ६.४५.१० ।।।।
+युद्ध्यमानमनालक्ष्यं शक्रो ऽपि त्रिदशेश्वरः ।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ।। ६.४५.११ ।।।।
+प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।एष रोषपरीतात्मा नयामि यमसादनम् ।। ६.४५.१२ ।।।।
+एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ।। ६.४५.१३ ।।।।
+भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।भूयो भूयः शरान् घोरान् विससर्ज महामृधे ।। ६.४५.१४ ।।।।
+ततो मर्मसु मर्मज्ञो मज्जयन्��िशितान् शरान् ।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ।। ६.४५.१५ ।।।।
+बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ।। ६.४५.१६ ।।।।
+ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ।। ६.४५.१७ ।।।।
+तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।निपेततुर्महेष्वासौ जगत्यां जगतीपती ।। ६.४५.१८ ।।।।
+तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ।। ६.४५.१९ ।।।।
+न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ।। ६.४५.२० ।।।।
+तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ।। ६.४५.२१ ।।।।
+पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ।। ६.४५.२२ ।।।।
+रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।। ६.४५.२३ ।।।।
+स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ।। ६.४५.२४ ।।।।
+बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते ऽभवत् ।। ६.४५.२५ ।।।।
+रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ।शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले ।। ६.४५.२६ ।।।।
+हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ।। ६.४५.२७ ।।।।
+बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः ।समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ।। ६.४५.२८ ।।
+ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।। ६.४६.१ ।।।।
+वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।आजगामाथ तं देशं ससुग्रीवो विभीषणः ।। ६.४६.२ ।।।।
+नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।। ६.४६.३ ।।।।
+अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।। ६.४६.४ ।।।।
+निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ६.४६.५ ।।।।
+तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ ।यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।। ६.४६.��� ।।।।
+राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।। ६.४६.७ ।।।।
+अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।न चैनं मायया च्छन्नं ददृशू रावणिं रणे ।। ६.४६.८ ।।।।
+त तु मायाप्रतिच्छन्नं माययैव विभीषणः ।वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।। ६.४६.९ ।।।।
+तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।। ६.४६.१० ।।।।
+तेजसा यशसा चैव विक्रमेण च संयुतम् ।। ६.४६.११ ।।।।
+इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ।। ६.४६.१२ ।।।।
+दूषणस्य च हन्तारौ खरस्य च महाबलौ ।सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ।। ६.४६.१३ ।।।।
+नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ।। ६.४६.१४ ।।।।
+यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ।। ६.४६.१५ ।।।।
+कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया ।। ६.४६.१६ ।।।।
+रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ।। ६.४६.१७ ।।।।
+एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।यूथपानपि तान् सर्वांस्ताडयामास रावणिः ।। ६.४६.१८ ।।।।
+नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। ६.४६.१९ ।।।।
+जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।हनूमतो वेगवतो विससर्ज शरान् दश ।। ६.४६.२० ।।।।
+गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ।। ६.४६.२१ ।।।।
+गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः ।। ६.४६.२२ ।।।।
+तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ।ननाद बलवांस्तत्र महासत्त्वः स रावणिः ।। ६.४६.२३ ।।।।
+तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ।। ६.४६.२४ ।।।।
+शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।सहितौ भ्रातरावेतौ निशामयत राक्षसाः ।। ६.४६.२५ ।।।।
+एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ।। ६.४६.२६ ।।।।
+विनेदुश्च महानादान् सर्वतो जलदोपमाः ।हतो राम इति ज्ञात्वा रावणिं समपूजयन् ।। ६.४६.२७ ।।।।
+निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ।। ६.४६.२८ ।।।।
+हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ।। ६.४६.२९ ।।।।
+रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते ।सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ।। ६.४६.३० ।।।।
+तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।सबाष्पवदनं दीनं शोकव्याकुललोचनम् ।। ६.४६.३१ ।।।।
+अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ।। ६.४६.३२ ।।।।
+सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति ।मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ।। ६.४६.३३ ।।।।
+पर्यवस्थापयात्मानमनाथं मां च वानर ।सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ।। ६.४६.३४ ।।।।
+एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ।। ६.४६.३५ ।।।।
+ततः सलिलमादाय विद्यया परिजप्य च ।सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ।। ६.४६.३६ ।।।।
+प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ।। ६.४६.३७ ।।।।
+न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते ।। ६.४६.३८ ।।।।
+तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ।। ६.४६.३९ ।।।।
+अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः ।लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ।। ६.४६.४० ।।।।
+नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ।। ६.४६.४१ ।।।।
+तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ।। ६.४६.४२ ।।।।
+एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ।। ६.४६.४३ ।।।।
+मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् ।त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ।। ६.४६.४४ ।।।।
+समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ।। ६.४६.४५ ।।।।
+इन्द्रजित्तु महामायः सर्व��ैन्यसमावृतः ।विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ।। ६.४६.४६ ।।।।
+तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ।। ६.४६.४७ ।।।।
+उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ।। ६.४६.४८ ।।।।
+पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् ।यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ।। ६.४६.४९ ।।।।
+स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् ।। ६.४६.५० ।।
+प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।। ६.४७.१ ।।।।
+हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ।जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ।। ६.४७.२ ।।।।
+व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ।। ६.४७.३ ।।।।
+रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ।। ६.४७.४ ।।।।
+राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः ।। ६.४७.५ ।।।।
+ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।। ६.४७.६ ।।।।
+हताविन्द्रजिता ऽ ऽख्यात वैदेह्या रामलक्ष्मणौ ।पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ।। ६.४७.७ ।।।।
+यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।सो ऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ।। ६.४७.८ ।।।।
+निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।मामुपस्थास्यते सीता सर्वाभरणभूषिता ।। ६.४७.९ ।।।।
+अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ।निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।। ६.४७.१० ।।।।
+तस्य तद्वचनं च श्रुत्वा रावणस्य दुरात्मनः ।राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।। ६.४७.११ ।।।।
+ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ६.४७.१२ ।।।।
+तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ।सीतामारोपयामासुर्विमानं पुष्पकं तदा ।। ६.४७.१३ ।।।।
+ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।जग्मुर��दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।। ६.४७.१४ ।।।।
+रावणो ऽकारयल्लङ्कां पताकाध्वजमालिनीम् ।प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ।। ६.४७.१५ ।।।।
+विमानेनापि सीता तु गत्वा त्रिजटया सह ।ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ।। ६.४७.१६ ।।।।
+प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ।। ६.४७.१७ ।।।।
+ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ।। ६.४७.१८ ।।।।
+विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ।। ६.४७.१९ ।।।।
+तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ।। ६.४७.२० ।।।।
+शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ।। ६.४७.२१ ।।।।
+भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ।। ६.४७.२२ ।।।।
+सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ।। ६.४७.२३ ।।
+भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम् ।विललाप भृशं सीता करुणं शोककर्शिता ।। ६.४८.१ ।।।।
+ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.२ ।।।।
+यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.३ ।।।।
+ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.४ ।।।।
+वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.५ ।।।।
+इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।आधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।। ६.४८.६ ।।।।
+वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः ।नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।। ६.४८.७ ।।।।
+सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।तान्यद्य निहते रामे वितथानि भवन्ति मे ।। ६.४८.८ ।।।।
+केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम ।वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ।। ६.४८.९ ।।।।
+शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ।। ६.४८.१० ।।।।
+स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ।मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ।। ६.४८.११ ।।।।
+मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ।। ६.४८.१२ ।।।।
+समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ।। ६.४८.१३ ।।।।
+आधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह ।कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ।। ६.४८.१४ ।।।।
+शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ।। ६.४८.१५ ।।।।
+ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ।। ६.४८.१६ ।।।।
+अदृश्यमानेन रणे मायया वासवोपमौ ।मम नाथावनाथाया निहतौ रामलक्ष्मणौ ।। ६.४८.१७ ।।।।
+न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ।। ६.४८.१८ ।।।।
+न कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः ।यत्र रामः सह भ्रात्रा शेते युधि निपातितः ।। ६.४८.१९ ।।।।
+न शोचामि तथा रामं लक्ष्मणं च महाबलम् ।नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् ।। ६.४८.२० ।।।।
+सा ऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् ।कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ।। ६.४८.२१ ।।।।
+परिदेवयमानां तां राक्षसी त्रिजटा ऽब्रवीत् ।। ६.४८.२२ ।।।।
+मा विषादं कृथा देवि भर्ता ऽयं तव जीवति ।। ६.४८.२३ ।।।।
+कारणानि च वक्ष्यामि महान्ति सदृशानि च ।यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ।। ६.४८.२४ ।।।।
+नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।भवन्ति युधि योधानां मुखानि निहते पतौ ।। ६.४८.२५ ।।।।
+इदं विमानं वैदेहि पुष्पकं नाम नामतः ।दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ।। ६.४८.२६ ।।।।
+हतवीरप्रधानां हि हतौत्साहा निरुद्यमा ।सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ।। ६.४८.२७ ।।।।
+इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी ।सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ।। ६.४८.२८ ।।।।
+सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ।। ६.४८.२९ ।।।।
+अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।चारित्रसुखशीलत्वात् प्रविष्टा ऽसि मनो मम ।। ६.४८.३० ।।।।
+नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव ।इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।। ६.४८.३१ ।।।।
+निस्सञ्ज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ।प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ।। ६.४८.३२ ।।।।
+त्यज शोकं च मोहं च दुःखं च जनकात्मजे ।रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ।। ६.४८.३३ ।।।।
+श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ।। ६.४८.३४ ।।।।
+विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् ।दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ।। ६.४८.३५ ।।।।
+ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।अशोकवनिकामेव राक्षसीभिः प्रवेशिता ।। ६.४८.३६ ।।।।
+प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ।। ६.४८.३७ ।।
+घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।। ६.४९.१ ।।।।
+सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।। ६.४९.२ ।।।।
+एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितो ऽपि सन् ।। ६.४९.३ ।।।।
+ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।भ्रातरं दीनवदनं पर्यदेवयदातुरः ।। ६.४९.४ ।।।।
+किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ।शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।। ६.४९.५ ।।।।
+शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।। ६.४९.६ ।।।।
+परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।। ६.४९.७ ।।।।
+किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ।कथमम्भां सुमित्रां च पुत्रदर्शनलालसाम् ।। ६.४९.८ ।।।।
+विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।कथमाश्वासयिष्यामि यदा यास्यामि तं विना ।। ६.४९.९ ।।।।
+कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।। ६.४९.१० ।।।।
+मया सह वनं यातो विना तेन गतः पुनः ।उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ।। ६.४९.११ ।।।।
+इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सह��� ।। ६.४९.१२ ।।।।
+धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।। ६.४९.१३ ।।।।
+त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।। ६.४९.१४ ।।।।
+येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।तस्यमेव क्षितौ वीरः स शेते निहतः परैः ।। ६.४९.१५ ।।।।
+शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः ।शरजालैश्चितो भाति भास्करो ऽस्तमिव व्रजन् ।। ६.४९.१६ ।।।।
+बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।रुजा चाब्रुवतो ऽप्यस्य दृष्टिरागेण सूच्यते ।। ६.४९.१७ ।।।।
+यथैव मां वनं यान्तमनुयातो महाद्युतिः ।अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।। ६.४९.१८ ।।।।
+इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।इमामद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः ।। ६.४९.१९ ।।।।
+सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।परुषं विप्रियं वापि श्रावितं तु कदाचन ।। ६.४९.२० ।।।।
+विससर्जैकवेगेन पञ्चबाणशतानि यः ।इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ।। ६.४९.२१ ।।।।
+अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।सो ऽयमुर्व्यां हतः शेते महार्हशयनोचितः ।। ६.४९.२२ ।।।।
+यन्मया न कृतो राजा राक्षसानां विभीषणः ।तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ।। ६.४९.२३ ।।।।
+अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि ।मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद्बली ।। ६.४९.२४ ।।।।
+अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।सागरं तर सुग्रीव नीलेन च नलेन च ।। ६.४९.२५ ।।।।
+कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।। ६.४९.२६ ।।।।
+अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।। ६.४९.२७ ।।।।
+गवयेन गवाक्षेण शरभेण गजेन च ।अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।न चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः ।। ६.४९.२८ ।।।।
+यत्तु शक्यं वयस्येन सुहृदा च परन्तप ।कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।। ६.४९.२९ ।।।।
+मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ।। ६.४९.३० ।।।।
+शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम् ।वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ।। ६.४९.३१ ।।।।
+ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।आजगाम गदापाणिस्त्वरितो यत्र राघवः ।। ६.४९.३२ ।।।।
+तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * ।। ६.४९.३३ ।।
+अथोवाच महातेजा हरिराजो महाबलः ।किमियं व्यथिता सेना मूढवातेव नौर्जले ।। ६.५०.१ ।।।।
+सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् ।। ६.५०.२ ।।।।
+न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।शरजालाचितौ वीरावुभौ दशरथात्मजौ ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ।। ६.५०.३ ।।।।
+अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।। ६.५०.४ ।।।।
+विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।। ६.५०.५ ।।।।
+अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।। ६.५०.६ ।।।।
+एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।सुग्रीवं वर्धयामास राघवं च निरैक्षत ।। ६.५०.७ ।।।।
+विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ।। ६.५०.८ ।।।।
+विभीषणो ऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः ।विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ।। ६.५०.९ ।।।।
+शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् ।प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।। ६.५०.१० ।।।।
+सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः ।। ६.५०.११ ।।।।
+ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः ।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ।। ६.५०.१२ ।।।।
+विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ।। ६.५०.१३ ।।।।
+जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।शोकसम्पीडितमना रुरोद विललाप च ।। ६.५०.१४ ।।।।
+इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ ।इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ।। ६.५०.१५ ।।।।
+भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ।। ६.५०.१६ ।।।।
+शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ।। ६.५०.१७ ।।।।
+ययोर्वीर्यमुपाश्रित्य प्रत���ष्ठा काङ्क्षिता मया ।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ।। ६.५०.१८ ।।।।
+जीवन्नद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः ।प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। ६.५०.१९ ।।।।
+एवं विलपमानं तं परिष्वज्य विभीषणम् ।सुग्रीवः सत्त्वसम्पन्नो हरिराजो ऽब्रवीदिदम् ।। ६.५०.२० ।।।।
+राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।रावणः सह पुत्रेण सकामं नेह लप्स्यते ।। ६.५०.२१ ।।।।
+न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ।। ६.५०.२२ ।।।।
+तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् ।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ।। ६.५०.२३ ।।।।
+सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ।। ६.५०.२४ ।।।।
+अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ।श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।। ६.५०.२५ ।।।।
+दैवासुरं महद्युद्धमनुभूतं सुदारुणम् ।तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः ।। ६.५०.२६ ।।।।
+निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ।। ६.५०.२७ ।।।।
+तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः ।विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ।। ६.५०.२८ ।।।।
+तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।जवेन वानराः शीघ्रं सम्पातिपनसादयः ।हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ।। ६.५०.२९ ।।।।
+सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ।। ६.५०.३० ।।.५०.२ ।। सम्पातिपनसादयः ।चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।अमृतं यत्र मथितं तत्र ते परमौषधी ।। ६.५०.३१ ।।।।
+अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु ।। ६.५०.३२ ।।।।
+एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ।। ६.५०.३३ ।।।।
+महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ।। ६.५०.३४ ।।।।
+अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ।। ६.५०.३५ ।।।।
+ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।।।।
+वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् ।। ६.५०.३६ ।।।।
+तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।यैस्तौ सत्प��रुषौ बद्धौ शरभूतैर्महाबलौ ।। ६.५०.३७ ।।।।
+ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ।। ६.५०.३८ ।।।।
+वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ।। ६.५०.३९ ।।।।
+तेजो वीर्यं बलं चौज उत्साहश्च महागुणः ।प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ।। ६.५०.४० ।।।।
+तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ।। ६.५०.४१ ।।।।
+भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ।। ६.५०.४२ ।।।।
+यथा तातं दशरथं यथा ऽजं च पितामहम् ।तथा भवन्तमासाद्य हृदयं मे प्रसीदति ।। ६.५०.४३ ।।।।
+को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।वसानो विरजे वस्त्रे दिव्याभरणभूषितः ।। ६.५०.४४ ।।।।
+तमुवाच महातेजा वैनतेयो महाबलः ।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।। ६.५०.४५ ।।।।
+अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ।। ६.५०.४६ ।।।।
+असुरा वा महावीर्या दानवा वा महाबलाः ।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ।। ६.५०.४७ ।।।।
+नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।। ६.५०.४८ ।।।।
+एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः ।रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ।। ६.५०.४९ ।।।।
+सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ।। ६.५०.५० ।।।।
+इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहमागतः ।सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ।। ६.५०.५१ ।।।।
+मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् ।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ।। ६.५०.५२ ।।।।
+प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः ।शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ६.५०.५३ ।।।।
+तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ।। ६.५०.५४ ।।।।
+एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ।। ६.५०.५५ ।।।।
+सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ।। ६.५०.५६ ।।।।
+न च ���ौतूहलं कार्यं सखित्वं प्रति राघव ।कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ।। ६.५०.५७ ।।।।
+बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। ६.५०.५८ ।।।।
+इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ।। ६.५०.५९ ।।।।
+प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।जगामाकाशमाविश्य सुपर्णः पवनो यथा ।। ६.५०.६० ।।।।
+विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा ।। ६.५०.६१ ।।।।
+ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ।। ६.५०.६२ ।।।।
+आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ।। ६.५०.६३ ।।।।
+विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ।। ६.५०.६४ ।।।।
+ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ।। ६.५०.६५ ।।
+तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ।नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ।। ६.५१.१ ।।।।
+स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।। ६.५१.२ ।।।।
+यथा ऽसौ सम्प्रहृष्टानां वानराणां समुत्थितः ।बहूनां सुमहानादो मेघानामिव गर्जताम् ।व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ।। ६.५१.३ ।।।।
+तथा हि विपुलैर्नादश्चुक्षुभे वरुणालयः ।। ६.५१.४ ।।ूनां सुमहानादो मेघानामिव गर्जताम् ।तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।अयं च सुमहान्नादः शङ्कां जनयतीव मे ।। ६.५१.५ ।।।।
+एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ।। ६.५१.६ ।।।।
+ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।। ६.५१.७ ।।।।
+तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते ।ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।। ६.५१.८ ।।।।
+तो च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ।। ६.५१.९ ।।।।
+सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।विषण्णवदना घोरा ���ाक्षसेन्द्रमुपस्थिताः ।। ६.५१.१० ।।।।
+तदप्रियं दीनमुखा रावणस्य निशाचराः ।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ।। ६.५१.११ ।।।।
+यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ।। ६.५१.१२ ।।।।
+विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ।। ६.५१.१३ ।।।।
+तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् ।। ६.५१.१४ ।।।।
+घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ।। ६.५१.१५ ।।।।
+तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ।। ६.५१.१६ ।।।।
+निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।आदत्तं यैः सुसङ्ग्रामे रिपूणां मम जीवितम् ।। ६.५१.१७ ।।।।
+एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा ।अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ।। ६.५१.१८ ।।।।
+बलेन महता युक्तो रक्षसां भीमविक्रम ।त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ।। ६.५१.१९ ।।।।
+एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ।। ६.५१.२० ।।।।
+अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह ।त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ।। ६.५१.२१ ।।।।
+धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ।। ६.५१.२२ ।।।।
+ते बद्धघण्टाबलिनो घोररूपा निशाचराः ।विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।। ६.५१.२३ ।।।।
+गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।। ६.५१.२४ ।।
+ृष्टा धूम्राक्षं पर्यवारयन् ।परिघैर्बिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।निर्ययू राक्षसा दिग्भ्योनर्दन्तो जलदा यथा ।। ६.५१.२५ ।।।।
+रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।सुवर्णजालविहितैः खरैश्च विविधाननैः ।। ६.५१.२६ ।।।।
+हयैः परमशीघ्रैश्च गजैन्द्रैश्च मदोत्कटैः ।निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ।। ६.५१.२७ ।।।।
+वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ।। ६.५१.२८ ।।।।
+स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः ।रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ।। ६.५१.२९ ।।।।
+प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ।। ६.५१.३० ।।।।
+रथशीर्षे महान् भीमो गृध्रश्च निपपात ह ।ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ।। ६.५१.३१ ।।।।
+रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ।विस्वरं चोत्सृजन्नादं धूम्नाक्षस्य समीपतः ।। ६.५१.३२ ।।।।
+ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ।प्रतिलोभं ववौ वायुर्निर्घातसमनिस्वनः ।। ६.५१.३३ ।।।।
+तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ।। ६.५१.३४ ।।।।
+स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितो ऽभवत् ।। ६.५१.३५ ।।।।
+मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ।। ६.५१.३६ ।।।।
+ततः सुभीमो बहुभिर्निशाचरैर्वृतो ऽभिनिष्क्रम्य रणोत्सुको बली ।ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ।। ६.५१.३७ ।।
+धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।। ६.५२.१ ।।।।
+तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।। ६.५२.२ ।।।।
+घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।। ६.५२.३ ।।।।
+वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।। ६.५२.४ ।।।।
+ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।। ६.५२.५ ।।श्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।।।
+विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।। ६.५२.६ ।।।।
+शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।। ६.५२.७ ।।।।
+ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ।। ६.५२.८ ।।।।
+तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।। ६.५२.९ ।।।।
+राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।। ६.५२.१० ।।।।
+पार्���्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः ।शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ।। ६.५२.११ ।।।।
+ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ६.५२.१२ ।।।।
+गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।। ६.५२.१३ ।।।।
+वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।। ६.५२.१४ ।।।।
+विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।। ६.५२.१५ ।।।।
+अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः ।तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।। ६.५२.१६ ।।।।
+वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।। ६.५२.१७ ।।।।
+सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।। ६.५२.१८ ।।।।
+प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।मुद्गरैराहताः केचित् पतिता धरणीतले ।। ६.५२.१९ ।।।।
+परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।। ६.५२.२० ।।।।
+केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ।। ६.५२.२१ ।।।।
+विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।। ६.५२.२२ ।।।।
+तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ।प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।। ६.५२.२३ ।।।।
+धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।। ६.५२.२४ ।।।।
+धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ।हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ।। ६.५२.२५ ।।।।
+धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।। ६.५२.२६ ।।।।
+क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।। ६.५२.२७ ।।।।
+आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।। ६.५२.२८ ।।।।
+सा ���्रमथ्य रथं तस्य निपपात शिला भुवि ।सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।। ६.५२.२९ ।।।।
+स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः ।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। ६.५२.३० ।।।।
+विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।। ६.५२.३१ ।।।।
+विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः ।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।। ६.५२.३२ ।।।।
+तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।। ६.५२.३३ ।।।।
+ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।पातयामास धूम्राक्षो मस्तके तु हनूमतः ।। ६.५२.३४ ।।।।
+ताडितः स तया तत्र गदया भीमरूपया ।। ६.५२.३५ ।।।।
+स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ।। ६.५२.३६ ।।।।
+स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।पपात सहसा भूमौ विकीर्ण इव पर्वतः ।। ६.५२.३७ ।।।।
+धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः ।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।। ६.५२.३८ ।।।।
+स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ।। ६.५२.३९ ।।
+धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।क्रोधेन महता ऽ ऽविष्टो निश्वसन्नुरगो यथा ।। ६.५३.१ ।।।।
+दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ।। ६.५३.२ ।।।।
+गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ६.५३.३ ।।।।
+तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।निर्जगाम बलै सार्धं बहुभिः परिवारितः ।। ६.५३.४ ।।।।
+नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसामाहितः ।पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ।। ६.५३.५ ।।।।
+ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।तनुत्राणि च संरुद्ध्य सधनुर्निर्ययौ द्रुतम् ।। ६.५३.६ ।।।।
+पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।। ६.५३.७ ।।।।
+यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ।। ६.५३.८ ।।।।
+खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।पदातयश्च निर्यान्ति ���िविधाः शस्त्रपाणयः ।विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।। ६.५३.९ ।।।।
+गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।। ६.५३.१० ।।।।
+अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ।। ६.५३.११ ।।।।
+तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ।। ६.५३.१२ ।।।।
+निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।तेषां निष्क्रममाणानामशुभं समजायत ।। ६.५३.१३ ।।।।
+आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।। ६.५३.१४ ।।।।
+व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः ।। ६.५३.१५ ।।।।
+एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः ।धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। ६.५३.१६ ।।।।
+तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ।। ६.५३.१७ ।।।।
+ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ।। ६.५३.१८ ।।।।
+निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ।। ६.५३.१९ ।।।।
+केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ।। ६.५३.२० ।।।।
+द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ।। ६.५३.२१ ।।।।
+रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः ।शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ।। ६.५३.२२ ।।।।
+केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।। ६.५३.२३ ।।।।
+तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।। ६.५३.२४ ।।।।
+वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन् ।चचार लोकसंहारे पाशहस्त इवान्तकः ।। ६.५३.२५ ।।।।
+बलवन्तो ऽस्त्रविदुषो नानाप्रहरणा रणे ।जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ।। ६.५३.२६ ।।।।
+निघ्नुतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे ।क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ।। ६.५३.२७ ।।।।
+तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् ।अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृ���ानिव ।चकार कदनं घोरं शक्रतुल्यपराक्रमः ।। ६.५३.२८ ।।।।
+अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ।। ६.५३.२९ ।।िव ।।।
+रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ।। ६.५३.३० ।।।।
+हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ।भूमिर्भाति रणे तत्र शारदीव यथा निशा ।। ६.५३.३१ ।।।।
+अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ।। ६.५३.३२ ।।
+बलस्य च निघातेन अङ्गदस्य जयेन च ।राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।।।।
+स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।।।।
+राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।।।।
+वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।।।।
+तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।।।।
+वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।।।।
+शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।।।।
+प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।।।।
+हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।।।।
+कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।। ६.५४.१० ।।।।
+भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।।।।
+ततो वानरसैन्येन हन्यमानं निशाचरम् ।प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।।।।
+राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।।।।
+प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।।।।
+बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।।।।
+त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृ��्तकन्धराः ।अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।।।।
+ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।।।।
+वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।।।।
+ततः शरसहस्रेण वालिपुत्रं महाबलः ।जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।।।।
+रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।।।।
+दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।।।।
+तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।।।।
+समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।।।।
+सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।। ६.५४.२४ ।।।।
+सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।। ६.५४.२५ ।।।।
+ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।।।।
+अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।।।।
+स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।।।।
+अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।।।।
+ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।।।।
+जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।।।।
+विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।।।।
+व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।।।।
+निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।।।।
+निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।जघान वज्र��ंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।।।।
+रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।।।।
+वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।।।।
+निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। ६.५४.३८ ।।
+वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।। ६.५५.१ ।।।।
+शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। ६.५५.२ ।।।।
+एष शास्ता च गोप्ता च नेता च युधि सम्मतः ।भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। ६.५५.३ ।।।।
+एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ।। ६.५५.४ ।।।।
+परिगृह्य स तामाज्ञां रावणस्य महाबलः ।बलं सन्त्वरयामास तदा लघुपराक्रमः ।। ६.५५.५ ।।।।
+ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।। ६.५५.६ ।।।।
+रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ।। ६.५५.७ ।।।।
+न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।अकम्पनस्ततस्तेषामादित्य इव तेजसा ।। ६.५५.८ ।।।।
+तस्य निर्धावमानस्य संरब्धस्य युयत्सया ।अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ।। ६.५५.९ ।।।।
+व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।। ६.५५.१० ।।।।
+अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम् ।ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ।। ६.५५.११ ।।।।
+स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।। ६.५५.१२ ।।।।
+तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।बभूव सुमहान्नादः क्षोभयन्निव सागरम् ।। ६.५५.१३ ।।।।
+तेन शब्देन वित्रस्ता वानराणां महाचमूः ।द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ।। ६.५५.१४ ।।।।
+तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम् ।रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। ६.५५.१५ ।।।।
+सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः ।हरयो राक्षसाश्चैव परस्परजिघांसवः ।। ६.५५.१६ ।।।।
+तेषां विनर्दतां शब्दः संयुगे ऽतितरस्विनाम् ।सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ।। ६.५५.१७ ।।।।
+रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ।। ६.५५.१८ ।।।।
+अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।संवृतानि च भूतानि ददृशुर्न रणाजिरे ।। ६.५५.१९ ।।।।
+न ध्वजा न पताका वा चर्म वा तुरगो ऽपि वा ।आयुधं स्यन्दनं वा ऽपि ददृशे तेन रेणुना ।। ६.५५.२० ।।।।
+शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ।। ६.५५.२१ ।।।।
+हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ।। ६.५५.२२ ।।।।
+परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।। ६.५५.२३ ।।।।
+ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।। ६.५५.२४ ।।।।
+द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ।। ६.५५.२५ ।।।।
+बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः ।हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ।। ६.५५.२६ ।।।।
+राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः ।कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।। ६.५५.२७ ।।।।
+अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।। ६.५५.२८ ।।।।
+हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः ।विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।। ६.५५.२९ ।।।।
+एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।। ६.५५.३० ।।।।
+ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ।। ६.५५.३१ ।।
+तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। ६.५६.१ ।।।।
+क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम् ।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।। ६.५६.२ ।।।।
+तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ।। ६.५६.३ ।।।।
+एते ऽत्र बलवन्तो हि भीम��ायाश्च वानराः ।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ६.५६.४ ।।।।
+एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।। ६.५६.५ ।।।।
+ततः प्रजवनाश्वेन रथेन रथिनां वरः ।हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ।। ६.५६.६ ।।।।
+न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।। ६.५६.७ ।।।।
+तान् मृत्युवशमापन्नानकम्पनवशं गतान् ।समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।। ६.५६.८ ।।।।
+तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।। ६.५६.९ ।।।।
+अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।। ६.५६.१० ।।।।
+अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।। ६.५६.११ ।।।।
+अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान् ।अकम्पनवधार्थाय मनो दध्रे महाबलः ।। ६.५६.१२ ।।।।
+स प्रसह्य महातेजा हनूमान् मारुतात्मजः ।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ।। ६.५६.१३ ।।।।
+तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ।। ६.५६.१४ ।।।।
+आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ।। ६.५६.१५ ।।।।
+तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।स विनद्य महानादं भ्रामयामास वीर्यवान् ।। ६.५६.१६ ।।।।
+ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ।। ६.५६.१७ ।।।।
+अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ।। ६.५६.१८ ।।।।
+तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ।। ६.५६.१९ ।।।।
+सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ।। ६.५६.२० ।।।।
+तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः ।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ।। ६.५६.२१ ।।।।
+प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ।। ६.५६.२२ ।।।।
+गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ।। ६.५६.२३ ।।।।
+तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ।। ६.५६.२४ ।।।।
+तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ।। ६.५६.२५ ।।।।
+स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ।। ६.५६.२६ ।।।।
+स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ।। ६.५६.२७ ।।।।
+विरराज महाकायो महावीर्यो महामनाः ।पुष्पिताशोकसङ्काशो विधूम इव पावकः ।। ६.५६.२८ ।।।।
+ततो ऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम् ।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ।। ६.५६.२९ ।।।।
+स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।राक्षशो वानरेन्द्रेण पपात च ममार च ।। ६.५६.३० ।।।।
+तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ६.५६.३१ ।।।।
+त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ६.५६.३२ ।।।।
+ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ।। ६.५६.३३ ।।।।
+अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ।। ६.५६.३४ ।।।।
+तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ६.५६.३५ ।।।।
+सो ऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत् ।हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ।। ६.५६.३६ ।।।।
+विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ।। ६.५६.३७ ।।।।
+स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ।। ६.५६.३८ ।।।।
+अपूजयन् देवगणास्तदा कपिं स्वयं च रामो ऽतिबलश्च लक्ष्मणः ।तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ।। ६.५६.३९ ।।
+अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।। ६.५७.१ ।।।।
+स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ।। ६.५७.२ ।।।।
+तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ।। ६.५७.३ ।।।।
+रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ।। ६.५७.४ ।।।।
+पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ।। ६.५७.५ ।।।।
+अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। ६.५७.६ ।।।।
+स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।। ६.५७.७ ।।।।
+निर्याणादेव ते नूनं चपला हरिवाहिनी ।नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।। ६.५७.८ ।।।।
+चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।। ६.५७.९ ।।।।
+विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह ।अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ।। ६.५७.१० ।।।।
+आपत् संशयिता श्रेयो न तु निस्संशयीकृता ।प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।। ६.५७.११ ।।।।
+रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।। ६.५७.१२ ।।।।
+राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।। ६.५७.१३ ।।।।
+प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।। ६.५७.१४ ।।।।
+सो ऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।। ६.५७.१५ ।।।।
+न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ।। ६.५७.१६ ।।।।
+एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ।। ६.५७.१७ ।।।।
+समानयत मे शीघ्रं राक्षसानां महद्बलम् ।। ६.५७.१८ ।।।।
+मद्बाणशतवेगेन हतानां च रणाजिरे ।अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ।। ६.५७.१९ ।।।।
+इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ।। ६.५७.२० ।।।।
+सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ।। ६.५७.२१ ।।।।
+हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ।। ६.५७.२२ ।।।।
+स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ।। ६.५७.२३ ।।।।
+सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ।। ६.५७.२४ ।।।।
+अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ।। ६.५७.२५ ।।।।
+हयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम् ।महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ।। ६.५७.२६ ।।।।
+उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ।सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ।। ६.५७.२७ ।।।।
+ततस्तं रथमास्थाय रावणार्पितशासनः ।लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ।। ६.५७.२८ ।।।।
+ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।वादित्राणां च निनदः पूरयन्निव सागरम् ।शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ।। ६.५७.२९ ।।।।
+निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ।भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ।। ६.५७.३० ।।।।
+नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ।। ६.५७.३१ ।।।।
+व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ ।गजयूथनिकाशेन बलेन महता वृतः ।। ६.५७.३२ ।।।।
+सागरप्रतिमौघेन वृतस्तेन बलेन सः ।प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ।। ६.५७.३३ ।।।।
+तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ।लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।। ६.५७.३४ ।।।।
+व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।। ६.५७.३५ ।।।।
+वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ।। ६.५७.३६ ।।।।
+अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ।। ६.५७.३७ ।।।।
+मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ।। ६.५७.३८ ।।।।
+केतुमूर्धनि गृध्रो ऽस्य निलीनो दक्षिणामुखः ।तुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ।। ६.५७.३९ ।।।।
+सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ।। ६.५७.४० ।।।।
+निर्याणश्रीश्च या ऽस्यासीद्भास्वरा वसुदुर्लभा ।सा ननाश मुहूर्तेन समे च स्खलिता हयाः ।। ६.५७.४१ ।।।।
+प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।युधि नानाप्रहरणा कप��सेना ऽभ्यवर्तत ।। ६.५७.४२ ।।।।
+अथ घोषः सुतुमुलो हरीणां समजायत ।वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ।। ६.५७.४३ ।।।।
+नदतां राक्षसानां च वानराणां च गर्जताम् ।उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।। ६.५७.४४ ।।।।
+वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।परस्परं चाह्वयतां निनादः श्रूयते महान् ।। ६.५७.४५ ।।।।
+ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ।। ६.५७.४६ ।।
+ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।उवाच सस्मितं रामो विभीषणमरिन्दमः ।। ६.५८.१ ।।।।
+क एष सुमहाकायो बलेन महता वृतः ।आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।। ६.५८.२ ।।।।
+राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।। ६.५८.३ ।।।।
+एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।। ६.५८.४ ।।।।
+ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।। ६.५८.५ ।।।।
+ददर्श महती सेना वानराणां बलीयसाम् ।अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।। ६.५८.६ ।।।।
+खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।। ६.५८.७ ।।।।
+धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।। ६.५८.८ ।।।।
+जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ।शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।। ६.५८.९ ।।।।
+तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।। ६.५८.१० ।।।।
+बहवो राक्षसा युद्धे बहून् वानरयूथपान् ।वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।। ६.५८.११ ।।।।
+शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः ।परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ।। ६.५८.१२ ।।।।
+निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले ।विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ।। ६.५८.१३ ।।।।
+केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ।। ६.५८.१४ ।।।।
+वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।। ६.५८.१५ ।।।।
+वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ।। ६.५८.१६ ।।।।
+आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। ६.५८.१७ ।।।।
+वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।। ६.५८.१८ ।।।।
+नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।। ६.५८.१९ ।।।।
+तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। ६.५८.२० ।।।।
+दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।। ६.५८.२१ ।।।।
+जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।पातयामास तेजस्वी महानादस्य वक्षसि ।। ६.५८.२२ ।।।।
+अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ।। ६.५८.२३ ।।।।
+अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।। ६.५८.२४ ।।।।
+आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।। ६.५८.२५ ।।।।
+महता हि शरौघेण प्रहस्तो युद्धकोविदः ।अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ।। ६.५८.२६ ।।।।
+वानराणां शरीरैश्च राक्षसानां च मेदिनी ।बभूव निचिता घोरा पतितैरिव पर्वतैः ।। ६.५८.२७ ।।।।
+सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ।। ६.५८.२८ ।।।।
+हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।शोणितौघमहातोयां यमसागरगमिनीम् ।। ६.५८.२९ ।।।।
+यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।। ६.५८.३० ।।।।
+गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।। ६.५८.३१ ।।।।
+नदीमिव घनापाये हंससारससेविताम् ।राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।। ६.५८.३२ ।।।।
+यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। ६.५८.३३ ।।।।
+ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ।ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।। ६.५८.३४ ।।।।
+उद्धूत इव वायुः खे महदभ्रबलं बलात् ।समीक्ष्याभि��्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।। ६.५८.३५ ।।।।
+स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ।। ६.५८.३६ ।।।।
+ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।। ६.५८.३७ ।।।।
+नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।स तं परमदुर्धर्षमापतन्तं महाकपिः ।। ६.५८.३८ ।।।।
+प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। ६.५८.३९ ।।।।
+स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः ।ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।। ६.५८.४० ।।।।
+तस्य बाणगणान् घोरान् राक्षसस्य महाबलः ।अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ।। ६.५८.४१ ।।।।
+यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।। ६.५८.४२ ।।।।
+रोषितः शरवर्षेण सालेन महता महान् ।प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।। ६.५८.४३ ।।।।
+ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।बभञ्ज तरसा नीलो ननाद च पुनःपुनः ।। ६.५८.४४ ।।।।
+विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।। ६.५८.४५ ।।।।
+तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।। ६.५८.४६ ।।।।
+उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।। ६.५८.४७ ।।।।
+विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।। ६.५८.४८ ।।।।
+आजघान तदा नीलं ललाटे मुसलेन सः ।प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।। ६.५८.४९ ।।।।
+ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।। ६.५८.५० ।।।।
+तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ६.५८.५१ ।।।।
+तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।। ६.५८.५२ ।।।।
+तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।। ६.५८.५३ ।।।।
+सा तेन कपिमुख्येन विमुक्ता महती शिला ।बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।। ६.५८.५४ ।।।।
+स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।। ६.५८.५५ ।।।।
+प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।। ६.५८.५६ ।।।।
+हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।। ६.५८.५७ ।।।।
+न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।। ६.५८.५८ ।।।।
+हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् ।। ६.५८.५९ ।।।।
+ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ।। ६.५८.६० ।।
+तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।। ६.५९.१ ।।।।
+गत्वा ऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।। ६.५९.२ ।।।।
+सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।। ६.५९.३ ।।।।
+नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।। ६.५९.४ ।।।।
+सो ऽहं रिपुविनाशाय विजयायाविचारयन् ।स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ६.५९.५ ।।।।
+अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ।। ६.५९.६ ।।।।
+स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।। ६.५९.७ ।।।।
+स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।। ६.५९.८ ।।।।
+स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः ।बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।। ६.५९.९ ।।।।
+ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ।। ६.५९.१० ।।।।
+तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ।। ६.५९.११ ।।।���
+नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।। ६.५९.१२ ।।।।
+ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।। ६.५९.१३ ।।।।
+यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।प्रकम्पयन्नागशिरो ऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ।। ६.५९.१४ ।।।।
+यो ऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम् ।करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।। ६.५९.१५ ।।।।
+यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीरः ।विस्फारयंश्चापमतुल्यमानं नाम्ना ऽतिकायो ऽतिविवृद्धकायः ।। ६.५९.१६ ।।।।
+यो ऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।। ६.५९.१७ ।।।।
+यो ऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषो ऽशनितुल्यवेगः ।। ६.५९.१८ ।।।।
+यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् ।वृषेन्द्रमास्थाय गिरिप्रकाशमायाति यो ऽसौ त्रिशिरा यशस्वी ।। ६.५९.१९ ।।।।
+असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ।। ६.५९.२० ।।।।
+यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भो ऽद्भुतघोरकर्मा ।। ६.५९.२१ ।।।।
+यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।रथं समास्थाय विभात्युदग्रो नरान्तको ऽसौ नगशृङ्गयोधी ।। ६.५९.२२ ।।।।
+यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।भूतैर्वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणामपि दर्पहन्ता ।। ६.५९.२३ ।।।।
+यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।। ६.५९.२४ ।।।।
+असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ।। ६.५९.२५ ।।।।
+प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।। ६.५९.२६ ।।।।
+आदि���्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।। ६.५९.२७ ।।।।
+देवदानववीराणां वपुर्नैवंविधं भवेत् ।यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ।। ६.५९.२८ ।।।।
+सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ।। ६.५९.२९ ।।।।
+भाति राक्षसराजो ऽसौ प्रदीप्तैर्भीमविक्रमैः ।भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।। ६.५९.३० ।।।।
+दिष्ट्या ऽयमद्य पापात्मा मम दृष्टिपथं गतः ।अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।। ६.५९.३१ ।।।।
+एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।। ६.५९.३२ ।।।।
+ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।। ६.५९.३३ ।।।।
+इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ।। ६.५९.३४ ।।।।
+विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् ।व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ।। ६.५९.३५ ।।।।
+तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ।। ६.५९.३६ ।।।।
+तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ।। ६.५९.३७ ।।।।
+तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ।। ६.५९.३८ ।।।।
+स तं गृहीत्वा ऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।। ६.५९.३९ ।।।।
+स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ।। ६.५९.४० ।।।।
+स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः ।तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। ६.५९.४१ ।।।।
+ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।। ६.५९.४२ ।।।।
+तेषां ���्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः ।तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।। ६.५९.४३ ।।।।
+ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः ।ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।। ६.५९.४४ ।।।।
+ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।। ६.५९.४५ ।।।।
+ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ।। ६.५९.४६ ।।।।
+काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ।। ६.५९.४७ ।।।।
+तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।। ६.५९.४८ ।।।।
+गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः ।त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।। ६.५९.४९ ।।।।
+तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ।। ६.५९.५० ।।।।
+राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ६.५९.५१ ।।।।
+स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ।। ६.५९.५२ ।।।।
+तमालोक्य महातेजा हनुमान् मारुतात्मजः ।निवार्य शरजालानि प्रदुर्द्राव स रावणम् ।। ६.५९.५३ ।।।।
+रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।। ६.५९.५४ ।।।।
+देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ६.५९.५५ ।।।।
+एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ।। ६.५९.५६ ।।।।
+श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।। ६.५९.५७ ।।।।
+क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ।। ६.५९.५८ ।।।।
+रावणस्य वचः श्रुत्वा वायुसूनुर्वचो ऽब्रवीत् ।प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ।। ६.५९.५९ ।।।।
+एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।आजघानानिलसुतं तलेनोरसि वीर्यवान् ���। ६.५९.६० ।।।।
+स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६.५९.६१ ।।।।
+ततस्तलेनाभिहतो वानरेण महात्मना ।दशग्रीवः समाधूतो यथा भूमिचले ऽचलः ।। ६.५९.६२ ।।तिः ।।।
+सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।। ६.५९.६३ ।।।।
+अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।। ६.५९.६४ ।।।।
+साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः ।रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।। ६.५९.६५ ।।।।
+धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६.५९.६६ ।।।।
+ततो मारुतिवाक्येन क्रोदस्तस्य तदा ऽज्वलत् ।। ६.५९.६७ ।।दानीं दुर्बुद्धे किं विकत्थसे ।संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।। ६.५९.६८ ।।।।
+हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ।। ६.५९.६९ ।।।।
+विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ६.५९.७० ।।।।
+राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।शरैरादीपयामास नीलं हरिचमूपतिम् ।। ६.५९.७१ ।।।।
+स शरौघसमायस्तो नीलः कपिचमूपतिः ।करेणैकेन शेलाग्रं रक्षोधिपतये ऽसृजत् ।। ६.५९.७२ ।।।।
+हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।। ६.५९.७३ ।।।।
+नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ।। ६.५९.७४ ।।।।
+रावणो ऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।। ६.५९.७५ ।।।।
+तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।कालाग्निरिव जज्वाल क्रोधोन परवीरहा ।। ६.५९.७६ ।।।।
+सो ऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ।अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ।। ६.५९.७७ ।।।।
+स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ।अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ।। ६.५९.७८ ।।।।
+अभिवृष्टः शरौघेण मेघेनेव महाचलः ।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।। ६.५९.७९ ।।।।
+पावकात्म���मालोक्य ध्वजाग्रे समुपस्थितम् ।जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ।। ६.५९.८० ।।।।
+ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।लक्ष्मणो ऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।। ६.५९.८१ ।।।।
+रावणो ऽपि महातेजाः कपिलाघवविस्मितः ।अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।। ६.५९.८२ ।।।।
+ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।। ६.५९.८३ ।।।।
+वानराणां च नादेन संरब्धो रावणस्तदा ।सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ।। ६.५९.८४ ।।।।
+आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।ततो ऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।। ६.५९.८५ ।।।।
+कपे लाघवयुक्तो ऽसि मायया परया ऽनया ।जीवितं खलु रक्षस्व यदि शक्तो ऽसि वानर ।। ६.५९.८६ ।।।।
+तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ।। ६.५९.८७ ।।।।
+तथापि त्वां मया युक्तः सायको ऽस्त्रप्रयोजितः ।जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ।। ६.५९.८८ ।।।।
+एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।। ६.५९.८९ ।।।।
+सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।निर्दह्यमानः सहसा निपपात महीतले ।। ६.५९.९० ।।।।
+पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।। ६.५९.९१ ।।।।
+विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।। ६.५९.९२ ।।।।
+आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ।। ६.५९.९३ ।।।।
+तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ।। ६.५९.९४ ।।।।
+स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ।। ६.५९.९५ ।।।।
+दिष्ट्या ऽसि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः ।अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ।। ६.५९.९६ ।।।।
+तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ६.५९.९७ ।।।।
+जानामि वीर्यं तव राक��षसेन्द्र बलं प्रतापं च पराक्रमं च ।अवस्थितो ऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।। ६.५९.९८ ।।।।
+स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् ।तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ।। ६.५९.९९ ।।।।
+तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ।। ६.५९.१०० ।।।।
+स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् ।क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।। ६.५९.१०१ ।।।।
+स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः ।विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ।। ६.५९.१०२ ।।।।
+स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् ।सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ।। ६.५९.१०३ ।।।।
+स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। ६.५९.१०४ ।।।।
+स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।। ६.५९.१०५ ।।।।
+निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः ।स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ।। ६.५९.१०६ ।।।।
+स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। ६.५९.१०७ ।।।।
+स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। ६.५९.१०८ ।।।।
+तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ।। ६.५९.१०९ ।।।।
+स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः ।तं विह्वलन्तं सहसा ऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।। ६.५९.११० ।।।।
+हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ।। ६.५९.१११ ।।।।
+शक्त्या ब्राह्म्या ऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे ।विष्णोरचिन्त्यं स्वं भागमात्मानं ��्रत्यनुस्मरत् ।। ६.५९.११२ ।।।।
+ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घने ऽभवत् ।अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।। ६.५९.११३ ।।।।
+अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ६.५९.११४ ।।।।
+तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।जानुभ्यामपतद्भूमौ चचाल च पपात च ।। ६.५९.११५ ।।।।
+आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ।। ६.५९.११६ ।।।।
+विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ।। ६.५९.११७ ।।।।
+विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ६.५९.११८ ।।।।
+हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ।। ६.५९.११९ ।।।।
+वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।शत्रूणामप्रकम्प्यो ऽपि लघुत्वमगमत् कपेः ।। ६.५९.१२० ।।।।
+तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ।। ६.५९.१२१ ।।।।
+आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।। ६.५९.१२२ ।।।।
+रावणो ऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।आददे निशितान् बाणान् जग्राह च महद्धनुः ।। ६.५९.१२३ ।।।।
+निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।। ६.५९.१२४ ।।।।
+अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् ।मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ।। ६.५९.१२५ ।।।।
+विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरुरोह महाशूरो बलवन्तं महाकपिम् ।। ६.५९.१२६ ।।।।
+रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।। ६.५९.१२७ ।।।।
+ा राघवो वाक्यं वायुपुत्रेण भाषितम् ।तमालोक्य माहतेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।। ६.५९.१२८ ।।।।
+ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ।। ६.५९.१२९ ।।।।
+गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।। ६.५९.१३० ।। ।।।
+तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम् ।क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।। ६.५९.१३१ ।।।।
+यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा ।गमिष्यसि त्वं दश वा दिशो ऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ।। ६.५९.१३२ ।।।।
+यश्चैव शक्त्या ऽभिहतस्त्वया ऽद्य इच्छन् विषादं सहसा ऽभ्युपेतः ।स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ।। ६.५९.१३३ ।।।।
+एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।। ६.५९.१३४ ।।।।
+राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।। ६.५९.१३५ ।।।।
+राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।स्वभावतेजोयुक्तस्य भूयस्तेजो ऽभ्यवर्धत ।। ६.५९.१३६ ।।।।
+ततो रामो महातेजा रावणेन कृतव्रणम् ।दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ।। ६.५९.१३७ ।।।।
+तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।। ६.५९.१३८ ।।।।
+अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।। ६.५९.१३९ ।।।।
+यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।। ६.५९.१४० ।।।।
+तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ।। ६.५९.१४१ ।।।।
+तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।। ६.५९.१४२ ।।।।
+कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वया ऽहम् ।तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ।। ६.५९.१४३ ।।।।
+गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ।। ६.५९.१४४ ।।।।
+स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।। ६.५९.१४५ ।।।।
+तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ।। ६.५९.१४६ ।।।।
+तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।ससागराः सर्षिमहो���ागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ।। ६.५९.१४७ ।।
+स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। ६.६०.१ ।।।।
+मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।अभिभूतो ऽभवद्राजा राघवेण महात्मना ।। ६.६०.२ ।।।।
+ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ।। ६.६०.३ ।।।।
+स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।। ६.६०.४ ।।।।
+सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः ।यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।। ६.६०.५ ।।।।
+इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।। ६.६०.६ ।।।।
+देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।। ६.६०.७ ।।।।
+विदितं मानुषं मन्ये रामं दशरथात्मजम् ।इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ।। ६.६०.८ ।।।।
+उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ।। ६.६०.९ ।।।।
+शप्तो ऽहं वेदवत्या च यदा सा धर्षिता पुरा ।सेयं सीता महाभागा जाता जनकनन्दिनी ।। ६.६०.१० ।।।।
+उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ।। ६.६०.११ ।।।।
+एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ।। ६.६०.१२ ।।।।
+स चाप्रतिमगाम्भीरो देवदानवदर्पहा ।ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।। ६.६०.१३ ।।।।
+स पराजितमात्मानं प्रहस्तं च निषूदितम् ।ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।। ६.६०.१४ ।।।।
+द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ।निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।। ६.६०.१५ ।।।।
+सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ।नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ।। ६.६०.१६ ।।।।
+मन्त्रयित्वा प्रसुप्तो ऽयमितस्तु नवमे ऽहनि ।तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।। ६.६०.१७ ।।।।
+स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् ।वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ।। ६.६०.१८ ।।।।
+एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् ।कुम्भकर्णः सद��� शेते मूढो ग्राम्यसुखे रतः ।। ६.६०.१९ ।।।।
+रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे ।भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।। ६.६०.२० ।।।।
+किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।ईद्दशे व्यसने प्राप्ते यो न साह्याय कल्पते ।। ६.६०.२१ ।।।।
+ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।। ६.६०.२२ ।।।।
+ते रावणसमादिष्टा मांसशोणितभोजनाः ।गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।। ६.६०.२३ ।।।।
+तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ।कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।। ६.६०.२४ ।।।।
+कुम्भकर्णस्य निश्वासादवधूता महाबलाः ।प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ।। ६.६०.२५ ।।।।
+तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ।। ६.६०.२६ ।।।।
+ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ।। ६.६०.२७ ।।।।
+ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ।। ६.६०.२८ ।।।।
+भीमनासापुटं तं तु पातालविपुलाननम् ।शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।। ६.६०.२९ ।।।।
+काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ।ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ।। ६.६०.३० ।।।।
+ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ।। ६.६०.३१ ।।।।
+मृगाणां महिषाणां च वराहाणां च सञ्चयान् ।चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ।। ६.६०.३२ ।।।।
+ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।। ६.६०.३३ ।।।।
+पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः ।लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ।। ६.६०.३४ ।।।।
+दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ।धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ।। ६.६०.३५ ।।।।
+जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ।शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।। ६.६०.३६ ।।।।
+नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ।। ६.६०.३७ ।।।।
+सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ।दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ।। ६.६०.३८ ।।।।
+यदा भृशार्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ।। ६.६०.३९ ।।।।
+तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ।। ६.६०.४० ।।।।
+तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः ।। ६.६०.४१ ।।।।
+ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।। ६.६०.४२ ।।।।
+मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा ।दशराक्षससाहस्रा युगपत् पर्यवादयन् ।। ६.६०.४३ ।।।।
+नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ।अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ।। ६.६०.४४ ।।।।
+यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।। ६.६०.४५ ।।।।
+अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः ।भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।। ६.६०.४६ ।।।।
+निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः ।मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ।। ६.६०.४७ ।।।।
+तेन शब्देन महता लङ्का समभिपूरिता ।सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते ।। ६.६०.४८ ।।।।
+ततः सहस्रं भेरीणां युगपत् समहन्यत ।मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ।। ६.६०.४९ ।।।।
+एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।। ६.६०.५० ।।।।
+तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। ६.६०.५१ ।।।।
+स्ततः क्रुद्धा निशाचराः ।अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।। ६.६०.५२ ।।।।
+उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ।न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।। ६.६०.५३ ।।।।
+अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ।। ६.६०.५४ ।।।।
+रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।। ६.६०.५५ ।।।।
+वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् ।कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ।। ६.६०.५६ ।।।।
+स पात्य���ानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् ।निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।। ६.६०.५७ ।।।।
+स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे ।। ६.६०.५८ ।।।।
+तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् ।ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ।। ६.६०.५९ ।।।।
+स जृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः ।निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ।। ६.६०.६० ।।।।
+रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।तपान्ते सबलाकस्य मेघस्येव विवर्षतः ।। ६.६०.६१ ।।।।
+तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ।। ६.६०.६२ ।।।।
+ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् ।वराहान् महिषांश्चैव स बभक्ष महाबलः ।। ६.६०.६३ ।।।।
+अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।मेदःकुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ।। ६.६०.६४ ।।।।
+ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ।। ६.६०.६५ ।।।।
+निद्राविश ऽदनेत्रस्तु कलुषीकृतलोचनः ।चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। ६.६०.६६ ।।।।
+स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः ।बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ।। ६.६०.६७ ।।।।
+किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ।। ६.६०.६८ ।।।।
+अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ।। ६.६०.६९ ।।।।
+अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।पातयिष्ये महेन्द्रं वा शातयिष्ये तथा ऽनलम् ।। ६.६०.७० ।।।।
+न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ।। ६.६०.७१ ।।।।
+एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ।। ६.६०.७२ ।।।।
+न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन ।मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ।। ६.६०.७३ ।।।।
+न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ।। ६.६०.७४ ।।।।
+वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ��। ६.६०.७५ ।।।।
+एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ।। ६.६०.७६ ।।।।
+स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ।। ६.६०.७७ ।।।।
+यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः ।कृतः स इह रामेण विमुक्तः प्राणसंशयात् ।। ६.६०.७८ ।।।।
+स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ।। ६.६०.७९ ।।।।
+सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ।। ६.६०.८० ।।।।
+राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।। ६.६०.८१ ।।।।
+तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ।। ६.६०.८२ ।।।।
+रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ।। ६.६०.८३ ।।।।
+महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ।। ६.६०.८४ ।।।।
+तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ।। ६.६०.८५ ।।।।
+ततो गत्वा दशग्रीवमासीनं परमासने ।ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः ।। ६.६०.८६ ।।।।
+प्रबुद्धः कुम्भकर्णो ऽयं भ्राता ते राक्षसर्षभ ।कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ।। ६.६०.८७ ।।।।
+रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ।। ६.६०.८८ ।।।।
+तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ।। ६.६०.८९ ।।।।
+द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ।। ६.६०.९० ।।।।
+कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ।। ६.६०.९१ ।।।।
+प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।पिपासुस्त्वरयामास पानं बलसमीरणम् ।। ६.६०.९२ ।।।।
+ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ।। ६.६०.९३ ।।।।
+पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।ईषत्समुत्कटो मत्तस��तेजोबलसमन्वितः ।कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।। ६.६०.९४ ।।।।
+भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६०.९५ ।।।।
+स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः ।जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ।। ६.६०.९६ ।।।।
+तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।दृष्ट्वा ऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ।। ६.६०.९७ ।।।।
+केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ।। ६.६०.९८ ।।।।
+तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ।। ६.६०.९९ ।।
+ततो रामो भहातेजा धनुरादाय वीर्यवान् ।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ।। ६.६१.१ ॥
+तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ।। ६.६१.२ ॥
+दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।। ६.६१.३ ॥
+विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।सविस्मयमिदं रामो विभीषणमुवाच ह ।। ६.६१.४ ॥
+को ऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ।। ६.६१.५ ॥
+पृथिव्याः केतुभूतो ऽसौ महानेको ऽत्र दृश्यते ।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।। ६.६१.६ ॥
+आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वा ऽसुरः ।न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ।। ६.६१.७ ॥
+स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।। ६.६१.८ ॥
+येन वैवस्वतो युद्धे वासवश्च पराजितः ।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।अस्य प्रमाणात् सदृशो राक्षसो ऽन्यो न विद्यते ।। ६.६१.९ ॥
+एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च ।गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ।। ६.६१.१० ॥
+शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।हन्तुं न शेकुस्त्रिदशाः कालो ऽयमिति मोहिताः ।। ६.६१.११ ॥
+प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।। ६.६१.१२ ॥
+एतेन ज��तमात्रेण क्षुधार्तेन महात्मना ।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ।। ६.६१.१३ ॥
+तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ।। ६.६१.१४ ॥
+स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।। ६.६१.१५ ॥
+तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।श्रुत्वा ऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।। ६.६१.१६ ॥
+तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ।। ६.६१.१७ ॥
+कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ।। ६.६१.१८ ॥
+प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।। ६.६१.१९ ॥
+प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ।। ६.६१.२० ॥
+एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।अचिरेणैव कालेन शून्यो लोको भविष्यति ।। ६.६१.२१ ॥
+वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ।। ६.६१.२२ ॥
+कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ।। ६.६१.२३ ॥
+ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ।। ६.६१.२४ ॥
+ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः ।ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ।। ६.६१.२५ ॥
+विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।। ६.६१.२६ ॥
+न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।कालस्तु क्रियतामस्य शयने जागरे तथा ।। ६.६१.२७ ॥
+रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।। ६.६१.२८ ॥
+शयति ह्येष षण्मासानेकाहं जागरिष्यति ।एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ।। ६.६१.२९ ॥
+सो ऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ।। ६.६१.३० ॥
+स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।वानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ।। ६.६१.३१ ॥
+कुम्भकर्णं समीक्ष्यैव हरयो ऽद्य प्रविद्रुताः ।कथमेनं रणे क्रुद्धं वारयिष्यन्ति ��ानराः ।। ६.६१.३२ ॥
+उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ।। ६.६१.३३ ॥
+विभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम् ।उवाच राघवो वाक्यं नीलं सेनापतिं तदा ।। ६.६१.३४ ॥
+गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ।। ६.६१.३५ ॥
+शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर ।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ।। ६.६१.३६ ॥
+राघवेण समादिष्टो नीलो हरिचमूपतिः ।शशास वानरानीकं यथावत् कपिकुञ्जरः ।। ६.६१.३७ ॥
+ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ।। ६.६१.३८ ॥
+रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।पादपैरर्दयन् वीरा वानराः परवाहिनीम् ।। ६.६१.३९ ॥
+ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ।। ६.६१.४० ॥
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकषष्टितमः सर्गः ।। ६१ ।।
+स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ।। ६.६२.१ ।।
+राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ।। ६.६२.२ ।।
+स हेमजालिविततं भानुभास्वरदर्शनम् ।ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।। ६.६२.३ ।।
+स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम् ।ददर्श दूरे ऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ।। ६.६२.४ ।।
+भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६२.५ ।।
+सो ऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ।। ६.६२.६ ।।
+अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।। ६.६२.७ ।।
+अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ।। ६.६२.८ ।।
+उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ।। ६.६२.९ ।।
+कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ।। ६.६२.१० ।।
+किमर्थमहमादृत्य त्वया राजन् विबोधितः ।शंस कस्माद्भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति ।। ६.६२.११ ।।
+भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम् ।ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ।। ६.६२.१२ ।।
+अद्य ते सुमहान् कालः शयानस्य महाबल ।सुखितस्त्वं न जानीषे मम रामकृतं भयम् ।। ६.६२.१३ ।।
+एष दाशरथी रामः सुग्रीवसहितो बली ।समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ।। ६.६२.१४ ।।
+हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।सेतुना सुखमागम्य वानरैकार्णवीकृतम् ।। ६.६२.१५ ।।
+ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।वानराणां क्षयं युद्धे न पश्यामि कदाचन ।। ६.६२.१६ ।।
+न चापि वानरा युद्धे जितपूर्वाः कदाचन ।। ६.६२.१७ ।।
+तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ।। ६.६२.१८ ।।
+सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ।। ६.६२.१९ ।।
+भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।मयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ।। ६.६२.२० ।।
+त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे ।दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।। ६.६२.२१ ।।
+तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम ।न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।। ६.६२.२२ ।।
+कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय ।स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ।। ६.६२.२३ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विषष्टितमः सर्गः ।। ६२ ।।
+तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेदं वचनं प्रजहास च ।। ६.६३.१ ।।
+दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ।। ६.६३.२ ।।
+शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।। ६.६३.३ ।।
+प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।। ६.६३.४ ।।
+यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चापरकार्याणि न स वेद नयानयौ ।। ६.६३.५ ।।
+देशकालविहीनानि कर्माणि विपरीतवत् ।क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६.६३.६ ।।
+त्रयाणां पञ्चध�� योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।। ६.६३.७ ।।
+यथागमं च यो राजा समयं विचिकीर्षति ।बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ।। ६.६३.८ ।।
+धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।। ६.६३.९ ।।
+त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।। ६.६३.१० ।।
+उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।। ६.६३.११ ।।
+काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ।। ६.६३.१२ ।।
+हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ।। ६.६३.१३ ।।
+अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।। ६.६३.१४ ।।
+अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।। ६.६३.१५ ।।
+अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।। ६.६३.१६ ।।
+विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।। ६.६३.१७ ।।
+तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।व्यवहारेण जानीयात् सचिवानुपसंहितान् ।। ६.६३.१८ ।।
+चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ।। ६.६३.१९ ।।
+यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ।। ६.६३.२० ।।
+यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ।। ६.६३.२१ ।।
+तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ।। ६.६३.२२ ।।
+मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ।। ६.६३.२३ ।।
+विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ।। ६.६३.२४ ।।
+अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। ६.६३.२५ ।।
+ममापनयजं दोषं विक्रम��ण समीकुरु ।यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।। ६.६३.२६ ।।
+स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ।। ६.६३.२७ ।।
+तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।। ६.६३.२८ ।।
+अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।। ६.६३.२९ ।।
+अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।। ६.६३.३० ।।
+नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।तमहं नाशयिष्यामि यत्कृते परितप्यसे ।। ६.६३.३१ ।।
+अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। ६.६३.३२ ।।
+सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।। ६.६३.३३ ।।
+अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ।। ६.६३.३४ ।।
+अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।सुखी भव महाबाहो सीता भवतु दुःखिता ।। ६.६३.३५ ।।
+अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।। ६.६३.३६ ।।
+अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।। ६.६३.३७ ।।
+अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
+कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
+अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
+कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
+अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
+यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
+गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
+अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
+नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
+यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
+चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
+मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
+हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
+यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
+अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
+शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
+दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
+नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
+वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
+रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
+तदुक्तमतिकायस्य बलिनो बाहुशालिनः।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ।। ६.६४.१ ।।
+कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।। ६.६४.२ ।।
+न हि राजा न जानीते कुम्भकर्ण नयानयौ।त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ।। ६.६४.३ ।।
+स्थानं वृद्धिं च हानिं च देशकालविभागवित्।आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ।। ६.६४.४ ।।
+यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना।अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ।। ६.६४.५ ।।
+यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ।। ६.६४.६ ।।
+कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्।श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ।। ६.६४.७ ।���
+निश्श्रेयसफलावेव धर्मार्थावितरावपि।अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ।। ६.६४.८ ।।
+एहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते।कर्माण्यपि तु कल्याणि लभते काममास्थितः ।। ६.६४.९ ।।
+तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः।शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ।। ६.६४.१० ।।
+एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।। ६.६४.११ ।।
+येन पूर्वं जनस्थाने बहवो ऽतिबला हताः।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ।। ६.६४.१२ ।।
+ये पुरा निर्जितास्तेन जनस्थाने महौजसः।राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ।। ६.६४.१३ ।।
+तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम्।सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ।। ६.६४.१४ ।।
+ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।कस्तं मृत्युमिवासह्यमासादयितुमर्हति ।। ६.६४.१५ ।।
+संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।एकस्य गमनं तत्र नहि मे रोचते भृशम् ।। ६.६४.१६ ।।
+हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा।निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ।। ६.६४.१७ ।।
+यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ।। ६.६४.१८ ।।
+एवमुक्त्वा तु संरब्धः कुम्भकर्णं महोदरः।उवाच रक्षसां मध्ये रावणं लोकरावणम् ।। ६.६४.१९ ।।
+लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि।यदीच्छसि तदा सीता वशगा ते भविष्यति ।। ६.६४.२० ।।
+दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।रुचिरश्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु ।। ६.६४.२१ ।।
+अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।पञ्च रामवधायैते निर्यान्तीत्यवघोषय ।। ६.६४.२२ ।।
+ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ।। ६.६४.२३ ।।
+अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।ततस्तदभिपत्स्यामो मनसा यत् समीक्षितम् ।। ६.६४.२४ ।।
+वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।विदार्यं स्वतनुं बाणै रामनामाङ्कितैः शितैः ।। ६.६४.२५ ।।
+भक्षितो राघवो ऽस्माभिर्लक्ष्मणश्चेति वादिनः।तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ।। ६.६४.२६ ।।
+ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव।हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ।। ६.६४.२७ ।।
+प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम।भोगांश्च परिवारांश्च कामांश्च वसु दापय ।। ६.६४.२८ ।।
+ततो माल्यानि वासांसि वीराणामनुलेपनम्।पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ।। ६.६४.२९ ।।
+ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते।भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ।। ६.६४.३० ।।
+प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय।धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ।। ६.६४.३१ ।।
+अनयोपधया राजन् भयशोकानुबन्धया।अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ।। ६.६४.३२ ।।
+रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा।नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ।। ६.६४.३३ ।।
+सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता।त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ।। ६.६४.३४ ।।
+एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः।इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ।। ६.६४.३५ ।।
+अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः।यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ।। ६.६४.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्षष्ठितमः सर्गः ।। ६४ ।।
+अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
+कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
+अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
+कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
+अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
+यदि शक्रो यदि यमो यदि पावकमारुतौ ।तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
+गिरिमात्रशरीरस्य शितशूलधरस्य मे ।नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
+अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
+नैव शक्त्या न गदया नासिना निशितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
+यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
+चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
+मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
+हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
+यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
+अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
+शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
+दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
+नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
+वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
+रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
+स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्।अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ।। ६.६५.१ ।।
+सो ऽहं तव भयं घोरं वधात्तस्य दुरात्मनः।रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ।। ६.६५.२ ।।
+गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः।पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ।। ६.६५.३ ।।
+न मर्षयति चात्मानं सम्भावयति नात्मना।अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ।। ६.६५.४ ।।
+विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम्।शृण्वता सादितमिदं त्वद्विधानां महोदर ।। ६.६५.५ ।।
+युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः।राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ।। ६.६५.६ ।।
+राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्।राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ।। ६.६५.७ ।।
+एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये।दुर्नयं भवतामद्य समीकर्तुमिहाहवे ।। ६.६५.८ ।।
+एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः।प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ।। ६.६५.९ ।।
+महोदरो ऽयं रामात्तु परित्रस्तो न संशयः।न हि रोचयते तात युद्धं युद्धविशारद ।। ६.६५.१० ।।
+कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च।गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ।। ६.६५.११ ।।
+तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया।अयं हि कालः सुहृदां राक्षसानामरिन्दम ।। ६.६५.१२ ।।
+तद्गच्छ शूलमादाय पाशहस्त इवान्तकः।वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ।। ६.६५.१३ ।।
+समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः।रामलक्ष्मणोश्चापि हृदये प्रस्फुटिष्यतः ।। ६.६५.१४ ।।
+एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम्।पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ।। ६.६५.१५ ।।
+कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्।बभूव मुदितो राजा शशाङ्क इव निर्मलः ।। ६.६५.१६ ।।
+इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ।। ६.६५.१७ ।।
+राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः।आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ।। ६.६५.१८ ।।
+सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्।इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ।। ६.६५.१९ ।।
+देवदानवगन्धर्वयक्षकिन्नरसूदनम्।रक्तमाल्यं महाधामस्वतश्चोद्गतपावकम् ।। ६.६५.२० ।।
+आदाय निशितं शूलं शत्रुशोणितरञ्जितम्।कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ।। ६.६५.२१ ।।
+गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम।अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान्।कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।। ६.६५.२२ ।।
+सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः।वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ।। ६.६५.२३ ।।
+एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्।तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज।रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ।। ६.६५.२४ ।।
+अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ।। ६.६५.२५ ।।
+अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च।हारं च शशिसङ्काशमाबबन्ध महात्मनः ।। ६.६५.२६ ।।
+दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ।। ६.६५.२७ ।।
+काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः।कुम्भकर्णो बृहत्कर्णः सुहुतो ऽग्निरिवाबभौ ।। ६.६५.२८ ।।
+श्रोणीसूत्रेण महता मेचकेन व्यराजत।अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ।। ६.६५.२९ ।।
+स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा।आभध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः ।। ६.६५.३० ।।
+सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः।त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ।। ६.६५.३१ ।।
+भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम्।प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ।। ६.६५.३२ ।।
+निष्पतन्तं महाकायं महानादं महाबलम्।तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ।। ६.६५.३३ ।।
+शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः।तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ।। ६.६५.३४ ।।
+अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।। ६.६५.३५ ।।
+सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ।। ६.६५.३६ ।।
+स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ।। ६.६५.३७ ।।
+पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ।। ६.६५.३८ ।।
+रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ।। ६.६५.३९ ।।
+बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।। ६.६५.४० ।।
+अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ।। ६.६५.४१ ।।
+धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।। ६.६५.४२ ।।
+सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ।। ६.६५.४३ ।।
+अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ।। ६.६५.४४ ।।
+नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ।। ६.६५.४५ ।।
+पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ।। ६.६५.४६ ।।
+एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। ६.६५.४७ ।।
+तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।। ६.६५.४८ ।।
+उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।ससागरवना चैव वस���धा समकम्पत ।। ६.६५.४९ ।।
+घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ।। ६.६५.५० ।।
+निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ।। ६.६५.५१ ।।
+निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ।। ६.६५.५२ ।।
+अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ।। ६.६५.५३ ।।
+स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ।। ६.६५.५४ ।।
+ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ।। ६.६५.५५ ।।
+तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ।। ६.६५.५६ ।।
+ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ।। ६.६५.५७ ।।
+विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ।। ६.६५.५८ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।।
+स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ।। ६.६६.१ ।।
+स ननाद महानादं समुद्रमभिनादयन्।जनयन्निव निर्घातान् विधमन्निव पर्वतान् ।। ६.६६.२ ।।
+तमवध्यं मधवता यमेन वरुणेन वा।प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ।। ६.६६.३ ।।
+तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत्।नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।। ६.६६.४ ।।
+आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च।क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ।। ६.६६.५ ।।
+साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।नालं युद्धाय वै रक्षो महतीयं बिभीषिका ।। ६.६६.६ ।।
+महतीमुत्थितामेनां राक्षसानां बिभीषिकाम्।विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ।। ६.६६.७ ।।
+कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ।। ६.६६.८ ।।
+ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः।निजघ्नुः परमक्रुद्ध��ः समदा इव कुञ्जराः ।। ६.६६.९ ।।
+प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः।पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ।। ६.६६.१० ।।
+तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः।पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ।। ६.६६.११ ।।
+सो ऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्।ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।। ६.६६.१२ ।।
+लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।। ६.६६.१३ ।।
+लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ।। ६.६६.१४ ।।
+केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः।वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ।। ६.६६.१५ ।।
+सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ।। ६.६६.१६ ।।
+ते स्थलानि तथा निम्नं विषण्णवदना भयात्।ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ।। ६.६६.१७ ।।
+ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः।निषेदुः प्लवगाः केचित् केचिन्नैवावतस्थिरे।तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ।। ६.६६.१८ ।।
+अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः।भग्नानां वो न पश्यामि परिगम्य महीमिमाम्।स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ।। ६.६६.१९ ।।
+निरायुधानां द्रवतामसङ्गगतिपौरुषाः।दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ।। ६.६६.२० ।।
+कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च।क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ।। ६.६६.२१ ।।
+अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ।। ६.६६.२२ ।।
+विकत्थनानि वो यानि तदा वै जनसंसदि।तानि वः क्व नु यातानि सोदग्राणि महान्ति च ।। ६.६६.२३ ।।
+भीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः।मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६.६६.२४ ।।
+शयामहे ऽथ निहताः पृथिव्यामल्पजीविताः।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।। ६.६६.२५ ।।
+सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।। ६.६६.२६ ।।
+न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६.६६.२७ ।।
+पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।एकेन बहवो भग्ना यशो नाशं गमिष्यति ।। ६.६६.२८ ।।
+एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।द्रव��ाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।। ६.६६.२९ ।।
+कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।न स्थानकालो गच्छामो दयितं जीवितं हि नः ।। ६.६६.३० ।।
+एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।भीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ।। ६.६६.३१ ।।
+द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः।सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ।। ६.६६.३२ ।।
+प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ।। ६.६६.३३ ।।
+ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ।। ६.६६.३४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्षष्टितमः सर्गः ।। ६६ ।।
+सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ।। ६.६५.३६ ।।
+स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ।। ६.६५.३७ ।।
+पदातयश्च बहवो महानादा महाबलाः।अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ।। ६.६५.३८ ।।
+रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ।। ६.६५.३९ ।।
+बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ।। ६.६५.४० ।।
+अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।निष्पपात महातेजाः कुम्भकर्णो महाबलः ।। ६.६५.४१ ।।
+धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।। ६.६५.४२ ।।
+सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ।। ६.६५.४३ ।।
+अद्य वानरमुख्यानां तानि यूथानि भागशः।निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ।। ६.६५.४४ ।।
+नापराध्यन्ति मे कामं वानरा वनचारिणः।जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ।। ६.६५.४५ ।।
+पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ।। ६.६५.४६ ।।
+एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। ६.६५.४७ ।।
+तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।बभूवुर्घोररूपाणि निमित्तानि समन्ततः ।। ६.६५.४८ ।।
+उल्काशनियुता मे��ा बभूवुर्गर्दभारुणाः।ससागरवना चैव वसुधा समकम्पत ।। ६.६५.४९ ।।
+घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ।। ६.६५.५० ।।
+निष्पपात च मालेव गृध्रो ऽस्य पथि गच्छतः।प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ।। ६.६५.५१ ।।
+निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखो ऽनिलः ।। ६.६५.५२ ।।
+अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ।। ६.६५.५३ ।।
+स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ।। ६.६५.५४ ।।
+ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ।। ६.६५.५५ ।।
+तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ।। ६.६५.५६ ।।
+ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ।। ६.६५.५७ ।।
+विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ।। ६.६५.५८ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।।
+कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ६.६८.१ ।।
+राजन् स कालसङ्काशः संयुक्तः कालकर्मणा।विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ।। ६.६८.२ ।।
+प्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा।कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ।। ६.६८.३ ।।
+निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु।रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ।। ६.६८.४ ।।
+कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ।। ६.६८.५ ।।
+तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्।रावणः शोकसन्तप्तो मुमोह च पपात च ।। ६.६८.६ ।।
+पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ।त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ।। ६.६८.७ ।।
+भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ।। ६.६८.८ ।।
+ततः कृच्छ्रात् समासाद्य सञ्ज्ञां र���क्षसपुङ्गवः।कुम्भकर्णवधाद्दीनो विललाप स रावणः ।। ६.६८.९ ।।
+हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।त्वं मां विहाय वै दैवाद्यातो ऽसि यमसादनम् ।। ६.६८.१० ।।
+मम शल्यमनुद्धत्य बान्धवानां महाबल।शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ।। ६.६८.११ ।।
+इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः।पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ।। ६.६८.१२ ।।
+कथमेवंविधो वीरो देवदानवदर्पहा।कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ।। ६.६८.१३ ।।
+यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले ।। ६.६८.१४ ।।
+एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः।निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ।। ६.६८.१५ ।।
+ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः।आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ।। ६.६८.१६ ।।
+राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ।। ६.६८.१७ ।।
+यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ।। ६.६८.१८ ।।
+अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।नहि भ्रातऽन् समुत्सृज्य क्षणं जीवितुमुत्सहे ।। ६.६८.१९ ।।
+देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ।। ६.६८.२० ।।
+तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।यदज्ञानान्मया तस्य न गृहीतं महात्मनः ।। ६.६८.२१ ।।
+विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः।विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः ।। ६.६८.२२ ।।
+तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ।। ६.६८.२३ ।।
+इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्।न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ।। ६.६८.२४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः ।। ६८ ।।
+एवं विलपमानस्य रावणस्य दुरात्मनः।श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ।। ६.६९.१ ।।
+एवमेव महावीर्यो हतो नस्तातमध्यमः।न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ।। ६.६९.२ ।।
+नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो।स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ।। ६.६९.३ ।।
+ब्रह्मदत्ता ऽस्ति ते शक्तिः कवचः सायको धनुः।सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ।। ६.६९.४ ।।
+त्वया ऽसकृद्विशस्त्रेण विशस्ता देवदानवाः।स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ।। ६.६९.५ ।।
+कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम्।उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ।। ६.६९.६ ।।
+शम्बरो देवराजेन नरको विष्णुना यथा।तथा ऽद्य शयिता रामो मया युधि निपातितः ।। ६.६९.७ ।।
+श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।पुनर्जातमिवात्मानं मन्यते कालचोदितः ।। ६.६९.८ ।।
+श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ।। ६.६९.९ ।।
+ततो ऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः।रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।। ६.६९.१० ।।
+अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः।सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ।। ६.६९.११ ।।
+सर्वे सुबलसम्पन्नाः सर्वे विकीर्णकीर्तयः।सर्वे समरमासाद्य न श्रूयन्ते पराजिताः।देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ।। ६.६९.१२ ।।
+सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः।सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ।। ६.६९.१३ ।।
+स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः।रराज राजा मघवान् यथा ऽमरैर्वृतो महादानवदर्पनाशनैः ।। ६.६९.१४ ।।
+स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः।आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ।। ६.६९.१५ ।।
+युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः।रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ।। ६.६९.१६ ।।
+ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम्।कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ।। ६.६९.१७ ।।
+सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ।। ६.६९.१८ ।।
+त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ।। ६.६९.१९ ।।
+ततः सुदर्शनं नाम नीलजीमूतसन्निभम्।ऐरावतकुले जातमारुरोह महोदरः ।। ६.६९.२० ।।
+सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम्।रराज गजमास्थाय सवितेवास्तमूर्धनि ।। ६.६९.२१ ।।
+हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ।। ६.६९.२२ ।।
+त्रिशिरा रथमास्थाय विरराज धनुर्धरः।सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ।। ६.६९.२३ ।।
+त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे।हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ।। ६.६९.२४ ।।
+अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा।आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ।। ६.६९.२५ ।।
+सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्।तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ।। ६.६९.२६ ।।
+स काञ्चनविचित्रेण मुकुटेन विराजता।भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ।। ६.६९.२७ ।।
+स रराज रथे तस्मिन् राजसूनुर्महाबलः।वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ।। ६.६९.२८ ।।
+हयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम्।मनोजवं महाकायमारुरोह नरान्तकः ।। ६.६९.२९ ।।
+गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः।शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ।। ६.६९.३० ।।
+देवान्तकः समादाय परिघं वज्रभूषणम्।परिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ।। ६.६९.३१ ।।
+महापार्श्वो महाकायो गदामादाय वीर्यवान्।विरराज गदापाणिः कुबेर इव संयुगे ।। ६.६९.३२ ।।
+प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः।सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ।। ६.६९.३३ ।।
+तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः।अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ।। ६.६९.३४ ।।
+ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः।किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ।। ६.६९.३५ ।।
+प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता।शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ।। ६.६९.३६ ।।
+मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।। ६.६९.३७ ।।
+इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ।। ६.६९.३८ ।।
+जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्।जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ।। ६.६९.३९ ।।
+क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा।रक्षसां सिंहनादैश्च पुस्फोटेव तदा ऽम्बरम् ।। ६.६९.४० ।।
+ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः।ददृशुर्वानरानीकं समुद्यतशिलानगम् ।। ६.६९.४१ ।।
+हरयो ऽपि महात्मानो ददृशुर्नैर्ऋतं बलम्।हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ।। ६.६९.४२ ।।
+नीलजीमूतसङ्काशं समुद्यतमहायुधम्।दीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ।। ६.६९.४३ ।।
+तद् दृष्ट्वा बलमायान्तं लब्धलक्��ाः प्लवङ्गमाः।समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः।अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ।। ६.६९.४४ ।।
+ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्।अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ।। ६.६९.४५ ।।
+ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ।। ६.६९.४६ ।।
+केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः।रक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ।। ६.६९.४७ ।।
+द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.४८ ।।
+ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्।बाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ।। ६.६९.४९ ।।
+सिंहनादान् विनेदुश्च रणे वानरराक्षसाः।शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ।। ६.६९.५० ।।
+निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।केचिद्रथगतान् वीरान् गजवाजिगतानपि ।। ६.६९.५१ ।।
+निजघ्नुः सहसा ऽ ऽप्लुत्य यातुधानान् प्लवङ्गमाः।शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ।। ६.६९.५२ ।।
+चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः।राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ।। ६.६९.५३ ।।
+शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः।अन्योन्यं पातयामासुः परस्परजयैषिणः ।। ६.६९.५४ ।।
+रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः।ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।। ६.६९.५५ ।।
+मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता।विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः।आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ।। ६.६९.५६ ।।
+आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः।पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ।। ६.६९.५७ ।।
+वानरान् वानरैरेव जघ्नुस्ते रजनीचराः।राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ।। ६.६९.५८ ।।
+आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्।तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।। ६.६९.५९ ।।
+निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम्।सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ।। ६.६९.६० ।।
+छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ।। ६.६९.६१ ।।
+रथेन च रथं चापि वारणेनैव वारणम् ।। ६.६९.६२ ।।
+हयेन च ह��ं केचिन्निजघ्नुर्वानरा रणे।प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ।। ६.६९.६३ ।।
+हरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः।तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.६४ ।।
+क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ।। ६.६९.६५ ।।
+विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे।हतैश्च कपिरक्षोबिर्दुर्गमा वसुधा ऽभवत् ।। ६.६९.६६ ।।
+ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य।युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ।। ६.६९.६७ ।।
+तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु।निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ।। ६.६९.६८ ।।
+ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य।नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ।। ६.६९.६९ ।।
+स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद।एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ।। ६.६९.७० ।।
+ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्।चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ।। ६.६९.७१ ।।
+स तस्य ददृशो मार्गो मांसशोणितकर्दमः।पतितैः पर्वताकारैर्वानरैरभिसंवृतः ।। ६.६९.७२ ।।
+यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः।तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ।। ६.६९.७३ ।।
+ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः।ददाह हरिसैन्यानि वनानीव विभावसुः ।। ६.६९.७४ ।।
+यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः।तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ।। ६.६९.७५ ।।
+दिक्षु सर्वासु बलवान् विचचार नरान्तकः।प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथा ऽनिलः ।। ६.६९.७६ ।।
+न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्।उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ।। ६.६९.७७ ।।
+एकेनान्तककल्पेन प्रासेनादित्यतेजसा।भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ।। ६.६९.७८ ।।
+वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ।। ६.६९.७९ ।।
+पततां हरिवीराणां रूपाणि प्रचकाशिरे।वज्रभिन्नाग्रकूटानां शैलानां पततामिव ।। ६.६९.८० ।।
+ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।ते स��वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ।। ६.६९.८१ ।।
+विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्।नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ।। ६.६९.८२ ।।
+विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ।। ६.६९.८३ ।।
+अथोवाच महातेजाः सुग्रीवो वानराधिपः।कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ।। ६.६९.८४ ।।
+गच्छ त्वं राक्षसं वीरो यो ऽसौ तुरगमास्थितः।क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ।। ६.६९.८५ ।।
+स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः।अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ।। ६.६९.८६ ।।
+शैलसङ्घातसङ्काशो हरीणामुत्तमो ऽङ्गदः।रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ।। ६.६९.८७ ।।
+निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।नरान्तकमभिक्रम्य वालिपुत्रो ऽब्रवीद्वचः ।। ६.६९.८८ ।।
+तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।अस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ।। ६.६९.८९ ।।
+अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ।। ६.६९.९० ।।
+अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ।। ६.६९.९१ ।।
+प्रासं समाविध्य तदा ऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज।स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ।। ६.६९.९२ ।।
+तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्।तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ।। ६.६९.९३ ।।
+निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वो ऽचलसन्निकाशः।स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ।। ६.६९.९४ ।।
+नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य।स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ।। ६.६९.९५ ।।
+अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्।मुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ।। ६.६९.९६ ।।
+अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ।। ६.६९.९७ ।।
+स मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः।नरान्तको भूमितले पपात यथा ऽचलो वज्रनिपातभग्नः ।। ६.६९.९८ ।।
+अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः।बभूव तस्मिन्निहते ऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ।। ६.६९.९९ ।।
+अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम्।विसिष्मिये सो ऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ।। ६.६९.१०० ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।।
+नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।। ६.७०.१ ।।
+आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः।वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ।। ६.७०.२ ।।
+भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली।आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ।। ६.७०.३ ।।
+रथमादित्यसङ्काशं युक्तं परमवाजिभिः।आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ।। ६.७०.४ ।।
+स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः।वृक्षमुत्पाटयामास महाविटपमङ्गदः ।। ६.७०.५ ।।
+देवान्तकाय तं वीरश्चिक्षेप सहसा ऽङ्गदः।महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ।। ६.७०.६ ।।
+त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।स वृक्षं कृत्तमालोक्य उत्पपात तदा ऽङ्गदः ।। ६.७०.७ ।।
+स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः।तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ।। ६.७०.८ ।।
+परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः।त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ।। ६.७०.९ ।।
+गजेन समभिद्रुत्य वालिपुत्रं महोदरः।जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ।। ६.७०.१० ।।
+देवान्तकश्च सङ्क्रुद्धः परिघेण तदा ऽङ्गदम्।उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ।। ६.७०.११ ।।
+स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ।। ६.७०.१२ ।।
+स वेगवान् महावेगं कृत्वा परमदुर्जयः।तलेन भृशमुत्पत्य जघानास्य महागजम् ।। ६.७०.१३ ।।
+तस्य तेन प्रहारेण नागराजस्य संयुगे।पेततुर्लोचने तस्य विननाद स वारणः ।। ६.७०.१४ ।।
+विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।देवान्तकमभिप्लुत्य ताडयामास संयुगे ।। ६.७०.१५ ।।
+स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः।लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ।। ६.७०.१६ ।।
+अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली।आविध्य परिघं घोरमाजघान तदा ऽङ्गदम् ।। ६.७०.१७ ।।
+परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ।। ६.७०.१८ ।।
+तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।घोरैर्हरिपतेः पुत्रं ललाटे ऽभिजघान ह ।। ६.७०.१९ ।।
+ततो ऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ।। ६.७०.२० ।।
+ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा।तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ।। ६.७०.२१ ।।
+तद्बाणशतनिर्भिन्नं विदारितशिलातलम्।सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः ।। ६.७०.२२ ।।
+ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा।परिघेणाभिदुद्राव मारुतात्मजमाहवे ।। ६.७०.२३ ।।
+तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः।आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ।। ६.७०.२४ ।।
+शिरसि प्रहरन् वीरस्तदा वायुसुतो बली।नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ।। ६.७०.२५ ।।
+स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः।देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ।। ६.७०.२६ ।।
+तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ।क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ।। ६.७०.२७ ।।
+महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्।भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ।। ६.७०.२८ ।।
+ततो बाणमयं वर्षं नीलस्योरस्यपातयत्।गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ।। ६.७०.२९ ।।
+ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः।नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ।। ६.७०.३० ।।
+ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्।ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ।। ६.७०.३१ ।।
+ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन।विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथा ऽद्रिः ।। ६.७०.३२ ।।
+पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ।। ६.७०.३३ ।।
+स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ।। ६.७०.३४ ।।
+तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः।विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ।। ६.७०.३५ ।।
+तमापन्तमाकाशे द्रुमवर्षं प्रतापवान्।त्���िशिरा निसितैर्बाणैश्चिच्छेद च ननाद च ।। ६.७०.३६ ।।
+ततो हनूमानुत्प्लुत्य हयांत्रिशिरसस्तदा।विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ।। ६.७०.३७ ।।
+अथ शक्तिं समादाय कालरात्रिमिवान्तकः।चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ।। ६.७०.३८ ।।
+दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ।। ६.७०.३९ ।।
+तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता।प्रहृष्टा वानरगणा विनेदुर्जलदा इव ।। ६.७०.४० ।।
+ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ।। ६.७०.४१ ।।
+खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ।। ६.७०.४२ ।।
+स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ।। ६.७०.४३ ।।
+स तस्य पततः खड्गं समाच्छिद्य महाकपिः।ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान् ।। ६.७०.४४ ।।
+अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।उत्पत्य च हमूमन्तं ताडयामास मुष्टिना ।। ६.७०.४५ ।।
+तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः।कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।। ६.७०.४६ ।।
+स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि।क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। ६.७०.४७ ।।
+तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि।पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथा ऽर्कमार्गात् ।। ६.७०.४८ ।।
+तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण।नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। ६.७०.४९ ।।
+हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ।। ६.७०.५० ।।
+चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ।। ६.७०.५१ ।।
+हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ६.७०.५२ ।।
+तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम्।ऐरावतमहापद्मसार्वभौमभयावहाम् ।। ६.७०.५३ ।।
+गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः।हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ।। ६.७०.५४ ।।
+अथर्षभः समुत्पत्य वानरो रावणानुजम्।मत्त���नीकमुपागम्य तस्थौ तस्याग्रतो बली ।। ६.७०.५५ ।।
+तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।आजघानोरसि क्रुद्धो गदया वज्रकल्पया ।। ६.७०.५६ ।।
+स तया ऽभिहतस्तेन गदया वानरर्षभः।भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु ।। ६.७०.५७ ।।
+स सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः।अबिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६.७०.५८ ।।
+गृहीत्वा तां गदां भीमामाविध्य च पुनःपुनः।मत्तानीकं महात्मानं जघान रणमूर्धनि ।। ६.७०.५९ ।।
+स स्वया गदया भग्नो विशीर्णदशनेक्षणः।निपपात ततो मत्तो वज्राहत इवाचलः ।। ६.७०.६० ।।
+विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ।। ६.७०.६१ ।।
+तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्।त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ।। ६.७०.६२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ततितमः सर्गः ।। ७० ।।
+स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्।भ्रातऽंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ।। ६.७१.१ ।।
+पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ।युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ।। ६.७१.२ ।।
+चुकोप च महातेजा ब्रह्मदत्तवरो युधि।अतिकायो ऽद्रिसङ्काशो देवदानवदर्पहा ।। ६.७१.३ ।।
+स भास्करसहस्रस्य सङ्घातमिव भास्वरम्।रथमास्थाय शक्रारिरभिदुद्राव वानरान् ।। ६.७१.४ ।।
+स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।नाम विश्रावयामास ननाद च महास्वनम् ।। ६.७१.५ ।।
+तेन सिंहप्रणादेन नामविश्रावणेन च।ज्याशब्देन च भीमेन त्रासयामास वानरान् ।। ६.७१.६ ।।
+ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो ऽयमुत्थितः।भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ।। ६.७१.७ ।।
+ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ।। ६.७१.८ ।।
+ते ऽतिकायं समासाद्य वानरा मूढचेतसः।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।। ६.७१.९ ।।
+ततो ऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ।। ६.७१.१० ।।
+स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये।वानरान् सान्त्वयित्वा ऽथ विभीषणमुवाच ह ।। ६.७१.११ ।।
+को ऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः।युक्ते हयसहस्रेण वि��ाले स्यन्दने स्थितः ।। ६.७१.१२ ।।
+य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ।। ६.७१.१३ ।।
+कालजिह्वाप्रकाशाभिर्य एषो ऽतिविराजते।आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ।। ६.७१.१४ ।।
+धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः।शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ।। ६.७१.१५ ।।
+क एष रक्षश्शार्दूलो रणभूमिं विराजयन्।अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।। ६.७१.१६ ।।
+ध्वजशृङ्गप्रतिष्ठेन राहुणा ऽभिविराजते।सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ।। ६.७१.१७ ।।
+त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम्।शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ।। ६.७१.१८ ।।
+सध्वजः सपताकश्च सानुकर्षो महारथः।चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ।। ६.७१.१९ ।।
+विंशतिर्दश चाष्टौ च तूण्यो ऽस्य रथमास्थिताः।कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ।। ६.७१.२० ।।
+द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ।चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ।। ६.७१.२१ ।।
+रक्तकण्ठगुणो धीरो महापर्वतसन्निभः।कालः कालमहावक्त्रो मेघस्थ इव भास्करः ।। ६.७१.२२ ।।
+काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ।। ६.७१.२३ ।।
+कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ।। ६.७१.२४ ।।
+आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ।। ६.७१.२५ ।।
+स पृष्टो राजपुत्रेण रामेणामिततेजसा।आचचक्षे महातेजा राघवाय विभीषणः ।। ६.७१.२६ ।।
+दशग्रीवो महातेजा राजा वैश्रवणानुजः।भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ।। ६.७१.२७ ।।
+तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे।वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ।। ६.७१.२८ ।।
+अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ।। ६.७१.२९ ।।
+यस्य बाहू समाश्रित्य लङ्का वसति निर्भया।तनयं धान्यमालिन्या अतिकायमिमं विदुः ।। ६.७१.३० ।।
+एतेनाराधितो ब्रह्मा तपसा भावितात्मना।अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ।। ६.७१.३१ ।।
+सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।एतच्च कवचं दिव्यं रथश्चैषो ऽर्कभास्वरः ।। ६.७१.३२ ।।
+एतेन शतशो देवा दानवाश्च पराजिताः।रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ।। ६.७१.३३ ।।
+वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।पाशः सलिलराजस्य रणे प्रतिहतस्तथा ।। ६.७१.३४ ।।
+एषो ऽतिकायो बलवान् राक्षसानामथर्षभः।रावणस्य सुतो धीमान् देवदानवदर्पहा ।। ६.७१.३५ ।।
+तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।पुरा वानरसैन्यानि क्षयं नयति सायकैः ।। ६.७१.३६ ।।
+ततो ऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।विस्फारयामास धनुर्ननाद च पुनःपुनः ।। ६.७१.३७ ।।
+तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ।। ६.७१.३८ ।।
+कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ।। ६.७१.३९ ।।
+तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ।। ६.७१.४० ।।
+तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ।। ६.७१.४१ ।।
+ते ऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः।न शेकुरतिकायस्य प्रतिकर्तुं महारणे ।। ६.७१.४२ ।।
+तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ।। ६.७१.४३ ।।
+स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्।उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ।। ६.७१.४४ ।।
+रथे स्थितो ऽहं शरचापपाणिर्न प्राकृतं कञ्चन योधयामि।यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ।। ६.७१.४५ ।।
+तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ।। ६.७१.४६ ।।
+क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ।। ६.७१.४७ ।।
+पूरयन् स महीं शैलानाकाशं सागरं दिशः।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ।। ६.७१.४८ ।।
+सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ।। ६.७१.४९ ।।
+अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।आदाय निशितं बाणमिदं वचनमब्रवीत् ।। ६.७१.५० ।।
+बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ।। ६.७१.���१ ।।
+नहि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।सोढुमुत्सहते वेगमन्तरिक्षमथो मही ।। ६.७१.५२ ।।
+सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि।न्यस्यचापं निवर्तस्व मा प्राणान् जहि मद्गतः ।। ६.७१.५३ ।।
+अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ।। ६.७१.५४ ।।
+पश्य मे निशितान् बाणानरिदर्पनिषूदनान्।ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ।। ६.७१.५५ ।।
+एष ते सर्पसङ्काशो बाणः पास्यति शोणितम्।मृगराज इव क्रुद्धो नागराजस्य शोणितम्।इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ।। ६.७१.५६ ।।
+श्रुत्वा ऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः।स सञ्चुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ।। ६.७१.५७ ।।
+न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति।मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ।। ६.७१.५८ ।।
+कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ।। ६.७१.५९ ।।
+सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ।। ६.७१.६० ।।
+ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ।। ६.७१.६१ ।।
+अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। ६.७१.६२ ।।
+अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा।उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ।। ६.७२.१ ।।
+धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः।अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ।। ६.७२.२ ।।
+एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।जेतारः परसैन्यानां परैर्नित्यापराजिताः ।। ६.७२.३ ।।
+निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा।राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।अन्ये च बहवः शूरा महात्मानो निपातिताः ।। ६.७२.४ ।।
+प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम।यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ।। ६.७२.५ ।।
+यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः।मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ।। ६.७२.६ ।।
+तन्न जाने प्रभावैर्वा मायया मोहनेन वा।शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ।। ६.७२.७ ।।
+ये योधा निर्गताः शूरा राक्षसा मम शासनात्।ते सर���वे निहता युद्धे वानरैः सुमहाबलैः ।। ६.७२.८ ।।
+तं न पश्याम्यहं युद्धे यो ऽद्य रामं सलक्ष्मणम्।शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ।। ६.७२.९ ।।
+अहो नु बलवान् रामो महदस्त्रबलं च वै।यस्य विक्रममासाद्य राक्षसा निधनं गताः ।। ६.७२.१० ।।
+तं मन्ये राघवं वीरं नारायणमनामयम्।तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ।। ६.७२.११ ।।
+अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ।। ६.७२.१२ ।।
+अशोकवनिकायां च यत्र सीता ऽभिरक्ष्यते।निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ।। ६.७२.१३ ।।
+यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः।सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ।। ६.७२.१४ ।।
+द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।प्रदोषे वा ऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ।। ६.७२.१५ ।।
+नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ।। ६.७२.१६ ।।
+ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ।। ६.७२.१७ ।।
+स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः।मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।। ६.७२.१८ ।।
+ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः।तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ।। ६.७२.१९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ।। ७२ ।।
+ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान्।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ।। ६.७३.१ ।।
+ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ।। ६.७३.२ ।।
+ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्।रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ।। ६.७३.३ ।।
+न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र।नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ।। ६.७३.४ ।।
+पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्।गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ।। ६.७३.५ ।।
+इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्।अद्यै�� रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ।। ६.७३.६ ।।
+अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ।। ६.७३.७ ।।
+स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।। ६.७३.८ ।।
+तमास्थाय महातेजा रथं हरिरथोपमम्।जगाम सहसा तत्र यत्र युद्धमरिन्दमः ।। ६.७३.९ ।।
+तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।संहर्षमाणा बहवो धनुःप्रवरपाणयः ।। ६.७३.१० ।।
+गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः।प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ।। ६.७३.११ ।।
+स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ।। ६.७३.१२ ।।
+स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ।। ६.७३.१३ ।।
+अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ।। ६.७३.१४ ।।
+ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ।। ६.७३.१५ ।।
+स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः।स्थापयामास रक्षांसि रथं प्रति समन्ततः ।। ६.७३.१६ ।।
+ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ।। ६.७३.१७ ।।
+स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ।। ६.७३.१८ ।।
+शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.७३.१९ ।।
+स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।। ६.७३.२० ।।
+सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ।। ६.७३.२१ ।।
+प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ।। ६.७३.२२ ।।
+सो ऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ।। ६.७३.२३ ।।
+तस्मिन्नाहूयमाने ऽस्त्रे हूयमाने च पावके।सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ।। ६.७३.२४ ।।
+स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः।सचापबाणासिरथाश्वसूतः ख��� ऽन्तर्दधेत्मानमचिन्त्यरूपः ।। ६.७३.२५ ।।
+ततो हयरथाकीर्णं पताकाध्वजशोभितम्।निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ।। ६.७३.२६ ।।
+ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः।तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ।। ६.७३.२७ ।।
+रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान्।हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ।। ६.७३.२८ ।।
+ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः।अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ।। ६.७३.२९ ।।
+स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ।। ६.७३.३० ।।
+ते वध्यमानाः समरे वानराः पादपायुधाः।अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ।। ६.७३.३१ ।।
+इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः।वानराणां शरीराणि व्यधमद्रावणात्मजः ।। ६.७३.३२ ।।
+शरेणैकेन च हरीन् नव पञ्च च सप्त च।चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ।। ६.७३.३३ ।।
+स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः।वानरान् समरे वीरः प्रममाथ सुदुर्जयः ।। ६.७३.३४ ।।
+ते भिन्नगात्राः समरे वानराः शपपीडिताः।पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ।। ६.७३.३५ ।।
+तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ।। ६.७३.३६ ।।
+ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ।। ६.७३.३७ ।।
+रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।नर्दन्तस्ते ऽभिवृत्तास्तु समरे सशिलायुधाः ।। ६.७३.३८ ।।
+ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः।अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ।। ६.७३.३९ ।।
+तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।व्यपोहत महातेजा रावणिः समितिञ्जयः ।। ६.७३.४० ।।
+ततः पावकसङ्काशैः शरैराशीविषोपमैः।वानराणामनीकानि बिभेद समरे प्रभुः ।। ६.७३.४१ ।।
+अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।विव्याध नवभिश्चैव नलं दूरादवस्थितम् ।। ६.७३.४२ ।।
+सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः।पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ।। ६.७३.४३ ।।
+जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च।सुग्रीवमृषभं चैव सो ऽङ्गदं द्विविदं तथा।घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।। ६.७३.४४ ।।
+अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः।अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ।। ६.७३.४५ ।।
+स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः।वानराणामनीकानि निर्ममन्थ महारणे ।। ६.७३.४६ ।।
+आकुलां वानरीं सेनां शरजालेन मोहिताम्।हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ।। ६.७३.४७ ।।
+पुनरेव महातेजा राक्षसेन्द्रात्मजो बली।संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ।। ६.७३.४८ ।।
+स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथा ऽम्बु ।। ६.७३.४९ ।।
+ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः।रणे निपेतुर्हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ।। ६.७३.५० ।।
+ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु।मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ।। ६.७३.५१ ।।
+ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ।। ६.७३.५२ ।।
+स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ।। ६.७३.५३ ।।
+ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः।ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ।। ६.७३.५४ ।।
+ते ऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ।। ६.७३.५५ ।।
+उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।। ६.७३.५६ ।।
+हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ।। ६.७३.५७ ।।
+मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ।। ६.७३.५८ ।।
+सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।पावकाक्षं नलं चैव कुमुदं चैव वानरम् ।। ६.७३.५९ ।।
+प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ।। ६.७३.६० ।।
+स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ।। ६.७३.६१ ।।
+स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ।। ६.७३.६२ ।।
+असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ।। ६.७३.६३ ।।
+स्वयम्भुवा दत्तवरो महात्मा खमास्थितो ऽन्तर्हितभीमकायः।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।। ६.७३.६४ ।।
+मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च यो ऽस्य।बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ।। ६.७३.६५ ।।
+प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः।एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ।। ६.७३.६६ ।।
+आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो।ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ।। ६.७३.६७ ।।
+ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ।स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ।। ६.७३.६८ ।।
+स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ।। ६.७३.६९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सर्गः ।। ७३ ।।
+तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्।सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ।। ६.७४.१ ।।
+ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।। ६.७४.२ ।।
+मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ।स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ।। ६.७४.३ ।।
+तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्।तन्मानयन्तौ युधि राजपुत्रौ निपातितौ को ऽत्र विषादकालः ।। ६.७४.४ ।।
+ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ।। ६.७४.५ ।।
+एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।यो यो धारयते प्राणांस्तन्तमाश्वासयावहै ।। ६.७४.६ ।।
+तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ।। ६.७४.७ ।।
+भिन्नलाङ्गूलहस���तोरुपादाङ्गुलिशिरोधरैः।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ।। ६.७४.८ ।।
+पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ।। ६.७४.९ ।।
+सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ।। ६.७४.१० ।।
+मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।एतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ।। ६.७४.११ ।।
+सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ।। ६.७४.१२ ।।
+सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।मार्गते जाम्बवन्तं स हनुमान् सविभीषणः ।। ६.७४.१३ ।।
+स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।। ६.७४.१४ ।।
+दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्।कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ।। ६.७४.१५ ।।
+विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ।। ६.७४.१६ ।।
+नैर्ऋतेन्द्र महावीर्य स्वरेण त्वा ऽभिलक्षये।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ।। ६.७४.१७ ।।
+अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऽत।हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ।। ६.७४.१८ ।।
+श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ।। ६.७४.१९ ।।
+नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ।। ६.७४.२० ।।
+विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ।। ६.७४.२१ ।।
+तस्मिन् जीवति वीरे तु हतमप्यहतं बलम्।हनुमत्युज्झितप्राणे जीवन्तो ऽपि वयं हताः ।। ६.७४.२२ ।।
+धरते मारुतिस्तात मारुतप्रतिमो यदि।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ।। ६.७४.२३ ।।
+ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।गृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ।। ६.७४.२४ ।।
+श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ।। ६.७४.२५ ।।
+ततो ऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।। ६.७४.२६ ।।
+आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि।नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।। ६.७४.२७ ।।
+त्वत्पराक्रम���ालो ऽयं नान्यं पश्यामि कञ्चन।ऋक्षवानरवीराणामनीकानि प्रहर्षय।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ।। ६.७४.२८ ।।
+गत्वा परममध्वानमुपर्युपरि सागरम्।हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ।। ६.७४.२९ ।।
+ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ।। ६.७४.३० ।।
+तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ।। ६.७४.३१ ।।
+तस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ।। ६.७४.३२ ।।
+मृतसञ्जीवनीं चैव विशल्यकरणीमपि।सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ।। ६.७४.३३ ।।
+ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ।। ६.७४.३४ ।।
+श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ।। ६.७४.३५ ।।
+स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ।। ६.७४.३६ ।।
+हरिपादविनिर्भग्नो निषसाद स पर्वतः।न शशाक तदा ऽ ऽत्मानं सोढुं भृशनिपीडितः ।। ६.७४.३७ ।।
+तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ।। ६.७४.३८ ।।
+तस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ।। ६.७४.३९ ।।
+सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।लङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ।। ६.७४.४० ।।
+पृथिवीधरसङ्काशो विपीड्य धरणीधरम्।पृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ।। ६.७४.४१ ।।
+आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ।। ६.७४.४२ ।।
+नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ।। ६.७४.४३ ।।
+विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।नानामृगगणाकीर्णं बहुकन्दरशोभितम् ।। ६.७४.४४ ।।
+सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ।। ६.७४.४५ ।।
+पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ।। ६.७४.४६ ।।
+तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ।। ६.७४.४७ ।।
+नमस्कृत्वा ऽथ रामाय मारुतिर्भीमविक्रमः।राघवार्थे परं कर्म समीहतपरन्तपः ।। ६.७४.४८ ।।
+स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य।विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ।। ६.७४.४९ ।।
+स वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च।बाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ।। ६.७४.५० ।।
+स
+तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः।जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ।। ६.७४.५१ ।।
+स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्।समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ।। ६.७४.५२ ।।
+स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि।स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ।। ६.७४.५३ ।।
+आदित्यपथमाश्रित्य जगाम स गतक्लमः।हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ।। ६.७४.५४ ।।
+जवेन महता युक्तो मारुतिर्मारुतो यथा।जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ।। ६.७४.५५ ।।
+स्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा।ददर्श सहसा चापि हिमवन्तं महाकपिः ।। ६.७४.५६ ।।
+नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम्।श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः।शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ।। ६.७४.५७ ।।
+स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ।। ६.७४.५८ ।।
+स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्।हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ।। ६.७४.५९ ।।
+वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च।ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ।। ६.७४.६० ।।
+कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्।सन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।। ६.७४.६१ ।।
+स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः।आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ।। ६.७४.६२ ।।
+स योजनसहस्राणि समतीत्य महाकपिः।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ।। ६.७४.६३ ।।
+महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ।। ६.७४.६४ ।।
+स ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद।अमृष्यमाणो ऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ।। ६.७४.६५ ।।
+किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः।पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ।। ६.७४.६६ ।।
+स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्।विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ।। ६.७४.६७ ।।
+स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्।संस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ।। ६.७४.६८ ।।
+स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य।बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ।। ६.७४.६९ ।।
+स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु।सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ।। ६.७४.७० ।।
+तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद।तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ।। ६.७४.७१ ।।
+ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये।हर्युत्तमेभ्यः शिरसा ऽभिवाद्य विभीषणं तत्र स सस्वजे च ।। ६.७४.७२ ।।
+तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ।। ६.७४.७३ ।।
+सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः।गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ।। ६.७४.७४ ।।
+यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः।तदाप्रभृति मानार्थमाज्ञया रावणस्य च ।। ६.७४.७५ ।।
+ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ।। ६.७४.७६ ।।
+ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः।निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। ६.७४.७७ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुस्सप्ततितमः सर्गः ।। ७४ ।।
+ततो ऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः।अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ।। ६.७५.१ ।।
+यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।नेदानीमुपनिर्हारं रावणो दातुमर्हति ।। ६.७५.२ ।।
+ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः।लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।। ६.७५.३ ।।
+ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे।लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ।। ६.७५.४ ।।
+उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ।। ६.७५.५ ।।
+गोपुराट्टप्रतोलीषु चर्यासु विविधासु च।प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्।तेषां गृहसस्राणि ददाह हुतभुक् तदा ।। ६.७५.६ ।।
+प्रासादाः पर्वताकाराः पतन्ति धरणीतले।अगरुर्दह्यते तत्र वर च हरिचन्दनम् ।। ६.७५.७ ।।
+मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्।क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।। ६.७५.८ ।।
+आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्।नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ।। ६.७५.९ ।।
+गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः।तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।। ६.७५.१० ।।
+खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः।रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।। ६.७५.११ ।।
+मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः।विविधानस्त्रसंयोगानग्निर्दहति तत्र वै ।। ६.७५.१२ ।।
+नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा।आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ।। ६.७५.१३ ।।
+हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्।शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।। ६.७५.१४ ।।
+कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम्।गदाशूलासिहस्तानां खादतां पिबतामपि ।। ६.७५.१५ ।।
+शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह।त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।। ६.७५.१६ ।।
+तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्।अदहत् पावकस्तत्र जज्वाल च पुनःपुनः ।। ६.७५.१७ ।।
+सारवन्ति महार्हाणि गम्भीरगुणवन्ति च।हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।। ६.७५.१८ ।।
+रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः।मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।। ६.७५.१९ ।।
+क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः।नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ।। ६.७५.२० ।।
+ज्वलनेन परीतानि तोरणानि चकाशिरे।विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे ।। ६.७५.२१ ।।
+ज्वलनेन परीतानि निपेतुर्भवनान्यथ।वज्रिवज्रहतानीव शिखराणि महागिरेः ।। ६.७५.२२ ।।
+विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः��त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ।। ६.७५.२३ ।।
+तानि निर्दह्यमानानि दूरतः प्रचकाशिरे।हिमवच्छिखराणीव दीप्तौषधिवनानि च ।। ६.७५.२४ ।।
+हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि।रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।। ६.७५.२५ ।।
+हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।। ६.७५.२६ ।।
+अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतो ऽपसर्पति।भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ।। ६.७५.२७ ।।
+लङ्कायां दह्यमानायां शुशुभे स महार्णवः।छायासंसक्तसलिलो लोहितोद इवार्णवः ।। ६.७५.२८ ।।
+सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।। ६.७५.२९ ।।
+नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।। ६.७५.३० ।।
+प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः।सहसा ऽभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः ।। ६.७५.३१ ।।
+उद्घुष्टं वानराणां च राक्षसानां च निस्वनः।दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ।। ६.७५.३२ ।।
+विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ।असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ।। ६.७५.३३ ।।
+ततो विष्फारयानस्य रामस्य धनुरुत्तमम्।बभूव तुमुलः शब्दो राक्षसानां भयावहः ।। ६.७५.३४ ।।
+अशोभत तदा रामो धनुर्विष्फारयन् महत्।भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।। ६.७५.३५ ।।
+उद्घुष्टं वानराणां च राक्षसानां च निस्वनम्।ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ।। ६.७५.३६ ।।
+वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः।ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।। ६.७५.३७ ।।
+तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्।कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।। ६.७५.३८ ।।
+ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।। ६.७५.३९ ।।
+तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम्।शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।। ६.७५.४० ।।
+आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना।आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ।। ६.७५.४१ ।।
+यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः।स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ।। ६.७५.४२ ।।
+तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ।। ६.७५.४३ ।।
+तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश।रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।। ६.७५.४४ ।।
+स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ।प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।। ६.७५.४५ ।।
+यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ।। ६.७५.४६ ।।
+शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान्।नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च ।। ६.७५.४७ ।।
+ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः ।। ६.७५.४८ ।।
+रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।। ६.७५.४९ ।।
+तत्र ताराधिपस्याभा ताराणां च तथैव च।तयोराभरणस्था च बलयोर्द्यामभासयन् ।। ६.७५.५० ।।
+चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा।हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।। ६.७५.५१ ।।
+तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः।भाभिः संसक्तपातालश्चलोर्मिः शुशुबे ऽधिकम् ।। ६.७५.५२ ।।
+पताकाध्वजसंसक्तमुत्तमासिपरश्वधम्।भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ।। ६.७५.५३ ।।
+दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।। ६.७५.५४ ।।
+ददृशो ज्वलितप्रासं किङ्किणीशतनादितम्।हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ।। ६.७५.५५ ।।
+व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।। ६.७५.५६ ।।
+घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ।। ६.७५.५७ ।।
+तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्।सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ।। ६.७५.५८ ।।
+जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत्।अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ।। ६.७५.५९ ।।
+तेषां भुजपरामर्शव्यामृष्टपरिघाशनि।राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ।। ६.७५.६० ।।
+तत्रोन्मत्ता इवोत्पेतुर्हरयो ऽथ युयुत्सवः।तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ।। ६.७५.६१ ।।
+तथैवापततां तेषां कपीनामसिभिः शितैः।शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः ।। ६.७५.६२ ।।
+दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः।शिलाप्रहारभग्नाङ्गा ��िचेरुस्तत्र राक्षसाः ।। ६.७५.६३ ।।
+तथैवाप्यपरे तेषां कपीनामभिलक्षिताः।प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ।। ६.७५.६४ ।।
+तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ।। ६.७५.६५ ।।
+घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।गर्हमाणं जगर्हे ऽन्यो दशन्तमपरो ऽदशत् ।। ६.७५.६६ ।।
+देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ।। ६.७५.६७ ।।
+विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम्।समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम्।प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।। ६.७५.६८ ।।
+वानरान् दश सप्तेति राक्षसा जघ्नुराहवे।राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ।। ६.७५.६९ ।।
+विस्रस्तकेशवसनं विध्वस्तकवचध्वजम्।बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ।। ६.७५.७० ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चसप्ततितमः सर्गः ।। ७५ ।।
+प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये।अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।। ६.७६.१ ।।
+आहूय सो ऽङ्गदं कोपात् ताडयामास वेगितः।गदया कम्पनः पूर्वं स चचाल भृशाहतः ।। ६.७६.२ ।।
+स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः।अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ।। ६.७६.३ ।।
+ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे।रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ।। ६.७६.४ ।।
+सो ऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः।शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।। ६.७६.५ ।।
+क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः।कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ।। ६.७६.६ ।।
+अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्।धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ।। ६.७६.७ ।।
+शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे।उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ।। ६.७६.८ ।।
+तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली।करेण तस्य तं खड्गं समाच्छिद्य ननाद च ।। ६.७६.९ ।।
+तस्यांसफलके खड्गं निजघान ततो ऽङ्गदः।यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।। ६.७६.१० ।।
+तं प्रगृह्य महाखड्गं विनद्य च पुनःपुनः।वालिपुत्रो ऽभिदुद्राव रणशीर्षे परानरीन् ।। ६.७६.११ ।।
+आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः।शोणिताक्षः समाविध्य तमेवानुपपात ह ।। ६.७६.१२ ।।
+प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली।रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।। ६.७६.१३ ।।
+तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः।विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।। ६.७६.१४ ।।
+अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव च।तस्य तस्थातुरभ्याशे परस्परदिदृक्षया ।। ६.७६.१५ ।।
+अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः।राक्षसा वानरान् रोषादसिचर्मगदाधराः ।। ६.७६.१६ ।।
+त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः।संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ।। ६.७६.१७ ।।
+ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे।खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः ।। ६.७६.१८ ।।
+रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे।शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः ।। ६.७६.१९ ।।
+सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्।बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ।। ६.७६.२० ।।
+उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम्।प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ।। ६.७६.२१ ।।
+तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः।आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।। ६.७६.२२ ।।
+बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना।वालिपुत्रस्य घातेन स पपात क्षितावसिः ।। ६.७६.२३ ।।
+तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम्।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.२४ ।।
+ललाटे स महावीर्यमङ्गदं वानरर्षभम्।आजघान महातेजाः स मुहूर्तं चचाल ह ।। ६.७६.२५ ।।
+स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्।प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ।। ६.७६.२६ ।।
+स यूपाक्षो ऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ।। ६.७६.२७ ।।
+तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्।आजघानोरसि क्रुद्धो जाग्राह च बलाद्बली ।। ६.७६.२८ ।।
+गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः।आजघान गदाग्रेण वक्षसि द्विविदं ततः ।। ६.७६.२९ ।।
+स गदाभिहतस्तेन चचाल च महाबलः।उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ।। ६.७६.३० ।।
+एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः।यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ।। ६.७६.३१ ।।
+तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ।चक्र��तुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ।। ६.७६.३२ ।।
+द्विविदः शोणिताक्षं तु विददार नखैर्मुखे।निष्पिपेष च वगेन क्षितावाविध्य वीर्यवान् ।। ६.७६.३३ ।।
+यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः।पीडयामास बाहुभ्यां स पपात हतः क्षितौ ।। ६.७६.३४ ।।
+हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा।जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।। ६.७६.३५ ।।
+आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ।। ६.७६.३६ ।।
+अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः।निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः।कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ।। ६.७६.३७ ।।
+स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः।मुमोचाशीविषप्रख्यान् शरान् देहविदारणान् ।। ६.७६.३८ ।।
+तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्।विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ।। ६.७६.३९ ।।
+आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा।तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ।। ६.७६.४० ।।
+सहसा ऽभिहतस्तेन विप्रमुक्तपदः स्फुरन्।निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ।। ६.७६.४१ ।।
+मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे।अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ।। ६.७६.४२ ।।
+तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः।बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ।। ६.७६.४३ ।।
+सन्धाय चान्यं सुमुखं शरमासीविषोपमम्।आजघान महातेजा वक्षसि द्विविदाग्रजम् ।। ६.७६.४४ ।।
+स तु तेन प्रहारेण मैन्दो वानरयूथपः।मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ।। ६.७६.४५ ।।
+अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ।अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम् ।। ६.७६.४६ ।।
+तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः।त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ।। ६.७६.४७ ।।
+सो ऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्।अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ।। ६.७६.४८ ।।
+अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते।शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।। ६.७६.४९ ।।
+स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः।कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ।। ६.७६.५० ।।
+आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम्।भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्।तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ।। ६.७६.५१ ।।
+अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।सालमासन्नमेकेन परिजग्राह पाणिना ।। ६.७६.५२ ।।्।सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च।किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ।। ६.७६.५३ ।।।
+तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम्।समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ।। ६.७६.५४ ।।
+स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ।। ६.७६.५५ ।।
+अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च ।। ६.७६.५६ ।।
+अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे।दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन् ।। ६.७६.५७ ।।
+रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे।व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः ।। ६.७६.५८ ।।
+ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्।अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ।। ६.७६.५९ ।।
+ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः।रिरक्षिषन्तो ऽभ्यपतन्नङ्गदं वानरर्षभाः ।। ६.७६.६० ।।
+जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ।। ६.७६.६१ ।।
+समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्।आववार शरौघेण नगेनेव जलाशयम् ।। ६.७६.६२ ।।
+तस्य बाणपथं प्राप्य न शोकुरतिवर्तितुम्।वानरेन्द्रा महात्मानो वेलामिव महोदधिः ।। ६.७६.६३ ।।
+तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान्।अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ।। ६.७६.६४ ।।
+अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे।शैलसानुचरं नागं वेगवानिव केसरी ।। ६.७६.६५ ।।
+उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून्।अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ।। ६.७६.६६ ।।
+तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्।कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ।। ६.७६.६७ ।।
+अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः।आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ।। ६.७६.६८ ।।
+द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्।वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ।। ६.७६.६९ ।।
+निर्भिद्यमानः सहसा सहमानश्च तान् शरान्।कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ।। ६.७६.७० ।।
+अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्।अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ।। ६.७६.७१ ।।
+निक���म्भाग्रज वीर्यं ते बाणवेगवदद्भुतम्।सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ।। ६.७६.७२ ।।
+प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम।एकस्त्वमनुजातो ऽसि पितरं बलवृत्ततः ।। ६.७६.७३ ।।
+त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम्।त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ।। ६.७६.७४ ।।
+विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ।। ६.७६.७५ ।।
+वरदानात् पितृव्यस्ते सहते देवदानवान्।कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ।। ६.७६.७६ ।।
+धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च।त्वमद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः ।। ६.७६.७७ ।।
+महाविमर्दं समरे मया सह तवाद्भुतम्।अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ।। ६.७६.७८ ।।
+कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्।पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ।। ६.७६.७९ ।।
+उपालम्भभयाच्चापि नासि वीर मया हतः।कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ।। ६.७६.८० ।।
+तेन सुग्रीववाक्येन सावमानेन मानितः।अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत।ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ।। ६.७६.८१ ।।
+गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः।अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम्।सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ।। ६.७६.८२ ।।
+तयोः पादाभिघाताच्च निमग्ना चाभवन्मही।व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ।। ६.७६.८३ ।।
+ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि।पातयामास वेगेन दर्शयन्नुदधेस्तलम् ।। ६.७६.८४ ।।
+ततः कुम्भनिपातेन जलराशिः समुत्थितः।विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ।। ६.७६.८५ ।।
+ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च।आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। ६.७६.८६ ।।
+तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम्।स च मुष्टिर्महावेगः प्रतिजघ्ने ऽस्थिमण्डले ।। ६.७६.८७ ।।
+तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः।वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ।। ६.७६.८८ ।।
+स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.८९ ।।
+अर्चिस्सहस्रविकचं रविमण्डलसप्रभम्।स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ।। ६.७६.९० ।।
+स तु तेन प्रहारेण विह्वलो भृशताडितः।निपपात तदा कुम्भो गतार्चिरिव पावकः ।। ६.७६.९१ ।।
+मुष्टिना ऽभिहतस्तेन निपपाताशु राक्षसः।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ।। ६.७६.९२ ।।
+कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना।बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ।। ६.७६.९३ ।।
+तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे।मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ।। ६.७६.९४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्सप्ततितमः सर्गः ।। ७६ ।।
+निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।। ६.७७.१ ।।
+ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम्।आददे परिघं वीरो नगेन्द्रशिखरोपमम् ।। ६.७७.२ ।।
+हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।। ६.७७.३ ।।
+तमाविध्य महातेजाः शक्रध्वजसमं तदा।विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः ।। ६.७७.४ ।।
+उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ।। ६.७७.५ ।।
+निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ।। ६.७७.६ ।।
+परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।प्रजज्वाल सघोषश्च विधूम इव पावकः ।। ६.७७.७ ।।
+नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।सह चैवामरावत्या सर्वैश्च भवनैः सह ।। ६.७७.८ ।।
+सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम्।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्स्थलम् ।। ६.७७.९ ।।
+दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः।कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। ६.७७.१० ।।
+राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ।। ६.७७.११ ।।
+परिघोपमबाहुस्तु परिघं भास्करप्रभम्।बली बलवतस्तस्य पातयामास वक्षसि ।। ६.७७.१२ ।।
+स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ।। ६.७७.१३ ।।
+स तु तेन प्रहारेण विचचाल महाकपिः।परिघेण समाधूतो यथाभूमिचले ऽचलः ।। ६.७७.१४ ।।
+स तदा ऽभिहतस्तेन हनुमान् प्लवगोत्तमः।मुष्टिं संवर्तयामास बलेनातिमहाबलः ।। ६.७७.१५ ।।
+तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ।। ६.७७.१६ ।।
+ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ।। ६.७७.१७ ।।
+स तु तेन प्रहारेण निकुम्भो विचचाल ह।स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ।। ६.७७.१८ ।।
+विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः।निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ।। ६.७७.१९ ।।
+स तदा ह्रियमाणो ऽपि कुम्भकर्णात्मजेन ह।आजघानानिलसुतो वज्रकल्पेन मुष्टिना ।। ६.७७.२० ।।
+आत्मानं मोचयित्वा ऽथ क्षितावभ्यवपद्यत।हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ।। ६.७७.२१ ।।
+निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ।। ६.७७.२२ ।।
+परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।उत्पाटयामास शिरो भैरवं नदतो महत् ।। ६.७७.२३ ।।
+अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्।दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ।। ६.७७.२४ ।।
+व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च।चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ।। ६.७७.२५ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तसप्ततितमः सर्गः ।। ७७ ।।
+निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्।रावणः परमामर्षी प्रजज्वालानलो यथा ।। ६.७८.१ ।।
+नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः।खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ।। ६.७८.२ ।।
+गच्छ पुत्र मया ऽ ऽज्ञप्तो बलेनाभिसमन्वितः।राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ।। ६.७८.३ ।।
+रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः।बाढमित्यब्रवीद्धृष्टो मकाराक्षो निशाचरः ।। ६.७८.४ ।।
+सो ऽबिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्।निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ।। ६.७८.५ ।।
+समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीदिदम्।रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ।। ६.७८.६ ।।
+तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः।स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ।। ६.७८.७ ।।
+प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः।सूतं सञ्चोदयामास शीघ्रं मे रथमावह ।। ६.७८.८ ।।
+अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीदिदम्।यूयं सर्वे प्रयुद्ध्यध्वं पुरस्तान्मम राक्षसाः ।। ६.७८.९ ।।
+अहं राक्षसराजेन रावणेन महात्मना।आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ।। ६.७८.१० ।।
+अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः।शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ।। ६.७८.११ ।।
+अद्य शूलनिपातैश्च वानराणां महाचमूम्।प्रदहिष्यामि सम्प्राप्तः शुष्केन्धनमिवानलः ।। ६.७८.१२ ।।
+मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः।सर्वे नानायुधोपेता बलवन्तः समागताः ।। ६.७८.१३ ।।
+ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः।मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ।। ६.७८.१४ ।।
+परिवार्य महाकाया महाकायं खरात्मजम्।अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ।। ६.७८.१५ ।।
+शङ्खभेरीसहस्राणामाहतानां समन्ततः।क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ।। ६.७८.१६ ।।
+प्रभ्रष्टो ऽथ करात्तस्य प्रतोदः सारथेस्तदा।पपात सहसा चैव ध्वजस्तस्य च रक्षसः ।। ६.७८.१७ ।।
+तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः।चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ।। ६.७८.१८ ।।
+प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः।निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ।। ६.७८.१९ ।।
+तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः।अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ।। ६.७८.२० ।।
+घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः।अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ।। ६.७८.२१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टसप्ततितमः सर्गः ।। ७८ ।।
+निर्गतं मकाराक्षं ते दृष्ट्वा वानरयूथपाः।आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ।। ६.७९.१ ।।
+ततः प्रवृत्तं सुमहत् तद्युद्धं रोमहर्षणम्।निशाचरैः प्लवङ्गानां देवानां दानवैरिव ।। ६.७९.२ ।।
+वृक्षशूलनिपातैश्च शिलापरिघपातनैः।अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ।। ६.७९.३ ।।
+शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः।पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ।। ६.७९.४ ।।
+पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा।कदनं कपिवीराणां चक्रुस्ते रजनीचराः ।। ६.७९.५ ।।
+बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः।सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ।। ६.७९.६ ।।
+तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान्।नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ।। ६.७९.७ ।।
+विद्रवत्सु तदा तेषु वानरेषु समन्ततः।रामस्तान् वारयामास शरवर्षेण राक्षसान् ।। ६.७९.८ ।।
+वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः।क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ।। ६.७९.९ ।।
+तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते।त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ।। ६.७९.१० ।।
+यत्तदा दण्डकारण्ये पितरं हतवान् मम।मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषो ऽभिवर्धते ।। ६.७९.११ ।।
+दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव।यन्मया ऽसि न दृष्टस्त्वं तस्मिन् काले महावने ।। ६.७९.१२ ।।
+दिष्ट्या ऽसि दर्शनं राम मम त्वं प्राप्तवानिह।काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ।। ६.७९.१३ ।।
+अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः।ये त्वया निहता वीराः सह तैश्च समेष्यसि ।। ६.७९.१४ ।।
+बहुना ऽत्र किमुक्तेन शृणु राम वचो मम।पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ।। ६.७९.१५ ।।
+अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे।अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ।। ६.७९.१६ ।।
+मकराक्षवचः क्षुत्वा रामो दशरथात्मजः।अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ।। ६.७९.१७ ।।
+कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु।न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ।। ६.७९.१८ ।।
+चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः।त्रिशिरा दूषणश्चैव दण्डके निहता मया ।। ६.७९.१९ ।।
+स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः।भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ।। ६.७९.२० ।।
+राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः।बाणौघानमुचत्तस्मै राघवाय रणाजिरे ।। ६.७९.२१ ।।
+तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा।निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ।। ६.७९.२२ ।।
+तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा।रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ।। ६.७९.२३ ।।
+जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा।धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ।। ६.७९.२४ ।।
+देवदानवगन्धर्वाः किन्नराश्च महोरगाः।अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ।। ६.७९.२५ ।।
+विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम्।कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ।। ६.७९.२६ ।।
+राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे।रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ।। ६.७९.२७ ।।
+बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा।सञ्छन्ना वसुधा चैव सम���्तान्न प्रकाशते ।। ६.७९.२८ ।।
+ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः।अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।। ६.७९.२९ ।।
+भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्।विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः ।। ६.७९.३० ।।
+तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना।त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ।। ६.७९.३१ ।।
+विभ्राम्य तु महच्छूलं प्रज्वलत्तन्निशाचरः।स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ।। ६.७९.३२ ।।
+तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्।बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ।। ६.७९.३३ ।।
+स च्छिन्नो नैकाधा शूलो दिव्यहाटकमण्डितः।व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ।। ६.७९.३४ ।।
+तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।साधु साध्विति भूतानि व्याहरन्ति नभोगता ।। ६.७९.३५ ।।
+तं दृष्ट्वा निहतं शूलं मकाराक्षो निशाचरः।मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ।। ६.७९.३६ ।।
+स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः।पावकास्त्रं ततो रामः सन्दधे तु शरासने ।। ६.७९.३७ ।।
+तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे।सञ्छिन्नहृदयं तत्र पपात च ममार च ।। ६.७९.३८ ।।
+दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्।लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ।। ६.७९.३९ ।।
+दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्।ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ।। ६.७९.४० ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनाशीतितमः सर्गः ।। ७९ ।।
+मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः।क्रोधेन महता ऽ ऽविष्टो दन्तान् कटकटापयन् ।। ६.८०.१ ।।
+कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ।। ६.८०.२ ।।
+जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ।। ६.८०.३ ।।
+त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।। ६.८०.४ ।।
+तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ।। ६.८०.५ ।।
+जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ।। ६.८०.६ ।।
+शस्���्राणि शरपत्राणि समिधो ऽथ विभीतकाः।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.८०.७ ।।
+सर्वतो ऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।छागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ।। ६.८०.८ ।।
+सकृदेव समिद्धस्य विधूमस्य महार्चिषः।बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ।। ६.८०.९ ।।
+प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः।हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ।। ६.८०.१० ।।
+हुत्वा ऽग्निं तर्पयित्वा च देवदानवराक्षसान्।आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। ६.८०.११ ।।
+स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः।आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ।। ६.८०.१२ ।।
+जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ।। ६.८०.१३ ।।
+जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः।बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ।। ६.८०.१४ ।।
+तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।स बभूव दुराधर्षो रावणिः सुमहाबलः ।। ६.८०.१५ ।।
+सो ऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः।हुत्वा ऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतो ऽब्रवीत् ।। ६.८०.१६ ।।
+अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने।जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ।। ६.८०.१७ ।।
+अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्।करिष्ये परमप्रीतिमित्युक्त्वा ऽन्तरधीयत ।। ६.८०.१८ ।।
+आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः।तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ।। ६.८०.१९ ।।
+स ददर्श महावीर्यो नागौ त्रिशिरसाविव।सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ।। ६.८०.२० ।।
+इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्।सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ।। ६.८०.२१ ।।
+स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ।अचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ।। ६.८०.२२ ।।
+तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ।। ६.८०.२३ ।।
+प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ।। ६.८०.२४ ।।
+स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ।। ६.८०.२५ ।।
+नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ।। ६.८०.२६ ।।
+घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्।स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ।। ६.८०.२७ ।।
+स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्।विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ।। ६.८०.२८ ।।
+तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।हेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ।। ६.८०.२९ ।।
+अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ।। ६.८०.३० ।।
+अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ।तानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ।। ६.८०.३१ ।।
+यतो हि ददृशाते तौ शरान्निपततः शितान्।ततस्तु तौ दाशरथी ससृजाते ऽस्त्रमुत्तमम् ।। ६.८०.३२ ।।
+रावणिस्तु दिशः सर्वा रथेनातिरथः पतन्।विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ।। ६.८०.३३ ।।
+तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः।बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ।। ६.८०.३४ ।।
+नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्।न चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ।। ६.८०.३५ ।।
+तेन विद्धाश्च हरयो निहताश्च गतासवः।बभूवुः शतशस्तत्र पतिता धरणीतले ।। ६.८०.३६ ।।
+लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्।ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। ६.८०.३७ ।।
+तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ।। ६.८०.३८ ।।
+नैकस्य हेतो रक्षांसि पृथिव्यां हन्तु मर्हसि।अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ।। ६.८०.३९ ।।
+अस्यैव तु वधे यत्नं करिष्यावो महाबल।आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ।। ६.८०.४० ।।
+तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ६.८०.४१ ।।
+यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा।एवं निगूढो ऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ।। ६.८०.४२ ।।
+इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः।वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ।। ६.८०.४३ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अशीतितमः सर्गः ।। ८० ।।
+विज्ञाय तु मनस्तस्य राघवस्य महात्मनः।सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः ।। ६.८१.१ ।।
+सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्��िनाम्।क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ।। ६.८१.२ ।।
+स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः।इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ।। ६.८१.३ ।।
+इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ।। ६.८१.४ ।।
+इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः।बलेन महता ऽ ऽवृत्य तस्या वधमरोचयत् ।। ६.८१.५ ।।
+मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः।हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।। ६.८१.६ ।।
+तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः।उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ।। ६.८१.७ ।।
+हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः।प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।। ६.८१.८ ।।
+स ददर्श हतानन्दां सीतामिन्द्रजितो रथे।एकवेणीधरां दीनामुपवासकृशाननाम् ।। ६.८१.९ ।।
+परिक्लिष्टैकवसनाममृजां राघवप्रियाम्।रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।। ६.८१.१० ।।
+तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु।बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ।। ६.८१.११ ।।
+तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्।बाष्पपर्याकुलमुखो हनुमान् व्यथितो ऽभवत् ।। ६.८१.१२ ।।
+अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम्।सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम्।किं समर्थितमस्येति चिन्तयन् स महाकपिः ।। ६.८१.१३ ।।
+सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ।। ६.८१.१४ ।।
+तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ।। ६.८१.१५ ।।
+तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः।क्रोशन्तीं राम रामेति मायया योजितां रथे ।। ६.८१.१६ ।।
+गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः।शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ।। ६.८१.१७ ।।
+तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्।अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ।। ६.८१.१८ ।।
+दुरात्मन्नात्मनाशाय केशपक्षे परामृशः।ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।। ६.८१.१९ ।।
+धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी ।। ६.८१.२० ।।
+नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम।अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ।। ६.८१.२१ ।।
+च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली।किं तवैषा ऽपराद्धा हि यदेनां हन्तुमिच्छसि ।। ६.८१.२२ ।।
+सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन।वधार्ह कर्मणा ऽनेन मम हस्तगतो ह्यसि ।। ६.८१.२३ ।।
+ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः।इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ।। ६.८१.२४ ।।
+इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः।अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ।। ६.८१.२५ ।।
+आपतन्तं महावीर्यं तदनीकं वनौकसाम्।रक्षसां भीमवेगानामनीकं तु न्यवारयत् ।। ६.८१.२६ ।।
+स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ।। ६.८१.२७ ।।
+सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः।तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ।। ६.८१.२८ ।।
+इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर।सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ।। ६.८१.२९ ।।
+न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम।पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ।। ६.८१.३० ।।
+तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा।शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ।। ६.८१.३१ ।।
+यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी।सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना।तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ।। ६.८१.३२ ।।
+मया रामस्य पश्येमां कोपेन च निषूदिताम्।एषा विशस्ता वैदेही विफलो वः परिश्रमः ।। ६.८१.३३ ।।
+ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम्।हृष्टः स रथमास्थाय विननाद महास्वनम् ।। ६.८१.३४ ।।
+वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः।व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च ।। ६.८१.३५ ।।
+तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः।तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ।। ६.८१.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकाशीतितमः सर्गः ।। ८१ ।।
+श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ।। ६.८२.१ ।।
+तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ।। ६.८२.२ ।।
+कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।त्यक्तयुद्धसमुत्साहाः शूरत्��ं क्वनु वो गतम् ।। ६.८२.३ ।।
+पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।। ६.८२.४ ।।
+एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ।। ६.८२.५ ।।
+अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।परिवार्य हनूमन्तमन्वयुश्च महाहवे ।। ६.८२.६ ।।
+स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।। ६.८२.७ ।।
+स राक्षसानां कदनं चकार सुमहाकपिः।वृतो वानरसैन्येन कालान्तकयमोपमः ।। ६.८२.८ ।।
+स तु कोपेन चाविष्टः शोकेन च महाकपिः।हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम् ।। ६.८२.९ ।।
+तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।विधेयाश्वसमायुक्तः सुदूरमपवाहितः ।। ६.८२.१० ।।
+तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ।। ६.८२.११ ।।
+पातितायां शिलायां तु रक्षसां व्यथिता चमूः।निपतन्त्या च शिलया राक्षसा मथिता भृशम् ।। ६.८२.१२ ।।
+तमभ्यधावञ्छतशो नदन्तः काननौकसः ।। ६.८२.१३ ।।
+ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ।। ६.८२.१४ ।।
+वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ।। ६.८२.१५ ।।
+वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ।। ६.८२.१६ ।।
+स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।। ६.८२.१७ ।।
+स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ।। ६.८२.१८ ।।
+शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ।। ६.८२.१९ ।।
+सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ।। ६.८२.२० ।।
+स निवार्य परानीकमब्रवीत्तान् वनौकसः।हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ।। ६.८२.२१ ।।
+त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ।। ६.८२.२२ ।।
+इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ।। ६.८२.२३ ।।
+इत्युक्त्वा वानरश्रेष्ठो वारयन् स��्ववानरान्।शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ।। ६.८२.२४ ।।
+ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ।। ६.८२.२५ ।।
+निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ।। ६.८२.२६ ।।
+यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ।। ६.८२.२७ ।।
+सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः ।। ६.८२.२८ ।।
+अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।। ६.८२.२९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः ।। ८२ ।।
+राघवश्चापि विपुलं तं राक्षसवनौकसाम्।श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ।। ६.८३.१ ।।
+सौम्य नूनं हनुमता क्रियते कर्म दुष्करम्।श्रूयते हि यथा भीमः सुमहानायुधस्वनः ।। ६.८३.२ ।।
+तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ।। ६.८३.३ ।।
+ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः।आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ।। ६.८३.४ ।।
+अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि।वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ।। ६.८३.५ ।।
+दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्।नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ।। ६.८३.६ ।।
+स तेन हरिसैन्येन सन्निकर्षं महायशाः।शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।। ६.८३.७ ।।
+समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः।जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ।। ६.८३.८ ।।
+उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णो ऽहमरिन्दम।तदहं भवतो वृत्तं विज्ञापयितुमागतः ।। ६.८३.९ ।।
+तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।। ६.८३.१० ।।
+तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्।अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।। ६.८३.११ ।।
+असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।प्रदहन्तमनासाद्यं सहसा ऽग्निमिवोच्छिखम् ।। ६.८३.१२ ।।
+तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ।। ६.८३.१३ ।।
+शुभे वर्त्मनि तिष्ठन्तं त्वाम��र्य विजितेन्द्रियम्।अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ।। ६.८३.१४ ।।
+भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।यथा ऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ।। ६.८३.१५ ।।
+यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ।। ६.८३.१६ ।।
+यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्।भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ।। ६.८३.१७ ।।
+तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि।धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ।। ६.८३.१८ ।।
+धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः।यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ।। ६.८३.१९ ।।
+यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः।धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ।। ६.८३.२० ।।
+यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः।क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ।। ६.८३.२१ ।।
+वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।वधकर्म हतो ऽधर्मः स हतः कं वधिष्यति ।। ६.८३.२२ ।।
+अथवा विहितेनायं हन्यते हन्ति वा परम्।विधिरालिप्यते तेन न स पापेन कर्मणा ।। ६.८३.२३ ।।
+अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता।कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ।। ६.८३.२४ ।।
+यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन।त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ।। ६.८३.२५ ।।
+अथवा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते।दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ।। ६.८३.२६ ।।
+बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे।धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ।। ६.८३.२७ ।।
+अथ चेत् सत्यवचनं धर्मः किल परन्तप।अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ।। ६.८३.२८ ।।
+यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप।न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ।। ६.८३.२९ ।।
+अधर्मसंश्रितो धर्मो विनाशयति राघव।सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ।। ६.८३.३० ।।
+मम चेदं मतं तात धर्मो ऽयमिति राघव।धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ।। ६.८३.३१ ।।
+अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ।। ६.८३.३२ ।।
+अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।। ६.८३.३३ ।।
+सो ऽयमर्थं परित्यज्य स��खकामः सुखैधितः।पापमारभते कर्तुं ततो दोषः प्रवर्तते ।। ६.८३.३४ ।।
+यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ।। ६.८३.३५ ।।
+यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ।। ६.८३.३६ ।।
+अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ।। ६.८३.३७ ।।
+यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ।। ६.८३.३८ ।।
+हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ।। ६.८३.३९ ।।
+येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।ते ऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ।। ६.८३.४० ।।
+त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।रक्षसा ऽपहृता भार्या प्राणैः प्रियतरा तव ।। ६.८३.४१ ।।
+तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ।। ६.८३.४२ ।।
+उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत।किमात्मानं महात्मानमात्मानं नावबुध्यसे ।। ६.८३.४३ ।।
+अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः।सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ।। ६.८३.४४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।।
+राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ।। ६.८४.१ ।।
+नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः।नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ।। ६.८४.२ ।।
+सो ऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ।। ६.८४.३ ।।
+राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ।। ६.८४.४ ।।
+व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सो ऽब्रवीत् ।। ६.८४.५ ।।
+विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ।। ६.८४.६ ।।
+हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः।हनुमद्वचनात् सौम्य ततो मोहमुपागतः ।। ६.८४.७ ।।
+कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ।। ६.८४.८ ।।
+मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम् ।। ६.८४.९ ।।
+अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति ।। ६.८४.१० ।।
+याच्यमानस्तु बहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ।। ६.८४.११ ।।
+नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रुष्टुमपि शक्येत नैव चान्येन केनचित् ।। ६.८४.१२ ।।
+वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ।। ६.८४.१३ ।।
+हुतवानुपयातो हि देवैरपि सवासवैः।दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ।। ६.८४.१४ ।।
+तेन मोहयता नूनमेषा माया प्रयोजिता।विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ।। ६.८४.१५ ।।
+ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते।त्यजेमं नरशार्दूल मिथ्यासन्तापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ।। ६.८४.१६ ।।
+इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ।। ६.८४.१७ ।।
+एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति ।। ६.८४.१८ ।।
+तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ।। ६.८४.१९ ।।
+तं सन्दिश महावाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ।। ६.८४.२० ।।
+मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम्।त्वमति सृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ।। ६.८४.२१ ।।
+समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृस्यः समरे सुरासुरैः।युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ।। ६.८४.२२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरशीतितमः सर्गः ।। ८४ ।।
+तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः।नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ।। ६.८५.१ ।।
+ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः।विभीषणमुपासीनमुवाच कपिसन्निधौ ।। ६.८५.२ ।।
+नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण।भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ।। ६.८५.३ ।।
+राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः।यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ।। ६.८५.४ ।।
+यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्।तत्तथा ऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ।। ६.८५.५ ।।
+तान्यनीकानि सर्वाणि विभक्तानि समन्ततः।विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ।। ६.८५.६ ।।
+भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ।। ६.८५.७ ।।
+त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्।त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ।। ६.८५.८ ।।
+तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी।उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ।। ६.८५.९ ।।
+प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः।रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।। ६.८५.१० ।।
+साध्वयं यातु सौमित्रिर्बलेन महता वृतः।निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ।। ६.८५.११ ।।
+धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः।शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ।। ६.८५.१२ ।।
+तेन वीर्येण तपसा वरदानात् स्वयम्भुवः।अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ।। ६.८५.१३ ।।
+स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्।यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ।। ६.८५.१४ ।।
+निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः।त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः।वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ।। ६.८५.१५ ।।
+इत्येवं विहितो राजन् वधस्तस्यैष धीमतः।वधायेन्द्रजितो राम सन्दिशस्व महाबल।हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ।। ६.८५.१६ ।।
+विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ।। ६.८५.१७ ।।
+जानामि तस्य रौद्रस्य मायां सत्यपराक्रम।स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ।। ६.८५.१८ ।।
+तस्यान्तरिक्षे चरतो रथस्थस्य महायशः।न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ।। ६.८५.१९ ।।
+राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः।लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ।। ६.८५.२० ।।
+यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः।हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ।। ६.८५.२१ ।।
+जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः।जहि तं राक्षससुतं मायाबलविशारदम् ।। ६.८५.२२ ।।
+अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः।अभिज्ञस्तस्य देशस्य पृष्ठतो ऽनुगमिष्यति ।। ६.८५.२३ ।।
+राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः।जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।। ६.८५.२४ ।।
+सन्नद्धः कवची खड्गी सशरो हेमचापधृत्।रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ।। ६.८५.२५ ।।
+अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्।लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ।। ६.८५.२६ ।।
+अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः।विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ।। ६.८५.२७ ।।
+स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः।स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ।। ६.८५.२८ ।।
+सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्।निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ।। ६.८५.२९ ।।
+विभीषणेन सहितो राजपुत्रः प्रतापवान्।कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ।। ६.८५.३० ।।
+वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः।विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ।। ६.८५.३१ ।।
+महता हरिसैन्येन सवेगमभिसंवृतः।ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ।। ६.८५.३२ ।।
+स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः।राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ।। ६.८५.३३ ।।
+स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः।तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ।। ६.८५.३४ ।।
+विभीषणेन सहितो राजपुत्रः प्रतापवान्।अङ्गदेन च वीरेण तथा ऽनिलसुतेन च ।। ६.८५.३५ ।।
+विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च।प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ।। ६.८५.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चाशीतितमः सर्गः ।। ८५ ।।
+अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।परेषामहितं वाक्यमर्थसाधकमब्रवीत् ।। ६.८६.१ ।।
+यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ।। ६.८६.२ ।।
+अस्यानीकस्य महतो भेदने यत लक्ष्मण।राक्षसेन्द्रसुतो ऽप्यत्र भिन्ने दृश्यो भविष्यति ।। ६.८६.३ ।।
+स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ।। ६.८६.४ ।।
+जहि वीर दुरात्मानं मायापरमधार्मिकम्।रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ।। ६.८६.५ ।।
+विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ।। ६.८६.६ ।।
+ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः।अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।। ६.८६.७ ।।
+राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ।। ६.८६.८ ।।
+स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्।शब्देन महता लङ्कां नादयन् वै समन्ततः ।। ६.८६.९ ।।
+शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ।। ६.८६.१० ।।
+ते राक्षसा वानरेषु विकृताननबाहवः।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ।। ६.८६.११ ।।
+तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ।। ६.८६.१२ ।।
+ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।रक्षसां वध्यमानानां महद्भयमजायत ।। ६.८६.१३ ।।
+स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ।। ६.८६.१४ ।।
+वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ।। ६.८६.१५ ।।
+स भीमकार्मुकधरः कालमेघसमप्रभः।रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ।। ६.८६.१६ ।।
+दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ।। ६.८६.१७ ।।
+तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्।धरणीधरसङ्काशो महावृक्षमरिन्दमः ।। ६.८६.१८ ।।
+स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ।। ६.८६.१९ ।।
+विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ।। ६.८६.२० ।।
+शितशूलधराः शूलैरसिभिश्चासिपाणयः।शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ।। ६.८६.२१ ।।
+परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः।शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ।। ६.८६.२२ ।।
+घौरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः।मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ।। ६.८६.२३ ।।
+तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ।। ६.८६.२४ ।।टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ।। ६.८६.२५ ।।
+स सारथिमुवाचेदं याहि यत्रैष वानरः।क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ।। ६.८६.२६ ।।
+इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ।। ६.८६.२७ ।।
+सो ऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ।। ६.८६.२८ ।।
+तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।रोषेण महता ऽ ऽविष्टो वाक्यं चेदमुवाच ह ।। ६.८६.२९ ।।
+युद्ध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते।वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ।। ६.८६.३० ।।
+बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ।। ६.८६.३१ ।।
+हनुमन्तं जिघांसन्तं समुद्यतशरासनम्।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ।। ६.८६.३२ ।।
+यः स वासवनिर्जेता रावणस्यात्मसम्भवः।स एष रथमास्थाय हनुमन्तं जिघांसति ।। ६.८६.३३ ।।
+तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ।। ६.८६.३४ ।।
+इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन।ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ।। ६.८६.३५ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडशीतितमः सर्गः ।। ८६ ।।
+एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।धनुष्पाणिनमादाय त्वरमाणो जगाम ह ।। ६.८७.१ ।।
+अविदूरं ततो गत्वा प्रविश्य च महद्वनम्।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ।। ६.८७.२ ।।
+नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्।तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।। ६.८७.३ ।।
+इहोपहारं भूतानां बलवान् रावणात्मजः।उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ।। ६.८७.४ ।।
+अदृश्यः सर्वभूतानां ततो भवति राक्षसः।निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ।। ६.८७.५ ।।
+तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम्।विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ।। ६.८७.६ ।।
+तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ।। ६.८७.७ ।।
+स रथेनाग्निवर्णेन बलवान् रावणात्मजः।इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ।। ६.८७.८ ।।
+तमुवाच महातेजाः पौलस्त्यमपराजितम्।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ।। ६.८७.९ ।।
+एवमुक्तो महातेजा मनस्वी रावणात्मजः।अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ।। ६.८७.१० ।।
+इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ।। ६.८७.११ ।।
+न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ।। ६.८७.१२ ।।
+शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ।। ६.८७.१३ ।।
+नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।क्वच स्वजनसंवासः क्वच नीचपराश्रयः ।। ६.८७.१४ ।।
+गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा।निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ।। ६.८७.१५ ।।
+यः स्वपक्षं परित्यज्य परपक्षं निषेवते।स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ।। ६.८७.१६ ।।
+निरनुक्रोशता चेयं यादृशी ते निशाचर।स्वजनेन त्वया शक्यं परुषं रावणानुज ।। ६.८७.१७ ।।
+इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।। ६.८७.१८ ।।
+अजानन्निव मच्छीलं किं राक्षस विकत्थसे।राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।। ६.८७.१९ ।।
+कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।गुणो ऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ।। ६.८७.२० ।।
+न रमे दारुणेनाहं न चाधर्मेण वै रमे।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ।। ६.८७.२१ ।।
+धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ।। ६.८७.२२ ।।
+हिंसापरस्वहरणे परदाराभिमर्शनम्।त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ।। ६.८७.२३ ।।
+परस्वानां च हरणं परदाराभिमर्शनम्।सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः ।। ६.८७.२४ ।।
+महर्षिणां वधो घोरः सर्वदेवैश्च विग्रहः।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ।। ६.८७.२५ ।।
+एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः।गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः।दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।। ६.८७.२६ ।।
+नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।। ६.८७.२७ ।।्छादयामासुः पर्वतानिव तोयदाः।अतिमानी च बालश्च दुर्विनीतश्च राक्षस।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।। ६.८७.२८ ।।
+अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।। ६.८७.२९ ।।
+धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया।युद्ध्यस्व नरदेवेन लक्ष्मणेन रणे सह।हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ।। ६.८७.३० ।।
+निदर्शयस्���ात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्।न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ।। ६.८७.३१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ताशतीतितमः सर्गः ।। ८७ ।।
+विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह ।। ६.८८.१ ।।
+उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते।कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ।। ६.८८.२ ।।
+महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्।धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ।। ६.८८.३ ।।
+तं ददर्श महेष्वासो रथे सुसमलङ्कृतः।अलङ्कृतममित्रघ्नं राघवस्यानुजं बली।हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ।। ६.८८.४ ।।
+उवाचैनं समारब्धः सौमित्रिं सविभीषणम्।तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् ।। ६.८८.५ ।।
+अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्।मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ।। ६.८८.६ ।।
+अद्य वो मामका बाणा महाकार्मुकनिस्सृताः।विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ।। ६.८८.७ ।।
+तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः।अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ।। ६.८८.८ ।।
+क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि।जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ।। ६.८८.९ ।।
+रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः।शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरस्सरौ ।। ६.८८.१० ।।
+स्मृतिर्न ते ऽस्ति वा मन्ये व्यक्तं वा यमसादनम्।आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ।। ६.८८.११ ।।
+तच्छुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्णस्तदा।अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ।। ६.८८.१२ ।।
+उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।। ६.८८.१३ ।।
+स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते ।। ६.८८.१४ ।।
+अन्तर्धानगतेनाजौ यस्त्वया ऽ ऽचरितस्तदा।तस्कराचरितो मार्गो नैष वीरनिषेवितः ।। ६.८८.१५ ।।
+यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस।दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ।। ६.८८.१६ ।।
+एवमुक्तो धनुर्भीमं परामृश्य महाबलः।ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः ।। ६.८८.१७ ।।
+ते निसृष्टा महावेगाः शराः सर्पविषोपमाः।सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ।। ६.८८.१८ ।।
+शरैरतिमहावेगैर्वेगवान् रावणात्मजः।सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ।। ६.८८.१९ ।।
+स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ।। ६.८८.२० ।।
+इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च।विनद्य सुमहानादमिदं वचनमब्रवीत् ।। ६.८८.२१ ।।
+पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।आदास्यन्ते ऽद्य सौमित्रे जिवितं जिवितान्तगाः ।। ६.८८.२२ ।।
+अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ।। ६.८८.२३ ।।
+क्षत्रबन्धुं सदानार्यं रामः परमादुर्मतिः।भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ।। ६.८८.२४ ।।
+विशस्तकवचं भूमौ व्यपविद्धशरासनम्।हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ।। ६.८८.२५ ।।
+इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्।हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ।। ६.८८.२६ ।।
+वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मा ऽसि राक्षस।अथ कस्माद्वदस्येतत् सम्पादय सुकर्मणा ।। ६.८८.२७ ।।
+अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ।। ६.८८.२८ ।।
+अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवाक्षिपन्।अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम ।। ६.८८.२९ ।।
+इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान्।निजघान महावेगान् लक्ष्मणो राक्षसोरसि ।। ६.८८.३० ।।
+सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ।। ६.८८.३१ ।।
+स शरैराहतस्तेन सरोषो रावणात्मजः।सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ।। ६.८८.३२ ।।
+स बभूव तदा भीमो नरराक्षससिंहयोः।विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ।। ६.८८.३३ ।।
+उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ।। ६.८८.३४ ।।
+उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ।उभौ परमदुर्जेयावतुल्यबलतेजसौ ।। ६.८८.३५ ।।
+युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ।। ६.८८.३६ ।।
+बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ।युयुधाते महात्मानौ तदा केसरिणाविव ।। ६.८८.३७ ।।
+बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ।। ६.८८.३८ ।।
+सुसम्प्रहृष्���ौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ।परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ।। ६.८८.३९ ।।
+अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ।अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ।। ६.८८.४० ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाशीतितमः सर्गः ।। ८८ ।।
+ततः शरं दाशरथिः सन्धायामित्रकर्शनः।ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ।। ६.८९.१ ।।
+तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः।विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ।। ६.८९.२ ।।
+तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्।सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ।। ६.८९.३ ।।
+निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे।त्वर तेन महाबोहो भग्न एष न संशयः ।। ६.८९.४ ।।
+ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान्।मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ।। ६.८९.५ ।।
+शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ।। ६.८९.६ ।।
+उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः।ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।। ६.८९.७ ।।
+सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः।अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ।। ६.८९.८ ।।
+किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ।। ६.८९.९ ।।
+युवां खलु महायुद्धे शक्राशनिसमैः शरैः।शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ ।। ६.८९.१० ।।
+स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ।। ६.८९.११ ।।
+यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।। ६.८९.१२ ।।
+इत्युक्त्वा सप्तभिबाणैरभिविव्याध लक्ष्मणम्।दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।। ६.८९.१३ ।।
+ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ।। ६.८९.१४ ।।
+तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा।अचिन्तयित्वा प्रहसन् नैतत् किञ्चिदिति ब्रुवन्।मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः ।। ६.८९.१५ ।।
+अभीतवदनः क्रुद्धो रावणिं लक्ष्मणौ युधि।नैवं रणगताः शूराः प्रहर���्ते निशाचर ।। ६.८९.१६ ।।न्।लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव।नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ।। ६.८९.१७ ।।
+इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ।। ६.८९.१८ ।।
+तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम्।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ।। ६.८९.१९ ।।
+विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ।। ६.८९.२० ।।
+ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः।बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ।। ६.८९.२१ ।।
+व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च।कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ।। ६.८९.२२ ।।
+अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि।शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ।। ६.८९.२३ ।।
+सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।ततक्षतुर्महात्मानौ रणकर्मविशारदौ ।। ६.८९.२४ ।।
+बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ।तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ।स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ।। ६.८९.२५ ।।
+शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम्।सासारयोरिवाकाशे नीलयोः कालमेघयोः ।। ६.८९.२६ ।।
+तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.२७ ।।
+अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः।शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ।। ६.८९.२८ ।।
+व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ।। ६.८९.२९ ।।
+तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः।प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ।। ६.८९.३० ।।
+स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः।सुघोरयोर्निष्टनतोर्गगने मेगयोर्यथा ।। ६.८९.३१ ।।
+सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ।प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ।। ६.८९.३२ ।।
+ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि।असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ।। ६.८९.३३ ।।
+अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे।बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ।। ६.८९.३४ ।।
+स बभूव रणो घोरस्तयोर्बाणमयश्चयः।अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ।। ६.८९.३५ ।।
+तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ।। ६.८९.३�� ।।
+चक्रुतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः।इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ।। ६.८९.३७ ।।
+लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ।। ६.८९.३८ ।।
+बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ।। ६.८९.३९ ।।
+तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ।। ६.८९.४० ।।
+तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.४१ ।।
+अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य।प्रियहितमुपपादयन् महौजाः समरमुपेत्य विभीषणो ऽवतस्थे ।। ६.८९.४२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोननवतितमः सर्गः ।। ८९ ।।
+युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ।प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ।। ६.९०.१ ।।
+तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली।शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ।। ६.९०.२ ।।
+ततो विस्फारयामास महद्धनुरवस्थितः।उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ।। ६.९०.३ ।।
+ते शराः शिखिसङ्काशा निपतन्तः समाहिताः।राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ।। ६.९०.४ ।।
+विभीषणस्यानुचरास्ते ऽपि शूलासिपट्टिशैः।चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ।। ६.९०.५ ।।
+राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ।। ६.९०.६ ।।
+ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान्।उवाच वचनं काले कालज्ञो रक्षसां वरः ।। ६.९०.७ ।।
+एको ऽयं राक्षसेन्द्रस्य परायणमिव स्थितः।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ।। ६.९०.८ ।।
+अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि।रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ।। ६.९०.९ ।।
+प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ।। ६.९०.१० ।।
+जम्बुमाली महामाली तीक्ष्णवेगो ऽशनिप्रभः।सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ।। ६.९०.११ ।।
+संह्रादी विकटो निघ्नस्तपनो दम एव च।प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ।। ६.९०.१२ ।।
+अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्।विद्युज्जिह्वो द्विजिह्वश्च स���र्यशत्रुश्च राक्षसः ।। ६.९०.१३ ।।
+अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ।। ६.९०.१४ ।।
+एतान्निहत्यातिबलान् बहून् राक्षससत्तमान्।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ।। ६.९०.१५ ।।
+एतावदेव शेषं वो जेतव्यमिह वानराः।हताः सर्वे समागम्य राक्षसा बलदर्पिताः ।। ६.९०.१६ ।।
+अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ।। ६.९०.१७ ।।
+हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति।तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति।वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ।। ६.९०.१८ ।।
+इति तेनातियशसा राक्षसेनाभिचोदिताः।वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ।। ६.९०.१९ ।।
+ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः।मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः ।। ६.९०.२० ।।
+जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ।। ६.९०.२१ ।।
+निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ।। ६.९०.२२ ।।
+शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ।। ६.९०.२३ ।।
+स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम्।देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ।। ६.९०.२४ ।।
+हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान्।रक्षसां कदनं चक्रे समासाद्य सहस्रशः ।। ६.९०.२५ ।।
+स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ।। ६.९०.२६ ।।
+तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ।। ६.९०.२७ ।।
+अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ।। ६.९०.२८ ।।
+न ह्यादानं न सन्धानं धनुषो वा परिग्रहः।न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ।। ६.९०.२९ ।।
+न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ।। ६.९०.३० ।।
+चापवेगविनिर्मुक्तबाणजालैः समन्ततः।अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ।। ६.९०.३१ ।।
+लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्।अव्यवस्था भवत्युग्रा ��ाभ्यामन्योन्यविग्रहे ।। ६.९०.३२ ।।
+ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः।निरन्तरमिवाकाशं बभूव तमसावृतम् ।। ६.९०.३३ ।।
+तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः।दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ।। ६.९०.३४ ।।
+तमसा संवृतं सर्वमासीद्भीमतरं महत्।अस्तं गते सहस्रांशौ संवृतं तमसेव हि ।। ६.९०.३५ ।।
+रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः।क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ।। ६.९०.३६ ।।
+न तदानीं ववौ वायुर्न च जज्वाल पावकः।स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ।। ६.९०.३७ ।।
+सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ।। ६.९०.३८ ।।
+अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ।। ६.९०.३९ ।।
+ततो ऽपरेण भल्लेन शितेन निशितेन च।सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ।। ६.९०.४० ।।
+महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः।स तेन बाणाशनिना तलशब्दानुनादिना ।। ६.९०.४१ ।।
+लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ।। ६.९०.४२ ।।
+स यन्तरि महातेजा हते मन्दोदरीसुतः ।। ६.९०.४३ ।।
+स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्।तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ।। ६.९०.४४ ।।
+हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः।धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ।। ६.९०.४५ ।।
+छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः।अर्दयामास बाणौघैर्विचरन्तमभीतवत् ।। ६.९०.४६ ।।
+निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ।। ६.९०.४७ ।।
+विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ।। ६.९०.४८ ।।
+ततः प्रमाथी शरभो रभसो गन्धमादनः।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ।। ६.९०.४९ ।।
+ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः।चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ।। ६.९०.५० ।।
+तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ।। ६.९०.५१ ।।
+ते हया मथिता भग्ना व्यसवो धरणीं गताः।ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।। ६.९०.५२ ।।
+पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः।स हताश्वादवप्लुत्य रथान्मथितसारथेः।शरवर्षेण सौमित्रिमभ्यधावत रावणिः ।। ६.९०.५३ ।।
+ततो महेन्द���रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः।सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ।। ६.९०.५४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः ।। ९० ।।
+स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः।इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ।। ६.९१.१ ।।
+तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ।। ६.९१.२ ।।
+निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ।। ६.९१.३ ।।
+ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः।स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ।। ६.९१.४ ।।
+तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः।नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ।। ६.९१.५ ।।
+धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै।अहं तु रथमास्थाय आगमिष्यामि संयुगम् ।। ६.९१.६ ।।
+तथा भवन्तः कुर्वन्तु यथेमे काननौकसः।न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ।। ६.९१.७ ।।
+इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः।प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ।। ६.९१.८ ।।
+स रथं भूषयित्वा तु रुचिरं हेमभूषितम्।प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ।। ६.९१.९ ।।
+अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना।आरुरोह महातेजा रावणिः समितिञ्जयः ।। ६.९१.१० ।।
+स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः।निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ।। ६.९१.११ ।।
+सो ऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा।आभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ।। ६.९१.१२ ।।
+ततो रथस्तमालोक्य सौमित्री रावणात्मजम्।वानराश्च महावीर्या राक्षसश्च विभीषणः।विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ।। ६.९१.१३ ।।
+रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान्।पातयामास बाणौघैः शतशो ऽथ सहस्रशः ।। ६.९१.१४ ।।
+स मण्डलीकृतधनू रावणिः समितिञ्जयः।हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः ।। ६.९१.१५ ।।
+ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः।सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ।। ६.९१.१६ ।।
+ततः समरकोपेन ज्वलितो रघुनन्दनः।चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ।। ६.९१.१७ ।।
+सो ऽन्यत् कार्मुकमादय सज्यं चक्रे त्वरन्निव।तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो नि��कृन्तत ।। ६.९१.१८ ।।
+अथैनं छिन्नधन्वानमाशीविषविषोपमैः।विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ।। ६.९१.१९ ।।
+ते तस्य कायं निर्भिद्य महाकार्मुकनिस्सृताः।निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ।। ६.९१.२० ।।
+स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः।जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ।। ६.९१.२१ ।।
+स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ।। ६.९१.२२ ।।
+मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः।अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ।। ६.९१.२३ ।।
+दर्शयामास च तदा रावणिं रघुनन्दनः।असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ।। ६.९१.२४ ।।
+ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ।। ६.९१.२५ ।।
+अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्।राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ।। ६.९१.२६ ।।
+सो ऽतिविद्धो बलवता शत्रुणा शत्रुघातिना।असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ।। ६.९१.२७ ।।
+तानप्राप्तान् शितैर्बाणैश्चिच्छेद रघुनन्दनः।सारथेरस्य च रणे रथिनो रथसत्तमः।शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ।। ६.९१.२८ ।।
+असूतास्ते हयास्तत्र रथमूहुरविक्लवाः।मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ।। ६.९१.२९ ।।
+अमर्षवशमापन्नः सौमित्रिर्द्दढविक्रमः।प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे ।। ६.९१.३० ।।
+अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली।विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ।। ६.९१.३१ ।।
+ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ।। ६.९१.३२ ।।
+अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्।अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ।। ६.९१.३३ ।।
+तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ।। ६.९१.३४ ।।
+स तथा ह्यर्दितो बाणै राक्षसेन महामृधे।तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः।विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ।। ६.९१.३५ ।।
+लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ।। ६.९१.३६ ।।
+ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ।रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ।। ६.९���.३७ ।।
+तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ।। ६.९१.३८ ।।
+ततः समरकोपेन संयुक्तो रावणात्मजः।विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ।। ६.९१.३९ ।।
+अयोमुखैस्त्रिर्भिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्।एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ।। ६.९१.४० ।।
+तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।विभीषणो महातेजा रावणेः स दुरात्मनः ।। ६.९१.४१ ।।
+स हताश्वादवप्लुत्य रथान्निहतसारथेः।रथशक्तिं महातेजाः पितृव्याय मुमोच ह ।। ६.९१.४२ ।।
+तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः।चिच्छेद निशितैर्बाणैर्दशधा सा ऽपतद्भुवि ।। ६.९१.४३ ।।
+तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः।वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ।। ६.९१.४४ ।।
+ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ।। ६.९१.४५ ।।
+स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ।। ६.९१.४६ ।।
+तं समीक्ष्य महातेजा महेषुं तेन संहितम्।लक्ष्मणो ऽप्याददे बाणमन्यं भीमपराक्रमः ।। ६.९१.४७ ।।
+कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना।दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ।। ६.९१.४८ ।।
+तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः।विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ।। ६.९१.४९ ।।
+ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ।। ६.९१.५० ।।
+तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।मुखेन मुखमाहत्य सन्निपेततुरोजसा ।। ६.९१.५१ ।।
+सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः।सधूमविस्फुलिङ्गश्च तज्जो ऽग्निर्दारुणो ऽभवत् ।। ६.९१.५२ ।।
+तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च।सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ।। ६.९१.५३ ।।
+शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ।। ६.९१.५४ ।।
+सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ।। ६.९१.५५ ।।
+रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः।तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ।। ६.९१.५६ ।।
+ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः।आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव ।। ६.९१.५७ ��।
+सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ।। ६.९१.५८ ।।
+अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ।। ६.९१.५९ ।।
+तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः।शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः ।। ६.९१.६० ।।
+तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम्।अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम्।माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ।। ६.९१.६१ ।।
+तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम्।गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ।। ६.९१.६२ ।।
+भैरवाभिरुते भीमे युद्धे वानररक्षसाम्।भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ।। ६.९१.६३ ।।
+ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः।शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ।। ६.९१.६४ ।।
+अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः।हुताशनसमस्पर्शं रावणात्मजदारणम् ।। ६.९१.६५ ।।
+सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ।। ६.९१.६६ ।।
+दुरावारं दुर्विषह्यं राक्षसानां भयावहम्।आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ।। ६.९१.६७ ।।
+येन शक्रो महातेजा दानवानजयत् प्रभुः।पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः ।। ६.९१.६८ ।।
+तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसन्दधे ।। ६.९१.६९ ।।
+सन्धायामित्रदलनं विचकर्ष शरासनम्।सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ।। ६.९१.७० ।।
+सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्।लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ।। ६.९१.७१ ।।
+धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि।पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ।। ६.९१.७२ ।।
+इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ।। ६.९१.७३ ।।
+स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ।। ६.९१.७४ ।।
+तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ।। ६.९१.७५ ।।
+हतस्तु निपपाताशु धरण्यां रावणात्मजः।कवची सशिरस्त्राणो विध्वस्तः सशरासनः ।। ६.९१.७६ ।।
+चुक्रुशुस्ते ततः सर्वे व��नराः सविभीषणाः।हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ।। ६.९१.७७ ।।
+अथान्तरिक्षे देवानामृषीणां च महात्मनाम्।अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ।। ६.९१.७८ ।।
+पतितं तमभिज्ञाय राक्षसी सा महाचमूः।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ।। ६.९१.७९ ।।
+वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।लङ्कामभिमुखाः सस्त्रुर्नष्टसञ्ज्ञाः प्रधाविताः ।। ६.९१.८० ।।
+दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ।। ६.९१.८१ ।।
+केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ।। ६.९१.८२ ।।
+हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ।राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ।। ६.९१.८३ ।।
+यथा ऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ।। ६.९१.८४ ।।
+शान्तरश्मिरिवादित्यो निर्वाण इव पावकः।स बभूव महातेजा व्यपास्तगतजीवितः ।। ६.९१.८५ ।।
+प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान्।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ।। ६.९१.८६ ।।
+हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः।जगाम निहते तस्मिन् राक्षसे पापकर्मणि ।। ६.९१.८७ ।।
+आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ।। ६.९१.८८ ।।
+नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ।। ६.९१.८९ ।।
+ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा।प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ।। ६.९१.९० ।।
+शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ।। ६.९१.९१ ।।
+आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे।ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ।। ६.९१.९२ ।।
+ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः।तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ।। ६.९१.९३ ।।
+विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ।। ६.९१.९४ ।।
+क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ।। ६.९१.९५ ।।
+लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ।। ६.९१.९६ ।।
+अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः।चक्रुरुच्चावचगुणा राघ��ाश्रयजाः कथाः ।। ६.९१.९७ ।।
+तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म।परममुपलभन् मनः प्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ।। ६.९१.९८ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकनवतितमः सर्गः ।। ९१ ।।
+रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ।। ६.९२.१ ।।
+ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान्।सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ।। ६.९२.२ ।।
+आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ।विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ।। ६.९२.३ ।।
+ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ।। ६.९२.४ ।।
+निष्टनन्निव चागम्य राघवाय महात्मने।आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ।। ६.९२.५ ।।
+रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।न्यवेदयत रामाय तदा हृष्टो विभीषणः ।। ६.९२.६ ।।
+श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्।प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ।। ६.९२.७ ।।
+साधु लक्ष्मण तुष्टो ऽस्मि कर्मणा सुकृतं कृतम्।रावणेर्हि विनाशेन जितमित्युपधारय ।। ६.९२.८ ।।
+स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्।लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ।। ६.९२.९ ।।
+उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ।। ६.९२.१० ।।
+शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम्।रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ।। ६.९२.११ ।।
+मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ।। ६.९२.१२ ।।
+कृतं परमकल्याणं कर्म दुष्करकर्मणा।अद्य मन्ये हते पुत्रे रावणं निहतं युधि।अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ।। ६.९२.१३ ।।
+रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे।छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यापश्रयः ।। ६.९२.१४ ।।
+विभीषणहनूमद्भयां कृतं कर्म महद्रणे।अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ।। ६.९२.१५ ।।
+निरमित्रः कृतो ऽस्म्यद्य निर्यास्यति हि रावणः।बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।। ६.९२.१६ ।।
+तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम्।बलेनावृत्य महता निहनिष्यामि दुर्जयम् ।। ६.९२.१७ ।।
+त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ।। ६.९२.१८ ।।
+स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः।रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ।। ६.९२.१९ ।।
+सशल्यो ऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः।यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ।। ६.९२.२० ।।
+विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः।ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ।। ६.९२.२१ ।।
+ये चाप्यन्ये ऽत्र युध्यन्ति सशल्या व्रणिनस्तथा।ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ।। ६.९२.२२ ।।
+एवमुक्तस्तु रामेण महात्मा हरियूथपः।लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ।। ६.९२.२३ ।।
+स तस्या गन्धमाघ्राय विशल्यः समपद्यत।तथा निर्वेदनश्चैव संरूढव्रण एव च ।। ६.९२.२४ ।।
+विभीषणमुखानां च सुहृदां राघवाज्ञया।सर्ववानरमुख्यानां चिकित्सां स तदा ऽकरोत् ।। ६.९२.२५ ।।
+ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः।सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ।। ६.९२.२६ ।।
+तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्।अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ।। ६.९२.२७ ।।
+अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा।हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ।। ६.९२.२८ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः ।। ९२ ।।
+ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम्।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ।। ६.९३.१ ।।
+युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।विभीषणसहायेन मिषतां नो महाद्युतिः ।। ६.९३.२ ।।
+शूरः शूरेण सङ्गम्य संयुगेष्वपरजितः।लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित्।गतः स परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् ।। ६.९३.३ ।।
+स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ।। ६.९३.४ ।।
+उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ।। ६.९३.५ ।।
+हा राक्षसचमूमुख्य मम वत्स महारथ।जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ।। ६.९३.६ ।।
+ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मण�� युधि ।। ६.९३.७ ।।
+अद्य वैवस्वतो राजा भूयो बहुमतो मम।येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ।। ६.९३.८ ।।
+एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।। ६.९३.९ ।।
+यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति।अद्य देवगणाः सर्वे लोकपालास्तथर्षयः।हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ।। ६.९३.१० ।।
+अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ।। ६.९३.११ ।।
+अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ।। ६.९३.१२ ।।
+यौवराज्यं च लङ्कां च रक्षांसि च परन्तप।मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः ।। ६.९३.१३ ।।
+मम नाम त्वया वीर गतस्य यमसादनम्।प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ।। ६.९३.१४ ।।
+स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।मम शल्यमनुद्धृत्य क्व गतो ऽसि विहाय नः ।। ६.९३.१५ ।।
+एवमादिविलापार्तं रावणं राक्षसाधिपम्।आविवेश महान् कोपः पुत्रव्यसनसम्भवः ।। ६.९३.१६ ।।
+प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।दीप्तं सन्दीपयामासुर्घर्मे ऽर्कमिव रश्मयः ।। ६.९३.१७ ।।
+ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत।युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ।। ६.९३.१८ ।।
+कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन्।उत्पपात स भूयो ऽग्निर्वृत्रस्य वदनादिव ।। ६.९३.१९ ।।
+स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ।। ६.९३.२० ।।
+तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निना ऽपि च।रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ।। ६.९३.२१ ।।
+घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम्।बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् ।। ६.९३.२२ ।।
+तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ६.९३.२३ ।।
+दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ।। ६.९३.२४ ।।
+कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत।तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।। ६.९३.२५ ।।
+तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ।। ६.९३.२६ ।।
+ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।अब्रवीद्���क्षसां मध्ये संस्तम्भयिषुराहवे ।। ६.९३.२७ ।।
+मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ।। ६.९३.२८ ।।
+तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ।। ६.९३.२९ ।।
+कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ।। ६.९३.३० ।।
+तेन मामद्य संयुक्तं रथस्थमिह संयुगे।प्रतीयात् को ऽद्य मामाजौ साक्षादपि पुरन्दरः ।। ६.९३.३१ ।।
+यत्तदा ऽभिप्रसन्नेन सशरं कार्मुकं महत्।देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ।। ६.९३.३२ ।।
+अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।रामलक्ष्मणयोरेव वधाय परमाहवे ।। ६.९३.३३ ।।
+स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ।। ६.९३.३४ ।।
+प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ।। ६.९३.३५ ।।
+मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ।। ६.९३.३६ ।।
+तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।। ६.९३.३७ ।।
+इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ।। ६.९३.३८ ।।
+उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्।निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ।। ६.९३.३९ ।।
+रावणः पुत्रशोकेन भृशमाकुलचेतनः।सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ।। ६.९३.४० ।।
+व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः।ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ।। ६.९३.४१ ।।
+अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।। ६.९३.४२ ।।
+बहवः शत्रवश्चापि संयुगेषु निपातिताः।त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ।। ६.९३.४३ ।।
+विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ।। ६.९३.४४ ।।
+तेषां सञ्जल्पमानानामशोकवनिकां गताम्।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ।। ६.९३.४५ ।।
+वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः।अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ।। ६.९३.४६ ।।
+मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ।। ६.९३.४७ ।।
+तं निशाम्य सनिस्त���रिंशं व्यथिता जनकात्मजा।निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम्।सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ।। ६.९३.४८ ।।
+यथा ऽयं मामभिक्रुद्धः समभिद्रवति स्वयम्।वधिष्यति सनाथां मामनाथामिव दुर्मतिः ।। ६.९३.४९ ।।
+बहुशश्चोदयामास भर्तारं मामनुव्रताम्।भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ।। ६.९३.५० ।।
+सो ऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ।। ६.९३.५१ ।।
+अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ।मन्निमित्तमनार्येण समरे ऽद्य निपातितौ।अहो धिङ्मन्निमित्तो ऽयं विनाशो राजपुत्रयोः ।। ६.९३.५२ ।।
+अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ।। ६.९३.५३ ।।
+हनूमतो ऽपि यद्वाक्यं न कृतं क्षुद्रया मया ।। ६.९३.५४ ।।
+यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ।। ६.९३.५५ ।।
+मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ।। ६.९३.५६ ।।
+सा हि जन्म च बाल्यं च यौवनं च महात्मनः।धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ।। ६.९३.५७ ।।
+निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना।अग्निमारोक्ष्यते नूनमपो वा ऽपि प्रवेक्ष्यति ।। ६.९३.५८ ।।
+धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ।। ६.९३.५९ ।।
+इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ।। ६.९३.६० ।।
+एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः।सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम्।निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ।। ६.९३.६१ ।।
+कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ।। ६.९३.६२ ।।
+वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ।। ६.९३.६३ ।।
+मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ।। ६.९३.६४ ।।
+अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।। ६.९३.६५ ।।
+शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ।। ६.९३.६६ ।।
+�� तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः।गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ।। ६.९३.६७ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिनवतितमः सर्गः ।। ९३ ।।
+स प्रविश्य सभां राजा दीनः परमदुःखितः।निषसादासने सिंहः क्रुद्ध इव श्वसन् ।। ६.९४.१ ।।
+अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः।रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ।। ६.९४.२ ।।
+सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ।। ६.९४.३ ।।
+एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ।। ६.९४.४ ।।
+अथवा ऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ।। ६.९४.५ ।।
+इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः।निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ।। ६.९४.६ ।।
+परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्।शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ।। ६.९४.७ ।।
+वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः ।। ६.९४.८ ।।
+स सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति।रक्षसां वानराणां च तुमुलः समपद्यत ।। ६.९४.९ ।।
+ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ।। ६.९४.१० ।।
+एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः।रक्षसां वानराणां च शान्तं शोणितविस्रवैः ।। ६.९४.११ ।।
+मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः।शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ।। ६.९४.१२ ।।
+ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः।ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे ।। ६.९४.१३ ।।
+केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ।। ६.९४.१४ ।।
+एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ।। ६.९४.१५ ।।
+तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ।। ६.९४.१६ ।।
+राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः।शरण्यं शरणं याता रामं दशरथात्मजम् ।। ६.९४.१७ ।।
+ततो रामो महातेजा ध��ुरादाय वीर्यवान्।प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ।। ६.९४.१८ ।।
+प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ।। ६.९४.१९ ।।
+कृतान्येव सुघोराणि रामेण रजनीचराः।रणे रामस्य ददृशुः कर्माण्यसुकराणि च ।। ६.९४.२० ।।
+चालयन्तं महानीकं विधमन्तं महारथान्।ददृशुस्ते न वै रामं वातं वनगतं यथा ।। ६.९४.२१ ।।
+छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ।। ६.९४.२२ ।।
+प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ।। ६.९४.२३ ।।
+एष हन्ति गजानीकमेष हन्ति महारथान्।एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ।। ६.९४.२४ ।।
+इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे।अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ।। ६.९४.२५ ।।
+न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ।। ६.९४.२६ ।।
+ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ।। ६.९४.२७ ।।
+भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ।। ६.९४.२८ ।।
+शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम्।ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ।। ६.९४.२९ ।।
+दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ।। ६.९४.३० ।।
+अनीकं दशसाहस्रं रथानां वातरंहसाम्।अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ।। ६.९४.३१ ।।
+चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ।। ६.९४.३२ ।।
+दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः।हतान्येकेन रामेण रक्षसां कामरूपिणाम् ।। ६.९४.३३ ।।
+ते हताश्वा हतरथाः शान्ता विमथितध्वजाः।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ।। ६.९४.३४ ।।
+हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्।आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ।। ६.९४.३५ ।।
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।साधु साध्विति रामस्य तत् कर्म समपूजयन् ।। ६.९४.३६ ।।
+अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ।। ६.९४.३७ ।।
+जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च।ए���दस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ।। ६.९४.३८ ।।
+निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा।अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ।। ६.९४.३९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्नवतितमः सर्गः ।। ९४ ।।
+तानि तानि सहस्राणि सारोहाणां च वाजिनाम्।रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ।। ६.९५.१ ।।
+राक्षसानां सहस्राणि गदापरिघयोधिनाम्।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ।। ६.९५.२ ।।
+निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः।रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ।। ६.९५.३ ।।
+दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः।राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ।। ६.९५.४ ।।
+विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ।। ६.९५.५ ।।
+कथं शूर्पणखा वृद्धा कराला निर्णतोदरी।आससाद वने रामं कन्दर्पमिव रूपिणम्।सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ।। ६.९५.६ ।।
+तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।। ६.९५.७ ।।न्दर्पमिव रूपिणम्।कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्।सुमुखं दुर्मुखी रामं कामयामास राक्षसी ।। ६.९५.८ ।।
+जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा।अकार्यमपहास्यं च सर्वलोकविगर्हितम् ।। ६.९५.९ ।।
+राक्षसानां विनाशाय दूषणस्य खरस्य च।चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ।। ६.९५.१० ।।
+तन्निमित्तमिदं वैरं रावणेन कृतं महत्।वधाय सीता सा ऽ ऽनीता दशग्रीवेण रक्षसा ।। ६.९५.११ ।।
+न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।बद्धं बलवता वैरमक्षयं राघवेण च ।। ६.९५.१२ ।।
+वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्।हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ।। ६.९५.१३ ।।
+चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।निहतानि जनस्थाने शरैरग्निशिखोपमैः ।। ६.९५.१४ ।।
+खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा।शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ।। ६.९५.१५ ।।
+हतो योजनबाहुश्च कबन्धो रुधिराशनः।क्रोधान्नादं नदन् सो ऽथ पर्याप्तं तन्निदर्शनम् ।। ६.९५.१६ ।।
+जघान बलिनं रामः सहस्रनयनात्मजम्।वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ।। ६.९५.१७ ।।
+ऋष्यमूके वसन् शै���े दीनो भग्नमनोरथः।सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ।। ६.९५.१८ ।।
+धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ।। ६.९५.१९ ।।
+विभीषणवचः कुर्याद्यदि स्म धनदानुजः।श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ।। ६.९५.२० ।।
+कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्।अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ।। ६.९५.२१ ।।
+मम पुत्रो मम भ्राता मम भर्ता रणे हतः।इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ।। ६.९५.२२ ।।
+रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः।रणे रामेण शूरेण राक्षसाश्च पदातयः ।। ६.९५.२३ ।।
+रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ।। ६.९५.२४ ।।
+हतप्रवीरा रामेण निराशा जीविते वयम्।अपश्यन्तो भयस्यान्तमनाथा विलपामहे ।। ६.९५.२५ ।।
+रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः।इदं भयं महाघोरमुत्पन्नं नावबुध्यते ।। ६.९५.२६ ।।
+न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ।। ६.९५.२७ ।।
+उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ।। ६.९५.२८ ।।
+पितामहेन प्रीतेन देवदानवराक्षसैः।रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ।। ६.९५.२९ ।।
+तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम्।जीवितान्तकरं घोरं रक्षसां रावणस्य च ।। ६.९५.३० ।।
+पीड्यमानास्तु बलिना वरदानेन रक्षसा।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ।। ६.९५.३१ ।।
+देवतानां हितार्थाय महात्मा वै पितामहः।उवाच देवताः सर्वा इदं तुष्टो महद्वचः ।। ६.९५.३२ ।।
+अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ।। ६.९५.३३ ।।
+दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ।। ६.९५.३४ ।।
+प्रसन्नस्तु महादेवो देवानेतद्वचो ऽब्रवीत्।उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ।। ६.९५.३५ ।।
+एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा।भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ।। ६.९५.३६ ।।
+रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।अयं निष्ठानको घोरः शोकेन समभिप्लुतः ।। ६.९५.३७ ।।
+तं न पश्यामह�� लोके यो नः शरणदो भवेत्।राघवेणोपसृष्टानां कालेनेव युगक्षये ।। ६.९५.३८ ।।
+नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम्।दवाग्निवेष्टितानां हि करेणूनां यथा वने ।। ६.९५.३९ ।।
+प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना।यत एव भयं दृष्टं तमेव शरणं गतः ।। ६.९५.४० ।।
+इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः।विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ।। ६.९५.४१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः ।। ९५ ।।
+आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।रावणः करुणं शब्दं शुश्राव परिदेवितम् ।। ६.९६.१ ।।
+स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः।बभूव परमक्रुद्धो रावणो भीमदर्शनः ।। ६.९६.२ ।।
+सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्च्छितः ।। ६.९६.३ ।।
+उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ।। ६.९६.४ ।।
+महोदरमाहपार्श्वौ विरूपाक्षं च राक्षसम्।शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ।। ६.९६.५ ।।
+तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ।। ६.९६.६ ।।
+ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः।कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ।। ६.९६.७ ।।
+प्रतिपूज्य यथान्यायं रावणं ते निशाचराः।तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ।। ६.९६.८ ।।
+अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ।। ६.९६.९ ।।
+अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः।राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ।। ६.९६.१० ।।
+खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ।। ६.९६.११ ।।
+नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः।प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ।। ६.९६.१२ ।।
+अद्य वानरमुख्यानां तानि यूथानि भागशः।धनुषा शरजालेन विधमिष्यामि पत्रिणा ।। ६.९६.१३ ।।
+अद्य वानरसैन्यानि रथेन पवनौजसा।धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ।। ६.९६.१४ ।।
+आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ।। ६.९६.१५ ।।
+स���रैरद्य वदनैः सङ्ख्ये वानरयूथपाः।मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ।। ६.९६.१६ ।।
+अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्।मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ।। ६.९६.१७ ।।
+हतो भर्ता हतो भ्राता यासां च तनया हताः।वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ।। ६.९६.१८ ।।
+अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः।करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ।। ६.९६.१९ ।।
+अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे।सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ।। ६.९६.२० ।।
+कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।अनुप्रयान्तु मां सर्वे ये ऽवशिष्टा निशाचराः ।। ६.९६.२१ ।।
+तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद्वचः।बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ।। ६.९६.२२ ।।
+बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्।चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ।। ६.९६.२३ ।।
+ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ।। ६.९६.२४ ।।
+असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हुलैः।शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ।। ६.९६.२५ ।।
+यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः।भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ।। ६.९६.२६ ।।
+अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया।द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ।। ६.९६.२७ ।।
+आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ।। ६.९६.२८ ।।
+ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ।। ६.९६.२९ ।।
+रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ।। ६.९६.३० ।।
+ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्।नादं घोरं विमुञ्जन्तो निर्ययुर्जयकांक्षिणः ।। ६.९६.३१ ।।
+ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।निर्ययावुद्यतधनुः कालान्तकयमोपमः ।। ६.९६.३२ ।।
+ततः प्रजवनाश्वेन रथेन स महारथः।द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ।। ६.९६.३३ ।।
+ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।। ६.९६.३४ ।।
+द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी।ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ।। ६.९६.३५ ।।
+ध्वजाग्रे न्यपतद्गृध्रो विने���ुश्चाशिवं शिवाः।नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।। ६.९६.३६ ।।
+विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वरः ।। ६.९६.३७ ।।
+ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ।। ६.९६.३८ ।।
+अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना।विनेदुरशिवा गृध्रा वायसैरनुनादिताः ।। ६.९६.३९ ।।
+एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्।निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ।। ६.९६.४० ।।
+तेषां तु रथघोषेण राक्षसानां महात्मनाम्।वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ।। ६.९६.४१ ।।
+तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ।। ६.९६.४२ ।।
+ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।वानराणामनीकेषु चकार कदनं महत् ।। ६.९६.४३ ।।
+निकृत्तशिरसः केचिद्रावणेन वलीमुखाः।केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः।निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।। ६.९६.४४ ।।
+केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ।। ६.९६.४५ ।।
+दशाननः क्रोधविवृत्तनेत्रो यतो यतो ऽभ्येति रथेन सङ्ख्ये।ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ।। ६.९६.४६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षण्णवतितमः सर्गः ।। ९६ ।।
+तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ।। ६.९७.१ ।।
+रावणस्याप्रसह्यं तं शरसम्पातमेकतः।न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
+ते ऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ।। ६.९७.३ ।।
+प्लवङ्गानामनीकानि महाभ्राणीव मारुतः।स ययौ समरे तस्मिन् विधमन् रावणः शरैः ।। ६.९७.४ ।।
+कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।आससाद ततो युद्धे राघवं त्वरितस्तदा ।। ६.९७.५ ।।
+सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे।गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे ऽद्भुतं मनः ।। ६.९७.६ ।।
+आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम्।सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ।। ६.९७.७ ।।
+पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम्।अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ।। ६.९७.८ ।।
+स नर्दन् युधि सुग���रीवः स्वरेण महता महान्।पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ।। ६.९७.९ ।।
+ममन्थ च महाकायो राक्षसान् वानरेश्वरः।युगान्तसमये वायुः प्रवृद्धानगमानिव ।। ६.९७.१० ।।
+राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ।। ६.९७.११ ।।
+कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ।। ६.९७.१२ ।।
+अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः।सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ।। ६.९७.१३ ।।
+विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ।। ६.९७.१४ ।।
+स तं द्विरदमारुह्य विरूपाक्षो महारथः।विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ।। ६.९७.१५ ।।
+सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ।। ६.९७.१६ ।।
+स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।चक्रोध स महाक्रोधो वधे चास्य मनो दधे ।। ६.९७.१७ ।।
+ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः।अभिपत्य जघानास्य प्रमुखे तु महागजम् ।। ६.९७.१८ ।।
+स तु प्रहाराभिहतः सुग्रीवेण महागजः।अपासर्पद्धनुर्मात्रं निषसाद ननाद च ।। ६.९७.१९ ।।
+गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्।राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ।। ६.९७.२० ।।
+आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ।। ६.९७.२१ ।।
+स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्।विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ।। ६.९७.२२ ।।
+स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः।अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ।। ६.९७.२३ ।।
+तेन खड्गप्रहारेण रक्षसा बलिना हतः।मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ।। ६.९७.२४ ।।
+स तदा सहसोत्पत्य राक्षसस्य महाहवे।मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ।। ६.९७.२५ ।।
+मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः।तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे।कवचं पातयामास पद्भ्यामभिहतो ऽपतत् ।। ६.९७.२६ ।।
+स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्।तलप्रहारमशनेः समानं भीमनिस्वनम् ।। ६.९७.२७ ।।
+तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्।नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।। ६.९७.२८ ।।
+ततस्��ु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः।मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।। ६.९७.२९ ।।
+ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ।। ६.९७.३० ।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
+महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।। ६.९७.३१ ।।।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
+पपात रुधिरक्लिन्नः शोणितं च समुद्वमन्।स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ।। ६.९७.३२ ।।
+विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ।। ६.९७.३३ ।।
+स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ६.९७.३४ ।।
+तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम्।बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ।। ६.९७.३५ ।।
+विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन।बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ।। ६.९७.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।।
+हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।सरसीव महाघर्मे सोपक्षीणे बभूवतुः ।। ६.९८.१ ।।
+स्वबलस्य विघातेन विरूपाक्षवधेन च।बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ।। ६.९८.२ ।।
+प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः।बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।उवाच च समीपस्थं महोदरमरिन्दमम् ।। ६.९८.३ ।।
+अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता।जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।। ६.९८.४ ।।
+भर्तृपिण्डस्य कालो ऽयं निर्देष्टुं साधु युध्यताम् ।। ६.९८.५ ।।
+एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ।। ६.९८.६ ।।
+ततः स कदनं चक्रे वानराणां महाबलः।भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ।। ६.९८.७ ।।
+वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ।। ६.९८.८ ।।
+महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः।चिच्छेद पाणिपादोरून् वानराणां महाहवे ।। ६.९८.९ ।।
+ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ।। ६.९८.१० ।।
+प्रभग्नां ��मरे दृष्ट्वा वानराणां महाचमूम्।अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ।। ६.९८.११ ।।
+प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।चिक्षेप च महातेजास्तद्वधाय हरीस्वरः ।। ६.९८.१२ ।।
+तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ।। ६.९८.१३ ।।
+रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ।। ६.९८.१४ ।।
+तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ।। ६.९८.१५ ।।
+शरैश्च विददारैनं शूरः परपुरञ्जयः ।। ६.९८.१६ ।।्च्छितः।स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।। ६.९८.१७ ।।तः।आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ।। ६.९८.१८ ।।
+तस्माद्धतहयाद्वीरः सो ऽवप्लुत्य महारथात्।गदां जग्राह सङ्क्रुद्धो राक्षसो ऽथ महोदरः ।। ६.९८.१९ ।।
+गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ।। ६.९८.२० ।।
+ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ।। ६.९८.२१ ।।
+गदां तां सुमहाघोरामापतन्तीं महाबलः।सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे।आजघान गदां तस्य परिघेण हरीश्वरः ।। ६.९८.२२ ।।
+पपात स गदोद्भिन्नः परिघस्तस्य भूतले ।। ६.९८.२३ ।।ोषताम्राक्षः समुद्यम्य महाहवे।ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।आयसं मुसलं घोरं सर्वतो हेमभूषितम् ।। ६.९८.२४ ।।
+स तमुद्यम्य चिक्षेप सो ऽप्यन्यां व्याक्षिपद्गदाम्।भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ।। ६.९८.२५ ।।
+ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ।। ६.९८.२६ ।।
+जघ्नतुस्तौ तदा ऽन्योन्यं नेदतुश्च पुनःपुनः।तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ।। ६.९८.२७ ।।
+उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्।भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ।जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।। ६.९८.२८ ।।
+आजहार ततः खड्गमदूरपरिवर्तिनम्।राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।। ६.९८.२९ ।।
+तथैव च महाखड्गं चर्मणा पतितं सह।जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ।। ६.९८.३० ।।
+तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्।उद्यतासी रणे हृष्टौ य��धि शस्त्रविशारदौ ।। ६.९८.३१ ।।
+दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ।। ६.९८.३२ ।।
+स तु शूरो महावेगो वीर्यश्लाघी महोदरः।महाचर्मणि तं खड्गं पातयामास दुर्मतिः ।। ६.९८.३३ ।।
+लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ।। ६.९८.३४ ।।
+निकृत्तशिरसस्तस्य पतितस्य महीतले।तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ।। ६.९८.३५ ।।
+हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ।। ६.९८.३६ ।।
+विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ।। ६.९८.३७ ।।
+महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्।सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ।। ६.९८.३८ ।।
+अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः।अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ।। ६.९८.३९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टनवतितमः सर्गः ।। ९८ ।।
+महोदरे तु निहते महापार्श्वो महाबलः।सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ।। ६.९९.१ ।।
+स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।। ६.९९.२ ।।
+केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः।वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ।। ६.९९.३ ।।
+ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।। ६.९९.४ ।।
+निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ।। ६.९९.५ ।।
+आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।। ६.९९.६ ।।
+स तु तेन प्रहारेण महापार्श्वो विचेतनः।ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ।। ६.९९.७ ।।
+सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ।। ६.९९.८ ।।
+प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम्।अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम् ।। ६.९९.९ ।।
+मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।। ६.९९.१० ।।
+जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।। ६.९९.११ ।।
+जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ।। ६.९९.१२ ।।
+तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम्।दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ।। ६.९९.१३ ।।
+द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ।। ६.९९.१४ ।।
+स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ।। ६.९९.१५ ।।
+तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ।। ६.९९.१६ ।।
+स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।करेणैकेन जग्राह सुमहान्तं परश्वधम् ।। ६.९९.१७ ।।
+तं तैलधौतं विमलं शैलसारमयं दृढम्।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।। ६.९९.१८ ।।
+तेन वामांसफलके भृशं प्रत्यवपादितम्।अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।। ६.९९.१९ ।।
+स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः।संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।। ६.९९.२० ।।
+राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।। ६.९९.२१ ।।
+तेन तस्य निपातेन राक्षसस्य महामृधे।पफाल हृदयं चाशु स पपात हतो भुवि ।। ६.९९.२२ ।।
+तस्मिन्निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।अभवच्च महान् क्रोधः समरे रावणस्य तु ।। ६.९९.२३ ।।
+वानराणां च हृष्टानां सिंहनादश्च पुष्कलः।स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।। ६.९९.२४ ।।
+महेन्द्रेणेव देवानां नादः समभवन्महान् ।। ६.९९.२५ ।।
+अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम्।श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखो ऽवतस्थे ।। ६.९९.२६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनशततमः सर्गः ।। ९९ ।।
+महोदरमहापार्शो हतौ दृष्ट्वा तु राक्षसौ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले।आविवेश महान् क्रोधो रावणं तं महामृधे ।। ६.१००.१ ।।
+सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।। ६.१००.२ ।।
+निहतानाममात्यानां रुद्धस्य नगरस्य च।दुःखमेषो ऽपनेष्यामि हत्वा तौ रामलक��ष्मणौ ।। ६.१००.३ ।।
+रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ।। ६.१००.४ ।।
+मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः।हमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ।। ६.१००.५ ।।
+स दिशो दश धोषेण रथस्यातिरथो महान्।नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ।। ६.१००.६ ।।
+पूरिता तेन शब्देन सनदीगिरिकानना।सञ्चचाल मही सर्वा सवराहमृगद्विपा ।। ६.१००.७ ।।
+तामसं स महाघोरं चकारास्त्रं सुदारुणम्।निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ।। ६.१००.८ ।।
+उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः।न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ।। ६.१००.९ ।।
+तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ।। ६.१००.१० ।।
+ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।स ददर्श ततो रामं तिष्ठन्तमपारजितम् ।। ६.१००.११ ।।
+लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा।आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।। ६.१००.१२ ।।
+ततो रामो महातेजाः सौमित्रिसहितो बली।वानरांश्च रणे भग्नानापतन्तं च रावणम् ।। ६.१००.१३ ।।
+समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ।। ६.१००.१४ ।।
+विस्फारयितुमारेभे ततः स धनुरुत्तमम्।महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ।। ६.१००.१५ ।।
+रावणस्य च बाणौघैरामविस्फारितेन च।शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ।। ६.१००.१६ ।।
+तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः।स बभौ च यथा राहुः समीपे शशिसूर्ययोः ।। ६.१००.१७ ।।
+तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।मुमोच धनुरायम्य शरानग्निशिखोपमान् ।। ६.१००.१८ ।।
+तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।। ६.१००.१९ ।।
+एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।। ६.१००.२० ।।
+अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः।आससाद ततो रामं स्थितं शैलमिवाचलम् ।। ६.१००.२१ ।।
+स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः।व्यसृजच्छरवर्षाणि रावणो राघवोपरि ।। ६.१००.२२ ।।
+शरधारास्ततो रामो रावणस्य धनुश्च्युताः।दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ।। ६.१००.२३ ।।
+तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ।। ६.१००.२४ ।।
+राघवो रावणं तूर्णं रावणो राघवं तदा।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ।। ६.१००.२५ ।।
+चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ।। ६.१००.२६ ।।
+तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ।। ६.१००.२७ ।।
+सन्ततं विविधैर्बाणैर्बभूव गगनं तदा।घनैरिवातपापाये विद्युन्मालासमाकुलैः ।। ६.१००.२८ ।।
+गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।। ६.१००.२९ ।।
+महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः।शरान्धकारं तौ भीमं चक्रुतुः समरं तदा।गते ऽस्तं तपने चापि महामेघाविवोत्थितौ ।। ६.१००.३० ।।
+बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ।। ६.१००.३१ ।।
+उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ।। ६.१००.३२ ।।
+उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ।। ६.१००.३३ ।।
+ततः संसक्तहस्तस्तु रावणो लोकरावणः।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ।। ६.१००.३४ ।।
+रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ।। ६.१००.३५ ।।
+अथ मन्त्रानभिजपन् रौद्रमस्त्रमुदीरयन्।शरान् भूयः समादाय रामः क्रोधसमन्वितः।मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।। ६.१००.३६ ।।
+ते महामेघसङ्काशे कवचे पतिताः शराः।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ।। ६.१००.३७ ।।
+पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ।। ६.१००.३८ ।।
+ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ।। ६.१००.३९ ।।
+निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ।। ६.१००.४० ।।
+सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि।गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ।। ६.१००.४१ ।।
+ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्।पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ।। ६.१००.४२ ।।
+शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्।श्वानकुक्कुट���क्त्रांश्च मकराशीविषाननान् ।। ६.१००.४३ ।।
+एतानन्यांश्च मायावी ससर्ज निशितान् शरान्।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ।। ६.१००.४४ ।।
+आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ।। ६.१००.४५ ।।
+अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।। ६.१००.४६ ।।
+ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्।विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ।। ६.१००.४७ ।।
+ते रावणशरा घोरा राघवास्त्रसमाहताः ।। ६.१००.४८ ।।
+विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।। ६.१००.४९ ।।
+तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ।। ६.१००.५० ।।
+ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्।मुदा ऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ।। ६.१००.५१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे शततमः सर्गः ।। १०० ।।
+तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।। ६.१०१.१ ।।
+मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। ६.१०१.२ ।।
+ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।। ६.१०१.३ ।।
+मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।। ६.१०१.४ ।।
+तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।। ६.१०१.५ ।।
+तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।। ६.१०१.६ ।।
+ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।। ६.१०१.७ ।।
+तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।। ६.१०१.८ ।।
+तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।आयुधानि च चित्राणि रावणस्य चमूमुखे ।। ६.१०१.९ ।।
+तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।। ६.१���१.१० ।।
+स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ।। ६.१०१.११ ।।
+ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ।। ६.१०१.१२ ।।
+एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ।। ६.१०१.१३ ।।
+तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ।। ६.१०१.१४ ।।
+सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ।। ६.१०१.१५ ।।
+तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। ६.१०१.१६ ।।
+नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ।। ६.१०१.१७ ।।
+हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ।। ६.१०१.१८ ।।
+ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ।। ६.१०१.१९ ।।
+अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ।। ६.१०१.२० ।।
+सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ।। ६.१०१.२१ ।।
+ततः सम्भाविततरां कालेनापि दुरासदाम् ।जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। ६.१०१.२२ ।।
+सा वेगिता बलवता रावणेन दुरासदा ।जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। ६.१०१.२३ ।।
+एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ।। ६.१०१.२४ ।।
+तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ।। ६.१०१.२५ ।।
+कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। ६.१०१.२६ ।।
+मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ।। ६.१०१.२७ ।।
+मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ।। ६.१०१.२८ ।।
+एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ।। ६.१०१.२९ ।।
+इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।मयेन माय��विहिताममोघां शत्रुघातिनीम् ।। ६.१०१.३० ।।
+लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ६.१०१.३१ ।।
+सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ६.१०१.३२ ।।
+तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ।। ६.१०१.३३ ।।
+रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ६.१०१.३४ ।।
+न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ।। ६.१०१.३५ ।।
+ततो रावणवेगेन सुदूरमवगाढया ।शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ६.१०१.३६ ।।
+तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ।। ६.१०१.३७ ।।
+स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।बभूव संरब्धतरो युगान्त इव पावकः ।। ६.१०१.३८ ।।
+न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ६.१०१.३९ ।।
+स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।। ६.१०१.४० ।।
+तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।। ६.१०१.४१ ।।
+अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ।। ६.१०१.४२ ।।
+सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।। ६.१०१.४३ ।।
+तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ।। ६.१०१.४४ ।।
+तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।। ६.१०१.४५ ।।
+अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ।। ६.१०१.४६ ।।
+लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ।। ६.१०१.४७ ।।
+पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।। ६.१०१.४८ ।।
+अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।। ६.१०१.४९ ।।
+राज्यनाशं वने वासं दण्डके परिधावनम् ।वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।। ६.१०१.५० ।।
+प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।। ६.१०१.५१ ।।
+यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।। ६.१०१.५२ ।।
+यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।। ६.१०१.५३ ।।
+चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।। ६.१०१.५४ ।।
+स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।। ६.१०१.५५ ।।
+अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।। ६.१०१.५६ ।।
+अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ६.१०१.५७ ।।
+एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।आजघान दशग्रीवं रणे रामः समाहितः ।। ६.१०१.५८ ।।
+अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ।। ६.१०१.५९ ।।
+रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ।। ६.१०१.६० ।।
+ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ।। ६.१०१.६१ ।।
+तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ।। ६.१०१.६२ ।।
+स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ।। ६.१०१.६३ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।।
+शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। ६.१०२.१ ।।
+स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ।। ६.१०२.२ ।।
+एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ।। ६.१०२.३ ।।
+शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ।। ६.१०२.४ ।।
+अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ।। ६.१०२.५ ।।
+लज्जतीव हि मे ��ीर्यं भ्रश्यतीव कराद्धनुः ।सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।। ६.१०२.६ ।।
+चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।। ६.१०२.७ ।।सीदन्ति दृष्टिर्बाष्पवशं गता ।भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।। ६.१०२.८ ।।।सीदन्ति दृष्टिर्बाष्पवशं गता ।विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ।राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।दुःखेन महता ऽ ऽविष्टो ध्यानशोकपरायणः ।। ६.१०२.९ ।।
+परं विषादमापन्नो विललापाकुलेन्द्रियः ।। ६.१०२.१० ।।
+न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।। ६.१०२.११ ।।
+किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ।। ६.१०२.१२ ।।
+देशे देशे कलत्राणि देशे देशे च बान्धवाः ।तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।। ६.१०२.१३ ।।
+इत्यवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः ।राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ।। ६.१०२.१४ ।।
+न मृतो ऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ।। ६.१०२.१५ ।।
+सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।। ६.१०२.१६ ।।
+एवं न विद्यते रूपं गतासूनां विशाम्पते ।दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् ।। ६.१०२.१७ ।।
+नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।मा विषादं कृथा वीर सप्राणो ऽयमरिन्दमः ।। ६.१०२.१८ ।।
+आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ।। ६.१०२.१९ ।।
+एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ।। ६.१०२.२० ।।
+सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।पूर्वं ते कथितो यो ऽसौ वीर जाम्बवता शुभः ।। ६.१०२.२१ ।।
+दक्षिणे शिखरे तस्य जातमोषधिमानय ।विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ।। ६.१०२.२२ ।।
+सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ।। ६.१०२.२३ ।।
+सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्तां म��ौषधिम् ।। ६.१०२.२४ ।।
+अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् ।प्रतर्केणावगच्छामि सुषेणो ऽप्येवमब्रवीत् ।। ६.१०२.२६ ।।
+अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ।। ६.१०२.२७ ।।
+इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः ।आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ।। ६.१०२.२८ ।।
+फुल्लनानातरुगणं समुत्पाट्य महाबलः ।गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।। ६.१०२.२९ ।।
+स नीलमिव जीमूतं तोयपूर्णं नभस्थलात् ।आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ।। ६.१०२.३० ।।
+समागम्य महावेगः सन्न्यस्य शिखरं गिरेः ।विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् ।। ६.१०२.३१ ।।
+ओषधिं नावगच्छामि तामहं हरिपुङ्गव ।तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।। ६.१०२.३२ ।।
+एवं कथयमानं तं प्रशस्य पवनात्मजम् ।सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।। ६.१०२.३३ ।।
+विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ।। ६.१०२.३४ ।।
+ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ।लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ।। ६.१०२.३५ ।।
+सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।। ६.१०२.३६ ।।
+तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् ।साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।। ६.१०२.३७ ।।
+एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ।। ६.१०२.३८ ।।
+अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ।। ६.१०२.३९ ।।
+न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ।। ६.१०२.४० ।।
+इत्येवं वदतस्तस्य राघवस्य महात्मनः ।खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ।। ६.१०२.४१ ।।
+तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ।। ६.१०२.४२ ।।
+न हि प्रतिज्ञां कुर्वन्ति वितथां साधवो ऽनघ ।लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।। ६.१०२.४३ ।।
+नैराश्यमुपगन्तुं ते तदलं मत्कृते ऽनघ ।वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।। ६.१०२.४४ ।।
+न जीवन् यास्यते शत्रुस्तव बाणपथं गतः ।नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।। ६.१०२.४५ ।।
+अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।यावदस्तं न यात्येष कृतकर्मा दिवाकरः ।। ६.१०२.४६ ।।
+यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्यवीर ।। ६.१०२.४७ ।।
+लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ।रावणाय शरान् घोरान् विससर्ज चमूमुखे ।। ६.१०३.१ ।।
+अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ।। ६.१०३.२ ।।
+दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।आजघान महाघोरैर्धाराभिरिव तोयदः ।। ६.१०३.३ ।।
+दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः ।निर्बिभेद रणे रामो दशग्रीवं समाहितम् ।। ६.१०३.४ ।।
+भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ।। ६.१०३.५ ।।
+ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ।। ६.१०३.६ ।।
+सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।। ६.१०३.७ ।।
+रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।। ६.१०३.८ ।।
+अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ।। ६.१०३.९ ।।
+अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ।। ६.१०३.१० ।।
+सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते ।दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ।। ६.१०३.११ ।।
+इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ।। ६.१०३.१२ ।।
+आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।मया सारथिना राजन् महेन्द्र इव दानवान् ।। ६.१०३.१३ ।।
+इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ।। ६.१०३.१४ ।।
+तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।रामस्य च महाबाहो रावणस्य च रक्षसः ।। ६.१०३.१५ ।।
+स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ।। ६.१०३.१६ ।।
+अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।ससर्ज परमक्रुद्धः पुनरेव निशाचरः ।। ६.१०३.१७ ।।
+ते रावणधनुर्मुक्ता��� शराः काञ्चनभूषणाः ।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ।। ६.१०३.१८ ।।
+ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ।। ६.१०३.१९ ।।
+तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ।। ६.१०३.२० ।।
+तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे ।अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ।। ६.१०३.२१ ।।
+ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ।। ६.१०३.२२ ।।
+ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान् ।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ।। ६.१०३.२३ ।।
+अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ।। ६.१०३.२४ ।।
+ततः शरसहस्रेण राममक्लिष्टकारिणम् ।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ।। ६.१०३.२५ ।।
+चिच्छेद केतुमुद्धिश्य शरेणैकेन रावणः ।पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ।ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ।। ६.१०३.२६ ।।
+तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।। ६.१०३.२७ ।।
+राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।। ६.१०३.२८ ।।
+रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।। ६.१०३.२९ ।।
+समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ।। ६.१०३.३० ।।
+सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ।। ६.१०३.३१ ।।
+शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ।। ६.१०३.३२ ।।
+कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ।। ६.१०३.३३ ।।
+दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।अदृश्यत दशग्रीवो मैनाक इव पर्वतः ।। ६.१०३.३४ ।।
+निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि ।। ६.१०३.३५ ।।
+स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः ।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ।। ६.१०३.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्युत्तरशततमः सर्गः ।। १०३ ।।
+तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ।। ६.१०४.१ ।।
+सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः ।बभूव चातिक्षुभितः समुद्रः सरितां पतिः ।। ६.१०४.२ ।।
+खगाश्च खरनिर्घोषा गगने परुषा घनाः ।औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ।। ६.१०४.३ ।।
+रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान् ।वित्रेसुः सर्वभूतानि रावणस्याभवद्भयेम् ।। ६.१०४.४ ।।
+विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ।। ६.१०४.५ ।।
+ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ।। ६.१०४.६ ।।
+ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ।। ६.१०४.७ ।।
+दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।देवा राममथोचुस्ते त्वं जयेति पुनःपुनः ।। ६.१०४.८ ।।
+एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ।। ६.१०४.९ ।।
+वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ।। ६.१०४.१० ।।
+सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ।। ६.१०४.११ ।।
+त्रासनं सर्वभूतानां दारणं भेदनं तदा ।प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ।। ६.१०४.१२ ।।
+तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।अनेकैः समरे शूरै राक्षसैः परिवारितः ।। ६.१०४.१३ ।।
+समुद्यम्य महाकायो ननाद युधि भैरवम् ।संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ।। ६.१०४.१४ ।।
+पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ।। ६.१०४.१५ ।।
+अतिनादस्य नादेन तेन तस्य दुरात्मनः ।सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ।। ६.१०४.१६ ।।
+स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।विनद्य सुमहानादं रामं परुषमब्रवीत् ।। ६.१०४.१७ ।।
+शूलो ऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ।। ६.१०४.१८ ।।
+रक्षसामद्य शूराणां निहतानां चमूमुखे ।त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ।तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ।। ६.१०४.१९ ।।
+एवमुक्त्वा ��� चिक्षेप तच्छूलं राक्षसाधिपः ।। ६.१०४.२० ।।
+तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् ।अष्टघण्टं महानादं वियद्गतमशोभत ।। ६.१०४.२१ ।।
+तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ।। ६.१०४.२२ ।।
+आपतन्तं शरौघेण वारयामास राघवः ।उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ।। ६.१०४.२३ ।।
+निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान् ।रावणस्य महाशूलः पतङ्गानिव पावकः ।। ६.१०४.२४ ।।
+तान् दृष्ट्वा भस्मसाद्भूतान् शूल संस्पर्शचूर्णितान् ।सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ।। ६.१०४.२५ ।।
+स तां मातलिना ऽ ऽनीतां शक्तिं वासवनिर्मिताम् ।जग्राह परमक्रुद्धो राघवो रघुनन्दनः ।। ६.१०४.२६ ।।
+सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ।। ६.१०४.२७ ।।
+सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह ।भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ।। ६.१०४.२८ ।।
+निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ।। ६.१०४.२९ ।।
+निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ।। ६.१०४.३० ।।
+स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ।। ६.१०४.३१ ।।
+स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ।। ६.१०४.३२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरुत्तरशततमः सर्गः ।। १०४ ।।
+स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे ।रावणः समरश्लाघी महाक्रोधमुपागमत् ।। ६.१०५.१ ।।
+स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे ।। ६.१०५.२ ।।
+बाणधारासहस्रैस्तैः स तोयद इवाम्बरात् ।राघवं रावणो बाणैस्तटाकमिव पूरयत् ।। ६.१०५.३ ।।
+पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ।। ६.१०५.४ ।।
+स शरैः शरजालानि वारयन् समरे स्थितः ।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ।। ६.१०५.५ ।।
+ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।निजघानोरसि क्रुद्धो राघवस्य महात्मनः ।। ६.१०५.६ ।।
+स शोणित समा��िग्धः समरे लक्ष्मणाग्रजः ।दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ।। ६.१०५.७ ।।
+शराभिघातसंरब्धः सो ऽपि जग्राह सायकान् ।काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ।। ६.१०५.८ ।।
+ततो ऽयोन्यं सुसंरब्धावुभौ तौ रामरावणौ ।शरान्धकारे समरे नोपालक्षयतां तदा ।। ६.१०५.९ ।।
+ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।उवाच रावणं वीरः प्रहस्य परुषं वचः ।। ६.१०५.१० ।।
+मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ।। ६.१०५.११ ।।
+मया विरहितां दीनां वर्तमानां महावने ।वैदेहीं प्रसभं हृत्वा शूरो ऽहमिति मन्यसे ।। ६.१०५.१२ ।।
+स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।कृत्वा कापुरुषं कर्म शूरो ऽहमिति मन्यसे ।। ६.१०५.१३ ।।
+भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।दर्पान्मृत्युमुपादाय शूरो ऽहमिति मन्यसे ।। ६.१०५.१४ ।।
+शूरेण धनदभ्रात्रा बलैः समुदितेन च ।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ।। ६.१०५.१५ ।।
+उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ।। ६.१०५.१६ ।।
+शूरो ऽहमिति चात्मानमवगच्छसि दुर्मते ।नैव लज्जा ऽस्ति ते सीतां चोरवद् व्यपकर्षतः ।। ६.१०५.१७ ।।
+यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ।। ६.१०५.१८ ।।
+दिष्ट्या ऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ।। ६.१०५.१९ ।।
+अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ।। ६.१०५.२० ।।
+निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ।। ६.१०५.२१ ।।
+अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ।। ६.१०५.२२ ।।
+इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ।। ६.१०५.२३ ।।
+बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ।। ६.१०५.२४ ।।
+प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।प्रहर्षाच्च महातेजाः शीघ्रहस्ततरो ऽभवत् ।। ६.१०५.२५ ।।
+शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।भूय एवार्दयद्रामो रावणं ��ाक्षसान्तकृत् ।। ६.१०५.२६ ।।
+हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।हन्यमानो दशग्रीवो विघूर्णहृदयो ऽभवत् ।। ६.१०५.२७ ।।
+यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ।। ६.१०५.२८ ।।
+क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः ।। ६.१०५.२९ ।।
+सूतस्तु रथनेता ऽस्य तदवस्थं समीक्ष्य तम् ।शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ।। ६.१०५.३० ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ।। १०५ ।।
+स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ।। ६.१०६.१ ।।
+हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ।। ६.१०६.२ ।।
+विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ।। ६.१०६.३ ।।
+किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।त्वया शत्रोः समक्षं मे रथो ऽयमपवाहितः ।। ६.१०६.४ ।।
+त्वया ऽद्य हि ममानार्य चिरकालसमार्जितम् ।यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ।। ६.१०६.५ ।।
+शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।पश्यतो युद्धलुब्धो ऽहं कृतः कापुरुषस्त्वया ।। ६.१०६.६ ।।
+यस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते ।सत्यो ऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ।। ६.१०६.७ ।।
+न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ।। ६.१०६.८ ।।
+निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।यदि वा ऽध्युषितो वा ऽसि स्मर्यन्ते यदि वा गुणाः ।। ६.१०६.९ ।।
+एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।। ६.१०६.१० ।।
+न भीतो ऽस्मि न मूढो ऽस्मि नोपजप्तो ऽस्मि शत्रुभिः ।न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ।। ६.१०६.११ ।।
+मया तु हितकामेन यशश्च परिरक्षता ।स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ।। ६.१०६.१२ ।।
+नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ।। ६.१०६.१३ ।।
+श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।नदीवेग इवाभोगे संयुगे विनिवर्तितः ।। ६.१०६.१४ ।।
+क्षमं तवावगच्छामि महता रणकर्मणा ।न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ।। ६.१०६.१५ ।।
+रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।दीना धर्मपरिश्रान्ता गावो वर्षहता इव ।। ६.१०६.१६ ।।
+निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ।। ६.१०६.१७ ।।
+देशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च ।दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ।। ६.१०६.१८ ।।
+स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ।। ६.१०६.१९ ।।
+उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ।। ६.१०६.२० ।।
+तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।। ६.१०६.२१ ।।
+न मया स्वेच्छया वीर रथो ऽयमपवाहितः ।। ६.१०६.२२ ।।
+भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ।। ६.१०६.२३ ।।
+आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ।। ६.१०६.२४ ।।
+सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।प्रशस्यैनं बहुविधं युद्धलुब्धो ऽब्रवीदिदम् ।। ६.१०६.२५ ।।
+रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ।। ६.१०६.२६ ।।
+एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ।। ६.१०६.२७ ।।
+श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ।। ६.१०६.२८ ।।
+ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः ।स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतो ऽभवत् ।। ६.१०६.२९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।
+।। आदित्यहृदयप्रारम्भः ।।ततो युद्धपरिश्रन्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।। ६.१०७.१ ।।
+दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ।। ६.१०७.२ ।।
+राम राम महाबाहो शृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसि ।। ६.१०७.३ ।।
+आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ।। ६.१०७.४ ।।
+सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।। ६.१०७.५ ।।
+रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।। ६.१०७.६ ।।
+सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।एष देवासुरगणान् लोकान् पाति गभिस्तिभिः ।। ६.१०७.७ ।।
+एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।। ६.१०७.८ ।।
+पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजापाण ऋतुकर्ता प्रभाकरः ।। ६.१०७.९ ।।
+आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।। ६.१०७.१० ।।
+हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ।। ६.१०७.११ ।।
+हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।अग्निगर्भो ऽदितेः पुत्रः शङ्खः शिशिरनाशनः ।। ६.१०७.१२ ।।
+व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ।। ६.१०७.१३ ।।
+आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।। ६.१०७.१४ ।।
+नक्षत्रग्रहताराणामधिपो विश्वभावनः ।तेजसामपि तेजस्वी द्वादशात्मन्नमो ऽस्तु ते ।। ६.१०७.१५ ।।
+नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। ६.१०७.१६ ।।
+जयाय जयभद्राय हर्यश्वाय नमो नमः ।नमो नमः सहस्रांशो आदित्याय नमो नमः ।। ६.१०७.१७ ।।
+नम उग्राय वीराय सारङ्गाय नमो नमः ।नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ।। ६.१०७.१८ ।।
+ब्रह्मोशानाच्युतेशाय सूर्यायादित्यवर्चसे ।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। ६.१०७.१९ ।।
+तमोघ्नाय हिमध्नाय शत्रुघ्नायामितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।। ६.१०७.२० ।।
+तप्तचामीकराभाय वह्नये विश्वकर्मणे ।नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ।। ६.१०७.२१ ।।
+नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।। ६.१०७.२२ ।।
+एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।। ६.१०७.२३ ।।
+वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ।। ६.१०७.२४ ।।
+एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।। ६.१०७.२५ ।।
+पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्रिगुणितं जप्त्व��� युद्धेषु विजयिष्यसि ।। ६.१०७.२६ ।।
+अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।एवमुक्त्वा तदा ऽगस्त्यो जगाम च यथागतम् ।। ६.१०७.२७ ।।
+एतच्छुत्वा महातेजा नष्टशोको ऽभवत्तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।। ६.१०७.२८ ।।
+आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।। ६.१०७.२९ ।।
+रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्वयत्नेन महता वधे तस्य धृतो ऽभवत् ।। ६.१०७.३० ।।
+अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।। ६.१०७.३१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तोत्तरशततमः सर्गः ।। १०७ ।।
+स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ।। ६.१०८.१ ।।
+युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ।। ६.१०८.२ ।।
+ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।। ६.१०८.३ ।।
+तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।रथं राक्षसराजस्य नरराजो ददर्श ह ।। ६.१०८.४ ।। ।कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।। ६.१०८.५ ।।
+शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।। ६.१०८.६ ।।
+गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ।। ६.१०८.७ ।।
+उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।। ६.१०८.८ ।।
+मातले पश्य संरब्धमापतन्तं रथं रिपोः ।। ६.१०८.९ ।।
+यथा ऽ ऽपसव्यं पतता वेगेन महता पुनः ।समरे हन्तुमात्मानं तथा तेन कृता मतिः ।। ६.१०८.१० ।।
+तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।। ६.१०८.११ ।।
+अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।। ६.१०८.१२ ।।
+कामं न त्वं समाधेयः पुरन्दररथोचितः ।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।। ६.१०८.१३ ।।
+परितुष्टः स रामस्य तेन वाक्येन मातलिः ।प्रचोदयामास रथं सुरसारथिसत्तमः ।। ६.��०८.१४ ।।
+अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।। ६.१०८.१५ ।।
+ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।रथप्रतिमुखं रामं सायकैरवधूनयत् ।। ६.१०८.१६ ।।
+धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ।। ६.१०८.१७ ।।
+तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ।। ६.१०८.१८ ।।
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ।। ६.१०८.१९ ।।
+समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।रावणस्य विनाशाय राघवस्य जयाय च ।। ६.१०८.२० ।।
+ववर्ष रुधिरं देवो रावणस्य रथोपरि ।वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ।। ६.१०८.२१ ।।
+महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले ।येन येन रथो याति तेन तेन प्रधावति ।। ६.१०८.२२ ।।
+सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा ।। ६.१०८.२३ ।।
+सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः ।। ६.१०८.२४ ।।
+रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।रक्षसां च प्रहरतां गृहीता इव बाहवः ।। ६.१०८.२५ ।।
+ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः ।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ।। ६.१०८.२६ ।।
+गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ।। ६.१०८.२७ ।।
+प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् ।तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ।। ६.१०८.२८ ।।
+निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ।। ६.१०८.२९ ।।
+दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् ।। ६.१०८.३० ।।
+कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।निपेतुः शतशस्तत्र दारुणं दारुणारुताः ।। ६.१०८.३१ ।।
+जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् ।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ।। ६.१०८.३२ ।।
+एवम्प्रकारा बहवः समुत्पाता भयावहाः ।रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ।। ६.१०८.३३ ।।
+रामस्यापि निमित्तानि सौम्यानि च शुभ��नि च ।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ।। ६.१०८.३४ ।।
+निमित्तानि च सौम्यानि राघवः स्वजयाय च ।दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ।। ६.१०८.३५ ।।
+ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ।। ६.१०८.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः ।। १०८ ।।
+ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ।। ६.१०९.१ ।।
+ततो राक्षससैन्यं च हरीणां च महद्बलम् ।प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ।। ६.१०९.२ ।।
+सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ।। ६.१०९.३ ।।
+नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ।। ६.१०९.४ ।।
+रक्षसां रावणं चापि वानराणां च राघवम् ।पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ।। ६.१०९.५ ।।
+तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ।। ६.१०९.६ ।।
+जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा ।। ६.१०९.७ ।।
+ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् ।मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ।। ६.१०९.८ ।।
+ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।रथशक्तिं परामृश्य निपेतुर्धरणीतले ।। ६.१०९.९ ।।
+ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ।। ६.१०९.१० ।।
+रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ।। ६.१०९.११ ।।
+जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।स निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः ।। ६.१०९.१२ ।।
+ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव ।। ६.१०९.१३ ।।
+स रोषवशमापन्नः शरवर्षं महद्वमन् ।रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ।। ६.१०९.१४ ।।
+ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ।। ६.१०९.१५ ।।
+तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ।। ६.१०९.१६ ।।
+गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ।। ६.१०९.१७ ।।
+मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।। ६.१०९.१८ ।।
+तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।विमुच्य राघवरथं समान्ताद्वानरे बले ।। ६.१०९.१९ ।।
+सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ।। ६.१०९.२० ।।
+व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ।। ६.१०९.२१ ।।
+स मुमोच ततो बाणान् रणे शतसहस्रशः ।तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ।। ६.१०९.२२ ।।
+ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।। ६.१०९.२३ ।।
+नानिमित्तो ऽभवद्बाणो नातिभेत्ता न निष्फलः ।। ६.१०९.२४ ।।
+अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ।। ६.१०९.२५ ।।
+प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ।। ६.१०९.२६ ।।
+रावणस्य हयान् रामो हयान् रामस्य रावणः ।जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ ।। ६.१०९.२७ ।।
+एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ।। ६.१०९.२८ ।।
+प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ।। ६.१०९.२९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ।। १०९ ।।
+तौ तदा युद्ध्यमानौ तु समरे रामरावणौ ।ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ।। ६.११०.१ ।।
+अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ।। ६.११०.२ ।।
+परस्परवधे युक्तौ घोररूपौ बभूवतुः ।मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।। ६.११०.३ ।।
+अर्दयन् रावणं रामो राघवं चापि रावणः ।गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।। ६.११०.४ ।।
+क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।चेरतुः संयुगमहीं सासारौ जलदौ यथा ।। ६.११०.५ ।।
+दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।। ६.११०.६ ।।
+धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।। ६.११०.७ ।।
+रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ।। ६.११०.८ ।।
+स क्रोधवशमापन्नो हयानामपसर्पणे ।मुमोच निशितान् बाणान् राघवाय निशाचरः ।। ६.११०.९ ।।
+सो ऽतिविद्धो बलवता दशग्रीवेण राघवः ।जगाम न विकारं च न चापि व्यथितो ऽभवत् ।। ६.११०.१० ।।
+चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ।साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।। ६.११०.११ ।।
+मातलेस्तु महावेगाः शरीरे पतिताः शराः ।न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।। ६.११०.१२ ।।
+तया धर्षणया क्रुद्धो मातलेर्न तथा ऽ ऽत्मनः ।चकार शरजालेन राघवो विमुखं रिपुम् ।। ६.११०.१३ ।।
+विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः ।मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।। ६.११०.१४ ।।
+रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.१५ ।।
+तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।। ६.११०.१६ ।।
+गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ।। ६.११०.१७ ।।
+क्षुब्धानां सागराणां च पातालतलवासिनः ।व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ।। ६.११०.१८ ।।
+चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ।। ६.११०.१९ ।।
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ।। ६.११०.२० ।।
+स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ।। ६.११०.२१ ।।
+एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा ।रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ।। ६.११०.२२ ।।
+गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।। ६.११०.२३ ।।
+गगनं गगनाकारं सागरः सागरोपमः ।रामरावणयोर्युद्धं रामरावणयोरिव ।एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ।। ६.११०.२४ ।।
+ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ।। ६.११०.२५ ।।
+रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ।। ६.११०.२६ ।।
+तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।। ६.११०.२७ ।।
+द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ।। ६.११०.२८ ।।
+तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ।। ६.११०.२९ ।।
+न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।। ६.११०.३० ।।
+ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।। ६.११०.३१ ।।
+मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।। ६.११०.३२ ।।
+यैः साला गिरयो भग्ना वाली च क्षुभितो ऽम्बुधिः ।त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।किं नु तत्कारणं येन रावणे मन्दतेजसः ।। ६.११०.३३ ।।
+इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।ववर्ष शरवर्षाणि राघवो रावणोरसि ।। ६.११०.३४ ।।ा मम ।रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।। ६.११०.३५ ।।
+तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ।। ६.११०.३६ ।।
+देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ।। ६.११०.३७ ।।
+नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।रामरावणयोर्युद्धं विराममुपगच्छति ।। ६.११०.३८ ।।
+दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ।। ६.११०.३९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ।।
+अथ संस्मारयामास राघवं मातलिस्तदा ।अजानन्निव किं वीर त्वमेनमनुवर्तसे ।। ६.१११.१ ।।
+विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तत ।। ६.१११.२ ।।
+ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ।। ६.१११.३ ।।
+यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ।। ६.१११.४ ।।
+ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ।। ६.१११.५ ।।
+यस्य वाजेषु पवनः फले पावकभास्करौ ।शरीरमाकाशमयं गौरवे ���ेरुमन्दरौ ।। ६.१११.६ ।।
+जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ।। ६.१११.७ ।।
+सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ।। ६.१११.८ ।।
+द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ।। ६.१११.९ ।।
+वज्रसारं महानादं नानासमितिदारणम् ।सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ।। ६.१११.१० ।।
+कङ्कगृध्रवलानां च गोमायुगणरक्षसाम् ।नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ।। ६.१११.११ ।।
+नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ।। ६.१११.१२ ।।
+तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ।। ६.१११.१३ ।।
+अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ।। ६.१११.१४ ।।
+तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे ।सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ।। ६.१११.१५ ।।स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् ।चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ।। ६.१११.१६ ।।
+स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।कृतान्त इव चावार्यो न्यपतद्रावणोरसि ।। ६.१११.१७ ।।
+स विसृष्टो महावेगः शरीरान्तकरः शरः ।बिभेद हृदयं तस्य रावणस्य दुरात्मनः ।। ६.१११.१८ ।।
+रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।रावणस्य हरन् प्राणान् विवेश धरणीतलम् ।। ६.१११.१९ ।।
+स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः ।कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् ।। ६.१११.२० ।।
+तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् ।निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ।। ६.१११.२१ ।।
+गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ।। ६.१११.२२ ।।
+तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ।। ६.१११.२३ ।।
+नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ।। ६.१११.२४ ।।
+दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् ।गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ।। ६.१११.२५ ।।
+ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।वदन्तो राघवजयं रावणस्य च तद्वधम् ।। ६.१११.२६ ।।
+अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ।। ६.१११.२७ ।।
+निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।किरन्ती राघवरथं दुरवापा मनोरमा ।। ६.१११.२८ ।।
+राघवस्तवसंयुक्ता गगने ऽपि च शुश्रुवे ।साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ।। ६.१११.२९ ।।
+आविवेश महाहर्षो देवानां चारणैः सह ।रावणे निहते रौद्रे सर्वलोकभयङ्करे ।। ६.१११.३० ।।
+ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ।। ६.१११.३१ ।।
+ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभो ऽबवत् ।मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ।। ६.१११.३२ ।।
+ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिना ह्यपूजयन् ।। ६.१११.३३ ।।
+स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ।। ६.१११.३४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकादशोत्तरशततमः सर्गः ।। १११ ।।
+भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।शोकवेगपरीतात्मा विललाप विभीषणः ।। ६.११२.१ ।।
+वीर विक्रान्त विख्यात विनीत नयकोविद ।महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि ।। ६.११२.२ ।।
+विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।मुकुटेनापवृत्तेन भास्कराकारवर्चसा ।। ६.११२.३ ।।
+तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।काममोहपरीतस्य यत्ते न रुचितं वचः ।। ६.११२.४ ।।
+यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।न कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः ।न स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः ।। ६.११२.५ ।।
+गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ।। ६.११२.६ ।।
+आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।। ६.११२.७ ।।
+चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ।। ६.११२.८ ।।
+किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ।। ६.११२.९ ।।
+धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।रणे महान् राक्षसराजवृक्षः सम्मर्दितो र��घवमारुतेन ।। ६.११२.१० ।।
+तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ।। ६.११२.११ ।।
+पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ।। ६.११२.१२ ।।
+सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः ।। ६.११२.१३ ।।
+वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।रामः शोकसमाविष्टमित्युवाच विभीषणम् ।। ६.११२.१४ ।।
+नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः ।। ६.११२.१५ ।।
+नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ।। ६.११२.१६ ।।
+येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ।। ६.११२.१७ ।।
+नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ।। ६.११२.१८ ।।
+इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ।। ६.११२.१९ ।।
+तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ।। ६.११२.२० ।।
+तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ।। ६.११२.२१ ।।
+यो ऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ।। ६.११२.२२ ।।
+अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ।। ६.११२.२३ ।।
+एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः ।एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ।। ६.११२.२४ ।।
+स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन ।आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ।। ६.११२.२५ ।।
+मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। ६.११२.२६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ।। ११२ ।।
+रावणं निह��ं श्रुत्वा राघवेण महात्मना ।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ।। ६.११३.१ ।।
+वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ।। ६.११३.२ ।।
+उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।प्रविश्यायो धनं घोरं विचिन्वन्त्यो हतं पतिम् ।। ६.११३.३ ।।
+राजपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।। ६.११३.४ ।।
+ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ।। ६.११३.५ ।।
+ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् ।रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ।। ६.११३.६ ।।
+ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ।। ६.११३.७ ।।
+बहुमानात् परिष्वज्य काचिदेनं रुरोद ह ।चरणौ काचिदालिङ्ग्य काचित् कण्ठे ऽवलम्ब्य च ।। ६.११३.८ ।।
+उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ।। ६.११३.९ ।।
+काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ।। ६.११३.१० ।।
+एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ।। ६.११३.११ ।।
+येन वित्रासितः शक्रो येन वित्रासितो यमः ।येन वैश्रवणो राजा पुष्पकेण वियोजितः ।। ६.११३.१२ ।।
+गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।भयं येन महद्दत्तं सो ऽयं शेते रणे हतः ।। ६.११३.१३ ।।
+असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा ।न भयं यो विजानाति तस्येदं मानुषाद्भयम् ।। ६.११३.१४ ।।
+अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।हतः सो ऽयं रणे शेते मानुषेण पदातिना ।। ६.११३.१५ ।।
+यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।सो ऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ।। ६.११३.१६ ।।
+एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ।। ६.११३.१७ ।।
+अशृण्वता च सुहृदां सततं हितवादिनाम् ।मरणायाहृता सीता घातिताश्च निशाचराः ।। ६.११३.१८ ।।
+एताः सममिदानीं ते वयमात्मा च पातिताः ।ब्रुवाणो ऽपि हितं वाक्यमिष्टो भ्राता विबीषणः ।धृष्टं परुषितो मोहात्त्वया ऽ ऽत्मवधकाङ्क्षिणा ।। ६.११३.१९ ।।
+यदि निर्यातिता ते स्यात् सीता रामाय ���ैथिली ।न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ।। ६.११३.२० ।।
+वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।वयं चाविधवाः सर्वाः सकामा न च शत्रवः ।। ६.११३.२१ ।।
+त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ।। ६.११३.२२ ।।
+न कामकारः कामं वा तव राक्षसपुङ्गव ।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ।। ६.११३.२३ ।।
+वानराणां विनाशो ऽयं रक्षसां च महाहवे ।तव चैव महाबाहो दैवयोगादुपागतः ।। ६.११३.२४ ।।
+नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ।। ६.११३.२५ ।।
+विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ।। ६.११३.२६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।।
+ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ।। ६.११५.१ ।।
+रावणस्य वधं घोरं राघवस्य पराक्रमम् ।सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ।। ६.११५.२ ।।
+अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।। ६.११५.३ ।।
+राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ।। ६.११५.४ ।।
+राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ।। ६.११५.५ ।।
+तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।। ६.११५.६ ।।
+परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ।। ६.११५.७ ।।
+अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।। ६.११५.८ ।।
+विभीषणमिमं सौम्य लङ्कायामभिषेचय ।अनुरक्तं च भक्तं च मम चैवोपकारिणम् ।। ६.११५.९ ।।
+एष मे परमः कामो यदीमं रावणानुजम् ।लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् ।। ६.११५.१० ।।
+एवमुक्तस्तु सौमित्री राघवेण महात्मना ।तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ।। ६.११५.११ ।।
+तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।आदिदेश महासत्त्वान् समुद्रसलिलानये ।। ६.११५.१२ ।।
+इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।आगतास्तज्जलं गृह्य समुद्राद्वान��ोत्तमाः ।। ६.११५.१३ ।।
+ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।। ६.११५.१४ ।।
+लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ।। ६.११५.१५ ।।
+तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ।दृष्ट्वा ऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।। ६.११५.१६ ।।
+स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः ।प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ।। ६.११५.१७ ।।
+अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा ।आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ।। ६.११५.१८ ।।
+स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ।। ६.११५.१९ ।।
+कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया ।। ६.११५.२० ।।
+ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ।। ६.११५.२१ ।।
+अनुमान्यं महाराजमिमं सौम्य विभीषणम् ।। ६.११५.२२ ।।
+गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ।। ६.११५.२३ ।।
+वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ।। ६.११५.२४ ।।
+प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ।। ६.११५.२५ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।।
+इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ६.११६.१ ।।
+प्रविश्य च महातेजा रावणस्य निवेशनम् ।ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ।वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ।। ६.११६.२ ।।
+निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च ।। ६.११६.३ ।।
+दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ।तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिता ऽभवत् ।। ६.११६.४ ।।
+सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः ।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ।। ६.११६.५ ।।
+वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।विभीषणसहायश्च हरीणां सहितो बलैः ।। ६.११६.६ ।।
+कुशल��� चाहु सिद्धार्थो हतशत्रुररिन्दमः ।। ६.११६.७ ।।
+विभीषणसहायेन रामेण हरिभिः सह ।निहतो रावणो देवि लक्ष्मणस्य नयेन च ।। ६.११६.८ ।।
+पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ।। ६.११६.९ ।।
+प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ।। ६.११६.१० ।।
+लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ।। ६.११६.११ ।।
+मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ।। ६.११६.१२ ।।
+सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ।। ६.११६.१३ ।।
+तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ।। ६.११६.१४ ।।
+एवमुक्ता समुत्पत्य सीता शशिनिभानना ।प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ।। ६.११६.१५ ।।
+अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ।। ६.११६.१६ ।।
+एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ।। ६.११६.१७ ।।
+प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।प्रहर्षवशमापन्ना निर्वाक्या ऽस्मि क्षणान्तरम् ।। ६.११६.१८ ।।
+न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ।। ६.११६.१९ ।।
+न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ।। ६.११६.२० ।।
+हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ।। ६.११६.२१ ।।
+एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ।। ६.११६.२२ ।।
+भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ।। ६.११६.२३ ।।
+तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ।। ६.११६.२४ ।।
+अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ।। ६.११६.२५ ।।
+तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।। ६.११६.२६ ।।
+अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ।बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ।। ६.११६.२७ ।।
+श्लाघनीयो ऽनिलस्य त्वं पुत्रः परमधार्मिकः ।बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ।। ६.११६.२८ ।।
+तेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः ।एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ।। ६.११६.२९ ।।
+अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ।। ६.११६.३० ।।
+इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ।। ६.११६.३१ ।।
+क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।। ६.११६.३२ ।।
+घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ।राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ।। ६.११६.३३ ।।मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने ।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ।। ६.११६.३४ ।।
+घातैर्जानुप्रहारैश्च दशनानां च पातनैः ।भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ।। ६.११६.३५ ।।
+नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः ।निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ।। ६.११६.३६ ।।
+एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ।। ६.११६.३७ ।।
+एवमुक्ता हनुमता वैदेही जनकात्मजा ।उवाच धर्मसहितं हनुमन्तं यशस्विनी ।। ६.११६.३८ ।।
+राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ।। ६.११६.३९ ।।
+भाग्यवैषम्ययोगेन पुरादुश्चरितेन च ।मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ।। ६.११६.४० ।।
+प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।दासीनां रावणस्याहं मर्षयामीह दुर्बला ।। ६.११६.४१ ।।
+आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ।। ६.११६.४२ ।।
+अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः ।ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ।। ६.११६.४३ ।।
+न परः पापमादत्ते परेषां पापकर्मणाम् ।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ।। ६.११६.४४ ।।
+पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।कार्यं करुणमार्येण न कश्चिन्नापराध्यति ।। ६.११६.४५ ।।
+लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ।कुर्वतामपि पापानि नैव कार्यमशोभनम् ।। ६.११६.४६ ।।
+एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ।। ६.११६.४७ ।।
+युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ।। ६.११६.४८ ।।
+एवमुक्ता हनुमता वैदेही जनकात्मजा ।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ।। ६.११६.४९ ।।
+तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः ।हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ।। ६.११६.५० ।।
+पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ।। ६.११६.५१ ।।
+तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।आजगाम महावेगो हनुमान् यत्र राघवः ।। ६.११६.५२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षोडशोत्तरशततमः सर्गः ।। ११६ ।।
+स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ।। ६.११७.१ ।।
+यन्निमित्तो ऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ।। ६.११७.२ ।।
+सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ।। ६.११७.३ ।।
+पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ।। ६.११७.४ ।।
+एवमुक्तो हनुमता रामो धर्मभृतां वरः ।अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ।। ६.११७.५ ।।
+दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।उवाच मेघसङ्काशं विभीषणमुपस्थितम् ।। ६.११७.६ ।।
+दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ।। ६.११७.७ ।।
+एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ।। ६.११७.८ ।।
+दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ।। ६.११७.९ ।।
+एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ।। ६.११७.१० ।।
+तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ।। ६.११७.११ ।।
+तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ।। ६.११७.१२ ।।
+ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृता��् ।महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ।। ६.११७.१३ ।।
+आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ।। ६.११७.१४ ।।
+सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ।। ६.११७.१५ ।।
+तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। ६.११७.१६ ।।
+ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् ।। ६.११७.१७ ।।
+राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ।। ६.११७.१८ ।।
+स तद्वचनमाज्ञाय राघवस्य विभीषणः ।तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ।। ६.११७.१९ ।।
+कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ।। ६.११७.२० ।।
+ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ।। ६.११७.२१ ।।
+तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ।। ६.११७.२२ ।।
+उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ।। ६.११७.२३ ।।
+संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ।विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ।। ६.११७.२४ ।।
+किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः ।निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम ।। ६.११७.२५ ।।
+न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ।। ६.११७.२६ ।।
+व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ।। ६.११७.२७ ।।
+सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।दर्शने ऽस्या न दोषः स्यान्मत्समीपे विशेषतः ।। ६.११७.२८ ।।
+तदानय समीपं मे शीघ्रमेनां विभीषण ।सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ।। ६.११७.२९ ।।
+एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ।। ६.११७.३० ।।
+ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः ।निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ।। ६.११७.३१ ।।
+कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।अप्रीतमिव सीतायां तर्कयन्ति स्म र��घवम् ।। ६.११७.३२ ।।
+लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत ।। ६.११७.३३ ।।
+सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ।। ६.११७.३४ ।।
+विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ।। ६.११७.३५ ।।
+अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ।। ६.११७.३६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ।। ११७ ।।
+तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् ।हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ।। ६.११८.१ ।।
+एषा ऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ।। ६.११८.२ ।।
+गतो ऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता ।अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ।। ६.११८.३ ।।
+अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ।। ६.११८.४ ।।
+या त्वं विरहिता नीता चलचित्तेन रक्षसा ।दैवसम्पादितो दोषो मानुषेण मया जितः ।। ६.११८.५ ।।
+सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।कस्तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः ।। ६.११८.६ ।।
+लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।सफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः ।। ६.११८.७ ।।
+युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः ।। ६.११८.८ ।।
+निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः ।। ६.११८.९ ।।
+इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ।। ६.११८.१० ।।
+पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ।प्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः ।। ६.११८.११ ।।
+स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ।। ६.११८.१२ ।।
+यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ।। ६.११८.१३ ।।
+निर्जिता जीवलोकस्य तपसा भावितात्मना ।अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ।। ६.११८.१��� ।।
+विदितश्चास्तु ते भद्रे यो ऽयं रणपरिश्रमः ।स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ।। ६.११८.१५ ।।
+रक्षता तु मया वृत्तमपावदं च सर्वशः ।प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ।। ६.११८.१६ ।।
+प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता ।दीपो नेत्रातुरस्येव प्रतिकूला ऽसि मे दृढम् ।। ६.११८.१७ ।।
+तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ।। ६.११८.१८ ।।
+कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् ।तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ।। ६.११८.१९ ।।
+रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ।। ६.११८.२० ।।
+तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ।। ६.११८.२१ ।।
+इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना ।लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ।। ६.११८.२२ ।।
+सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।निवेशय मनः सीते यथा वा सुखमात्मनः ।। ६.११८.२३ ।।
+न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ।। ६.११८.२४ ।।
+ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ।। ६.११८.२५ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ।। ११८ ।।
+एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् ।। ६.११९.१ ।।
+सा तदश्रुतपूर्वं हि जने महति मैथिली ।श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् ।। ६.११९.२ ।।
+प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ।। ६.११९.३ ।।
+ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ।। ६.११९.४ ।।
+किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ।। ६.११९.५ ।।
+न तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि ।प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।। ६.११९.६ ।।
+पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षित��� ।। ६.११९.७ ।।
+यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो ।कामकारो न मे तत्र दैवं तत्रापराध्यति ।। ६.११९.८ ।।
+मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ।। ६.११९.९ ।।
+सहसंवृद्धभावाच्च संसर्गेण च मानद ।यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। ६.११९.१० ।।
+प्रेषितस्ते यदा वीरो हनुमानवलोककः ।लङ्कास्था ऽहं त्वया वीर किं तदा न विसर्जिता ।। ६.११९.११ ।।
+प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् ।त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ।। ६.११९.१२ ।।
+न वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् ।सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। ६.११९.१३ ।।
+त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ।। ६.११९.१४ ।।
+अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ।। ६.११९.१५ ।।
+न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। ६.११९.१६ ।।
+एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ।। ६.११९.१७ ।।
+चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ।। ६.११९.१८ ।।
+अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। ६.११९.१९ ।।
+एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।अमर्षवशमापन्नो राघवाननमैक्षत ।। ६.११९.२० ।।
+स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् ।चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ।। ६.११९.२१ ।।
+अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।उपासर्पत वैदेही दीप्यमानं हुताशनम् ।। ६.११९.२२ ।।
+प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ।। ६.११९.२३ ।।
+यथा मे हृदयं नित्यं नापसर्पति राघवात् ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२४ ।।
+यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। ६.११९.२५ ।।
+कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ।। ६.११९.२६ ।।
+आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च ।अहश्चापि तथा सन्ध्ये रात्रिश���च पृथिवी तथा ।यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् ।। ६.११९.२७ ।।
+एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ।। ६.११९.२८ ।।
+जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः ।ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ।। ६.११९.२९ ।।
+सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ।। ६.११९.३० ।।
+ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ।। ६.११९.३१ ।।
+प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ।। ६.११९.३२ ।।
+ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ।। ६.११९.३३ ।।
+तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.११९.३४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ।। ११९ ।।
+ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।। ६.१२०.१ ।।
+ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ।। ६.१२०.२ ।।
+षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ।। ६.१२०.३ ।।
+एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ।। ६.१२०.४ ।।
+ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ।। ६.१२०.५ ।।
+कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।। ६.१२०.६ ।।
+कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।। ६.१२०.७ ।।
+ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः ।रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।। ६.१२०.८ ।।
+अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ।। ६.१२०.९ ।।
+उपेक्षसे च वैदेहीं मानुषः पाकृतो यथा ।। ६.१२०.१० ।।
+इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ।। ६.१२०.११ ।।
+आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।यो ऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे ।। ६.१२०.१२ ।।
+इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ।। ६.१२०.१३ ।।
+भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।। ६.१२०.१४ ।।
+अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।। ६.१२०.१५ ।।
+शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ।। ६.१२०.१६ ।।
+सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।। ६.१२०.१७ ।।
+इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।। ६.१२०.१८ ।।
+सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।। ६.१२०.१९ ।।
+त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ।। ६.१२०.२० ।।
+त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।प्रभवं निधनं वा ते न विदुः को भवानिति ।। ६.१२०.२१ ।।
+दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।। ६.१२०.२२ ।।
+सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।। ६.१२०.२३ ।।
+अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ।। ६.१२०.२४ ।।
+अहं ते हृदयं राम जिह्वा देवी सरस्वती ।देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ।। ६.१२०.२५ ।।
+निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।संस्कारास्ते ऽभवन् वेदा न तदस्ति त्वया विना ।। ६.१२०.२६ ।।
+जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ।। ६.१२०.२७ ।।
+त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।। ६.१२०.२८ ।।
+सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ।। ६.१२०.२९ ।।
+तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।निहतो रावणो राम प्रहृष्टो दिवमाक्रम ।। ६.१२०.३० ।।
+अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।अमोघं दर्शनं राम न च मोघः स्तवस्तव ।। ६.१२०.३१ ।।
+अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।। ६.१२०.३२ ।।
+ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।। ६.१२०.३३ ।।
+इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ।। ६.१२०.३४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशत्युत्तरशततमः सर्गः ।। १२० ।।
+एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ।अङ्केनादाय वैदेहीमुत्पपात विभावसुः ।। ६.१२१.१ ।।
+स विधूय चितां तां तु वैदेहीं हव्यवाहनः ।उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ।। ६.१२१.२ ।।
+तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम् ।रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ।। ६.१२१.३ ।।
+अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् ।ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ।। ६.१२१.४ ।।
+अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ।। ६.१२१.५ ।।
+एषा ते राम वैदेही पापमस्यां न विद्यते ।। ६.१२१.६ ।।
+नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ।सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ।। ६.१२१.७ ।।
+रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ।त्वया विरहिता दीना विवशा निर्जनाद्वनात् ।। ६.१२१.८ ।।
+रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा ।रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ।। ६.१२१.९ ।।
+प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली ।नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ।। ६.१२१.१० ।।
+विशुद्धभावां निष्पापां पतिगृह्णीष्व राघव ।न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ।। ६.१२१.११ ।।
+ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः ।दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।। ६.१२१.१२ ।।
+एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः ।अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ।। ६.१२१.१३ ।।
+अवश्यं त्रिषु लोकेषु न सीता पापमर्हति ।दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ।। ६.१२१.१४ ।।
+बालिशः खलु कामात्मा रामो दशरथात्मजः ।इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ।। ६.१२१.१५ ।।
+अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् ।अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ।। ६.१२१.१६ ।।
+प्रत्ययार्थं तु लोका���ां त्रयाणां सत्यसंश्रयः ।उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ।। ६.१२१.१७ ।।
+इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।रावणो नातिवर्तेत वेलामिव महोदधिः ।। ६.१२१.१८ ।।
+न हि शक्तः स दुष्टात्मा मनसा ऽपि हि मैथिलीम् ।प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ।। ६.१२१.१९ ।।
+नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ।अनन्या हि मया सीता भास्करेण प्रभा यथा ।। ६.१२१.२० ।।
+विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।न हि हातुमियं शक्या कीर्तिरात्मवता यथा ।। ६.१२१.२१ ।।
+अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम् ।स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ।। ६.१२१.२२ ।।
+इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा ।समेत्य रामः प्रियया महाबलः सुखं सुखार्हो ऽनुबभूव राघवः ।। ६.१२१.२३ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः ।। १२१ ।।
+एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।इदं शुभतरं वाक्यं व्याजहार महेश्वरः ।। ६.१२२.१ ।।
+पुष्कराक्ष महाबाहो महावक्षः परन्तप ।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ।। ६.१२२.२ ।।
+दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ।। ६.१२२.३ ।।
+आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ।। ६.१२२.४ ।।
+प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ।। ६.१२२.५ ।।
+इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ।। ६.१२२.६ ।।
+एष राजा विमानस्थः पिता दशरथस्तव ।काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ।। ६.१२२.७ ।।
+इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ।। ६.१२२.८ ।।
+महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।विमानशिखरस्थस्य प्रणाममकरोत् पितुः ।। ६.१२२.९ ।।
+दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम् ।लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ।। ६.१२२.१० ।।
+हर्षेण महता ऽ ऽविष्टो विमानस्थो महीपतिः ।प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ।। ६.१२२.११ ।।
+आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ।। ६.१२२.१२ ।।
+न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः ।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ।। ६.१२२.१३ ।।
+अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् ।निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ।। ६.१२२.१४ ।।
+कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।तव प्रवाजनार्थानि स्थितानि हृदये मम ।। ६.१२२.१५ ।।
+त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।अद्य दुःखाद्विमुक्तो ऽस्मि नीहारादिव भास्करः ।। ६.१२२.१६ ।।
+तारितो ऽहं त्वया पुत्र सुपुत्रेण महात्मना ।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ।। ६.१२२.१७ ।।
+इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।वधार्थं रावणस्येदं विहितं पुरुषोत्तम ।। ६.१२२.१८ ।।
+सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ।। ६.१२२.१९ ।।
+सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ।। ६.१२२.२० ।।
+अनुरक्तेन बलिना शुचिना धर्मचारिणा ।इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ।। ६.१२२.२१ ।।
+चतुर्दश समाः सौम्य वने निर्यापितास्त्वया ।वसता सीतया सार्धं लक्ष्मणेन च धीमता ।। ६.१२२.२२ ।।
+निवृत्तवनवासो ऽसि प्रतिज्ञा सफला कृता ।रावणं च रणे हत्वा देवास्ते परितोषिताः ।। ६.१२२.२३ ।।
+कृतं कर्म यशः श्लाध्यं प्राप्तं ते शत्रुसूदन ।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ।इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।। ६.१२२.२४ ।।
+कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।। ६.१२२.२५ ।।
+स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ।। ६.१२२.२६ ।।
+स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ।। ६.१२२.२७ ।।
+रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ।। ६.१२२.२८ ।।
+धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ।। ६.१२२.२९ ।।
+रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ।। ६.१२२.३० ।।
+एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ।। ६.१२२.३१ ।।
+एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ।। ६.१२२.३२ ।।
+अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।। ६.१२२.३३ ।।
+स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ।। ६.१२२.३४ ।।
+कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।रामेम त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ।। ६.१२२.३५ ।।
+न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति ।अवश्यं तु मया वाच्यमेष ते दैवतं परम् ।। ६.१२२.३६ ।।
+इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ।। ६.१२२.३७ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः ।। १२२ ।।
+प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ।। ६.१२३.१ ।।
+अमोघं दर्शनं राम तवास्माकं परन्तप ।प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ।। ६.१२३.२ ।।
+एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ।। ६.१२३.३ ।।
+यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर ।वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ।। ६.१२३.४ ।।
+मम हेतोः पराक्रान्ता ये गता यमसादनम् ।ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः ।। ६.१२३.५ ।।
+मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ।। ६.१२३.६ ।।
+त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ।। ६.१२३.७ ।।
+नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ।। ६.१२३.८ ।।
+अकाले चापि मुख्यानि मूलानि च फलानि च ।नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ।। ६.१२३.९ ।।
+श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ।। ६.१२३.१० ।।
+महानयं वरस्तात त्वयोक्तो रघुनन्दन ।द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ।। ६.१२३.११ ।।
+समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ।नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ।। ६.१२३.१२ ।।
+समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ।सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ।। ६.१२३.१३ ।।
+अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ।। ६.१२३.१४ ।।
+सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ।। ६.१२३.१५ ।।्च सलिलायुताः ।। ६.१२३.१४ ।।
+ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ।। ६.१२३.१६ ।।
+ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ।। ६.१२३.१७ ।।
+काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ।। ६.१२३.१८ ।।
+गच्छायोध्यामितो वीर विसर्जय च वानरान् ।। ६.१२३.१९ ।।
+मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ।शत्रुघ्नं च महात्मानं मातऽः सर्वाः परन्तप ।। ६.१२३.२० ।।
+भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ।। ६.१२३.२१ ।।
+एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ।। ६.१२३.२२ ।।
+अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ।। ६.१२३.२३ ।।
+ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ।श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ।। ६.१२३.२४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ।। १२३ ।।
+तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ।। ६.१२४.१ ।।
+स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।चन्दनानि च दिव्यानि माल्यानि विविधानि च ।। ६.१२४.२ ।।
+अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ।प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ।। ६.१२४.३ ।।
+एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ।। ६.१२४.४ ।।ां विधिवत् स्नापयिष्यन्ति राघव ।हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ।। ६.१२४.५ ।।िधिवत् स्नापयिष्यन्ति राघव ।स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।सुकुमारो महाबाहुः कुमार��� सत्यसंश्रवः ।। ६.१२४.६ ।।
+तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ।। ६.१२४.७ ।।
+इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ।। ६.१२४.८ ।।
+एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।। ६.१२४.९ ।।
+अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ।पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।। ६.१२४.१० ।।
+मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ।हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।। ६.१२४.११ ।।
+त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ।तदिदं मेघसङ्काशं विमानमिह तिष्ठति ।। ६.१२४.१२ ।।
+तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ।। ६.१२४.१३ ।।
+अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।। ६.१२४.१४ ।।
+वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।। ६.१२४.१५ ।।
+अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ।प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।। ६.१२४.१६ ।।
+सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ।प्रणयाद्वहुमानाच्च सौहृदेन च राघव ।प्रसादयामि प्रेष्यो ऽहं न खल्वाज्ञापयामि ते ।। ६.१२४.१७ ।।
+एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् ।रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। ६.१२४.१८ ।।
+पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप ।सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।। ६.१२४.१९ ।।
+न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः ।। ६.१२४.२० ।।
+शिरसा याचतो यस्य वचनं न कृतं मया ।। ६.१२४.२१ ।।तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ।। ६.१२४.२२ ।।
+उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ।। ६.१२४.२३ ।।
+अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण ।मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये ।। ६.१२४.२४ ।।
+राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।तं विमानं समादाय तूर्णं प्रतिनिवर्तत ।। ६.१२४.२५ ।।
+ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ।। ६.��२४.२६ ।।
+पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ।। ६.१२४.२७ ।।
+प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ।। ६.१२४.२८ ।।
+यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ।। ६.१२४.२९ ।।
+तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।महार्हास्तरणो पेतैरुपपन्नं महाधनैः ।। ६.१२४.३० ।।उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ।। ६.१२४.३१ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ।। १२४ ।।
+उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।अविदूरस्थितो रामं प्रत्युवाच विभीषणः ।। ६.१२५.१ ।।
+स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ।। ६.१२५.२ ।।
+तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ।। ६.१२५.३ ।।
+कृतप्रयत्नकर्माणो विभीषण वनौकसः ।रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ।। ६.१२५.४ ।।
+सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ।। ६.१२५.५ ।।
+त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।। ६.१२५.६ ।।
+धनरत्नप्रदानेन कर्मैषां सफलं कुरु ।। ६.१२५.७ ।।
+एव सम्मानिताश्चैते मानार्हा मानद त्वया ।भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ।। ६.१२५.८ ।।
+त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ।। ६.१२५.९ ।।
+हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ।। ६.१२५.१० ।।
+एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।। ६.१२५.११ ।।
+ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।। ६.१२५.१२ ।।
+अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ।। ६.१२५.१३ ।।
+अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ।। ६.१२५.१४ ।।
+मित्रकार्य�� कृतमिदं भवद्भिर्वानरोत्तमाः ।अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ।। ६.१२५.१५ ।।
+यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा ।। ६.१२५.१६ ।।
+विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ।। ६.१२५.१७ ।।
+स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ।। ६.१२५.१८ ।।
+अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ।। ६.१२५.१९ ।।
+एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।। ६.१२५.२० ।।
+अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।उद्युक्ता विचरिष्यामो वनानि नगराणि च ।। ६.१२५.२१ ।।
+दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ।। ६.१२५.२२ ।।
+एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ।। ६.१२५.२३ ।।
+प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ।। ६.१२५.२४ ।।
+क्षिप्रमारोह सुग्रीव विमानं वानरै सह ।त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ।। ६.१२५.२५ ।।
+ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ।। ६.१२५.२६ ।।
+तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ।। ६.१२५.२७ ।।
+ययौ तेन विमानेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ।। ६.१२५.२८ ।।
+ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ।। ६.१२५.२९ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ।। १२५ ।।
+अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् ।उत्पपात महामेघः श्वसनेनोद्धतो यथा ।। ६.१२६.१ ।।
+पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ।। ६.१२६.२ ।।
+कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ।। ६.१२६.३ ।।
+एतदायोधनं पश्य मांसशोणितकर्दमम् ।हरीणां राक्षसानां च सीते विशसनं महत् ।। ६.१२६.४ ।।
+अत्र दत्��वरः शेते प्रमाथी राक्षसेश्वरः ।तव हेतोर्विशालाक्षि रावणो निहतो मया ।। ६.१२६.५ ।।कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः ।धूम्राक्षश्चात्र निहतो वानरेण हनूमता ।। ६.१२६.६ ।।
+विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।। ६.१२६.७ ।।
+लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।। ६.१२६.८ ।।
+विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।अकम्पनश्च निहतो बलिनो ऽन्ये च राक्षसाः ।। ६.१२६.९ ।।
+अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।सपत्नीनां सहस्रेण सास्रेण परिवारिता ।। ६.१२६.१० ।।
+एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।। ६.१२६.११ ।।
+एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।। ६.१२६.१२ ।।
+पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ।। ६.१२६.१३ ।।
+हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।। ६.१२६.१४ ।।
+एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।। ६.१२६.१५ ।।
+एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।एतत् पवित्रं परमं महापातकनाशनम् ।। ६.१२६.१६ ।।
+अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ।। ६.१२६.१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।अत्र राक्षसराजो ऽयमाजगाम विभीषणः ।। ६.१२६.१८ ।।१७ ।।ि ख्यातं त्रैलोक्येनाभिपूजितम् ।एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।। ६.१२६.१९ ।।
+अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।। ६.१२६.२० ।।
+सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ ।। ६.१२६.२१ ।।
+एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।। ६.१२६.२२ ।।
+ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ।। ६.१२६.२३ ।।
+तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ।। ६.१२६.२४ ।।
+एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।। ६.१२६.२५ ।।
+प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।। ६.१२६.२६ ।।
+प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ।। ६.१२६.२७ ।।
+त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ।। ६.१२६.२८ ।।
+सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। ६.१२६.२९ ।।
+सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।।
+मम चापि प्रियं कार्यमयोध्यादर्शनेन च ।। ६.१२६.३० ।।
+प्रवेशं चापि रामस्य पौरजानपदैः सह ।विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ।। ६.१२६.३१ ।।
+तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ।। ६.१२६.३२ ।।
+ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।। ६.१२६.३३ ।।
+दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः ।ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ।। ६.१२६.३४ ।।
+अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।समयश्च कृतः सीते वधार्थं वालिनो मया ।। ६.१२६.३५ ।।
+एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।त्वया विहीनो यत्राहं विललाप सुदुःखितः ।अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।। ६.१२६.३६ ।।
+अत्र योजनबाहुश्च कबन्धो निहतो मया ।। ६.१२६.३७ ।।विहीनो यत्राहं विललाप सुदुःखितः ।दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।रावणस्य नृशंसस्य जटायोश्च महात्मनः ।। ६.१२६.३८ ।।
+खरश्च निहतो यत्र दूषणश्च निपातितः ।त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।एतत्तदाश्रमपदमस्माकं वरवर्णिनि ।। ६.१२६.३९ ।।
+पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।। ६.१२६.४० ।।
+एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ।। ६.१२६.४१ ।।
+दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ।। ६.१२६.४२ ।।
+वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ।। ६.१२६.४३ ।।
+अस्मिन् देशे महाकायो विराधो निहतो मया ।। ६.१२६.४४ ।।
+एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः ।अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ।। ६.१२६.४५ ।।
+असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।यत्र मां केकयीपुत्रः प्रसादयितुमागतः ।। ६.१२६.४६ ।।
+एषा सा यमुना दूराद्दृश्यते चित्रकानना ।। ६.१२६.४७ ।।
+भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ।। ६.१२६.४८ ।।
+एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ।। ६.१२६.४९ ।।
+शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ।। ६.१२६.५० ।।
+एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।नानातरुशताकीर्णा सम्प्रपुष्पितकानना ।। ६.१२६.५१ ।।
+एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् ।अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।। ६.१२६.५२ ।।
+ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ।। ६.१२६.५३ ।।
+ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् ।पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् ।। ६.१२६.५४ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।
+पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ।। ६.१२७.१ ।।
+सो ऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ।। ६.१२७.२ ।।
+एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ।। ६.१२७.३ ।।
+पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ।। ६.१२७.४ ।।
+त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।। ६.१२७.५ ।।
+सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ।। ६.१२७.६ ।।
+कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ।। ६.१२७.७ ।।
+साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।समीक्ष्य विजि���ारिं त्वां मम प्रीतिरनुत्तमा ।। ६.१२७.८ ।।
+सर्वं च सुखदुःखं ते विदितं मम राघव ।। ६.१२७.९ ।।
+यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ।। ६.१२७.१० ।।
+रावणेन हृता भार्या बभूवेयमनिन्दिता ।मारीचदर्शनं चैव सीतोन्मथनमेव च ।। ६.१२७.११ ।।
+कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ।। ६.१२७.१२ ।।
+मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।। ६.१२७.१३ ।।
+यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।सपुत्रबान्धवामात्यः सबलः सहवाहनः ।। ६.१२७.१४ ।।
+यथा विनिहतः सङ्ख्ये रावणो देवकम्टकः ।समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।। ६.१२७.१५ ।।
+अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।। ६.१२७.१६ ।।
+तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।बाढमित्येव संहृष्टो धीमान् वरमयाचत ।अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।। ६.१२७.१७ ।।
+फलान्यमृतकल्पानि बहूनि विविधानि च ।भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।। ६.१२७.१८ ।।
+तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ।अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ।। ६.१२७.१९ ।।
+निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ।शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।। ६.१२७.२० ।।
+सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ।। ६.१२७.२१ ।।
+ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव ।कामादुपाश्नन्ति सहस्रशस्ते मुदा ऽन्विताः स्वर्गजितो यथैव ।। ६.१२७.२२ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ।। १२७ ।।
+अयोध्यां तु समालोक्य चिन्तयामास राघवः ।चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ।। ६.१२८.१ ।।
+जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ।। ६.१२८.२ ।।
+शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ।निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ।। ६.१२८.३ ।।
+श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ।भविष्यति गुहः प्रीतः स ममात्मसमः सखा ।। ६.१२८.४ ।।
+अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ।। ६.१२८.��� ।।
+भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ।। ६.१२८.६ ।।
+हरणं चापि वैदेह्या रावणेन बलीयसा ।। ६.१२८.७ ।।
+सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ।। ६.१२८.८ ।।
+लङ्घयित्वा महातोयमापगापतिमव्ययम् ।उपयानं समुद्रस्य सागरस्य च दर्शनम् ।। ६.१२८.९ ।।
+यथा च कारितः सेतू रावणश्च यथा हतः ।वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।। ६.१२८.१० ।।
+महादेवप्रसादाच्च पित्रा मम समागमम् ।उपयातं च मां सौम्य भरतस्य निवेदय ।। ६.१२८.११ ।।
+सह राक्षसराजेन हरीणां प्रवरेण च ।। ६.१२८.१२ ।।
+एतच्छुत्वा यमाकारं भजते भरतस्तदा ।स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ।। ६.१२८.१३ ।।
+जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.१४ ।।
+ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ।। ६.१२८.१५ ।।
+सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ।पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ।। ६.१२८.१६ ।।
+सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् ।प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ।। ६.१२८.१७ ।।
+तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ।। ६.१२८.१८ ।।
+इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ।। ६.१२८.१९ ।।
+अथोत्पपात वेगेन हनुमान् मारुतात्मजः ।गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ।। ६.१२८.२० ।।
+लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।। ६.१२८.२१ ।।
+स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।। ६.१२८.२२ ।।ुनयोर्मध्यं सन्निपातमतीत्य च ।सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ।। ६.१२८.२३ ।।
+पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ।। ६.१२८.२४ ।।
+एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ।उत्पपात महावेगो वेगवानविचारयन् ।। ६.१२८.२५ ।।
+सो ऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ।गोमतीं तां च सो ऽपश्यद्भीमं सालवनं तथा ।प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि ।। ६.१२८.२६ ।।
+स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ।। ६.१२८.२७ ।।
+स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ।। ६.१२८.२८ ।।
+क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।ददर्श भरतं दीनं कृशमाश्रमवासिनम् ।। ६.१२८.२९ ।।
+जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ।। ६.१२८.३० ।।
+समुन्नतजटाभारं वल्कलाजिनवाससम् ।नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ।। ६.१२८.३१ ।।
+पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ।। ६.१२८.३२ ।।
+उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ।। ६.१२८.३३ ।।
+न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ।। ६.१२८.३४ ।।
+तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः ।। ६.१२८.३५ ।।
+वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ।। ६.१२८.३६ ।।
+प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ।। ६.१२८.३७ ।।
+निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।। ६.१२८.३८ ।।
+लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।सीता समग्रा रामेण महेन्द्रेण यथा शची ।। ६.१२८.३९ ।।
+एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ।। ६.१२८.४० ।।
+ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ।। ६.१२८.४१ ।।
+अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः ।। ६.१२८.४२ ।।
+देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ।। ६.१२८.४३ ।।
+गवां शतसहस्रं च ग्रामाणां च शतं परम् ।सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ।। ६.१२८.४४ ।।
+हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ।। ६.१२८.४५ ।।
+निशम्य र���मागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ।प्रहर्षितो रामदिदृक्षया ऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ।। ६.१२८.४६ ।।
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ।। १२८ ।।
+प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। ७.१.१ ॥
+कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। ७.१.२ ॥
+स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। ७.१.३ ॥
+नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। ७.१.४ ॥
+वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः ।जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ।। ७.१.५ ॥
+उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ।। ७.१.६ ॥
+सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ।। ७.१.७ ॥
+द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ।। ७.१.८ ॥
+प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।समीपं राघवस्याशु प्रविवेश महात्मनः ।। ७.१.९ ॥
+नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।। ७.१.१० ॥
+अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ।। ७.१.११ ॥
+श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ।। ७.१.१२ ॥
+तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ।। ७.१.१३ ॥
+रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह ।तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।। ७.१.१४ ॥
+कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ।। ७.१.१५ ॥
+रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ।। ७.१.१६ ॥
+कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ।। ७.१.१७ ॥
+दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।न हि भारः स ते राम रावणः पुत��रपौत्रवान् ।। ७.१.१८ ॥
+सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ।। ७.१.१९ ॥
+दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ।। ७.१.२० ॥
+मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप ।दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ।। ७.१.२१ ॥
+यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ।। ७.१.२२ ॥
+त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।दिष्ट्या ते निहता राम महावीर्या निशाचराः ।। ७.१.२३ ॥
+कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ।। ७.१.२४ ॥
+युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ।। ७.१.२५ ॥
+कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ।। ७.१.२६ ॥
+दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ।। ७.१.२७ ॥
+सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ।। ७.१.२८ ॥
+दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ।। ७.१.२९ ॥
+अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ।। ७.१.३० ॥
+विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ।। ७.१.३१ ॥
+एते चान्ये च बहवो राक्षसाः कामरूपिणः ।दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ।। ७.१.३२ ॥
+दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥
+दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। ७.१.३३ ॥
+श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ।। ७.१.३४ ॥
+भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ।। ७.१.३५ ॥
+महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
+अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ।। ७.१.३६ ॥
+अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ।। ७.१.३७ ॥
+कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ।। ७.१.३८ ॥
+शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।। ७.१.३९ ॥
+शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः ।कथं च बलवानन्पुत्रो न पिता तस्य रावणः ।। ७.१.४० ॥
+कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ।। ७.१.४१ ॥
+तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ॥
+शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ॥
+तावत्ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ॥
+पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ॥
+नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ॥
+प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ॥
+स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ॥
+तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ॥
+देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ॥
+सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ॥
+देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ॥
+अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ॥
+तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ॥
+तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। ७.२.१४ ॥
+गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ॥
+तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ॥
+सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ॥
+वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ॥
+तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ॥
+सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ॥
+किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ॥
+न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ॥
+तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ॥
+स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ॥
+भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ॥
+तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ॥
+तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ॥
+दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ॥
+तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ॥
+परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ॥
+उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ॥
+तस्मात्स विश्रवा नाम भविष्यति न संशयः ।एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ॥
+अचिरेणैव कालेनासूत विश्रवसं सुतम् ।त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ॥
+श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।।
+अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ॥
+सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।स���्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ॥
+ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ॥
+प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ॥
+मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ॥
+जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ॥
+दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ॥
+यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ॥
+स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ॥
+तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ॥
+स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ॥
+पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ॥
+एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ॥
+गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ॥
+अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ॥
+अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ॥
+अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। ७.३.१७ ॥
+यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ॥
+एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ॥
+स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ॥
+इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। ७.३.२१ ॥
+गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।वने स पितरं प्राह प्र���ञ्जलिः प्रयतात्मवान् ।निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ॥
+भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ॥
+न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। ७.३.२४ ॥
+वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। ७.३.२५ ॥
+तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। ७.३.२६ ॥
+राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। ७.३.२७ ॥
+हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। ७.३.२८ ॥
+राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.२९ ॥
+शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.३० ॥
+निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.३१ ॥
+निवासयामास तदा लङ्कां पर्वतमूर्धनि ।नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.३२ ॥
+अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। ७.३.३३ ॥
+स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.३४ ॥
+काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.३५ ॥
+स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.३६ ।।
+श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।। ७.४.१ ॥
+ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।। ७.४.२ ॥
+भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।। ७.४.३ ॥
+पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।। ७.४.४ ॥
+रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।। ७.४.५ ॥
+क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत���कटः ।अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। ७.४.६ ॥
+एतद्विस्तरतः सर्वं कथयस्व ममानघ ।कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।। ७.४.७ ॥
+राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।। ७.४.८ ॥
+प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।। ७.४.९ ॥
+ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। ७.४.१० ॥
+प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।। ७.४.११ ॥
+रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।। ७.४.१२ ॥
+रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।। ७.४.१३ ॥
+तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।। ७.४.१४ ॥
+प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।। ७.४.१५ ॥
+स कालभगिनीं कन्यां भयां नाम भयावहाम् ।उदावहदमेयात्मा स्वयमेव महामतिः ।। ७.४.१६ ॥
+स तस्यां जनयामास हेती राक्षसपुङ्गवः ।पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।। ७.४.१७ ॥
+विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।। ७.४.१८ ॥
+स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।। ७.४.१९ ॥
+सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।। ७.४.२० ॥
+अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।। ७.४.२१ ॥
+सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।रमते स्म तया सार्धं पौलोम्या मघवानिव ।। ७.४.२२ ॥
+केनचित्त्वथ कालेन राम सालकटङ्कटा ।विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ।। ७.४.२३ ॥
+ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ।। ७.४.२४ ॥
+समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ।। ७.४.२५ ॥
+उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।निध��यास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ।। ७.४.२६ ॥
+ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ।। ७.४.२७ ॥
+अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ।। ७.४.२८ ॥
+तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ।। ७.४.२९ ॥
+पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।उमयापि वरो दत्तो राक्षसानां नृपात्मज ।। ७.४.३० ॥
+सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ।। ७.४.३१ ॥
+ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ।। ७.४.३२ ।।
+सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ।। ७.५.१ ॥
+तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ।। ७.५.२ ॥
+वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ।। ७.५.३ ॥
+स तया सह संयुक्तो रराज रजनीचरः ।अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।। ७.५.४ ॥
+देववत्यां सुकेशस्तु जनयामास राघव ।। ७.५.५ ॥
+त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ७.५.६ ॥
+त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।। ७.५.७ ॥
+त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ७.५.८ ॥
+वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।। ७.५.९ ॥
+प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।। ७.५.१० ॥
+सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। ७.५.११ ॥
+ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। ७.५.१२ ॥
+ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।ऊचुः प्राञ्जलयः सर्वे वेपमा��ा इव द्रुमाः ।। ७.५.१३ ॥
+तपसाराधितो देव यदि नो दिशसे वरम् ।अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। ७.५.१४ ॥
+प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।। ७.५.१५ ॥
+एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। ७.५.१६ ॥
+वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। ७.५.१७ ॥
+तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। ७.५.१८ ॥
+अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। ७.५.१९ ॥
+ओजस्तेजोबलवतां महतामात्मतेजसा ।गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। ७.५.२० ॥
+अस्माकमपि तावत्त्वं गृहं कुरु महामते ।हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.२१ ॥
+विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.२२ ॥
+दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.२३ ॥
+शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे ।शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.२४ ॥
+त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.२५ ॥
+मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.२६ ॥
+अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.२७ ॥
+भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। ७.५.२८ ॥
+विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.२९ ॥
+दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.३० ॥
+एतस्मिन्नेव काले तु यथाकामं च राघव ।नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.३१ ॥
+तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.३२ ॥
+कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.३३ ॥
+दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।कुतदारास्तु ते राम सुकेशतनया���्तदा ।। ७.५.३४ ॥
+चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.३५ ॥
+स तस्यां जनयामास यदपत्यं निबोध तत् ।वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.३६ ॥
+सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.३७ ॥
+सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना ।नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.३८ ॥
+सुमाली जनयामास यदपत्यं निशाचरः ।केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.३९ ॥
+प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः ।धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.४० ॥
+संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥
+कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ७.५.४१ ॥
+मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ७.५.४२ ॥
+सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। ७.५.४३ ॥
+अनिलश्चानलश्चैव हरः सम्पातिरेव च ।एते विभीषणामात्या मालेयास्तु निशाचरः ।। ७.५.४४ ॥
+ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। ७.५.४५ ॥
+जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। ७.५.४६ ।।
+तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। ७.६.१ ॥
+जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। ७.६.२ ॥
+ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। ७.६.३ ॥
+सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। ७.६.४ ॥
+शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ।। ७.६.५ ॥
+अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ।। ७.६.६ ॥
+इति माली सुमाली च माल्यवांश्चैव राक्षसाः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।तन्नो देव भया��्तानामभयं दातुमर्हसि ।। ७.६.७ ॥
+अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ७.६.८ ।।धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ७.६.९ ॥
+अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ।। ७.६.१० ॥
+एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ।। ७.६.११ ॥
+ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। ७.६.१२ ॥
+शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ।। ७.६.१३ ॥
+सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।आक्रम्य वरदानेन स्थानान्यपहृतानि नः ।। ७.६.१४ ॥
+लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ।। ७.६.१५ ॥
+स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ।। ७.६.१६ ॥
+चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ।। ७.६.१७ ॥
+राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।नुदं त्वं नो भयं देव नीहारमिव भास्करः ।। ७.६.१८ ॥
+इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ।। ७.६.१९ ॥
+सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ।। ७.६.२० ॥
+तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ।। ७.६.२१ ॥
+इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ।। ७.६.२२ ॥
+विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ।। ७.६.२३ ॥
+अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ।। ७.६.२४ ॥
+सुकेशतनया देव वरदानबलोद्धताः ।बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ।। ७.६.२५ ॥
+राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ।। ७.६.२६ ॥
+तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ।। ७.६.२७ ��
+इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ।। ७.६.२८ ॥
+अवध्या मम ते देवाः सुकेशतनया रणे ।मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ।। ७.६.२९ ॥
+यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ।। ७.६.३० ॥
+हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ।। ७.६.३१ ॥
+ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ।। ७.६.३२ ॥
+देवानां भयभीतानां हरिणा राक्षसर्षभौ ।प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ।। ७.६.३३ ॥
+हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ।। ७.६.३४ ॥
+राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः ।यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ।। ७.६.३५ ॥
+असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ।। ७.६.३६ ॥
+सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ।। ७.६.३७ ॥
+नारायणेन निहताः शतशो ऽथ सहस्रशः ।एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ।। ७.६.३८ ॥
+ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ।। ७.६.३९ ॥
+स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ।। ७.६.४० ॥
+देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ।। ७.६.४१ ॥
+नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ।। ७.६.४२ ॥
+विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ।। ७.६.४३ ॥
+तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ७.६.४४ ॥
+एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥
+युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ।। ७.६.४५ ॥
+इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः ।युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ।। ७.६.४६ ॥
+स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।खरैर्गोभी रथोष्ट्रैश��च शिंशुमारैर्भुजङ्गमैः ।। ७.६.४७ ॥
+मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ।। ७.६.४८ ॥
+त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ।। ७.६.४९ ॥
+लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः ।। ७.६.५० ॥
+रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ।। ७.६.५१ ॥
+प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ।। ७.६.५२ ॥
+भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ।। ७.६.५३ ॥
+अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ।। ७.६.५४ ॥
+अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। ७.६.५५ ॥
+सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ७.६.५६ ॥
+राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥
+काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। ७.६.५७ ॥
+उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। ७.६.५८ ॥
+माल्यवांश्च सुमाली च माली च सुमहाबलाः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। ७.६.५९ ॥
+माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। ७.६.६० ॥
+तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ७.६.६१ ॥
+राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ७.६.६२ ॥
+स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। ७.६.६३ ॥
+आबध्य शरसम्पूर्णे इषुधी विमले तदा ।श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥
+शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ।। ७.६.६४ ॥
+सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। ७.६.६५ ॥
+सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ७.६.६६ ॥
+स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।समा���सादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ।। ७.६.६७ ॥
+सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ।। ७.६.६८ ॥
+ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ।। ७.६.६९ ।।
+नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.१ ॥
+श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.२ ॥
+शलभा इव केदारं मशका इव पर्वतम् ।यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.३ ॥
+तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.४ ॥
+स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.५ ॥
+राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.६ ॥
+निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.७ ॥
+शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.८ ॥
+विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.९ ॥
+सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.१० ॥
+शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.११ ॥
+न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.१२ ॥
+शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.१३ ॥
+भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.१४ ॥
+व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.१५ ॥
+शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। ७.७.१६ ॥
+तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।रथान्पताकास्तूणीरांश्��िच्छेद स हरिः शरैः ।। ७.७.१७ ॥
+सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। ७.७.१८ ॥
+तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। ७.७.१९ ॥
+शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। ७.७.२० ॥
+द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। ७.७.२१ ॥
+तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। ७.७.२२ ॥
+राक्षसानां सहस्राणि निहत्य मधुसूदनः ।वारिजं पूरयामास तोयदं सुरराडिव ।। ७.७.२३ ॥
+नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। ७.७.२४ ॥
+प्रभग्ने राक्षसबले नारायणशराहते ।सुमाली शरवर्षेण निववार रणे हरिम् ।। ७.७.२५ ॥
+स तु तं छादयामास नीहार इव भास्करम् ।राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। ७.७.२६ ॥
+अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। ७.७.२७ ॥
+उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। ७.७.२८ ॥
+सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। ७.७.२९ ॥
+तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। ७.७.३० ॥
+ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। ७.७.३१ ॥
+माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। ७.७.३२ ॥
+अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। ७.७.३३ ॥
+अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। ७.७.३४ ॥
+ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। ७.७.३५ ॥
+मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ७.७.३६ ॥
+विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।आपुप्लुवे गदापाणिर्गिर��यग्रादिव केसरी ।। ७.७.३७ ॥
+गदया गरुडेशानमीशानमिव चान्तकः ।ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। ७.७.३८ ॥
+गदयाभिहतस्तेन मालिना गरुडो भृशम् ।रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। ७.७.३९ ॥
+पराङ्मुखे कृते देवे मालिना गरुडेन वै ।उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। ७.७.४० ॥
+रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।। ७.७.४१ ॥
+तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। ७.७.४२ ॥
+तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। ७.७.४३ ॥
+तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। ७.७.४४ ॥
+ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। ७.७.४५ ॥
+मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। ७.७.४६ ॥
+गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। ७.७.४७ ॥
+चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। ७.७.४८ ॥
+केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। ७.७.४९ ॥
+नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। ७.७.५० ॥
+भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। ७.७.५१ ॥
+सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। ७.७.५२ ॥
+ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। ७.७.५३ ॥
+चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। ७.७.५४ ॥
+विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। ७.७.५५ ।।
+हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार���णवः ।। ७.८.१ ॥
+संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ॥
+नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ॥
+पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ॥
+युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ॥
+माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ॥
+युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ॥
+प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ॥
+देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ॥
+माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ॥
+ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ॥
+स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ॥
+सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ॥
+तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ॥
+ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ॥
+तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ॥
+ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ॥
+वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ॥
+द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ॥
+पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ॥
+एवं ते राक्षसा तेन हरिणा कमलेक्षण ।बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ॥
+अशक्नुवन्तस्ते विष्णुं प्रति��ोद्धुं भयार्दिताः ।त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ॥
+सुमालिनं समासाद्य राक्षसं रघुसत्तम ।स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ॥
+ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ॥
+न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ॥
+भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ॥
+नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ॥
+एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ॥
+चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।।
+कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ।। ७.९.१ ॥
+नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।। ७.९.२ ॥
+राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ।। ७.९.३ ॥
+गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ।। ७.९.४ ॥
+रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।इत्येवं चिन्तयामास राक्षसानां महामतिः ।। ७.९.५ ॥
+किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ७.९.६ ॥
+पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते ।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ।। ७.९.७ ॥
+त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.९.८ ॥
+न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ७.९.९ ॥
+त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ।। ७.९.१० ॥
+सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।भज विश्रवसं पुत्रि पौ��स्त्यं वरय स्वयम् ।। ७.९.११ ॥
+ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। ७.९.१२ ॥
+सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। ७.९.१३ ॥
+एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। ७.९.१४ ॥
+अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। ७.९.१५ ॥
+स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। ७.९.१६ ॥
+भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। ७.९.१७ ॥
+एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। ७.९.१८ ॥
+किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। ७.९.१९ ॥
+स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। ७.९.२० ॥
+सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। ७.९.२१ ॥
+शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। ७.९.२२ ॥
+प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। ७.९.२३ ॥
+भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः ।नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। ७.९.२४ ॥
+कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। ७.९.२५ ॥
+पश्चिमो यस्तव सुतो भविष्यति शुभानने ।मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। ७.९.२६ ॥
+एवमुक्ता तु सा कन्या राम कालेन केनचित् ।जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। ७.९.२७ ॥
+दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ।ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। ७.९.२८ ॥
+तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः ।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। ७.९.२९ ॥
+ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः ।प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। ७.९.३० ॥
+चकम्पे जगती ��ैव ववुर्वाताः सुदारुणाः ।अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। ७.९.३१ ॥
+अथ नामाकरोत्तस्य पितामहसमः पिता ।दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। ७.९.३२ ॥
+तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ७.९.३३ ॥
+ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना ।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ७.९.३४ ॥
+तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। ७.९.३५ ॥
+नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। ७.९.३६ ॥
+तौ तु तत्र महारण्ये ववृधाते महौजसौ ।कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। ७.९.३७ ॥
+कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। ७.९.३८ ॥
+विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। ७.९.३९ ॥
+अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। ७.९.४० ॥
+तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। ७.९.४१ ॥
+पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ।। ७.९.४२ ॥
+दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ।। ७.९.४३ ॥
+मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ।। ७.९.४४ ॥
+सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा ।भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ।। ७.९.४५ ॥
+ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ।। ७.९.४६ ॥
+प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च ।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ।। ७.९.४७ ॥
+स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ७.९.४८ ।।
+अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ।। ७.१०.१ ॥
+अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ।। ७.१०.२ ॥
+कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ।। ७.१०.३ ॥
+मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ।। ७.१०.४ ॥
+एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ७.१०.५ ॥
+विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ७.१०.६ ॥
+समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ।। ७.१०.७ ॥
+पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ।। ७.१०.८ ॥
+एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।दशवर्षसहस्राणि गतानि नियतात्मनः ।। ७.१०.९ ॥
+दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ।। ७.१०.१० ॥
+एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ७.१०.११ ॥
+अथ वर्षसहस्रे तु दशमे दशमं शिरः ।छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। ७.१०.१२ ॥
+पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत ।। ७.१०.१३ ॥
+शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः ।कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। ७.१०.१४ ॥
+अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना ।प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। ७.१०.१५ ॥
+भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। ७.१०.१६ ॥
+एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। ७.१०.१७ ॥
+एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। ७.१०.१८ ॥
+सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। ७.१०.१९ ॥
+नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। ७.१०.२० ॥
+एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।उवाच वचनं देवः सह देवैः पितामहः ।। ७.१०.२१ ॥
+भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ।एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। ७.१०.२२ ॥
+शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। ७.१०.२३ ॥
+पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। ७.१०.२४ ॥
+छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। ७.१०.२५ ॥
+एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। ७.१०.२६ ॥
+एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।विभीषणमथोवाच वाक्यं लोकपितामहः ।। ७.१०.२७ ॥
+विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। ७.१०.२८ ॥
+विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। ७.१०.२९ ॥
+भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् ।प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। ७.१०.३० ॥
+परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। ७.१०.३१ ॥
+या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। ७.१०.३२ ॥
+एष मे परमोदार वरः परमको मतः ।नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। ७.१०.३३ ॥
+पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ७.१०.३४ ॥
+यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ७.१०.३५ ॥
+इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। ७.१०.३६ ॥
+न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। ७.१०.३७ ॥
+नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश ।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। ७.१०.३८ ॥
+अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। ७.१०.३९ ॥
+वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। ७.१०.४० ॥
+एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः ।चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। ७.१०.४१ ॥
+प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। ७.१०.४२ ॥
+प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ७.१०.४३ ॥
+तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण महाबाहो ���रं वरय यो मतः ।। ७.१०.४४ ॥
+कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। ७.१०.४५ ॥
+एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। ७.१०.४६ ॥
+ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। ७.१०.४७ ॥
+कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। ७.१०.४८ ॥
+अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः ।एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। ७.१०.४९ ।।
+सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। ७.११.१ ॥
+मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। ७.११.२ ॥
+सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। ७.११.३ ॥
+दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः ।यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। ७.११.४ ॥
+यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् ।तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ७.११.५ ॥
+असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् ।विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। ७.११.६ ॥
+अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७.११.७ ॥
+यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। ७.११.८ ॥
+त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः ।सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। ७.११.९ ॥
+अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। ७.११.१० ॥
+साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। ७.११.११ ॥
+कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। ७.११.१२ ॥
+प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। ७.११.१३ ॥
+दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।��� ७.११.१४ ॥
+अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते ।भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। ७.११.१५ ॥
+अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। ७.११.१६ ॥
+दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। ७.११.१७ ॥
+निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। ७.११.१८ ॥
+नैतदेको भवानेव करिष्यति विपर्ययम् ।सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। ७.११.१९ ॥
+एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। ७.११.२० ॥
+स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। ७.११.२१ ॥
+त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। ७.११.२२ ॥
+प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। ७.११.२३ ॥
+इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। ७.११.२४ ॥
+तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। ७.११.२५ ॥
+स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। ७.११.२६ ॥
+प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। ७.११.२७ ॥
+तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। ७.११.२८ ॥
+इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। ७.११.२९ ॥
+तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज ।तदेषा दीयतां तात याचतस्तस्य सामतः ।। ७.११.३० ॥
+प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। ७.११.३१ ॥
+दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। ७.११.३२ ॥
+ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। ७.११.३३ ॥
+एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। ७.११.३४ ॥
+अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ।एष तात दशग्��ीवो दूतं प्रेषितवान्मम ।। ७.११.३५ ॥
+दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। ७.११.३६ ॥
+ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः ।प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। ७.११.३७ ॥
+दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। ७.११.३८ ॥
+स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ७.११.३९ ॥
+वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः ।न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। ७.११.४० ॥
+तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। ७.११.४१ ॥
+तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। ७.११.४२ ॥
+कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। ७.११.४३ ॥
+तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः ।विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। ७.११.४४ ॥
+न हि क्षमं तवानेन वैरं धनद रक्षसा ।जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। ७.११.४५ ॥
+एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् ।सदारपुत्रः सामान्यः सवाहनधनो गतः ।। ७.११.४६ ॥
+प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् ।प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। ७.११.४७ ॥
+शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः ।प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ७.११.४८ ॥
+एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। ७.११.४९ ॥
+धनदेन परित्यक्तां सुविभक्तमहापथाम् ।आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। ७.११.५० ॥
+स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ।। ७.११.५१ ॥
+धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ।। ७.११.५२ ।।
+राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। ७.१२.१ ॥
+स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। ७.१२.२ ॥
+अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.३ ॥
+कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ।अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.४ ॥
+मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.५ ॥
+हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.६ ॥
+तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.७ ॥
+वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.८ ॥
+तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। ७.१२.९ ॥
+तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.१० ॥
+भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् ।कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.११ ॥
+कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.१२ ॥
+मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। ७.१२.१३ ॥
+त्वामिदानीं कथं तात जानीयां को भवानिति ।एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। ७.१२.१४ ॥
+अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। ७.१२.१५ ॥
+एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। ७.१२.१६ ॥
+करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। ७.१२.१७ ॥
+इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता ।कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। ७.१२.१८ ॥
+बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत ।प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। ७.१२.१९ ॥
+स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। ७.१२.२० ॥
+अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। ७.१२.२१ ॥
+एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। ७.१२.२२ ॥
+वैरोचनस्य दौहित्रीं वज��रज्वालेति नामतः ।तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.२३ ॥
+गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.२४ ॥
+तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ।सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.२५ ॥
+मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.२६ ॥
+एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.२७ ॥
+ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.२८ ॥
+जातमात्रेण हि पुरा तेन रावणसूनुना ।रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.२९ ॥
+जडीकृता च सा लङ्का तस्य नादेन राघव ।पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.३० ॥
+सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे ।रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.३१ ॥
+मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। ७.१२.३२ ।।
+अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।। ७.१३.१ ॥
+ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम् ।। ७.१३.२ ॥
+विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।। ७.१३.३ ॥
+दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।। ७.१३.४ ॥
+वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ।दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।। ७.१३.५ ॥
+मनोहरं सर्वसुखं कारयामास राक्षसः ।सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।। ७.१३.६ ॥
+तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः ।बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।। ७.१३.७ ॥
+निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।। ७.१३.८ ॥
+उद्यानानि च चित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।। ७.१३.९ ॥
+नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।। ७.१३.१० ॥
+तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ७.१३.११ ॥
+सौभ्रात्���दर्शनार्थं तु दूतं वैश्रवणस्तदा ।लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।। ७.१३.१२ ॥
+स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।। ७.१३.१३ ॥
+पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः ।सभायां दर्शयामास तमासीनं दशाननम् ।। ७.१३.१४ ॥
+स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।। ७.१३.१५ ॥
+तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।। ७.१३.१६ ॥
+राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।। ७.१३.१७ ॥
+साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।। ७.१३.१८ ॥
+दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।। ७.१३.१९ ॥
+निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। ७.१३.२० ॥
+अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।। ७.१३.२१ ॥
+तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। ७.१३.२२ ॥
+का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। ७.१३.२३ ॥
+देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।। ७.१३.२४ ॥
+ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।। ७.१३.२५ ॥
+समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। ७.१३.२६ ॥
+पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।। ७.१३.२७ ॥
+मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।। ७.१३.२८ ॥
+व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ।तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।। ७.१३.२९ ॥
+तपसा निर्जितश्चैव सखा भव ममानघ ।देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।। ७.१३.३० ॥
+एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ।एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।। ७.१३.३१ ॥
+आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।। ७.१३.३२ ॥
+तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ।चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।। ७.१३.३३ ॥
+एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः ।हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।। ७.१३.३४ ॥
+विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।। ७.१३.३५ ॥
+हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।महेश्वरसखित्वं तु मूढ श्रावयते किल ।। ७.१३.३६ ॥
+न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।। ७.१३.३७ ॥
+न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।। ७.१३.३८ ॥
+त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। ७.१३.३९ ॥
+एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।। ७.१३.४० ॥
+एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।। ७.१३.४१ ॥
+एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।। ७.१३.४२ ।।
+ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। ७.१४.१ ॥
+धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। ७.१४.२ ॥
+पुराणि स नदीः शैलान्वनान्युपवनानि च ।अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ७.१४.३ ॥
+सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। ७.१४.४ ॥
+यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। ७.१४.५ ॥
+ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। ७.१४.६ ॥
+ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। ७.१४.७ ॥
+ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। ७.१४.८ ॥
+स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ।। ७.१४.९ ॥
+ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। ७.१४.१० ॥
+ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ।। ७.१४.११ ॥
+स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ।। ७.१४.१२ ॥
+न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।। ७.१४.१३ ॥
+स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ।। ७.१४.१४ ॥
+स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ।। ७.१४.१५ ॥
+तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। ७.१४.१६ ॥
+केचित्समाहता भग्नाः पतिताः समरक्षितौ ।ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ।। ७.१४.१७ ॥
+श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।सीदन्ति च तदा यक्षाः कूला इव जलेन ह ।। ७.१४.१८ ॥
+हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।। ७.१४.१९ ॥
+भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ।। ७.१४.२० ॥
+एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ।। ७.१४.२१ ॥
+तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ।। ७.१४.२२ ॥
+ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ।। ७.१४.२३ ॥
+ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ।। ७.१४.२४ ॥
+तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। ७.१४.२५ ॥
+स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ।। ७.१४.२६ ॥
+ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ।। ७.१४.२७ ॥
+स शैलशिखराभेण तोरणेन समाहतः ।जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ।। ७.१४.२८ ॥
+तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ।। ७.१४.२९ ॥
+ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्त���ा ।। ७.१४.३० ।।
+ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ।। ७.१५.१ ॥
+रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ।। ७.१५.२ ॥
+एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ।। ७.१५.३ ॥
+ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ।। ७.१५.४ ॥
+कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ।। ७.१५.५ ॥
+ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ।। ७.१५.६ ॥
+यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।महोदरेण चानिन्द्यं सहस्रमपरं हतम् ।। ७.१५.७ ॥
+क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ।। ७.१५.८ ॥
+क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। ७.१५.९ ॥
+धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। ७.१५.१० ॥
+ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। ७.१५.११ ॥
+धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। ७.१५.१२ ॥
+तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। ७.१५.१३ ॥
+ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। ७.१५.१४ ॥
+ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। ७.१५.१५ ॥
+ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। ७.१५.१६ ॥
+स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। ७.१५.१७ ॥
+यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। ७.१५.१८ ॥
+यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.१९ ॥
+देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ���येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.२० ॥
+मातरं पितरं यो हि आचार्यं चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.२१ ॥
+अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.२२ ॥
+धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.२३ ॥
+पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.२४ ॥
+कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.२५ ॥
+बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.२६ ॥
+एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.२७ ॥
+एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.२८ ॥
+ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.२९ ॥
+ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.३० ॥
+आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.३१ ॥
+ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.३२ ॥
+व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.३३ ॥
+बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.३४ ॥
+जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.३५ ॥
+कृत्तमूल इवाशोको निपपात धनाधिपः ।। ७.१५.३६ ॥
+ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.३७ ॥
+निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.३८ ॥
+काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। ७.१५.३९ ॥
+मनोजवं कामगमं कामरूपं विहङ्गमम् ।मणिकाञ्चनसोपानं तप्तकाञ्चनव��दिकम् ।। ७.१५.४० ॥
+देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ७.१५.४१ ॥
+निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। ७.१५.४२ ॥
+स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। ७.१५.४३ ॥
+जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।। ७.१५.४४ ॥
+स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। ७.१५.४५ ।।
+स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ॥
+अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ॥
+स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ॥
+विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ॥
+किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ॥
+ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ॥
+अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ॥
+इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ॥
+ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ॥
+निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ॥
+सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ॥
+रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ॥
+सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ॥
+तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ॥
+तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ॥
+यस्माद्वानररूपं मामवज्ञाय दशानन ।अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ॥
+तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ॥
+नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ॥
+ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ॥
+किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ॥
+इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ॥
+अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ॥
+पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ॥
+केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ॥
+एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ॥
+चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ॥
+ततो राम महादवो देवानां प्रवरो हरः ।पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ॥
+पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ॥
+रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ॥
+मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ॥
+समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ॥
+अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ॥
+तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ॥
+कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ॥
+सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ॥
+ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ॥
+प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ॥
+यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ॥
+देवता मानुषा यक्षा ये चान्ये जगतीतले ।एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ॥
+गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ॥
+एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ॥
+अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ॥
+मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ॥
+वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ॥
+ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ॥
+दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ॥
+एवं महेश्वरेणैव कृतनामा स रावणः ।अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ॥
+ततो महीतले राम पर्यक्रामत रावणः ।क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ॥
+केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ॥
+अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।।
+अथ राजन्महाबाहुर्विचरन्स महीतले ।हिमवद्वनमासाद्य परिचक्राम रावणः ।। ७.१७.१ ॥
+तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ।। ७.१७.२ ॥
+स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् ।काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ७.१७.३ ॥
+किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। ७.१७.४ ।।रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् ।न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ७.१७.५ ॥
+कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ।। ७.१७.६ ॥
+पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ।एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।। ७.१७.७ ॥
+अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ।। ७.१७.८ ॥
+तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ।। ७.१७.९ ॥
+ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। ७.१७.१० ॥
+न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।कारणं तद्वदिष्यामि निशाचर निशामय ।। ७.१७.११ ॥
+पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ।। ७.१७.१२ ॥
+दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ।। ७.१७.१३ ॥
+तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। ७.१७.१४ ॥
+ततो मे जननी दीना तच्छरीरं पितुर्मम ।परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ।। ७.१७.१५ ॥
+ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।करोमीति तमेवाहं हृदयेन समुद्वहे ।। ७.१७.१६ ॥
+इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ।। ७.१७.१७ ॥
+नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।आश्रये नियमं घोरं नारायणपरीप्सया ।विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।। ७.१७.१८ ॥
+जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।। ७.१७.१९ ॥
+सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ।। ७.१७.२० ॥
+अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी ।वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ।। ७.१७.२१ ॥
+त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् ।त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ।। ७.१७.२२ ॥
+अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। ७.१७.२३ ॥
+कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।वीर्येण तपसा चैव भोगेन च बलेन च ॥
+न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ।। ७.१७.२४ ॥
+इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।। ७.१७.२५ ।।ैव भोगेन च बलेन च ॥
+मा मैवमिति सा कन्या तमुवाच निशाचरम् ।त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् ।त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ।। ७.१७.२६ ॥
+एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ।। ७.१७.२७ ॥
+ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् ।असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ।। ७.१७.२८ ॥
+सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।उवाचाग्निं समाधाय मरणाय कृतत्वरा ।। ७.१७.२९ ॥
+धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ।रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ७.१७.३० ॥
+यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ।। ७.१७.३१ ॥
+न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः ।शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। ७.१७.३२ ॥
+यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा ।तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। ७.१७.३३ ॥
+एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। ७.१७.३४ ॥
+पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ७.१७.३५ ॥
+कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। ७.१७.३६ ॥
+लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् ।गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ७.१७.३७ ॥
+एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः ।सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। ७.१७.३८ ॥
+राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।सैषा जनकराजस्य प्रसूता तनया प्रभो ।तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। ७.१७.३९ ॥
+पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा ।उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। ७.१७.४० ॥
+एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। ७.१७.४१ ॥
+एषा वेदवती नाम पूर्वमासीत्कृते युगे ।त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। ७.१७.४२ ॥
+उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। ७.१७.४३ ।।
+प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। ७.१८.१ ॥
+ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु राव���ः ।। ७.१८.२ ॥
+संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। ७.१८.३ ॥
+दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। ७.१८.४ ॥
+इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। ७.१८.५ ॥
+अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। ७.१८.६ ॥
+तं च राजानमासाद्य रावणो राक्षसाधिपः ।प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। ७.१८.७ ॥
+ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। ७.१८.८ ॥
+अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव ।धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। ७.१८.९ ॥
+त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। ७.१८.१० ॥
+धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। ७.१८.११ ॥
+नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। ७.१८.१२ ॥
+क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। ७.१८.१३ ॥
+तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। ७.१८.१४ ॥
+ततः शरासनं गृह्य सायकांश्च नराधिपः ।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। ७.१८.१५ ॥
+सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। ७.१८.१६ ॥
+माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। ७.१८.१७ ॥
+दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। ७.१८.१८ ॥
+स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। ७.१८.१९ ॥
+ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। ७.१८.२० ॥
+तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। ७.१८.२१ ॥
+रावणे तु गते देवाः सेन्द्राश्चै��� दिवौकसः ।ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। ७.१८.२२ ॥
+हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। ७.१८.२३ ॥
+इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ।एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। ७.१८.२४ ॥
+नीलाः किल पुरा बर्हा मयूराणां नराधिप ।सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। ७.१८.२५ ॥
+धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। ७.१८.२६ ॥
+यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया ।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। ७.१८.२७ ॥
+मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम ।यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। ७.१८.२८ ॥
+एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। ७.१८.२९ ॥
+वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। ७.१८.३० ॥
+वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः ।भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। ७.१८.३१ ॥
+मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ७.१८.३२ ॥
+हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। ७.१८.३३ ॥
+अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। ७.१८.३४ ॥
+सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ७.१८.३५ ॥
+एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। ७.१८.३६ ।।
+अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। ७.१९.१ ॥
+समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। ७.१९.२ ॥
+निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.३ ।।ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।��िर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। ७.१९.४ ॥
+दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। ७.१९.५ ॥
+अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।। ७.१९.६ ॥
+सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। ७.१९.७ ॥
+प्राह राजानमासाद्य युद्धं देहीति रावणः ।निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। ७.१९.८ ॥
+अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। ७.१९.९ ॥
+दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। ७.१९.१० ॥
+अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। ७.१९.११ ॥
+नागानां दशसाहस्रं वाजिनां नियुतं तथा ।रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। ७.१९.१२ ॥
+महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। ७.१९.१३ ॥
+अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। ७.१९.१४ ॥
+प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। ७.१९.१५ ॥
+प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। ७.१९.१६ ॥
+सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।महार्णवं समासाद्य वनापगशतं यथा ।। ७.१९.१७ ॥
+ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। ७.१९.१८ ॥
+अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। ७.१९.१९ ॥
+ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। ७.१९.२० ॥
+तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। ७.१९.२१ ॥
+ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। ७.१९.२२ ॥
+स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। ७.१९.२३ ॥
+तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।किमिदानीं फ���ं प्राप्तं त्वया मां प्रति युद्ध्यता ।। ७.१९.२४ ॥
+त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। ७.१९.२५ ॥
+तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। ७.१९.२६ ॥
+नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। ७.१९.२७ ॥
+किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। ७.१९.२८ ॥
+इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥
+यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ।। ७.१९.२९ ॥
+उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। ७.१९.३० ॥
+ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। ७.१९.३१ ॥
+ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। ७.१९.३२ ।।
+ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.१ ॥
+तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.२ ॥
+नारदस्तु महातेजा देवर्षिरमितप्रभः ।अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.३ ॥
+राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.४ ॥
+विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.५ ॥
+किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.६ ॥
+किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।।्तम ।देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.८ ॥
+नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.९ ॥
+तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.१० ॥
+क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.११ ॥
+पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.१२ ॥
+क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.१३ ॥
+मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.१४ ॥
+अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.१५ ॥
+अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.१६ ॥
+तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.१७ ॥
+महर्षे देवगन्धर्वविहार समरप्रिय ।अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.१८ ॥
+ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.१९ ॥
+अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.२० ॥
+अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.२१ ॥
+स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.२२ ॥
+तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.२३ ॥
+मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.२४ ॥
+तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.२५ ॥
+एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.२६ ॥
+नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.२७ ॥
+येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.२८ ॥
+स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.२९ ॥
+यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.३० ॥
+यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.३१ ॥
+अपरं किन्तु कृत्वायं विधानं संविधास्यति ।कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.३२ ॥
+विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। ७.२०.३३ ।।
+एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः ।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.१ ॥
+अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.२ ॥
+स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.३ ॥
+कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.४ ॥
+अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.५ ॥
+एष नाम्नो दशग्रीवः पितृराज निशाचरः ।उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.६ ॥
+एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.७ ॥
+एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.८ ॥
+तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.९ ॥
+सो ऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः ।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ।। ७.२१.१० ॥
+अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ।। ७.२१.११ ॥
+ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। ७.२१.१२ ॥
+कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ।। ७.२१.१३ ॥
+क्षोत्रायासकरा वाचो वदतश्च भयावहाः ।सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ।। ७.२१.१४ ॥
+वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः ।असिपत्रवने चैव भिद्यमानानधार्मिकान् ।। ७.२१.१५ ॥
+रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।पानीयं याचमानांश्च तृषितान्क्षुधितानपि ।। ७.२१.१६ ॥
+शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ।। ७.२१.१७ ॥
+ददर्श रावणो मार्गे शतशो ऽथ सहस्रशः ।कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः ।प्रमोदमानानद्राक्षीद्रा���णः सुकृतैः स्वकैः ।। ७.२१.१८ ॥
+गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। ७.२१.१९ ॥
+सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ।। ७.२१.२० ॥
+धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। ७.२१.२१ ॥
+ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।रावणो मोचयामास विक्रमेण बलाद्बली ।। ७.२१.२२ ॥
+प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ।। ७.२१.२३ ॥
+प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ।। ७.२१.२४ ॥
+ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ।। ७.२१.२५ ॥
+ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। ७.२१.२६ ॥
+तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ।। ७.२१.२७ ॥
+देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ।। ७.२१.२८ ॥
+असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः ।शूराणामग्रयातऽणां सहस्राणि शतानि च ।। ७.२१.२९ ॥
+ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।अयुध्यन्त महावीराः स च राजा दशाननः ।। ७.२१.३० ॥
+ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ।। ७.२१.३१ ॥
+अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।यमस्य च महाबाहो रावणस्य च मन्त्रिणः ।। ७.२१.३२ ॥
+अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः ।तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ।। ७.२१.३३ ॥
+ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ७.२१.३४ ॥
+स तु शूलगदापासाञ्छक्तितोमरसायकान् ।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ।। ७.२१.३५ ॥
+तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।यमसैन्येषु तद्वर्षं पपात धरणीतले ।। ७.२१.३६ ॥
+तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च ।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ।। ७.२१.३७ ॥
+परिवार्य च तं सर्वे शैलं मोघोत्करा इव ।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ।। ७.२१.३८ ॥
+विमुक्तक��चः क्रुद्धः सिक्तः शोणितविस्रवैः ।ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ।। ७.२१.३९ ॥
+ततः स कार्मुकी वाणी समरे चाभिवर्तत ।लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ।। ७.२१.४० ॥
+ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके ।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ।। ७.२१.४१ ॥
+आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ।। ७.२१.४२ ॥
+तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम् ।वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ।। ७.२१.४३ ॥
+ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ।। ७.२१.४४ ॥
+ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।रणे तस्मिन्निपतिता दावदग्धा नगा इव ।। ७.२१.४५ ॥
+ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः ।ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ७.२१.४६ ।।
+स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः ।शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ।। ७.२२.१ ॥
+स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ।अब्रवीत्त्वरितं सूतं रथो ऽयमुपनीयताम् ।। ७.२२.२ ॥
+तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् ।स्थितः स च महातेजा ह्यध्यारोहत तं रथम् ।प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ७.२२.३ ॥
+येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ।कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ।यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। ७.२२.४ ॥
+तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। ७.२२.५ ।।पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। ७.२२.६ ॥
+ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः ।कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। ७.२२.७ ॥
+ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् ।प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। ७.२२.८ ॥
+मुहूर्तेन यमं ते तु हया हरिहयोपमाः ।प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। ७.२२.९ ॥
+दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् ।सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। ७.२२.१० ॥
+लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः ।नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। ७.२२.११ ॥
+स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ��। ७.२२.१२ ॥
+स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् ।यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। ७.२२.१३ ॥
+रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह ।तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.१४ ॥
+ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) ।नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.१५ ॥
+एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा ।सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.१६ ॥
+तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः ।जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.१७ ॥
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.१८ ॥
+संवर्त इव लोकानां क्रुध्यतोरभवत्तदा ।राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.१९ ॥
+राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् ।निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.२० ॥
+मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् ।यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.२१ ॥
+ततः क्रुद्धस्य वदनाद्यमस्य समजायत ।ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.२२ ॥
+तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ ।प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.२३ ॥
+ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत ।मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् ।नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.२४ ॥
+हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ।विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.२५ ॥
+दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ।राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.२६ ॥
+ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः ।युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.२७ ॥
+क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ।एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.२८ ॥
+विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.२९ ॥
+मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.३० ॥
+बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.३१ ॥
+तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् ।अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.३२ ॥
+ततः संर���्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.३३ ॥
+यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः ।पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। ७.२२.३४ ॥
+दर्शनादेव यः प्राणान्प्राणिनामपकर्षति ।किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। ७.२२.३५ ॥
+स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् ।तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। ७.२२.३६ ॥
+ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे ।सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। ७.२२.३७ ॥
+तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् ।यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। ७.२२.३८ ॥
+वैवस्वत महाबाहो न खल्वमितविक्रम ।न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। ७.२२.३९ ॥
+वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव ।स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। ७.२२.४० ॥
+यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा ।त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। ७.२२.४१ ॥
+क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये ।प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। ७.२२.४२ ॥
+अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः ।कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। ७.२२.४३ ॥
+तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि ।नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ।। ७.२२.४४ ॥
+यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः ।म्रियते वा दशग्रीवस्तदाप्युभयतो ऽनृतम् ।। ७.२२.४५ ॥
+तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम् ।सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ।। ७.२२.४६ ॥
+एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ।। ७.२२.४७ ॥
+किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ।न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ।। ७.२२.४८ ॥
+एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ।। ७.२२.४९ ॥
+दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ।। ७.२२.५० ॥
+स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ।। ७.२२.५१ ।।
+ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। ७.२३.१ ॥
+ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। ७.२३.२ ॥
+जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। ७.२३.३ ॥
+ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् ।दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। ७.२३.४ ॥
+स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। ७.२३.५ ॥
+निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। ७.२३.६ ॥
+ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। ७.२३.७ ॥
+शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। ७.२३.८ ॥
+तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। ७.२३.९ ॥
+ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।आजगाम द्रुतं देवो विमानवरमास्थितः ।। ७.२३.१० ॥
+निवातकवचानां तु निवार्य रणकर्म तत् ।वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। ७.२३.११ ॥
+नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। ७.२३.१२ ॥
+राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। ७.२३.१३ ॥
+ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। ७.२३.१४ ॥
+अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। ७.२३.१५ ॥
+ततोपधार्य मायानां शतमेकं समाप्तवान् ।सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। ७.२३.१६ ॥
+ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् ।गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। ७.२३.१७ ॥
+शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् ।जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। ७.२३.१८ ॥
+तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। ७.२३.१९ ॥
+ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। ७.२३.२० ॥
+क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। ७.२३.२१ ।।
+ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। ७.२३.२२ ॥
+यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.२३ ॥
+यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.२४ ॥
+प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ।ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.२५ ॥
+ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.२६ ॥
+युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.२७ ॥
+एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.२८ ॥
+ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.२९ ॥
+ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.३० ॥
+अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.३१ ॥
+समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.३२ ॥
+महीतलगतास्ते तु रावणं दृश्य पुष्पके ।आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.३३ ॥
+महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.३४ ॥
+ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.३५ ॥
+ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.३६ ॥
+तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.३७ ॥
+तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् ।मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.३८ ॥
+ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः ।महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.३९ ॥
+ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.४० ॥
+धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.४१ ॥
+सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.४२ ॥
+ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.४३ ॥
+ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.४४ ॥
+पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.४५ ॥
+अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.४६ ॥
+सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.४७ ॥
+ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.४८ ॥
+ततस्ते विमुखाः सर्वे पतिता धरणीतले ।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.४९ ॥
+तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.५० ॥
+रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः ।गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.५१ ॥
+गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ।तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.५२ ॥
+राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.५३ ॥
+आगतस्तु पथा येन तेनैव विनिवृत्य सः ।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.५४ ।।
+निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.१ ॥
+दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.२ ॥
+एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.३ ॥
+ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.४ ॥
+ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.५ ॥
+नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.६ ॥
+दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्��्रनिभाननाः ।पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.७ ॥
+रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.८ ॥
+शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.९ ॥
+अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.१० ॥
+दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.११ ॥
+काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.१२ ॥
+कथं नु खलु मे पुत्रो भविष्यति मया विना ।कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।॥
+हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.१४ ॥
+किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.१५ ॥
+एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.१६ ॥
+अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.१७ ॥
+सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.१८ ॥
+अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.१९ ॥
+इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.२० ॥
+तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.२१ ॥
+नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.२२ ॥
+पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.२३ ॥
+एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.२४ ॥
+तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.२५ ॥
+सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.२६ ॥
+एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.२७ ॥
+प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.२८ ॥
+सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.२९ ॥
+राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.३० ॥
+एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.३१ ॥
+अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.३२ ॥
+युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.३३ ॥
+जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.३४ ॥
+अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.३५ ॥
+चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.३६ ॥
+तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.३७ ॥
+शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.३८ ॥
+तत्र ते वचनं शूरः करिष्यति सदा खरः ।रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.३९ ॥
+एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.४० ॥
+स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.४१ ॥
+स तत्र कारयामास राज्यं निहतकण्टकम् ।सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.४२ ।।
+स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.१ ॥
+ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.२ ॥
+ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.३ ॥
+ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।ददर्श स्वसुतं तत्र मेघनाद�� भयावहम् ।। ७.२५.४ ॥
+तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.५ ॥
+उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.६ ॥
+अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.७ ॥
+अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। ७.२५.८ ॥
+माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.९ ॥
+कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.१० ॥
+एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.११ ॥
+अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.१२ ॥
+एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन ।अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.१३ ॥
+ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.१४ ॥
+एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.१५ ॥
+ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.१६ ॥
+लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.१७ ॥
+ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.१८ ॥
+ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः ।त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.१९ ॥
+रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.२० ॥
+विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.२१ ॥
+मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.२२ ॥
+पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् ।तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.२३ ॥
+म���तृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा ।भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.२४ ॥
+सा हृता, मधुना राजन्राक्षसेन बलीयसा ।यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.२५ ॥
+कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.२६ ॥
+धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.२७ ॥
+यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.२८ ॥
+अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.२९ ॥
+ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.३० ॥
+भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.३१ ॥
+अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.३२ ॥
+अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.३३ ॥
+इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च ।जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.३४ ॥
+विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.३५ ॥
+खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.३६ ॥
+दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.३७ ॥
+स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.३८ ॥
+सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। ७.२५.३९ ॥
+तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.४० ॥
+रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.४१ ॥
+न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.४२ ॥
+सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.४३ ॥
+रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.४४ ॥
+सह तेन गमिष्यामि सुरलोकं जयावहे ।तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.४५ ॥
+इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.४६ ॥
+एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.४७ ॥
+तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.४८ ॥
+तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.४९ ॥
+ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.५० ॥
+प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.५१ ॥
+ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.५२ ।।
+स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.१ ॥
+उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.२ ॥
+रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.३ ॥
+कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.४ ॥
+चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.५ ॥
+आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.६ ॥
+समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। ७.२६.७ ॥
+भिरुद्भासितवनान्तरे ।विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.८ ॥
+घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.९ ॥
+पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.१० ॥
+मधुपुष्परजःपृक्तं ���न्धमादाय पुष्कलम् ।प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.११ ॥
+गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.१२ ॥
+रावणस्तु महावीर्यः कामस्य वशमागतः ।विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.१३ ॥
+एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.१४ ॥
+दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.१५ ॥
+चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.१६ ॥
+कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। ७.२६.१७ ॥
+बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.१८ ॥
+यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।ऊरू करिकराकारौ करौ पल्लवकोमलौ ।सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.१९ ॥
+तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.२० ॥
+क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.२१ ॥
+त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.२२ ॥
+स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.२३ ॥
+सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.२४ ॥
+मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। ७.२६.२५ ॥
+विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।। ७.२६.२६ ॥
+त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।। ७.२६.२७ ॥
+तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। ७.२६.२८ ॥
+एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। ७.२६.२९ ॥
+अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.३० ॥
+अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.३१ ॥
+सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.३२ ॥
+धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.३३ ॥
+धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.३४ ॥
+तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.३५ ॥
+तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। ७.२६.३६ ॥
+तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ७.२६.३७ ॥
+स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.३८ ॥
+सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.३९ ॥
+एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.४० ॥
+पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। ७.२६.४१ ॥
+स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.४२ ॥
+सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.४३ ॥
+लुलिताकुलकेशान्ता करवेपितपल्लवा ।पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.४४ ॥
+सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.४५ ॥
+तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.४६ ॥
+सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.४७ ॥
+एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.४८ ॥
+आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.४९ ॥
+मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.५० ॥
+याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.५१ ॥
+एवं त���वमपराधं मे क्षन्तुमर्हसि सुव्रत ।न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.५२ ॥
+एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.५३ ॥
+तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.५४ ॥
+गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.५५ ॥
+अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.५६ ॥
+यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.५७ ॥
+तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.५८ ॥
+ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.५९ ॥
+श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.६० ॥
+तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.६१ ।।
+कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ॥
+तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ॥
+श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ॥
+आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ॥
+एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ॥
+स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ॥
+विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ॥
+वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ॥
+तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ॥
+नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ॥
+त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ॥
+त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ॥
+तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ॥
+एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ॥
+न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ॥
+सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ॥
+यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ॥
+नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ॥
+प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ॥
+अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ॥
+युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ॥
+यामि ज्ञात्वा कालमुपागतम् ।ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ॥
+एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ॥
+ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ॥
+ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ॥
+ततो युद्धं समभवेद्देवदानवरक्षसाम् ।घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ॥
+एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ॥
+मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ॥
+संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ॥
+सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ��त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ॥
+महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ॥
+रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ॥
+तद्दैवतबलं राम हन्यमानं निशाचरैः ।प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ॥
+एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ॥
+तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ॥
+ततो युद्धं समभवत्सुराणां सह राक्षसैः ।क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ॥
+ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ॥
+देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ॥
+एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ॥
+स दैवतबलं सर्वं नानाप्रहणैः शितैः ।व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ॥
+ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ॥
+ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ॥
+संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ॥
+ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ॥
+सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ॥
+हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ॥
+ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ॥
+सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ॥
+तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ॥
+तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ��व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।
+सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। ७.२८.१ ॥
+ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। ७.२८.२ ॥
+सुरथेनाग्निवर्णेन कामगेन महारथः ।अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। ७.२८.३ ॥
+ततः प्रविशतस्तस्य विविधायुधधारिणः ।विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। ७.२८.४ ॥
+न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। ७.२८.५ ॥
+न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। ७.२८.६ ॥
+ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। ७.२८.७ ॥
+ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। ७.२८.८ ॥
+तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। ७.२८.९ ॥
+ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।सारथौ पातयामास शरान्कनकभूषणान् ।। ७.२८.१० ॥
+शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। ७.२८.११ ॥
+स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। ७.२८.१२ ॥
+ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। ७.२८.१३ ॥
+शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.१४ ॥
+ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् ।तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.१५ ॥
+ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.१६ ॥
+नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा ।तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.१७ ॥
+देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.१८ ॥
+एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.१९ ॥
+सङ्गृह्य तं तु दौहित्रं प���रविष्टः सागरं तदा ।आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.२० ॥
+ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.२१ ॥
+रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.२२ ॥
+दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.२३ ॥
+स तु दिव्यो महाभीमः सज्ज एव महारथः ।उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.२४ ॥
+ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.२५ ॥
+नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.२६ ॥
+रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.२७ ॥
+निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.२८ ॥
+एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.२९ ॥
+पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.३० ॥
+दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.३१ ॥
+पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.३२ ॥
+ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.३३ ॥
+कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.३४ ॥
+दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.३५ ॥
+ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.३६ ॥
+बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.३७ ॥
+ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.३८ ॥
+केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२��.३९ ॥
+रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.४० ॥
+तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.४१ ॥
+चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.४२ ॥
+शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.४३ ॥
+एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.४४ ॥
+स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.४५ ॥
+आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.४६ ॥
+तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.४७ ॥
+तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.४८ ॥
+प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.४९ ।।
+ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः ।अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। ७.२९.१ ॥
+ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। ७.२९.२ ॥
+तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। ७.२९.३ ॥
+इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। ७.२९.४ ॥
+स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् ।क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। ७.२९.५ ॥
+क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। ७.२९.६ ॥
+अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। ७.२९.७ ॥
+अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। ७.२९.८ ॥
+द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। ७.२९.९ ॥
+अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।नय मामद्य तत्र त्वमुदयो यत्�� पर्वतः ।। ७.२९.१० ॥
+तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। ७.२९.११ ॥
+तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। ७.२९.१२ ॥
+सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। ७.२९.१३ ॥
+एष ह्यतिबलः सैन्यै रथेन पवनौजसा ।गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। ७.२९.१४ ॥
+नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः ।तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.१५ ॥
+यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.१६ ॥
+ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् ।अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.१७ ॥
+उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.१८ ॥
+ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.१९ ॥
+ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.२० ॥
+एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.२१ ॥
+ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.२२ ॥
+तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.२३ ॥
+स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.२४ ॥
+विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः ।त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। ७.२९.२५ ॥
+स मातलिं समायान्तं ताडयित्वा शरोत्तमैः ।महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। ७.२९.२६ ॥
+ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।ऐरावतं समारुह्य मृगयामास रावणिम् ।। ७.२९.२७ ॥
+स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः ।इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। ७.२९.२८ ॥
+स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः ।तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। ७.२९.२९ ॥
+तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। ७.��९.३० ॥
+दृश्यते न स मायावी शक्रजित्समितिञ्जयः ।विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ७.२९.३१ ॥
+एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। ७.२९.३२ ॥
+रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा ।न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। ७.२९.३३ ॥
+स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। ७.२९.३४ ॥
+आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। ७.२९.३५ ॥
+अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। ७.२९.३६ ॥
+यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। ७.२९.३७ ॥
+ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। ७.२९.३८ ॥
+अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। ७.२९.३९ ॥
+अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। ७.२९.४० ॥
+नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। ७.२९.४१ ॥
+अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। ७.२९.४२ ।।
+जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.१ ॥
+तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ॥
+वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। ७.३०.३ ॥
+जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। ७.३०.४ ॥
+अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। ७.३०.५ ॥
+बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। ७.३०.६ ॥
+तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिव��कसः ।। ७.३०.७ ॥
+अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।अमरत्वमहं देव वृणे यद्येष मुच्यते ।। ७.३०.८ ॥
+चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। ७.३०.९ ॥
+सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। ७.३०.१० ॥
+ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। ७.३०.११ ॥
+श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। ७.३०.१२ ॥
+्वं हि कस्यचित्प्राणिनो भुवि ।अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.१३ ॥
+ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.१४ ॥
+अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.१५ ॥
+तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.१६ ॥
+सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.१७ ॥
+एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.१८ ॥
+एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.१९ ॥
+तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.२० ॥
+अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.२१ ॥
+तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.२२ ॥
+सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.२३ ॥
+ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.२४ ॥
+यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.२५ ॥
+निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.२६ ॥
+त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.२७ ॥
+सा मया न्यासभूता तु गौतमस्य महात्मनः ।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.२८ ॥
+ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.२९ ॥
+सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.३० ॥
+सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.३१ ॥
+ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.३२ ॥
+यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.३३ ॥
+अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.३४ ॥
+तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.३५ ॥
+यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.३६ ॥
+तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.३७ ॥
+रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.३८ ॥
+रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.३९ ॥
+तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.४० ॥
+अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.४१ ॥
+अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.४२ ॥
+रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.४३ ॥
+स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.४४ ॥
+वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.४५ ॥
+तपश्च��चार सुमहत्सा पत्नी ब्रह्मवादिनः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.४६ ॥
+तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.४७ ॥
+शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.४८ ॥
+पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.४९ ॥
+एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.५० ॥
+एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.५१ ॥
+आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.५२ ॥
+विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.५३ ॥
+अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। ७.३०.५४ ॥
+एवं राम समुद्भूतो रावणो लोककण्टकः ।सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.५५ ।।
+ततो रामो महातेजा विस्मयात्पुनरेव हि ।उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.१ ॥
+भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.२ ॥
+राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.३ ॥
+उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.४ ॥
+राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.५ ॥
+इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.६ ॥
+ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.७ ॥
+तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। ७.३१.८ ॥
+तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। ७.३१.९ ॥
+तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। ७.३१.१० ॥
+क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्या���ुमर्हथ ।रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ७.३१.११ ॥
+इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। ७.३१.१२ ॥
+श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। ७.३१.१३ ॥
+स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। ७.३१.१४ ॥
+सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। ७.३१.१५ ॥
+देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। ७.३१.१६ ॥
+नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। ७.३१.१७ ॥
+उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। ७.३१.१८ ॥
+चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। ७.३१.१९ ॥
+महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। ७.३१.२० ॥
+चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। ७.३१.२१ ॥
+फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। ७.३१.२२ ॥
+पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। ७.३१.२३ ॥
+इष्टामिव वरां नारीमवगाह्य दशाननः ।स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। ७.३१.२४ ॥
+उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ।प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। ७.३१.२५ ॥
+नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ।उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। ७.३१.२६ ॥
+एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। ७.३१.२७ ॥
+मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। ७.३१.२८ ॥
+नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। ७.३१.२९ ॥
+इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। ७.३१.३० ॥
+तद्भवन्तः क्षताः शस्त्रैर्नृ���ैरिन्द्रसमैर्युधि ।चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। ७.३१.३१ ॥
+ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।महापद्ममुखा मत्ता गङ्गामिव गहागजाः ।अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। ७.३१.३२ ॥
+अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.३३ ॥
+रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.३४ ॥
+राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी ।वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.३५ ॥
+ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.३६ ॥
+नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.३७ ॥
+पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.३८ ॥
+तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.३९ ॥
+ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.४० ॥
+तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.४१ ॥
+वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.४२ ॥
+ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.४३ ।।
+नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ।। ७.३२.१ ॥
+अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ।। ७.३२.२ ॥
+तासां मध्यगतो राजा रराज च तदार्जुनः ।करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ।। ७.३२.३ ॥
+जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ।। ७.३२.४ ॥
+कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ।। ७.३२.५ ॥
+समीननक्रमकरः सपुष्पकुशसंस्तरः ।स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ।। ७.३२.६ ॥
+स वेगः कार्तवीर���येण सम्प्रेषित इवाम्भसः ।पुष्पोपहारं सकलं रावणस्य जहार ह ।। ७.३२.७ ॥
+रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ।। ७.३२.८ ॥
+पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ।। ७.३२.९ ॥
+ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ।। ७.३२.१० ॥
+सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ।। ७.३२.११ ॥
+तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ।। ७.३२.१२ ॥
+अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ।। ७.३२.१३ ॥
+बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।मदरक्तान्तनयनं मदव्याकुलतेजसम् ।। ७.३२.१४ ॥
+नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ।। ७.३२.१५ ॥
+बालानां वरनारीणां सहस्रेण समावृतम् ।समदानां करेणूनां सहस्रेणेव कुञ्जरम् ।। ७.३२.१६ ॥
+तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।सन्निवृत्तावुपागम्य रावणं तमथोचतुः ।। ७.३२.१७ ॥
+बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर ।नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ।। ७.३२.१८ ॥
+तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ।। ७.३२.१९ ॥
+इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ।। ७.३२.२० ॥
+अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे ।चण्डः प्रवाति पवनः सनादः सुरजास्तथा ।। ७.३२.२१ ॥
+सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ।महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।। ७.३२.२२ ॥
+संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ।अदीर्घेणैव कालेन स तदा राक्षसो बली ।तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ।। ७.३२.२३ ॥
+स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ।। ७.३२.२४ ॥
+स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।। ७.३२.२५ ॥
+इत्येवमर्जुनामात्यनाह गम्भीरया गिरा ।अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।। ७.३२.२६ ॥
+युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ।रावणस्य वचः श्रुत्वा मन्त्रिणो ऽ��ार्जुनस्य ते ।उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ।। ७.३२.२७ ॥
+युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ।। ७.३२.२८ ।।
+चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् ।स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् ।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ।। ७.३२.२९ ॥
+क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया ।युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ।। ७.३२.३० ॥
+यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ।। ७.३२.३१ ॥
+ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ।। ७.३२.३२ ॥
+ततो हलहलाशब्दो नर्मदातीर आबभौ ।अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ।। ७.३२.३३ ॥
+इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।सरावणानर्दयन्तः समन्तात्समभिद्रुताः ।। ७.३२.३४ ॥
+हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।सनक्रमीनमकरसमुद्रस्येव निःस्वनः ।। ७.३२.३५ ॥
+रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः ।कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। ७.३२.३६ ॥
+अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। ७.३२.३७ ॥
+श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः ।उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ।। ७.३२.३८ ॥
+क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः ।प्रजज्वाल महाघोरो युगान्त इव पावकः ।। ७.३२.३९ ॥
+स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ।। ७.३२.४० ॥
+बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ।। ७.३२.४१ ॥
+तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः ।स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ।। ७.३२.४२ ॥
+ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ।प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ।। ७.३२.४३ ॥
+तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ।। ७.३२.४४ ॥
+अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ।निपुणं वञ्चयामास सगदो ऽगदविक्रमः ।। ७.३२.४५ ॥
+ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।भ्रामयानो गदां गुर्वीं पञ्चबाहुश��ोच्छ्रयाम् ।। ७.३२.४६ ॥
+तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा ।निपपात स्थितः शैलो वज्रिवज्रहतो यथा ।। ७.३२.४७ ॥
+प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ।। ७.३२.४८ ॥
+अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते ।रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ।। ७.३२.४९ ॥
+सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। ७.३२.५० ॥
+सागराविव संरब्धौ चलन्मूलाविवाचलौ ।तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ।। ७.३२.५१ ॥
+बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ।। ७.३२.५२ ॥
+रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ।। ७.३२.५३ ॥
+वज्रप्रहारानचला यथा घोरान्विषेहिरे ।गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ।। ७.३२.५४ ॥
+यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः ।तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ।। ७.३२.५५ ॥
+अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि ।काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ।। ७.३२.५६ ॥
+तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ।। ७.३२.५७ ॥
+नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ।। ७.३२.५८ ॥
+शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ ।परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ।। ७.३२.५९ ॥
+ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। ७.३२.६० ॥
+वरदानकृतत्राणे सा गदा रावणोरसि ।दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ।। ७.३२.६१ ॥
+स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। ७.३२.६२ ॥
+स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः ।सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ।। ७.३२.६३ ॥
+स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् ।बबन्ध बलवान्राजा बलिं नारायणो यथा ।। ७.३२.६४ ॥
+बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ।। ७.३२.६५ ॥
+व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ।। ७.३२.६६ ॥
+प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं द��ाननम् ।सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ।। ७.३२.६७ ॥
+नक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।उद्भूत आतपापाये पयोदानामिवाम्बुधौ ।। ७.३२.६८ ॥
+मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ।। ७.३२.६९ ॥
+अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।आयुधान्यमरारीणां जग्राहारिनिषूदनः ।। ७.३२.७० ॥
+ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।भित्त्वा विद्रावयामास वायुरम्बुधरानिव ।। ७.३२.७१ ॥
+राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा ।रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ।। ७.३२.७२ ॥
+स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ।। ७.३२.७३ ।।
+रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। ७.३३.१ ॥
+ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। ७.३३.२ ॥
+स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। ७.३३.३ ॥
+सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। ७.३३.४ ॥
+पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। ७.३३.५ ॥
+पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। ७.३३.६ ॥
+पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। ७.३३.७ ॥
+ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। ७.३३.८ ॥
+स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। ७.३३.९ ॥
+अद्यैवममरावत्या तुल्या माहिष्मती कृता ।अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। ७.३३.१० ॥
+अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।अद्य मे सफलं जन्म अद्य मे सफलं तपः ।यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ।। ७.३३.११ ॥
+इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। ७.३३.१२ ॥
+तं धर्मे ऽग्निषु पुत्��ेषु शिवं पृष्ट्वा च पार्थिवम् ।पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। ७.३३.१३ ॥
+नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। ७.३३.१४ ॥
+भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। ७.३३.१५ ॥
+पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। ७.३३.१६ ॥
+पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ।। ७.३३.१७ ॥
+स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ।। ७.३३.१८ ॥
+पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। ७.३३.१९ ॥
+पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। ७.३३.२० ॥
+एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। ७.३३.२१ ॥
+एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ।। ७.३३.२२ ॥
+ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ।। ७.३३.२३ ।।
+अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ।। ७.३४.१ ॥
+राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ।। ७.३४.२ ॥
+ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ७.३४.३ ॥
+ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ।। ७.३४.४ ॥
+राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ।। ७.३४.५ ॥
+चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ॥
+एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।युद्धार्थिनामिमे राजन्वानराधिपतेजसा ।। ७.३४.७ ॥
+यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।तदा वालिनमासाद्य तदन्तं तव जीवितम् ।। ७.३४.८ ॥
+पश्येदानीं जगच���चित्रमिमं विश्रवसः सुत ।इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ।। ७.३४.९ ॥
+अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ।। ७.३४.१० ॥
+स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ।। ७.३४.११ ॥
+तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ।। ७.३४.१२ ॥
+पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ।। ७.३४.१३ ॥
+यदृच्छया तदा दृष्टो वालिनापि स रावणः ।पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ।। ७.३४.१४ ॥
+शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।न चिन्तयति तं वाली रावणं पापनिश्चयम् ।। ७.३४.१५ ॥
+जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ।। ७.३४.१६ ॥
+द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ।। ७.३४.१७ ॥
+इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.१८ ॥
+तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.१९ ॥
+हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.२० ॥
+ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.२१ ॥
+तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.२२ ॥
+अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.२३ ॥
+अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.२४ ॥
+ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.२५ ॥
+वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.२६ ॥
+अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.२७ ॥
+सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.२८ ॥
+तस्मिन्सन्ध्यामुपासित्वा स्ना���्वा जप्त्वा च वानरः ।उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.२९ ॥
+बहुयोजनसाहस्रं वहमानो महाहरिः ।वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.३० ॥
+उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.३१ ॥
+तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.३२ ॥
+चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.३३ ॥
+रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.३४ ॥
+विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.३५ ॥
+वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.३६ ॥
+अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.३७ ॥
+एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.३८ ॥
+त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.३९ ॥
+सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.४० ॥
+दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.४१ ॥
+ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.४२ ॥
+अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.४३ ॥
+स तत्र मासमुषितः सुग्रीव इव रावणः ।अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.४४ ॥
+एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.४५ ॥
+बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.४६ ।।
+अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। ७.३५.१ ॥
+अतुलं बलमेतद्वै वालिनो रावणस्य च ।न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। ७.३५.२ ॥
+शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।विक्रमश्�� प्रभावश्च हनूमति कृतालयाः ।। ७.३५.३ ॥
+दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। ७.३५.४ ॥
+धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। ७.३५.५ ॥
+सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।एते हनुमता तत्र ह्येकेन वितिपातिताः ।। ७.३५.६ ॥
+भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। ७.३५.७ ॥
+न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। ७.३५.८ ॥
+एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। ७.३५.९ ॥
+हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। ७.३५.१० ॥
+किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। ७.३५.११ ॥
+नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.१२ ॥
+एतन्मे भगवन्सर्वं हनूमति महामतौ ।विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.१३ ॥
+राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.१४ ॥
+सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.१५ ॥
+अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा ।न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.१६ ॥
+बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल ।तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.१७ ॥
+यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.१८ ॥
+सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.१९ ॥
+तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.२० ॥
+शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना ।फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.२१ ॥
+एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.२२ ॥
+तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.२३ ॥
+बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.२४ ॥
+एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.२५ ॥
+नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.२६ ॥
+यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.२७ ॥
+तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.२८ ॥
+बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.२९ ॥
+शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.३० ॥
+यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.३१ ॥
+अनेन स परामृष्टो राम सूर्यरथोपरि ।अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.३२ ॥
+स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.३३ ॥
+बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.३४ ॥
+अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.३५ ॥
+स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.३६ ॥
+ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.३७ ॥
+इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.३८ ॥
+अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.३९ ॥
+ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.४० ॥
+उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.४१ ॥
+इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। ७.३५.४२ ॥
+राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ७.३५.४३ ॥
+ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। ७.३५.४४ ॥
+तथास्य धावतो रूपमैरावतजिघृक्षया ।मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। ७.३५.४५ ॥
+एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। ७.३५.४६ ॥
+ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।पतमानस्य चैतस्य वामो हनुरभज्यत ।। ७.३५.४७ ॥
+तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। ७.३५.४८ ॥
+प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। ७.३५.४९ ॥
+विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। ७.३५.५० ॥
+वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। ७.३५.५१ ॥
+निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.५२ ॥
+ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.५३ ॥
+ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.५४ ॥
+त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः ।सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.५५ ॥
+रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.५६ ॥
+एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.५७ ॥
+यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.५८ ॥
+पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.५९ ॥
+अशरीरः शरीरेषु वायुश्चरति पालयन् ।शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.६० ॥
+वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.६१ ॥
+अद्यैव च परित्यक्तं वायुना जगदायुषा ।अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। ७.३५.६२ ॥
+तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ७.३५.६३ ॥
+ततः प्र��ाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। ७.३५.६४ ॥
+ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। ७.३५.६५ ।।
+ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.१ ॥
+चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.२ ॥
+तं तु वेदविदा तेन लम्बाभरणशोभिना ।वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.३ ॥
+स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.४ ॥
+प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.५ ॥
+मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.६ ॥
+ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.७ ॥
+भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.८ ॥
+अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.९ ॥
+ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.१० ॥
+मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.११ ॥
+अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.१२ ॥
+मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.१३ ॥
+यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.१४ ॥
+नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.१५ ॥
+यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.१६ ॥
+गदेयं मामिका नैनं संयुगेषु वधिष्यति ।इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। ७.३६.१७ ॥
+मत्तो मदाय���धानां च न वध्यो ऽयं भविष्यति ।इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। ७.३६.१८ ॥
+सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। ७.३६.१९ ॥
+विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। ७.३६.२० ॥
+मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। ७.३६.२१ ॥
+ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। ७.३६.२२ ॥
+अमित्राणां भयकरो मित्राणामभयङ्करः ।अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। ७.३६.२३ ॥
+कामरूपः कामचारी कामगः प्लवतां वरः ।भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। ७.३६.२४ ॥
+रावणोत्सादनार्थानि रामप्रियकरणि च ।रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। ७.३६.२५ ॥
+एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।यथागतं ययुः सर्वे पितामहपुरोगमाः ।। ७.३६.२६ ॥
+सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। ७.३६.२७ ॥
+प्राप्य राम वरानेष वरदानसमन्वितः ।बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। ७.३६.२८ ॥
+तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। ७.३६.२९ ॥
+स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। ७.३६.३० ॥
+एवंविधानि कर्माणि प्रावर्तत महाबलः ।सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। ७.३६.३१ ॥
+जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। ७.३६.३२ ॥
+यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। ७.३६.३३ ॥
+ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। ७.३६.३४ ॥
+बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। ७.३६.३५ ॥
+ततस्स हृततेजौजा महर्षिवचनौजसा ।एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। ७.३६.३६ ॥
+अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। ७.३६.३७ ॥
+स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।स च ऋक्षरजा नाम काल���र्मेण सङ्गतः ।। ७.३६.३८ ॥
+तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ७.३६.३९ ॥
+सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। ७.३६.४० ॥
+एष शापवशादेव न वेद बलमात्मनः ।वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। ७.३६.४१ ॥
+न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। ७.३६.४२ ॥
+देव जानाति न ह्येष बलमात्मनि मारुतिः ।ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। ७.३६.४३ ॥
+सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। ७.३६.४४ ॥
+पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। ७.३६.४५ ॥
+असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। ७.३६.४६ ॥
+ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। ७.३६.४७ ॥
+सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ७.३६.४८ ॥
+प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। ७.३६.४९ ॥
+एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। ७.३६.५० ॥
+तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।हनूमतो बालभावे कर्मैतत्कथितं मया ।। ७.३६.५१ ॥
+श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ७.३६.५२ ॥
+अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। ७.३६.५३ ॥
+श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। ७.३६.५४ ॥
+अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। ७.३६.५५ ॥
+विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ७.३६.५६ ॥
+पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ७.३६.५७ ॥
+सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। ७.३६.५८ ॥
+अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। ७.३६.५९ ॥
+तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। ७.३६.६० ॥
+एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। ७.३६.६१ ॥
+एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। ७.३६.६२ ॥
+ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। ७.३६.६३ ।।
+अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ।। ७.३७.१ ॥
+तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ।। ७.३७.२ ॥
+ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ।। ७.३७.३ ॥
+वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ।। ७.३७.४ ॥
+विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ।। ७.३७.५ ॥
+क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। ७.३७.६ ॥
+अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ।। ७.३७.७ ॥
+यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ।। ७.३७.८ ॥
+श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ।। ७.३७.९ ॥
+सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ।। ७.३७.१० ॥
+स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।। ७.३७.११ ॥
+तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ।। ७.३७.१२ ॥
+कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ।। ७.३७.१३ ॥
+तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ।। ७.३७.१४ ॥
+उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ।। ७.३७.१५ ॥
+क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ।। ७.३७.१६ ॥
+भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ।। ७.३७.१७ ॥
+याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। ७.३७.१८ ॥
+वानराश्च महावीर्या विंशतिः कामरूपिणः ।सुग्रीवप्रमुखा राममुपासन्ते महौजसः ।। ७.३७.१९ ॥
+विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।उपासते महात्मानं धनेशमिव गुह्यकाः ।। ७.३७.२० ॥
+तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ।। ७.३७.२१ ॥
+तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ।। ७.३७.२२ ॥
+यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ।। ७.३७.२३ ॥
+तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ।। ७.३७.२४ ।।
+एवमास्ते महाबाहुरहन्यहनि राघवः ।प्रशासत्सर्वकार्याणि पौरजानपदेषु च ।। ७.३८.१ ॥
+ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.२ ॥
+भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।भवतस्तेजसोग्रेण रावणो निहतो मया ।। ७.३८.३ ॥
+इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ।। ७.३८.४ ॥
+तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव ।भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ।। ७.३८.५ ॥
+स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ।। ७.३८.६ ॥
+यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै ।दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ।। ७.३८.७ ॥
+एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ।। ७.३८.८ ॥
+ततः प्रयाते जनके केकयं मातुलं प्रभुः ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.९ ॥
+इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।आयत्तास्त्वं ��ि नो राजन्गतिश्च पुरुषर्षभ ।। ७.३८.१० ॥
+राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। ७.३८.११ ॥
+लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।धनमादाय विपुलं रत्नानि विविधानि च ।। ७.३८.१२ ॥
+युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। ७.३८.१३ ॥
+प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। ७.३८.१४ ॥
+लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। ७.३८.१५ ॥
+तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। ७.३८.१६ ॥
+दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। ७.३८.१७ ॥
+तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। ७.३८.१८ ॥
+एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। ७.३८.१९ ॥
+विसर्जयामास तदा कौसल्यानन्दवर्धनः ।राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। ७.३८.२० ॥
+विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। ७.३८.२१ ॥
+भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। ७.३८.२२ ॥
+युष्माकं चानुभावेन तेजसा च महात्मनाम् ।हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। ७.३८.२३ ॥
+हेतुमात्रमहं तत्र भवतां तेजसा हतः ।रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। ७.३८.२४ ॥
+भवन्तश्च समानीता भरतेन महात्मना ।श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। ७.३८.२५ ॥
+उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। ७.३८.२६ ॥
+प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। ७.३८.२७ ॥
+दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।एष नः परमः काम एषा नः पीतिरुत्तमा ।। ७.३८.२८ ॥
+यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।। ७.३८.२९ ॥
+एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ।प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। ७.३८.३० ॥
+आपृच्छामो ग��िष्यामो हृदिस्थो नः सदा भवान् ।वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। ७.३८.३१ ॥
+बाढमित्येव राजानो हर्षेण परमान्विताः ।उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। ७.३८.३२ ॥
+पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।। ७.३८.३३ ।।
+ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। ७.३९.१ ॥
+अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। ७.३९.२ ॥
+ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। ७.३९.३ ॥
+भरतेन वयं पश्चात्समानीता निरर्थकम् ।हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ७.३९.४ ॥
+रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ।। ७.३९.५ ॥
+एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ।। ७.३९.६ ॥
+स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ।। ७.३९.७ ॥
+यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ।। ७.३९.८ ॥
+अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। ७.३९.९ ॥
+मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ।। ७.३९.१० ॥
+भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ।। ७.३९.११ ॥
+आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।तानि रत्नानि चित्राणि रामाय समुपाहरन् ।। ७.३९.१२ ॥
+प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ।। ७.३९.१३ ॥
+बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ।। ७.३९.१४ ॥
+ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ।। ७.३९.१५ ॥
+हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ।। ७.३९.१६ ॥
+रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ।। ७.३९.१७ ॥
+सुग्रीवमन्त्रित��� युक्तौ मम चापि हिते रतौ ।अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ।। ७.३९.१८ ॥
+इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ।। ७.३९.१९ ॥
+आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।नीलं नलं केसरिणं कुमुदं गन्धमादनम् ।। ७.३९.२० ॥
+सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ।। ७.३९.२१ ॥
+वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ।। ७.३९.२२ ॥
+मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ।। ७.३९.२३ ॥
+युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ।। ७.३९.२४ ॥
+एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। ७.३९.२५ ॥
+ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।मांसानि च सुमृष्टानि मूलानि च फलानि च ।। ७.३९.२६ ॥
+एवं तेषां निवसतां मासः साग्रो ययौ तदा ।मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। ७.३९.२७ ॥
+रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। ७.३९.२८ ॥
+एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। ७.३९.२९ ॥
+इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। ७.३९.३० ।।
+तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.१ ॥
+गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.२ ॥
+अङ्गदं च महाबाहो प्रीत्या परमया युतः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.३ ॥
+सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.४ ॥
+वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.५ ॥
+ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.६ ॥
+पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। ७.४०.७ ॥
+एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.८ ॥
+लङ��कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.९ ॥
+मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.१० ॥
+अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.११ ॥
+रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.१२ ॥
+तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.१३ ॥
+तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.१४ ॥
+स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.१५ ॥
+वायद्रामकथा वीर चरिष्यति महीतले ।तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.१६ ॥
+यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.१७ ॥
+तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.१८ ॥
+एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.१९ ॥
+एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।चरिष्यति कथा यावदेषा लोके च मामिका ।तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.२० ॥
+लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.२१ ।।
+लोके च मामिका ।एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.२२ ॥
+ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.२३ ॥
+तेनोरसि निबद्धेन हारेण महता कपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.२४ ॥
+श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.२५ ॥
+सुग्रीवः स च रामेण निरन्तरमुरोगतः ।विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.२६ ॥
+सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.२७ ॥
+कृतप्रसादास्तेनैवं राघवेण महात्मना ।जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.२८ ॥
+ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.२९ ॥
+इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। ४० ।।
+विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। ७.४१.१ ॥
+अथापराह्णसमये भ्रातृभिः सह राघवः ।शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। ७.४१.२ ॥
+सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। ७.४१.३ ॥
+तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.४ ॥
+निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.५ ॥
+ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.६ ॥
+स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.७ ॥
+परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.८ ॥
+सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः ।त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.९ ॥
+अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.१० ॥
+एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.११ ॥
+यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.१२ ॥
+लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.१३ ॥
+गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।सिद्धानां च गतौ सौम्य मा विषादेन योजय ।प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। ७.४१.१४ ॥
+एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। ७.४१.१५ ॥
+एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। ७.४१.१६ ॥
+विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। ७.४१.१७ ॥
+अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। ७.४१.१८ ॥
+अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। ७.४१.१९ ॥
+काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। ७.४१.२० ॥
+ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। ७.४१.२१ ॥
+एता वाचः सुमधुरा भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। ७.४१.२२ ।।
+स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.१ ॥
+चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि ।देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.२ ॥
+चम्पकाशोकपुन्नागमधूकपनसासनैः ।शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.३ ॥
+लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.४ ॥
+प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि ।जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.५ ॥
+सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.६ ॥
+तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.७ ॥
+कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.८ ॥
+शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.९ ॥
+सुरभीणि च पुष्पाणि माल्यानि विविधानि च ।दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.१० ॥
+माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः ।फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। ७.४२.११ ॥
+दात्यूहशुकसङ्घुष्टा हंससारसनादिताः ।तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। ७.४२.१२ ॥
+प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ।तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। ७.४२.१३ ॥
+शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ।तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। ७.४२.१४ ॥
+प्रस्तराः पुष्पशबला नभस्तारागणैरिव ।नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।तथाभूतं हि रामस्य काननं सन्निवेशनम् ।। ७.४२.१५ ॥
+बह्वासनगृहोपेतां लतागृहसमावृताम् ।अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ।। ७.४२.���६ ॥
+आसने च शुभाकारे पुष्पप्रकरभूषिते ।कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ।। ७.४२.१७ ॥
+सीतामादायं हस्तेन मधुमैरेयकं शुचि ।पाययामास काकुत्स्थः शचीमिव पुरन्दरः ।। ७.४२.१८ ॥
+मांसानि च समृष्टानि फलानि विविधानि च ।रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ।। ७.४२.१९ ॥
+उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ।। ७.४२.२० ॥
+मनोभिरामा रामास्ता रामो रमयतां वरः ।रमयामास धर्मात्मा नित्यं परमभूषितः ।। ७.४२.२१ ॥
+स तया सीतया सार्धमासीनो विरराज ह ।अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ।। ७.४२.२२ ॥
+एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।रमयामास वैदेहीमहन्यहनि देववत् ।। ७.४२.२३ ॥
+तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ।। ७.४२.२४ ॥
+दशवर्षसहस्राणि गतानि सुमहात्मनोः ।प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। ७.४२.२५ ॥
+पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। ७.४२.२६ ॥
+सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै ।श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। ७.४२.२७ ॥
+अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। ७.४२.२८ ॥
+दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.४२.२९ ॥
+अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ।अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। ७.४२.३० ॥
+किमिच्छसि वरारोहे कामः किं क्रियतां तव ।। ७.४२.३१ ॥
+स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ।। ७.४२.३२ ॥
+गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ७.४२.३३ ॥
+एष मे परमः कामो यन्मूलफलभोजिनाम् ।अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ।। ७.४२.३४ ॥
+तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। ७.४२.३५ ॥
+एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। ७.४२.३६ ।।
+तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। ७.४३.१ ॥
+विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। ७.४३.२ ॥
+एते कथा बहुविधाः परिहाससमन्विताः ।कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ७.४३.३ ॥
+ततः कथायां कस्याञ्चिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ७.४३.४ ॥
+मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। ७.४३.५ ॥
+किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। ७.४३.६ ॥
+एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। ७.४३.७ ॥
+अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। ७.४३.८ ॥
+एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। ७.४३.९ ॥
+शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। ७.४३.१० ॥
+कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।कथयन्ति यथा पौराः पापा जनपदेषु च ।। ७.४३.११ ॥
+राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। ७.४३.१२ ॥
+शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च ।। ७.४३.१३ ॥
+दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। ७.४३.१४ ॥
+रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। ७.४३.१५ ॥
+हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। ७.४३.१६ ॥
+कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। ७.४३.१७ ॥
+लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। ७.४३.१८ ॥
+अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। ७.४३.१९ ॥
+एवं बहुविधा वाचो वदन्ति पुरवासिनः ।नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। ७.४३.२० ॥
+तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। ७.४३.२१ ॥
+सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। ७.४३.२२ ॥
+श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरि��म् ।विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। ७.४३.२३ ।।
+विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। ७.४४.१ ॥
+शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।भरतं च महाभागं शत्रुघ्नमपराजितम् ।। ७.४४.२ ॥
+रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। ७.४४.३ ॥
+उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। ७.४४.४ ॥
+बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। ७.४४.५ ॥
+प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। ७.४४.६ ॥
+विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। ७.४४.७ ॥
+उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। ७.४४.८ ॥
+शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। ७.४४.९ ॥
+गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। ७.४४.१० ॥
+शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। ७.४४.११ ॥
+कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। ७.४४.१२ ॥
+प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। ७.४४.१३ ॥
+आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। ७.४४.१४ ॥
+ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। ७.४४.१५ ॥
+बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। ७.४४.१६ ॥
+ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। ७.४४.१७ ॥
+तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। ७.४४.१८ ॥
+भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। ७.४४.१९ ॥
+भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। ७.४४.२० ॥
+तथा वदति काकुत्स्थे अवधानपरायणाः ।उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। ७.४४.२१ ।।
+तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.१ ॥
+सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.२ ॥
+पौरापवादः सुमहांस्तथा जनपदस्य च ।वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.३ ॥
+अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.४ ॥
+जानासि त्वं यथा सौम्य दण्डके विजने वने ।रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.५ ॥
+तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.६ ॥
+प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.७ ॥
+चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.८ ॥
+एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.९ ॥
+अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.१० ॥
+अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.११ ॥
+अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.१२ ॥
+अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.१३ ॥
+अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.१४ ॥
+तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.१५ ॥
+श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.१६ ॥
+गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.१७ ॥
+तत्रैनां विजने देशे विसृज्य रघुनन्दन ।शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.१८ ॥
+न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.१९ ॥
+अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.२० ॥
+ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.२१ ॥
+मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.२२ ॥
+पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.२३ ॥
+एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.२४ ॥
+शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। ७.४५.२५ ।।
+ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। ७.४६.१ ॥
+सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। ७.४६.२ ॥
+सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। ७.४६.३ ॥
+सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। ७.४६.४ ॥
+आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। ७.४६.५ ॥
+एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। ७.४६.६ ॥
+त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। ७.४६.७ ॥
+गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। ७.४६.८ ॥
+एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। ७.४६.९ ॥
+वासांसि च महार्हाणि रत्नानि विविधानि च ।गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। ७.४६.१० ॥
+इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।वस्त्राणि च महार्हाणि धनानि विविधानि च ।। ७.४६.११ ॥
+सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.१२ ॥
+अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.१३ ॥
+नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.१४ ॥
+औत्सुक्यं परमं चापि अधृतिश्च परा मम ।शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.१५ ॥
+अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.१६ ॥
+पुरे जनपदे चैव कुशलं प्राणिनामपि ।इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.१७ ॥
+लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.१८ ॥
+ततो वासमुपागम्य गोमतीतीर आश्रमे ।प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.१९ ॥
+योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.२० ॥
+सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.२१ ॥
+सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। ७.४६.२२ ॥
+आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। ७.४६.२३ ॥
+निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। ७.४६.२४ ॥
+सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। ७.४६.२५ ॥
+जाह्नवीतीरमासाद्य चिराभिलषितं मम ।हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। ७.४६.२६ ॥
+नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। ७.४६.२७ ॥
+ममापि दयितो रामो जीवितादपि लक्ष्मण ।न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। ७.४६.२८ ॥
+तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। ७.४६.२९ ॥
+ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। ७.४६.३० ॥
+ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। ७.४६.३१ ॥
+तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.३२ ॥
+इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। ७.४६.३३ ॥
+तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.३४ ।।
+अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.१ ॥
+सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.२ ॥
+ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.३ ॥
+हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.४ ॥
+श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.५ ॥
+प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.६ ॥
+रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। ७.४७.७ ॥
+किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। ७.४७.८ ॥
+शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। ७.४७.९ ॥
+वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। ७.४७.१० ॥
+श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। ७.४७.११ ॥
+न तानि वचनीयानि मया देवि तवाग्रतः ।यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। ७.४७.१२ ॥
+सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। ७.४७.१३ ॥
+आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। ७.४७.१४ ॥
+तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। ७.४७.१५ ॥
+राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। ७.४७.१६ ॥
+पादच्छायामुपागम्य सुखमस्य महात्मनः ।उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। ७.४७.१७ ॥
+पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। ७.४७.१८ ।।
+लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।परं विषादमागम्य वैदेही निपपात ह ।। ७.४८.१ ॥
+सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्���ाकुलेक्षणा ।लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। ७.४८.२ ॥
+मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। ७.४८.३ ॥
+किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। ७.४८.४ ॥
+पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। ७.४८.५ ॥
+सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। ७.४८.६ ॥
+किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। ७.४८.७ ॥
+न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। ७.४८.८ ॥
+यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। ७.४८.९ ॥
+श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। ७.४८.१० ॥
+शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। ७.४८.११ ॥
+जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।भक्त्या च परया युक्ता हिता च तव नित्यशः ।। ७.४८.१२ ॥
+अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।मया च परिहर्तव्यं त्वं हि मे परमा गतिः ।। ७.४८.१३ ॥
+वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। ७.४८.१४ ॥
+परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।। ७.४८.१५ ॥
+यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। ७.४८.१६ ॥
+यथापवादं पौराणां तथैव रघुनन्दन ।पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। ७.४८.१७ ॥
+प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। ७.४८.१८ ॥
+एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। ७.४८.१९ ॥
+प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। ७.४८.२० ॥
+दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।कथमत्र हि पश्यामि रामेण रहितां वने ।। ७.४८.२१ ॥
+इ���्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। ७.४८.२२ ॥
+स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। ७.४८.२३ ॥
+मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। ७.४८.२४ ॥
+दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। ७.४८.२५ ॥
+सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। ७.४८.२६ ।।
+सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.१ ॥
+अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.२ ॥
+अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.३ ॥
+भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.४ ॥
+दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.५ ॥
+न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.६ ॥
+त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.७ ॥
+तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.८ ॥
+अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.९ ।।
+तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.१० ॥
+स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.११ ॥
+आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.१२ ॥
+तव चैव महाभागे विदितं मम तत्त्वतः ।सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.१३ ॥
+अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.१४ ॥
+आश्रमस्��ाविदूरे मे तापस्यस्तपसि स्थिताः ।तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.१५ ॥
+इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.१६ ॥
+श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.१७ ॥
+तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। ७.४९.१८ ॥
+तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.१९ ॥
+स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.२० ॥
+तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। ७.४९.२१ ॥
+स्नुषा दशरथस्यैषा जनकस्य सुता सती ।अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। ७.४९.२२ ॥
+इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि ।गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। ७.४९.२३ ॥
+मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। ७.४९.२४ ।।
+दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ॥
+अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ॥
+ततो दुःखतरं किं नु राघवस्य भविष्यति ।पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ॥
+व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ॥
+यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ॥
+पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ॥
+ततो दुःखतरं भूयः सीताया विप्रवासनम् ।पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ॥
+को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ॥
+एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ॥
+न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ॥
+भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ॥
+त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ॥
+इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ॥
+महाजनसमीपे च मम चैव नरर्षभ ।ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ॥
+ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ॥
+तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ॥
+सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ॥
+यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ॥
+येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ॥
+तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।।
+तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। ७.५१.१ ॥
+पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ।। ७.५१.२ ॥
+तमाश्रमं महातेजाः पिता ते सुमहायशाः ।पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ।। ७.५१.३ ॥
+स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ।। ७.५१.४ ॥
+तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
+पाद्येन फलमूलैश्च उवास मुनिभिः सह ।। ७.५१.५ ॥
+तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। ७.५१.६ ॥
+ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। ७.५१.७ ॥
+भगवन्किं प्रमाणेन मम वंशो भविष्यति ।किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। ७.५१.८ ॥
+रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। ७.५१.९ ॥
+तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।दुर्वासाः सुमहातेजा व्याहर्तु���ुपचक्रमे ।। ७.५१.१० ॥
+शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। ७.५१.११ ॥
+तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ।। ७.५१.१२ ॥
+तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। ७.५१.१३ ॥
+ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। ७.५१.१४ ॥
+यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। ७.५१.१५ ॥
+तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।। ७.५१.१६ ॥
+शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।। ७.५१.१७ ॥
+अर्चयामास तं देवं भृगुः शापेन पीडितः ।तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। ७.५१.१९ ॥
+इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। ७.५१.२० ॥
+राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। ७.५१.२१ ॥
+अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। ७.५१.२२ ॥
+दश वर्षसहस्राणि दश वर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। ७.५१.२३ ॥
+समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। ७.५१.२४ ॥
+द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। ७.५१.२५ ॥
+सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।। ७.५१.२६ ॥
+स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। ७.५१.२७ ॥
+तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। ७.५१.२८ ॥
+एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। ७.५१.२९ ॥
+एवं गते न सन्तापं कर्तुमर्हसि राघव ।सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। ७.५१.३० ॥
+श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.५१.३१ ॥
+ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। ७.५१.३२ ।।
+तत��र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.१ ॥
+ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.२ ॥
+सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.३ ॥
+तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।रामस्य परमोदारं पुरस्तान्समदृश्यत ।। ७.५२.४ ॥
+राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। ७.५२.५ ॥
+स दृष्ट्वा राघवं दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ७.५२.६ ॥
+जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। ७.५२.७ ॥
+आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। ७.५२.८ ॥
+तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।पुनरप्यागतो वीर पादमूलमुपासितुम् ।। ७.५२.९ ॥
+मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। ७.५२.१० ॥
+सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ७.५२.११ ॥
+तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। ७.५२.१२ ॥
+शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। ७.५२.१३ ॥
+नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।अपवादः स किल ते पुनरेष्यति राघव ।। ७.५२.१४ ॥
+यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। ७.५२.१५ ॥
+स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। ७.५२.१६ ॥
+एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। ७.५२.१७ ॥
+एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।परितोषश्च मे वीर मम कार्यानुशासने ।। ७.५२.१८ ॥
+निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। ७.५२.१९ ।।
+लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ।। ७.५३.१ ॥
+दुर्लभस्त्वीदृशो बन्धुरस���मिन्काले विशेषतः ।यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ।। ७.५३.२ ॥
+यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ।। ७.५३.३ ॥
+चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ।। ७.५३.४ ॥
+आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ।। ७.५३.५ ॥
+पौरकार्याणि यो राजा न करोति दिने दिने ।संवृते नरके घोरे पतितो नात्र संशयः ।। ७.५३.६ ॥
+श्रूयते हि पुरा राजा नृगो नाम महायशाः ।बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ।। ७.५३.७ ॥
+स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ।। ७.५३.८ ॥
+ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ।ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ।। ७.५३.९ ॥
+स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ।। ७.५३.१० ॥
+ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ।। ७.५३.११ ॥
+अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ।। ७.५३.१२ ॥
+तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ।। ७.५३.१३ ॥
+यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् ।गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। ७.५३.१४ ॥
+स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। ७.५३.१५ ॥
+विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः ।तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। ७.५३.१६ ॥
+अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ।। ७.५३.१७ ॥
+अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। ७.५३.१८ ॥
+बहुवर्षसहस्राणि बहुवर्षशतानि च ।श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। ७.५३.१९ ॥
+उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः ।वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। ७.५३.२० ॥
+स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। ७.५३.२१ ॥
+भारावतरणार्थं हि नरनारायणावुभौ ।उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। ७.५३.२२ ॥
+एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। ७.५३.२३ ॥
+एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।। ७.५३.२४ ॥
+कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। ७.५३.२५ ॥
+सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। ७.५३.२६ ।।
+रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५४.१ ॥
+अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। ७.५४.२ ॥
+श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। ७.५४.३ ॥
+लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। ७.५४.४ ॥
+अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। ७.५४.५ ॥
+तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। ७.५४.६ ॥
+नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। ७.५४.७ ॥
+कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। ७.५४.८ ॥
+वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। ७.५४.९ ॥
+फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। ७.५४.१० ॥
+क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। ७.५४.११ ॥
+पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। ७.५४.१२ ॥
+एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। ७.५४.१३ ॥
+प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। ७.५४.१४ ॥
+मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।कृतान्तः ��ुशलः पुत्र येनास्मि व्यसनीकृतः ।। ७.५४.१५ ॥
+प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। ७.५४.१६ ॥
+पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ।। ७.५४.१७ ॥
+एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ।। ७.५४.१८ ॥
+एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ।। ७.५४.१९ ।।
+एष ते नृगशापस्य विस्तरो ऽभिहितो मया ।यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। ७.५५.१ ॥
+एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। ७.५५.२ ॥
+लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। ७.५५.३ ॥
+आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। ७.५५.४ ॥
+स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।निवेशयामास तदा अभ्याशे गौतमस्य तु ।। ७.५५.५ ॥
+पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। ७.५५.६ ॥
+तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.७ ॥
+ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.८ ॥
+अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.९ ॥
+तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.१० ॥
+अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.११ ॥
+निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः ।अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.१२ ॥
+इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः ।सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.१३ ॥
+तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.१४ ॥
+स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.१५ ॥
+ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.१६ ॥
+यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.१७ ॥
+ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.१८ ॥
+अजानतः शयानस्य क्रोधेन कलुषीकृतः ।मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.१९ ॥
+तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.२० ॥
+इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.२१ ।।
+रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५६.१ ॥
+निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ।। ७.५६.२ ॥
+लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ।। ७.५६.३ ॥
+तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। ७.५६.४ ॥
+अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः ।वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। ७.५६.५ ॥
+सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।पितामहमथोवाच वायुभूत इदं वचः ।। ७.५६.६ ॥
+भगवन्निमिशापेन विदेहत्वमुपागमम् ।लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ।। ७.५६.७ ॥
+सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो ।देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।। ७.५६.८ ॥
+तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ।मित्रावरुणजं तेज प्रविश त्वं महायशः ।। ७.५६.९ ॥
+अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ।। ७.५६.१० ॥
+एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ।। ७.५६.११ ॥
+तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् ।क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ।। ७.५६.१२ ॥
+एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ।। ७.५६.१३ ॥
+तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।आविशत्परमो हर्षो वरुणं चोर्वशीकृते ।। ७.५६.१४ ॥
+स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभ���ननाम् ।वरुणो वरयामास मैथुनायाप्सरोवराम् ।। ७.५६.१५ ॥
+प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। ७.५६.१६ ॥
+वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ।। ७.५६.१७ ॥
+एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ।। ७.५६.१८ ॥
+तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ।। ७.५६.१९ ॥
+काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ।। ७.५६.२० ॥
+उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ।। ७.५६.२१ ॥
+उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ।। ७.५६.२२ ॥
+मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ।। ७.५६.२३ ॥
+अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।। ७.५६.२४ ॥
+बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः ।तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ।। ७.५६.२५ ॥
+ततः सा शापदोषेण पुरूरवसमभ्यगात् ।प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ।। ७.५६.२६ ॥
+तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ।। ७.५६.२७ ॥
+वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे ।शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ।। ७.५६.२८ ॥
+सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ।। ७.५६.२९ ।।
+तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। ७.५७.१ ॥
+निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। ७.५७.२ ॥
+तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।तां कथां कथयामास वसिष्ठस्य महात्मनः ।। ७.५७.३ ॥
+यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। ७.५७.४ ॥
+पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।नाहं सुतस्तवेत्युक्त्वा मित्रं त���्मादपाक्रमत् ।। ७.५७.५ ॥
+तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। ७.५७.६ ॥
+कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। ७.५७.७ ॥
+तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। ७.५७.८ ॥
+एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। ७.५७.९ ॥
+दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। ७.५७.१० ॥
+तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। ७.५७.११ ॥
+ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। ७.५७.१२ ॥
+सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। ७.५७.१३ ॥
+एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। ७.५७.१४ ॥
+बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। ७.५७.१५ ॥
+त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। ७.५७.१६ ॥
+एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। ७.५७.१७ ॥
+अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। ७.५७.१८ ॥
+अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।। ७.५७.१९ ॥
+एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। ७.५७.२० ।।
+एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.१ ॥
+महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.२ ॥
+निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.३ ॥
+एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.४ ॥
+र���मो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.५ ॥
+सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.६ ॥
+नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.७ ॥
+एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.८ ॥
+अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.९ ॥
+तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.१० ॥
+पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.११ ॥
+भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.१२ ॥
+आवां च सहितौ देवि प्रविशाव हुताशनम् ।राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.१३ ॥
+यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। ७.५८.१४ ॥
+पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। ७.५८.१५ ॥
+इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। ७.५८.१६ ॥
+दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। ७.५८.१७ ॥
+पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। ७.५८.१८ ॥
+अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। ७.५८.१९ ॥
+न मां त्वमवजानीषे दुःखितामवमानिताम् ।वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। ७.५८.२० ॥
+अवज्ञया च राजर्षिः परिभूय च भार्गव ।मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। ७.५८.२१ ॥
+तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। ७.५८.२२ ॥
+यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। ७.५८.२३ ॥
+एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। ७.५८.२४ ॥
+स एवमुक्त्वा द्विजपुङ्गवा��्र्यः सुतां समाश्वास्य च देवयानीम् ।पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। ७.५८.२५ ।।
+श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। ७.५९.१ ॥
+यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।जरां परमिकां पुत्र भोगै रंस्ये महायशः ।। ७.५९.२ ॥
+न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।। ७.५९.३ ॥
+यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।। ७.५९.४ ॥
+बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।। ७.५९.५ ।।
+तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।। ७.५९.६ ॥
+नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।। ७.५९.७ ॥
+पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। ७.५९.८ ।।
+ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। ७.५९.९ ॥
+अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। ७.५९.१० ॥
+न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ७.५९.११ ॥
+प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। ७.५९.१२ ॥
+एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। ७.५९.१३ ॥
+राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। ७.५९.१४ ॥
+पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। ७.५९.१५ ॥
+न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। ७.५९.१६ ॥
+तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। ७.५९.१७ ॥
+ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। ७.५९.१८ ॥
+पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। ७.५९.१९ ॥
+यदुस्तु जनयामास यातुधानान्सहस्रशः ।पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। ७.५९.२० ॥
+एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। ७.५९.२१ ॥
+एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। ७.५९.२२ ॥
+इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। ७.५९.२३ ।।
+तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। ७.६०.१ ॥
+ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। ७.६०.२ ॥
+ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। ७.६०.३ ॥
+भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। ७.६०.४ ॥
+तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। ७.६०.५ ॥
+राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।प्रवेशयामास तदा तापसान्सुदुरासदान् ।। ७.६०.६ ॥
+शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। ७.६०.७ ॥
+ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। ७.६०.८ ॥
+प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। ७.६०.९ ॥
+उवाच च महाबाहुः सर्वानेव महामुनीन् ।इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। ७.६०.१० ॥
+रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। ७.६०.११ ॥
+उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। ७.६०.१२ ॥
+किमागमनकार्यं वः किं करोमि समाहितः ।आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। ७.६०.१३ ॥
+इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। ७.६०.१४ ॥
+तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। ७.६०.१५ ॥
+ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। ७.६०.१६ ॥
+बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। ७.६०.१७ ॥
+त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। ७.६०.१८ ।।
+एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। ७.६१.१ ॥
+तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। ७.६१.२ ॥
+पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। ७.६१.३ ॥
+ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। ७.६१.४ ॥
+स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। ७.६१.५ ॥
+रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। ७.६१.६ ॥
+शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। ७.६१.७ ॥
+त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। ७.६१.८ ॥
+यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। ७.६१.९ ॥
+यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। ७.६१.१० ॥
+एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ७.६१.११ ॥
+भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। ७.६१.१२ ॥
+तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। ७.६१.१३ ॥
+मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। ७.६१.१४ ॥
+यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। ७.६१.१५ ॥
+एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। ७.६१.१६ ॥
+तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।विश्वावसोरपत्यं सा ह्यनलायां महाप्रभ��� ।। ७.६१.१७ ॥
+तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। ७.६१.१८ ॥
+तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। ७.६१.१९ ॥
+स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। ७.६१.२० ॥
+स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। ७.६१.२१ ॥
+एवंप्रभावो लवणः शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। ७.६१.२२ ॥
+बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ।। ७.६१.२३ ॥
+ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। ७.६१.२४ ॥
+इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। ७.६१.२५ ।।
+तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।किमाहारः किमाचारो लवणः क्व च वर्तते ।। ७.६२.१ ॥
+राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।ततो निवेदयामासुर्लवणो ववृधे यथा ।। ७.६२.२ ॥
+आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।आचारो रौद्रता नित्यं वासो मधुवने तथा ।। ७.६२.३ ॥
+हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ७.६२.४ ॥
+ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। ७.६२.५ ॥
+तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। ७.६२.६ ॥
+प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। ७.६२.७ ॥
+को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। ७.६२.८ ॥
+राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। ७.६२.९ ॥
+भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। ७.६२.१० ॥
+शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ७.६२.११ ॥
+आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।सन्तापं हृदये कृत्वा आर्यस्यागम��ं प्रति ।। ७.६२.१२ ॥
+दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। ७.६२.१३ ॥
+फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।अनुभूयेदृशं दुःखमेष राघवनन्दनः ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। ७.६२.१४ ॥
+तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। ७.६२.१५ ॥
+राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।निवेशय महाबाहो भरतं यद्यवेक्षसे ।। ७.६२.१६ ॥
+शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। ७.६२.१७ ॥
+यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। ७.६२.१८ ॥
+स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। ७.६२.१९ ॥
+उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। ७.६२.२० ॥
+अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। ७.६२.२१ ।।
+एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ।। ७.६३.१ ॥
+अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ।। ७.६३.२ ॥
+अवश्यं करणीयं च शासनं पुरुषर्षभ ।तव चैव महाभाग शासनं दुरतिक्रमम् ।। ७.६३.३ ॥
+त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। ७.६३.४ ॥
+व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ।। ७.६३.५ ॥
+उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।अधर्मसहितं चैव परलोकविवर्जितम् ।। ७.६३.६ ॥
+सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ।। ७.६३.७ ॥
+कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ।। ७.६३.८ ॥
+एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ।। ७.६३.९ ॥
+सम्भारानभिषेकस्य आनयध्वं समाहिताः ।अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ।। ७.६३.१० ॥
+पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ।। ७.६३.११ ॥
+राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः ।अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ।। ७.६३.१२ ॥
+तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ।। ७.६३.१३ ॥
+अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ।। ७.६३.१४ ॥
+अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।। ७.६३.१५ ॥
+कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।। ७.६३.१६ ॥
+ऋषयश्च महात्मानो यमुनातीरवासिनः ।हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। ७.६३.१७ ॥
+ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। ७.६३.१८ ॥
+अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। ७.६३.१९ ॥
+सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।। ७.६३.२० ॥
+स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। ७.६३.२१ ॥
+सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।मधुकैटभयोर्वीर विघाते वर्तमानयोः ।स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। ७.६३.२२ ॥
+तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।अनेन शरमुख्येन ततो लोकांश्चकार सः ।। ७.६३.२३ ॥
+नायं मया शरः पूर्वं रावणस्य वधार्थिना ।मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। ७.६३.२४ ॥
+यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। ७.६३.२५ ॥
+स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। ७.६३.२६ ॥
+यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। ७.६३.२७ ॥
+स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। ७.६३.२८ ॥
+अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। ७.६३.२९ ॥
+अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। ७.६३.३० ॥
+एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। ७.६३.३१ ।।
+एवमुक्त्वा च काक��त्स्थं प्रशस्य च पुनः पुनः ।पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.१ ॥
+इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.२ ॥
+अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.३ ॥
+हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.४ ॥
+बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.५ ॥
+न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.६ ॥
+ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.७ ॥
+यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.८ ॥
+न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.९ ॥
+स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.१० ॥
+महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.११ ॥
+तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.१२ ॥
+एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.१३ ॥
+एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.१४ ॥
+तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.१५ ॥
+रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च ।रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.१६ ॥
+लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.१७ ॥
+प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.१८ ।।
+प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.१ ॥
+द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.२ ॥
+सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.३ ॥
+भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.४ ॥
+शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.५ ॥
+स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि ।आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.६ ॥
+प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.७ ॥
+स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.८ ॥
+तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.९ ॥
+युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः ।पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.१० ॥
+स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.११ ॥
+शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.१२ ॥
+स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.१३ ॥
+विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.१४ ॥
+निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.१५ ॥
+यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.१६ ॥
+एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.१७ ॥
+राजापि यजते यज्ञमस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.१८ ॥
+तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.१९ ॥
+अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.२० ॥
+अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.२१ ॥
+तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.२२ ॥
+हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.२३ ॥
+शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.२४ ॥
+स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.२५ ॥
+स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। ७.६५.२६ ॥
+ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। ७.६५.२७ ॥
+यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ७.६५.२८ ॥
+ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। ७.६५.२९ ॥
+राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। ७.६५.३० ॥
+ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। ७.६५.३१ ॥
+तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः ।कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। ७.६५.३२ ॥
+स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। ७.६५.३३ ॥
+तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। ७.६५.३४ ॥
+मया रोषपरीतेन यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। ७.६५.३५ ॥
+कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति ।मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। ७.६५.३६ ॥
+एवं स राजा तं शापमुपभुज्यारिसूदनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। ७.६५.३७ ॥
+तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। ७.६५.३८ ॥
+तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।विवेश पर्णशालायां महर्षिमभिवाद्य च ।। ७.६५.३९ ।।
+यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। ७.६६.१ ॥
+ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। ७.६६.२ ॥
+भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। ७.६६.३ ॥
+तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। ७.६६.४ ॥
+जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। ७.६६.५ ॥
+कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ७.६६.६ ॥
+यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। ७.६६.७ ॥
+यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। ७.६६.८ ॥
+एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। ७.६६.९ ॥
+तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। ७.६६.१० ॥
+तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। ७.६६.११ ॥
+अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। ७.६६.१२ ॥
+तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। ७.६६.१३ ॥
+प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। ७.६६.१४ ॥
+स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। ७.६६.१५ ॥
+स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। ७.६६.१६ ॥
+स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। ७.६६.१७ ।।
+अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। ७.६७.१ ॥
+शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। ७.६७.२ ॥
+तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। ७.६७.३ ॥
+असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। ७.६७.४ ॥
+अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.६७.५ ॥
+स कृत��वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। ७.६७.६ ॥
+इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। ७.६७.७ ॥
+अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ७.६७.८ ॥
+तस्य पापमभिप्रायं विदित्वा पाकशासनः ।सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। ७.६७.९ ॥
+राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। ७.६७.१० ॥
+यदि वीर समग्रा ते मेदिनी निखिला वशे ।देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। ७.६७.११ ॥
+इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। ७.६७.१२ ॥
+तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। ७.६७.१३ ॥
+तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। ७.६७.१४ ॥
+आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। ७.६७.१५ ॥
+स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। ७.६७.१६ ॥
+स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। ७.६७.१७ ॥
+स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। ७.६७.१८ ॥
+चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। ७.६७.१९ ॥
+ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। ७.६७.२० ॥
+तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। ७.६७.२१ ॥
+एवं स राजा सुमहान्हतः सबलवाहनः ।शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। ७.६७.२२ ॥
+श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। ७.६७.२३ ॥
+लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। ७.६७.२४ ॥
+शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। ७.६७.२५ ॥
+त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। ७.६७.२६ ।।
+कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। ७.६८.१ ॥
+ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। ७.६८.२ ॥
+एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। ७.६८.३ ॥
+ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। ७.६८.४ ॥
+ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि ।। ७.६८.५ ॥
+ईदृशानां सहस्राणि सायुधानां नराधम ।भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। ७.६८.६ ॥
+आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। ७.६८.७ ॥
+तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। ७.६८.८ ॥
+तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। ७.६८.९ ॥
+उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। ७.६८.१० ॥
+पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ।। ७.६८.११ ॥
+तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ।। ७.६८.१२ ॥
+तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ।। ७.६८.१३ ॥
+मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ।। ७.६८.१४ ॥
+तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ।। ७.६८.१५ ॥
+निहताश्च हि मे सर्वे परिभूतास्तृणं यथा ।भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ।। ७.६८.१६ ॥
+तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।। ७.६८.१७ ॥
+तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ।। ७.६८.१८ ॥
+यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ।। ७.६८.१९ ॥
+तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ।। ७.६८.२० ।।
+तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। ७.६९.१ ॥
+पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। ७.६९.२ ॥
+तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। ७.६९.३ ॥
+न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। ७.६९.४ ॥
+ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। ७.६९.५ ॥
+त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।पुरे जनपदे चापि क्षेममेव भविष्यति ।। ७.६९.६ ॥
+अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। ७.६९.७ ॥
+एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। ७.६९.८ ॥
+तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। ७.६९.९ ॥
+शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। ७.६९.१० ॥
+ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। ७.६९.११ ॥
+ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। ७.६९.१२ ॥
+तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। ७.६९.१३ ॥
+तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। ७.६९.१४ ॥
+नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। ७.६९.१५ ॥
+मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। ७.६९.१६ ॥
+ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। ७.६९.१७ ॥
+वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। ७.६९.१८ ॥
+असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम�� ।दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। ७.६९.१९ ॥
+तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.२० ॥
+सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.२१ ॥
+उवाच देवदेवेशं वरदं प्रपितामहम् ।देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२२ ॥
+नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२३ ॥
+तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।भयकारणमाचष्ट लोकानामभयङ्करः ।उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.२४ ॥
+वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.२५ ॥
+एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.२६ ॥
+एष वै कैटभस्यार्थे मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.२७ ॥
+एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.२८ ॥
+इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.२९ ॥
+तस्य ते देवदेवस्य निशम्य वचनं सुराः ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। ७.६९.३० ॥
+तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। ७.६९.३१ ॥
+अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। ७.६९.३२ ॥
+आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। ७.६९.३३ ॥
+आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।तं मुमोच महाबाणं लवणस्य महोरसि ।। ७.६९.३४ ॥
+उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। ७.६९.३५ ॥
+गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। ७.६९.३६ ॥
+शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ।। ७.६९.३७ ॥
+तच्च शूलं महत्तेन हते लवणराक्षसे ।पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। ७.६९.३८ ॥
+एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। ७.६९.३९ ॥
+ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। ७.६९.४० ।।
+हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। ७.७०.१ ॥
+दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।हतः पुरुषशार्दूल वरं वरय सुव्रत ।। ७.७०.२ ॥
+वरदास्तु महाबाहो सर्व एव समागताः ।विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। ७.७०.३ ॥
+देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ७.७०.४ ॥
+इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। ७.७०.५ ॥
+तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।भविष्यति पुरी रम्या शूरसेना न संशयः ।। ७.७०.६ ॥
+ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। ७.७०.७ ॥
+सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। ७.७०.८ ॥
+सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। ७.७०.९ ॥
+क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। ७.७०.१० ॥
+अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। ७.७०.११ ॥
+यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। ७.७०.१२ ॥
+आरामैश्च विहारैश्च शोभमानं समन्ततः ।शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। ७.७०.१३ ॥
+तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। ७.७०.१४ ॥
+तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। ७.७०.१५ ॥
+तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। ७.७०.१६ ॥
+ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। ७.७०.१७ ।।
+ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। ७.७१.१ ॥
+ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।जगाम हयमुख्यैश्च रथानां च शतेन सः ।। ७.७१.२ ॥
+स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। ७.७१.३ ॥
+सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। ७.७१.४ ॥
+बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। ७.७१.५ ॥
+उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ।। ७.७१.६ ॥
+बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।लवणेन महाबाहो युध्यमाना महाबलाः ।। ७.७१.७ ॥
+स त्वया निहतः पापो लीलया पुरुषर्षभ ।जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। ७.७१.८ ॥
+रावणस्य वधो घोरो यत्नेन महता कृतः ।इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ।। ७.७१.९ ॥
+प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ।। ७.७१.१० ॥
+तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।सभायां वासवस्याथ उपविष्टेन राघव ।। ७.७१.११ ॥
+ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ।। ७.७१.१२ ॥
+इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ।। ७.७१.१३ ॥
+स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ।। ७.७१.१४ ॥
+तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।। ७.७१.१५ ॥
+तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।। ७.७१.१६ ॥
+स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।। ७.७१.१७ ॥
+पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।। ७.७१.१८ ॥
+परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ।। ७.७१.१९ ॥
+अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ।। ७.७१.२० ॥
+विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।। ७.७१.२१ ॥
+शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वित��न् ।सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ।। ७.७१.२२ ॥
+आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ।। ७.७१.२३ ॥
+एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ।। ७.७१.२४ ।।
+तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ।। ७.७२.१ ॥
+तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ।। ७.७२.२ ॥
+तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। ७.७२.३ ॥
+भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ।। ७.७२.४ ॥
+इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ।। ७.७२.५ ॥
+सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ।। ७.७२.६ ॥
+स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ।। ७.७२.७ ॥
+स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ।। ७.७२.८ ॥
+सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ।। ७.७२.९ ॥
+यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।हतः स लवणः पापः पुरी चास्य निवेशिता ।। ७.७२.१० ॥
+द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ।। ७.७२.११ ॥
+स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ।। ७.७२.१२ ॥
+एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ।। ७.७२.१३ ॥
+नावसीदन्ति राजानो विप्रवासेषु राघव ।प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ।। ७.७२.१४ ॥
+काले काले तु मां वीर अयोध्यामवलोकितुम् ।आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ।। ७.७२.१५ ॥
+ममापि त्वं सुदयितः प्राणैरपि न संशयः ।अवश्यं करणीयं च राज्यस्य परिपालनम् ।। ७.७२.१६ ॥
+तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। ७.७२.१७ ॥
+रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं म��ोगतम् ।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। ७.७२.१८ ॥
+सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। ७.७२.१९ ॥
+आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। ७.७२.२० ॥
+दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। ७.७२.२१ ।।
+प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। ७.७३.१ ॥
+ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।मृतं बालमुपादाय राजद्वारमुपागमत् ।। ७.७३.२ ॥
+रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। ७.७३.३ ॥
+किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ।। ७.७३.४ ॥
+अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।अकाले कालमापन्नं मम दुःखाय पुत्रक ।। ७.७३.५ ॥
+अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।अहं च जननी चैव तव शोकेन पुत्रक ।। ७.७३.६ ॥
+न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ।। ७.७३.७ ॥
+केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। ७.७३.८ ॥
+नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।मृत्युरप्राप्तकालानां रामस्य विषये यथा ।। ७.७३.९ ॥
+रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।यथा हि विषयस्थानां बालानां मृत्युरागतः ।। ७.७३.१० ॥
+नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ।। ७.७३.११ ॥
+राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ।। ७.७३.१२ ॥
+भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ।। ७.७३.१३ ॥
+इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ।। ७.७३.१४ ॥
+सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ।। ७.७३.१५ ॥
+राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।असद्वृत्ते तु नृपतावकाले म्रियते जनः ।। ७.७३.१६ ॥
+यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ।। ७.७३.१७ ॥
+सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।पुरे जनपदे चापि ततो बालवधो ह्ययम् ।। ७.७३.१८ ॥
+एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।राजानं दुःखसन्तप्तः सुतं तमुपगूहते ।। ७.७३.१९ ।।
+तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.१ ॥
+स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.२ ॥
+ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.३ ॥
+मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। ७.७४.४ ॥
+महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। ७.७४.५ ॥
+तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। ७.७४.६ ॥
+तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७.७४.७ ॥
+शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। ७.७४.८ ॥
+पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। ७.७४.९ ॥
+तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। ७.७४.१० ॥
+ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। ७.७४.११ ॥
+वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। ७.७४.१२ ॥
+ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। ७.७४.१३ ॥
+अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। ७.७४.१४ ॥
+तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। ७.७४.१५ ॥
+अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। ७.७४.१६ ॥
+आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। ७.७४.१७ ॥
+अनृतं पातयित्वा तु पादमेकमधर्मतः ।ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। ७.७४.१८ ॥
+पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।शुभान्य���वाचरँल्लोकः सत्यधर्मपरायणः ।। ७.७४.१९ ॥
+त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। ७.७४.२० ॥
+स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। ७.७४.२१ ॥
+एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। ७.७४.२२ ॥
+ततः पादमधर्मस्स द्वितीयमवतारयत् ।ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। ७.७४.२३ ॥
+तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। ७.७४.२४ ॥
+तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ७.७४.२५ ॥
+त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। ७.७४.२६ ॥
+भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। ७.७४.२७ ॥
+स वै विषयपर्यन्ते तव राजन्महातपाः ।अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। ७.७४.२८ ॥
+यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।क्षिप्रं च नरकं याति स च राजा न संशयः ।। ७.७४.२९ ॥
+अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। ७.७४.३० ॥
+षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। ७.७४.३१ ॥
+स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। ७.७४.३२ ॥
+एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। ७.७४.३३ ।।
+नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ।। ७.७५.१ ॥
+गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ।। ७.७५.२ ॥
+गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ।। ७.७५.३ ॥
+यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ।। ७.७५.४ ॥
+एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।मनसा पुष्पकं दध्यावागच्छेति महायशाः ।। ७.७५.५ ॥
+इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम मुहूर्तेन समीपे राघवस्य वै ।। ७.७५.६ ॥
+सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो किङ्करः समुपस्थितः ।। ७.७५.७ ॥
+भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ।। ७.७५.८ ॥
+धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ।। ७.७५.९ ॥
+प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ।। ७.७५.१० ॥
+अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ।। ७.७५.११ ॥
+प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ।। ७.७५.१२ ॥
+दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ।। ७.७५.१३ ॥
+तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ।। ७.७५.१४ ॥
+राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। ७.७५.१५ ॥
+कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ।। ७.७५.१६ ॥
+को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।। ७.७५.१७ ॥
+ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ।। ७.७५.१८ ।।
+इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ।। ७.७५.१९ ।।
+तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.१ ॥
+शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.२ ॥
+न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.३ ॥
+भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.४ ॥
+तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.५ ॥
+पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।पुष���पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.६ ॥
+सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.७ ॥
+गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.८ ॥
+देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.९ ॥
+यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.१० ॥
+ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.११ ॥
+तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.१२ ॥
+राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.१३ ॥
+निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.१४ ॥
+यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.१५ ॥
+स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.१६ ॥
+तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.१७ ॥
+काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.१८ ॥
+स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.१९ ॥
+ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.२० ॥
+दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.२१ ॥
+प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.२२ ॥
+गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.२३ ॥
+सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.२४ ॥
+तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.२५ ॥
+त्वं मे ���हुमतो राम गुणैर्बहुभिरुत्तमैः ।अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.२६ ॥
+सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.२७ ॥
+उष्यतां चेह रजनी सकाशे मम राघव ।प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.२८ ॥
+त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.२९ ॥
+इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।। ७.७६.३० ॥
+दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ।। ७.७६.३१ ॥
+त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।। ७.७६.३२ ॥
+दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।। ७.७६.३३ ॥
+अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।। ७.७६.३४ ॥
+प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ।। ७.७६.३५ ॥
+ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। ७.७६.३६ ॥
+आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ।। ७.७६.३७ ॥
+ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ७.७६.३८ ॥
+प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।न वसामो विना राज्ञा एष नो निश्चयः परः ।। ७.७६.३९ ॥
+प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ।। ७.७६.४० ॥
+ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ।। ७.७६.४१ ॥
+ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।। ७.७६.४२ ॥
+तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।। ७.७६.४३ ॥
+तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।। ७.७६.४४ ॥
+कौबेरेण तु भागेन वित्तमासां ददौ तदा ।यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजा�� ।। ७.७६.४५ ॥
+तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।। ७.७६.४६ ॥
+तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ।। ७.७६.४७ ॥
+प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। ७.७६.४८ ॥
+अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ।। ७.७६.४९ ॥
+कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।आश्चर्याणां बहूनां हि निधिः परमको भवान् ।। ७.७६.५० ॥
+एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ।। ७.७६.५१ ॥
+रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ।। ७.७६.५२ ।।
+पुरा त्रेतायुगे राम बभूव बहुविस्तरम् ।समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ।। ७.७७.१ ॥
+तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् ।अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। ७.७७.२ ॥
+तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ।। ७.७७.३ ॥
+तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।। ७.७७.४ ॥
+पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ।। ७.७७.५ ॥
+अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।समीपे तस्य सरसो महदद्भुतमाश्रमम् ।। ७.७७.६ ॥
+पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।। ७.७७.७ ॥
+प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।। ७.७७.८ ॥
+पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। ७.७७.९ ॥
+तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव ।उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ।। ७.७७.१० ॥
+अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।विमानं परमोदारं हंसयुक्तं मनोजवम् ।। ७.७७.११ ॥
+अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन ।उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। ७.७७.१२ ॥
+गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः ।क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ।। ७.७७.१३ ॥
+अपराश्चन्द्ररश्म्याभैर्हेम��ण्डैश्च चामरैः ।दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। ७.७७.१४ ॥
+ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।पश्यतो मे तदा राम विमानादवरुह्य च ।तं शवं भक्षयामास स स्वर्गी रघुनन्दन ।। ७.७७.१५ ॥
+तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ।। ७.७७.१६ ॥
+उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।आरोढुमुपचक्राम विमानवरमुत्तमम् ।। ७.७७.१७ ॥
+तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ।। ७.७७.१८ ॥
+को भवान्देवसङ्काश आहारश्च विगर्हितः ।त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ।। ७.७७.१९ ॥
+कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।। ७.७७.२० ॥
+नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ।। ७.७७.२१ ॥
+इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ।श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ।। ७.७७.२२ ।।
+श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। ७.७८.१ ॥
+शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। ७.७८.२ ॥
+पुरा वैदर्भको राजा पिता मम महायशाः ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.७८.३ ॥
+तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। ७.७८.४ ॥
+ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। ७.७८.५ ॥
+एवं वर्षसहस्राणि समतीतानि सुव्रत ।राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। ७.७८.६ ॥
+सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। ७.७८.७ ॥
+सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। ७.७८.८ ॥
+भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। ७.७८.९ ॥
+सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। ७.७८.१० ॥
+तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।गत्वा त्रिभुवनश्रेष्ठं पितामह���ुवाच ह ।। ७.७८.११ ॥
+भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। ७.७८.१२ ॥
+आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।। ७.७८.१३ ॥
+पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ।। ७.७८.१४ ॥
+स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ।। ७.७८.१५ ॥
+तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ।। ७.७८.१६ ।।
+दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ।। ७.७८.१७ ॥
+स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ।। ७.७८.१८ ॥
+यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ।। ७.७८.१९ ॥
+स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७.७८.२० ॥
+सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।आहारं गर्हितं स्वशरीरं द्विजोत्तम ।। ७.७८.२१ ॥
+बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७.७८.२२ ॥
+तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ।। ७.७८.२३ ॥
+इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ।। ७.७८.२४ ॥
+इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ।। ७.७८.२५ ॥
+सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ।। ७.७८.२६ ॥
+तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।तारणायोपजग्राह तदाभरणमुत्तमम् ।। ७.७८.२७ ॥
+मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।मानुषः पूर्वको देहो राजर्षेर्विननाश ह ।। ७.७८.२८ ॥
+प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ।। ७.७८.२९ ॥
+तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। ७.७८.३० ।।
+तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।। ७.७९.१ ॥
+भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। ७.७९.२ ॥
+तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।। ७.७९.३ ॥
+रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।। ७.७९.४ ॥
+पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।। ७.७९.५ ॥
+तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।। ७.७९.६ ॥
+तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।। ७.७९.७ ॥
+प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।। ७.७९.८ ॥
+अपराधिषु यो दण्डः पात्यते मानवेषु वै ।स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।। ७.७९.९ ॥
+तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।। ७.७९.१० ॥
+इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।। ७.७९.११ ॥
+प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।। ७.७९.१२ ॥
+कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।जनयामास धर्मात्मा शतं देवसुतोपमान् ।। ७.७९.१३ ॥
+तेषामवरजस्तात सर्वेषां रघुनन्दन ।मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।। ७.७९.१४ ॥
+नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।। ७.७९.१५ ॥
+अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।। ७.७९.१६ ॥
+स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।। ७.७९.१७ ॥
+पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।पुरोहितं तूशनसं वरयामास सुव्रतम् ।। ७.७९.१८ ॥
+एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।। ७.७९.१९ ॥
+ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।। ७.७९.२० ।।
+एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। ७.८०.१ ॥
+ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। ७.८०.२ ॥
+अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। ७.८०.३ ॥
+तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। ७.८०.४ ॥
+स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। ७.८०.५ ।।
+कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। ७.८०.६ ॥
+तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७.८०.७ ॥
+भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। ७.८०.८ ॥
+मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। ७.८०.९ ॥
+यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। ७.८०.१० ॥
+अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। ७.८०.११ ॥
+दास्यते चानवद्याङ्ग तव मा याचितः पिता ।। ७.८०.१२ ॥
+एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। ७.८०.१३ ॥
+प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। ७.८०.१४ ॥
+त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। ७.८०.१५ ॥
+एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। ७.८०.१६ ॥
+एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। ७.८०.१७ ॥
+अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। ७.८०.१८ ।।
+स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।। ७.८१.१ ॥
+सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।। ७.८१.२ ॥
+तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।निर्दहन्निव लोकांस्त्रीञ्छिष्या���श्चैतदुवाच ह ।। ७.८१.३ ॥
+पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।। ७.८१.४ ॥
+क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।। ७.८१.५ ॥
+यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।। ७.८१.६ ॥
+सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। ७.८१.७ ॥
+समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। ७.८१.८ ॥
+सर्वसत्वानि यानीह स्थावराणि चराणि च ।महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।। ७.८१.९ ॥
+दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।। ७.८१.१० ॥
+इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।। ७.८१.११ ॥
+श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।। ७.८१.१२ ॥
+स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।। ७.८१.१३ ॥
+इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।। ७.८१.१४ ॥
+त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। ७.८१.१५ ॥
+श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।तथेति पितरं प्राह भार्गवं भृशदुःखिता ।इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।। ७.८१.१६ ॥
+तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।। ७.८१.१७ ॥
+तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।। ७.८१.१८ ॥
+ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।। ७.८१.१९ ॥
+एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।। ७.८१.२० ॥
+एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।। ७.८१.२१ ॥
+स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।रविरस्तं गतो राम गच्छोदकमुपस्पृश ।। ७.८१.२२ ।।
+ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ।। ७.८२.१ ॥
+तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ।। ७.८२.२ ॥
+तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ।। ७.८२.३ ॥
+स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ।। ७.८२.४ ॥
+प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।ऋषिं समुपचक्राम गमनाय रघूत्तमः ।। ७.८२.५ ॥
+अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ।। ७.८२.६ ॥
+धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ।। ७.८२.७ ॥
+तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ।। ७.८२.८ ॥
+अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।पावनः सर्वभूतानां त्वमेव रघुनन्दन ।। ७.८२.९ ॥
+मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ।। ७.८२.१० ॥
+ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।हतास्ते यमदण्डेन सद्यो निरयगामिनः ।। ७.८२.११ ॥
+ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ।। ७.८२.१२ ॥
+गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ।। ७.८२.१३ ॥
+एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ।। ७.८२.१४ ॥
+अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ।। ७.८२.१५ ॥
+तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ।। ७.८२.१६ ॥
+स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।शशी मेघसमीपस्थो यथा जलधरागमे ।। ७.८२.१७ ॥
+ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ।। ७.८२.१८ ॥
+ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ।। ७.८२.१९ ॥
+कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।ममागमनमाख्याय शब्दापयत मा चिरम् ।। ७.८२.२० ।।
+तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ॥
+दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ॥
+कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ॥
+अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ॥
+युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ॥
+इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ॥
+सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ॥
+अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ॥
+श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ॥
+त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ॥
+महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ॥
+पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ॥
+स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ॥
+पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ॥
+स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ॥
+भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ॥
+उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ॥
+इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ॥
+एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ॥
+लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।बालानां तु शुभं वाक्यं ग्राह्य लक्ष���मणपूर्वज ।तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।।
+तथोक्तवति रामे तु भरते च महात्मनि ।लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। ७.८४.१ ॥
+अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। ७.८४.२ ॥
+श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। ७.८४.३ ॥
+पुरा किल महाबाहो देवासुरसमागमे ।वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। ७.८४.४ ॥
+विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। ७.८४.५ ॥
+धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। ७.८४.६ ॥
+तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।रसवन्ति प्रभूनानि मूलानि च फलानि च ।। ७.८४.७ ॥
+अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। ७.८४.८ ॥
+तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। ७.८४.९ ॥
+स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। ७.८४.१० ॥
+तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। ७.८४.११ ॥
+तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। ७.८४.१२ ॥
+यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। ७.८४.१३ ॥
+तं चैनं परमोदारमुपेक्षसि महाबलम् ।क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। ७.८४.१४ ॥
+यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। ७.८४.१५ ॥
+स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। ७.८४.१६ ॥
+इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। ७.८४.१७ ॥
+त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। ७.८४.१८ ।।
+लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।वृत्रघातमशेषेण कथयेत्याह सुव्रत ।। ७.८५.१ ॥
+राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।भूय एव कथां दिव्यां कथयामास सुव्रतः ।। ७.८५.२ ॥
+सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ।। ७.८५.३ ॥
+पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ।। ७.८५.४ ॥
+अवश्यं करणीयं च भवतां सुखमुत्तमम् ।तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ।। ७.८५.५ ॥
+त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ।। ७.८५.६ ॥
+एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ।। ७.८५.७ ॥
+तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७.८५.८ ॥
+भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।भजस्व परमोदार वासवं स्वेन तेजसा ।। ७.८५.९ ॥
+ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। ७.८५.१० ॥
+ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ।। ७.८५.११ ॥
+दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।कथमेनं वधिष्यामः कथं न स्यात्पराजयः ।। ७.८५.१२ ॥
+तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ।। ७.८५.१३ ॥
+कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ।। ७.८५.१४ ॥
+असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ।। ७.८५.१५ ॥
+तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ।। ७.८५.१६ ॥
+हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ।। ७.८५.१७ ॥
+त्वं गतिः परमेशान पूर्वजो जगतः पिता ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.८५.१८ ॥
+हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ।। ७.८५.१९ ॥
+तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। ७.८५.२० ॥
+पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। ७.८५.२१ ॥
+एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ।। ७.८५.२२ ।।
+तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.१ ॥
+ततो हते महावीर्ये वृत्रे देवभयङ्करे ।ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.२ ॥
+सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.३ ॥
+अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.४ ॥
+निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा ।सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.५ ॥
+क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः ।यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.६ ॥
+ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.७ ॥
+ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.८ ॥
+ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.९ ॥
+ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.१० ॥
+ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.११ ॥
+देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.१२ ॥
+एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.१३ ॥
+भूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.१४ ॥
+यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.१५ ॥
+हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.१६ ॥
+प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.१७ ॥
+ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे ।विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.१८ ॥
+प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते ।यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.१९ ॥
+ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन ।यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.२० ॥
+इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.२१ ।।
+तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। ७.८७.१ ॥
+एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। ७.८७.२ ॥
+श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। ७.८७.३ ॥
+स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। ७.८७.४ ॥
+सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। ७.८७.५ ॥
+पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ७.८७.६ ॥
+स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। ७.८७.७ ॥
+स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। ७.८७.८ ॥
+प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। ७.८७.९ ॥
+नानामृगाणामयुतं वध्यमानं महात्मना ।यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। ७.८७.१० ॥
+तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। ७.८७.११ ॥
+कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। ७.८७.१२ ॥
+ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। ७.८७.१३ ॥
+यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। ७.८७.१४ ॥
+स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। ७.८७.१५ ॥
+तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् ।उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। ७.८७.१६ ॥
+ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।जगाम शरणं राजा सभृत्यबलवाहनः ।। ७.८७.१७ ॥
+ततः प्रहस्य वरदः सह देव्या महेश्वरः ।प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। ७.८७.१८ ॥
+उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। ७.८७.१९ ॥
+ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। ७.८७.२० ॥
+ततः शोकेन महता शैलराजसुतां नृपः ।प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। ७.८७.२१ ॥
+ईशे वराणां वरदे लोकानामसि भामिनी ।अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। ७.८७.२२ ॥
+हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। ७.८७.२३ ॥
+अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ।। ७.८७.२४ ॥
+तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ।। ७.८७.२५ ॥
+यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ।। ७.८७.२६ ॥
+ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ।। ७.८७.२७ ॥
+राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ।। ७.८७.२८ ॥
+एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ।। ७.८७.२९ ।।
+तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। ७.८८.१ ॥
+तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। ७.८८.२ ॥
+कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। ७.८८.३ ॥
+तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। ७.८८.४ ॥
+तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। ७.८८.५ ॥
+तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। ७.८८.६ ॥
+वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। ७.८८.७ ॥
+अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। ७.८८.८ ॥
+ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। ७.८८.९ ॥
+तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।यशस्करं कामकरं कारु���्ये पर्यवस्थितम् ।। ७.८८.१० ॥
+सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। ७.८८.११ ॥
+बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। ७.८८.१२ ॥
+इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। ७.८८.१३ ॥
+न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। ७.८८.१४ ॥
+सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। ७.८८.१५ ॥
+आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। ७.८८.१६ ॥
+स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। ७.८८.१७ ॥
+शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। ७.८८.१८ ॥
+अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। ७.८८.१९ ॥
+तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। ७.८८.२० ॥
+सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। ७.८८.२१ ॥
+अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। ७.८८.२२ ॥
+मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। ७.८८.२३ ॥
+ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.२४ ।।
+श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.१ ॥
+अथ रामः कथामेतां भूय एव महायशाः ।कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.२ ॥
+सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.३ ॥
+सोमस्याहं सुदयितः सुतः सुरुचिरानने ।भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.४ ॥
+तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.५ ॥
+अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.६ ॥
+तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.७ ॥
+बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.८ ॥
+अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.९ ॥
+सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.१० ॥
+भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.११ ॥
+तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.१२ ॥
+अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.१३ ॥
+समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.१४ ॥
+स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.१५ ॥
+त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.१६ ॥
+सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.१७ ॥
+न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.१८ ॥
+तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.१९ ॥
+न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.२० ॥
+तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.२१ ॥
+मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.२२ ॥
+ततः सा नवमे मासि इला सोमसुतात्सुतम् ।जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.२३ ॥
+जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.२४ ॥
+बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.२५ ।।
+तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।��� ७.९०.१ ॥
+इला सा सोमपुत्रस्य संवत्सरमथोषिता ।अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.२ ॥
+तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ७.९०.३ ॥
+पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ।। ७.९०.४ ॥
+च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। ७.९०.५ ॥
+एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। ७.९०.६ ॥
+अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। ७.९०.७ ॥
+तेषां संवदतामेव तमाश्रममुपागमत् ।कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। ७.९०.८ ॥
+पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। ७.९०.९ ॥
+ते सर्वे हृष्टमनसः परस्परसमागमे ।हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। ७.९०.१० ॥
+कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। ७.९०.११ ॥
+नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। ७.९०.१२ ॥
+कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। ७.९०.१३ ॥
+संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। ७.९०.१४ ॥
+ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।रुद्रश्च परमं तोषमाजगाम महायशाः ।। ७.९०.१५ ॥
+अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। ७.९०.१६ ॥
+प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। ७.९०.१७ ॥
+तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। ७.९०.१८ ॥
+ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। ७.९०.१९ ॥
+निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। ७.९०.२० ॥
+राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। ७.९०.२१ ॥
+शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। ७.९०.२२ ॥
+स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। ७.९०.२३ ॥
+ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। ७.९०.२४ ।।
+एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। ७.९१.१ ॥
+वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। ७.९१.२ ॥
+एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। ७.९१.३ ॥
+तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। ७.९१.४ ॥
+ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। ७.९१.५ ॥
+प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। ७.९१.६ ॥
+ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। ७.९१.७ ॥
+स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। ७.९१.८ ॥
+विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। ७.९१.९ ॥
+यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। ७.९१.१० ॥
+बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। ७.९१.११ ॥
+राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। ७.९१.१२ ॥
+देशान्तरगता ये च द्विजा धर्मसमाहिताः ।आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। ७.९१.१३ ॥
+ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।तथैव तालावचरास्तथैव नटनर्तकाः ।। ७.९१.१४ ॥
+यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। ७.९१.१५ ॥
+शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। ७.९१.१६ ॥
+शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। ७.९१.१७ ॥
+तुष्टः पुष���टश्च सर्वो ऽसौ मानितश्च यथाविधि ।प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। ७.९१.१८ ॥
+शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। ७.९१.१९ ॥
+चणकानां कुलित्थानां माषाणां लवणस्य च ।अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। ७.९१.२० ॥
+सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। ७.९१.२१ ॥
+अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। ७.९१.२२ ॥
+भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। ७.९१.२३ ॥
+कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। ७.९१.२४ ॥
+काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। ७.९१.२५ ॥
+उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। ७.९१.२६ ।।
+तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.१ ॥
+ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.२ ॥
+यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.३ ॥
+नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.४ ॥
+उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.५ ॥
+अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.६ ॥
+वानराश्च महात्मानः सुग्रीवसहितास्तदा ।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.७ ॥
+बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.८ ॥
+एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.९ ॥
+नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.१० ॥
+तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।विविधानि च गौडानि खाण्डवा��ि तथैव च ।। ७.९२.११ ॥
+न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.१२ ॥
+न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.१३ ॥
+ये च तत्र महात्मानो मुनयश्चिरजीविनः ।नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.१४ ॥
+यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.१५ ॥
+रजतानां सुवर्णानामश्मनामथ वाससाम् ।अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.१६ ॥
+न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.१७ ॥
+सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.१८ ॥
+ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.१९ ।।
+वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। ७.९३.१ ॥
+स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। ७.९३.२ ॥
+शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। ७.९३.३ ॥
+आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ७.९३.४ ॥
+स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। ७.९३.५ ॥
+ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ७.९३.६ ॥
+रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। ७.९३.७ ॥
+इमानि च फलान्यत्र स्वादूनि विविधानि च ।जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ७.९३.८ ॥
+न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। ७.९३.९ ॥
+यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। ७.९३.१० ॥
+दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। ७.९३.११ ॥
+लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। ७.९३.१२ ॥
+यदि पृच्छेत्स काकुत्स्थो युवां ��स्येति दारकौ ।आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। ७.९३.१३ ॥
+इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। ७.९३.१४ ॥
+आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।पिता हि सर्वभूतानां राजा भविति धर्मतः ।। ७.९३.१५ ॥
+तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। ७.९३.१६ ॥
+इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। ७.९३.१७ ॥
+सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।तथैव करवावेति निर्जग्मतुररिन्दमौ ।। ७.९३.१८ ॥
+तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। ७.९३.१९ ।।
+तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। ७.९४.१ ॥
+तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। ७.९४.२ ॥
+प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। ७.९४.३ ॥
+अथ कर्मान्तरे राजा समाहूय महामुनीन् ।पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। ७.९४.४ ॥
+पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। ७.९४.५ ॥
+लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। ७.९४.६ ॥
+कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। ७.९४.७ ॥
+भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।हेतूपचारकुशलान् वचने चापि हैतुकान् ।। ७.९४.८ ॥
+छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। ७.९४.९ ॥
+शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।एतान्सर्वान्समानीय गातारौ समवेशयत् ।। ७.९४.१० ॥
+दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। ७.९४.११ ॥
+ऊचुः परस्परं चेदं सर्व एव समन्ततः ।उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। ७.९४.१२ ॥
+जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।विशेषं नाधिगच्छामो गायतो राघवस्य च ।। ७.९४.१३ ॥
+तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। ७.९४.१४ ॥
+ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। ७.९४.१५ ॥
+प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। ७.९४.१६ ॥
+ततो ऽपराह्णसमये राघवः समभाषत ।श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। ७.९४.१७ ॥
+अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। ७.९४.१८ ॥
+दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। ७.९४.१९ ॥
+वन्येन फलमूलेन निरतौ वनवासिनौ ।सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। ७.९४.२० ॥
+तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। ७.९४.२१ ॥
+तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। ७.९४.२२ ॥
+किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। ७.९४.२३ ॥
+पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। ७.९४.२४ ॥
+वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। ७.९४.२५ ॥
+सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।उपाख्यानशतं चैव भार्गवेण तपस्विना ।। ७.९४.२६ ॥
+आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।कृतानि गुरुणास्माकमृषिणा चरितं तव ।। ७.९४.२७ ॥
+प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। ७.९४.२८ ।।
+सोत्तराणि महात्मना ।यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। ७.९४.२९ ॥
+बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। ७.९४.३० ॥
+रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। ७.९४.३१ ॥
+शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। ७.९४.३२ ।।
+रामो बहून���यहान्येवं तद्गीतं परमं शुभम् ।शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.१ ॥
+तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.२ ॥
+मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.३ ।।परिषदो मध्ये रामो वचनमब्रवीत् ।यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.४ ॥
+छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.५ ॥
+श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.६ ॥
+श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.७ ॥
+ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। ७.९५.८ ॥
+तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। ७.९५.९ ॥
+एवं भवतु भद्रं वो यथा वदति राघवः ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। ७.९५.१० ॥
+तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। ७.९५.११ ॥
+ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। ७.९५.१२ ॥
+भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। ७.९५.१३ ॥
+तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। ७.९५.१४ ॥
+राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। ७.९५.१५ ॥
+एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। ७.९५.१६ ॥
+इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। ७.९५.१७ ।।
+तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ।। ७.९६.१ ॥
+वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। ७.९६.२ ॥
+पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।मार्कण्डेयश्च दीर्घायुर्मौद्���ल्यश्च महायशाः ।। ७.९६.३ ॥
+गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। ७.९६.४ ॥
+नारदः पर्वतश्चैव गौतमश्च महायशाः ।कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ।। ७.९६.५ ॥
+एते चान्ये च बहवो मुनयः संशितव्रताः ।कौतूहलसमाविष्टाः सर्व एव समागताः ।। ७.९६.६ ॥
+राक्षसाश्च महावीर्या वानराश्च महाबलाः ।सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। ७.९६.७ ॥
+क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ।। ७.९६.८ ॥
+ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।सीताशपथवीक्षार्थं सर्व एव समागताः ।। ७.९६.९ ॥
+तदा समागतं सर्वमश्मभूतमिवाचलम् ।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ।। ७.९६.१० ॥
+तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ।। ७.९६.११ ॥
+दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। ७.९६.१२ ॥
+ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ।। ७.९६.१३ ॥
+साधु रामेति केचित्तु साधु सीतेति चापरे ।उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ।। ७.९६.१४ ॥
+ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ।। ७.९६.१५ ॥
+इयं दाशरथे सीता सुव्रता धर्मचारिणी ।अपवादैः परित्यक्ता ममाश्रमसमीपतः ।। ७.९६.१६ ॥
+लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।। ७.९६.१७ ॥
+इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ।। ७.९६.१८ ॥
+प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ।। ७.९६.१९ ॥
+बहुवर्षसहस्राणि तपश्चर्या मया कृता ।नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। ७.९६.२० ॥
+मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।तस्याः फलमुपाश्नीयामपापा मैथिली यदि ।। ७.९६.२१ ॥
+अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ।। ७.९६.२२ ॥
+इयं शुद्धसमाचारा अपापा पतिदेवता ।लोकापवादभीतस्य प्रत्ययं तव दास्यति ।। ७.९६.२३ ॥
+तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।लोकाप���ादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ।। ७.९६.२४ ।।
+वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। ७.९७.१ ॥
+एवमेतन्महाभाग यथा वदसि धर्मवित् ।प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ।। ७.९७.२ ॥
+प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।लोकापवादो बलवान्येन त्यक्ता हि मैथिली ।। ७.९७.३ ॥
+सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ।। ७.९७.४ ॥
+जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ७.९७.५ ॥
+अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ।। ७.९७.६ ॥
+पितामहं पुरस्कृत्य सर्व एव समागताः ।। ७.९७.७ ॥
+आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।गन्धर्वाप्सरसश्चैव सर्व एव समागताः ।। ७.९७.८ ॥
+साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।सीताशपथसम्भ्रान्ताः सर्व एव समागताः ।। ७.९७.९ ॥
+दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ।। ७.९७.१० ॥
+शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ।। ७.९७.११ ॥
+ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ।। ७.९७.१२ ॥
+तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ।। ७.९७.१३ ॥
+सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ।। ७.९७.१४ ॥
+यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१५ ॥
+मनसा कर्मणा वाचा यथा रामं समर्चये ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१६ ॥
+यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।तथा मे माधवी देवी विवरं दातुमर्हति ।। ७.९७.१७ ॥
+तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। ७.९७.१८ ॥
+ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। ७.९७.१९ ॥
+तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ।। ७.९७.२० ॥
+तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। ७.९७.२१ ॥
+साधुकारश्च सुमहान्देवानां सहसोत्थितः ।साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। ७.९७.२२ ॥
+एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ।। ७.९७.२३ ॥
+यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। ७.९७.२४ ॥
+अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।दानवाश्च महाकायाः पाताले पन्नगाधिपाः ।। ७.९७.२५ ॥
+केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ।। ७.९७.२६ ॥
+सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ।। ७.९७.२७ ।।
+रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। ७.९८.१ ॥
+दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। ७.९८.२ ॥
+स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ७.९८.३ ॥
+अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। ७.९८.४ ॥
+सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। ७.९८.५ ॥
+वसुधे देवि भवति सीता निर्यात्यतां मम ।दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। ७.९८.६ ॥
+कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। ७.९८.७ ॥
+तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। ७.९८.८ ॥
+आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। ७.९८.९ ॥
+सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। ७.९८.१० ॥
+एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ७.९८.११ ॥
+राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। ७.९८.१२ ॥
+न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।इमं मुहूर्तं दुर्धर्��� स्मर त्वं जन्म वैष्णवम् ।। ७.९८.१३ ॥
+सीता हि विमला साध्वी तव पूर्वपरायणा ।नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। ७.९८.१४ ॥
+स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। ७.९८.१५ ॥
+एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। ७.९८.१६ ॥
+जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। ७.९८.१७ ॥
+आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। ७.९८.१८ ॥
+श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। ७.९८.१९ ॥
+स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। ७.९८.२० ॥
+उत्तरं नाम काव्यस्य शेषमत्र महायशः ।तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। ७.९८.२१ ॥
+न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। ७.९८.२२ ॥
+एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। ७.९८.२३ ॥
+ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। ७.९८.२४ ॥
+ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। ७.९८.२५ ॥
+भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। ७.९८.२६ ॥
+एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.२७ ।।
+रजन्यां तु प्रभातायां समानीय महामुनीन् ।गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.१ ॥
+ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.२ ॥
+प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.३ ॥
+अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.४ ॥
+विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.५ ॥
+एवं समाप्य यज्ञं तु विध��वत्स तु राघवः ।ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.६ ॥
+हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.७ ॥
+न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.८ ॥
+दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.९ ॥
+अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.१० ॥
+एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.११ ॥
+अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.१२ ॥
+काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.१३ ॥
+नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.१४ ॥
+अथ दीर्घस्य कालस्य राममाता यशस्विनी ।पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.१५ ॥
+अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.१६ ॥
+सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.१७ ॥
+तासां रामो महादानं काले काले प्रयच्छति ।मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.१८ ॥
+पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.१९ ॥
+एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.२० ।।
+कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास राघवाय महात्मने ।गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। ७.१००.१ ॥
+दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। ७.१००.२ ॥
+कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।रामाय प्रददौ राजा शुभान्याभरणानि च ।। ७.१००.३ ॥
+श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। ७.१००.४ ॥
+प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। ७.१००.५ ॥
+तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।पृष्ट्वा प्रत��पदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। ७.१००.६ ॥
+किमाह मातुलो वाक्यं यदर्थं भगवानिह ।प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। ७.१००.७ ॥
+रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। ७.१००.८ ॥
+मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। ७.१००.९ ॥
+अयं गन्धर्वविषयः फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। ७.१००.१० ॥
+तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। ७.१००.११ ॥
+तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। ७.१००.१२ ॥
+अन्यस्य न गतिस्तत्र देशः परमशोभनः ।रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। ७.१००.१३ ॥
+तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येव भरतं चान्ववैक्षत ।। ७.१००.१४ ॥
+सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। ७.१००.१५ ॥
+भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। ७.१००.१६ ॥
+भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। ७.१००.१७ ॥
+निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। ७.१००.१८ ॥
+ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। ७.१००.१९ ॥
+नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। ७.१००.२० ॥
+सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।राघवानुगता दूरं दुराधर्षा सुरैरपि ।। ७.१००.२१ ॥
+मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। ७.१००.२२ ॥
+भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। ७.१००.२३ ॥
+सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। ७.१००.२४ ॥
+अध्यर्धमासमुषिता पथि सेना निरामया ।हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। ७.१००.२५ ।।
+श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।युधाजिद्गार्ग्यसह���तं परां प्रीतिमुपागमत् ।। ७.१०१.१ ॥
+स निर्ययौ जनौघेन महता केकयाधिपः ।त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। ७.१०१.२ ॥
+भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। ७.१०१.३ ॥
+श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। ७.१०१.४ ॥
+ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। ७.१०१.५ ॥
+खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। ७.१०१.६ ॥
+ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। ७.१०१.७ ॥
+ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। ७.१०१.८ ॥
+तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। ७.१०१.९ ॥
+हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। ७.१०१.१० ॥
+तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। ७.१०१.११ ॥
+धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। ७.१०१.१२ ॥
+उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। ७.१०१.१३ ॥
+उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। ७.१०१.१४ ॥
+शोभिते शोभनीयैश्च देवायतनविस्तरैः ।तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। ७.१०१.१५ ॥
+निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। ७.१०१.१६ ॥
+सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। ७.१०१.१७ ॥
+शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। ७.१०१.१८ ।।
+तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। ७.१०२.१ ॥
+इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। ७.१०२.२ ॥
+इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। ७.१०२.३ ॥
+न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ७.१०२.४ ॥
+तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारुपथो देशो रमणीयो निरामयः ।। ७.१०२.५ ॥
+निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। ७.१०२.६ ॥
+तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। ७.१०२.७ ॥
+अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। ७.१०२.८ ॥
+चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। ७.१०२.९ ॥
+ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। ७.१०२.१० ॥
+अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। ७.१०२.११ ॥
+अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। ७.१०२.१२ ॥
+लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। ७.१०२.१३ ॥
+भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। ७.१०२.१४ ॥
+उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। ७.१०२.१५ ॥
+एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। ७.१०२.१६ ॥
+विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। ७.१०२.१७ ।।
+कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत् ।। ७.१०३.१ ॥
+सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ।। ७.१०३.२ ॥
+दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल ।। ७.१०३.३ ॥
+तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।न्यवेदयत रामाय तापसं तं समागतम् ।। ७.१०३.४ ॥
+जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ।। ७.१०३.५ ॥
+तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वा��्यधृत् ।। ७.१०३.६ ॥
+सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ।। ७.१०३.७ ॥
+सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ।। ७.१०३.८ ॥
+तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ।। ७.१०३.९ ॥
+पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः ।। ७.१०३.१० ॥
+तमुवाच ततो रामः स्वागतं ते महामुने ।प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ।। ७.१०३.११ ॥
+चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। ७.१०३.१२ ॥
+यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ।। ७.१०३.१३ ॥
+स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ।। ७.१०३.१४ ॥
+स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।। ७.१०३.१५ ॥
+ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। ७.१०३.१६ ॥
+यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।। ७.१०३.१७ ।।
+शृणु राजन्महासत्व यदर्थमहमागतः ।पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.१ ॥
+तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.२ ॥
+पितामहश्च भगवानाह लोकपतिः प्रभुः ।समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.३ ॥
+सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.४ ॥
+भोगवन्तं ततो नागमनन्तमुदकेशयम् ।मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.५ ॥
+मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.६ ॥
+पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.७ ॥
+सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.८ ॥
+ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.९ ॥
+अदित्यां व��र्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.१० ॥
+स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.११ ॥
+दश वर्षसहस्राणि दश वर्षशतानि च ।कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.१२ ॥
+स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.१३ ॥
+यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.१४ ॥
+अथ वा विजिगीषा ते सुरलोकाय राघव ।सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.१५ ॥
+श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.१६ ॥
+श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.१७ ॥
+त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.१८ ॥
+हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.१९ ।।
+तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ।। ७.१०५.१ ॥
+सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ।। ७.१०५.२ ॥
+मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ।। ७.१०५.३ ॥
+किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। ७.१०५.४ ॥
+तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ।। ७.१०५.५ ॥
+अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ।। ७.१०५.६ ॥
+विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ।। ७.१०५.७ ॥
+न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ।। ७.१०५.८ ॥
+एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ।। ७.१०५.९ ॥
+लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ।। ७.१०५.१० ॥
+सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ।। ७.१०५.११ ॥
+तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ।। ७.१०५.१२ ॥
+अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ।। ७.१०५.१३ ॥
+तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ।। ७.१०५.१४ ॥
+स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ।। ७.१०५.१५ ॥
+तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ।। ७.१०५.१६ ॥
+दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ।। ७.१०५.१७ ॥
+ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ।। ७.१०५.१८ ।।
+अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ।। ७.१०६.१ ॥
+न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ।। ७.१०६.२ ॥
+जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। ७.१०६.३ ॥
+यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ।। ७.१०६.४ ॥
+लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।मन्त्रिणः समुपानीय तथैव च पुरोधसम् ।। ७.१०६.५ ॥
+अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ।। ७.१०६.६ ॥
+तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ।वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ।। ७.१०६.७ ॥
+दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।लक्ष्मणेन वियोगश्च तव राम महायशः ।। ७.१०६.८ ॥
+त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः ।विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ।। ७.१०६.९ ॥
+ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ।। ७.१०६.१० ॥
+स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ।। ७.१०६.११ ॥
+तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ।। ७.१०६.१२ ॥
+विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। ७.१०६.१३ ॥
+रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ।। ७.१०६.१४ ॥
+स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। ७.१०६.१५ ॥
+अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ।। ७.१०६.१६ ॥
+अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ।। ७.१०६.१७ ॥
+ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः ।। ७.१०६.१८ ।।
+विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ।। ७.१०७.१ ॥
+अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ।। ७.१०७.२ ॥
+प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः ।अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। ७.१०७.३ ॥
+तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ।। ७.१०७.४ ॥
+भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् ।राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। ७.१०७.५ ॥
+सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।न कामये यथा राज्यं त्वां विना रघुनन्दन ।। ७.१०७.६ ॥
+इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।। ७.१०७.७ ॥
+शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ।। ७.१०७.८ ॥
+तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ।। ७.१०७.९ ॥
+वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ।। ७.१०७.१० ॥
+वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। ७.१०७.११ ॥
+ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ।। ७.१०७.१२ ॥
+पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ।। ७.१०७.१३ ॥
+तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ।। ७.१०७.१४ ॥
+एषा नः परमा प्रीतिरेष नः परमो वरः ।हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ।। ७.१०७.१५ ॥
+पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् ।स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।। ७.१०७.१६ ॥
+कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। ७.१०७.१७ ॥
+अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ।। ७.१०७.१८ ॥
+रथानां तु सहस्राणि नागानामयुतानि च ।दशायुतानि चाश्वानामेकैकस्य धनं ददौ ।। ७.१०७.१९ ॥
+बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। ७.१०७.२० ॥
+अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ।। ७.१०७.२१ ।।
+ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। ७.१०८.१ ॥
+ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। ७.१०८.२ ॥
+लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। ७.१०८.३ ॥
+कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।कुशावतीति नाम्ना सा कृता रामेण धीमता ।श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। ७.१०८.४ ॥
+अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। ७.१०८.५ ॥
+एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। ७.१०८.६ ॥
+तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.७ ॥
+तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.८ ॥
+ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.९ ॥
+द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.१० ॥
+सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.११ ॥
+स ददर्श महात्मानं ज्वल��्तमिव पावकम् ।सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.१२ ॥
+सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.१३ ॥
+कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.१४ ॥
+न चान्यदपि वक्तव्यमतो वीर न शासनम् ।विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.१५ ॥
+तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.१६ ॥
+तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.१७ ॥
+सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.१८ ॥
+देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.१९ ॥
+ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.२० ॥
+यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.२१ ॥
+तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। ७.१०८.२२ ॥
+एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.२३ ॥
+अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.२४ ॥
+तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.२५ ॥
+सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.२६ ॥
+बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.२७ ॥
+यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.२८ ॥
+शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.२९ ॥
+किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। ७.१०८.३० ॥
+आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.३१ ॥
+तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।राजा राक्षसमुख्���ानां राघवाज्ञामनुस्मरन् ।। ७.१०८.३२ ॥
+तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.३३ ॥
+मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.३४ ॥
+एवमुक्तस्तु हनुमान्राघवेण महात्मना ।वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.३५ ॥
+यावत्तव कथा लोके विचरिष्यति पावनी ।तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.३६ ॥
+जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ।। ७.१०८.३७ ॥
+तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। ७.१०८.३८ ।।
+प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। ७.१०९.१ ॥
+अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।वाजपेयातपत्रं च शोभमानं महापथे ।। ७.१०९.२ ॥
+ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। ७.१०९.३ ॥
+ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। ७.१०९.४ ॥
+अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। ७.१०९.५ ॥
+रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। ७.१०९.६ ॥
+शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। ७.१०९.७ ॥
+वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। ७.१०९.८ ॥
+ऋषयश्च महात्मानः सर्व एव महीसुराः ।अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। ७.१०९.९ ॥
+तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। ७.१०९.१० ॥
+सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। ७.१०९.११ ॥
+ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ७.१०९.१२ ॥
+मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। ७.१०९.१३ ॥
+ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। ७.१०९.१४ ॥
+ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। ७.१०९.१५ ॥
+स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। ७.१०९.१६ ॥
+न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। ७.१०९.१७ ॥
+द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। ७.१०९.१८ ॥
+ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। ७.१०९.१९ ॥
+यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। ७.१०९.२० ॥
+यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। ७.१०९.२१ ॥
+नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। ७.१०९.२२ ॥
+अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ।। ७.११०.१ ॥
+तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।आगतः सप्रजो रामस्तं देशं रघुनन्दनः ।। ७.११०.२ ॥
+अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।। ७.११०.३ ॥
+आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ।। ७.११०.४ ॥
+दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ।। ७.११०.५ ॥
+पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ।। ७.११०.६ ॥
+तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ।। ७.११०.७ ॥
+ततः पितामहो वाणीमन्तरिक्षादभाषत ।आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ।। ७.११०.८ ॥
+भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ।। ७.११०.९ ॥
+त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ।। ७.११०.१० ॥
+यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ।। ७.११०.११ ।।
+ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ।। ७.११०.१२ ॥
+ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।। ७.११०.१३ ॥
+ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ।। ७.११०.१४ ॥
+सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ।। ७.११०.१५ ॥
+अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। ७.११०.१६ ॥
+इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ।। ७.११०.१७ ॥
+तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ।। ७.११०.१८ ॥
+यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ।। ७.११०.१९ ॥
+सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ।। ७.११०.२० ॥
+वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ।। ७.११०.२१ ॥
+तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ।। ७.११०.२२ ॥
+तथोक्तवति देवेशे गोप्रतारमुपागताः ।भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। ७.११०.२३ ॥
+अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ।। ७.११०.२४ ॥
+तिर्यग्योनिगतानां च शतानि सरयूजलम् ।सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ।। ७.११०.२५ ॥
+गत्वा तु सरयूतोयं स्थावराणि चराणि च ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ।। ७.११०.२६ ॥
+तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ।। ७.११०.२७ ॥
+ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ।। ७.११०.२८ ।।
+एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। ��.१११.१ ॥
+ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ७.१११.२ ॥
+ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। ७.१११.३ ॥
+इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। ७.१११.४ ॥
+अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.५ ॥
+पापान्यपि च यः कुर्यादहन्यहनि मानवः ।पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। ७.१११.६ ॥
+वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। ७.१११.७ ॥
+एतदाख्यानमायुष्यं पठन्रामायणं नरः ।सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। ७.१११.८ ॥
+अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। ७.१११.९ ॥
+एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। ७.१११.१० ॥
+अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। ७.१११.११ ॥
+प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। ७.१११.१२ ॥
+हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।यश्च रामायणं लोके शृणोति सदृशावुभौ ।। ७.१११.१३ ॥
+सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। ७.१११.१४ ॥
+आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। ७.१११.१५ ॥
+पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। ७.१११.१६ ॥
+गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। ७.१११.१७ ॥
+अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.१८ ॥
+यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। ७.१११.१९ ॥
+चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। ७.१११.२० ॥
+यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।सो ऽसुक्षय�� विष्णुलोकं गच्छत्येव न संशयः ।। ७.१११.२१ ॥
+पिता पितामहस्तस्य तथैव प्रपितामहः ।तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। ७.१११.२२ ॥
+चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। ७.१११.२३ ॥
+शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। ७.१११.२४ ॥
+एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। ७.१११.२५ ।।