Datasets:

Modalities:
Image
Size:
< 1K
Libraries:
Datasets
License:
Shiv_Puran_Image_text_OCR / 0_vidhyeshwar_shlokas /0_Vidyeśvara-saṃhitā.csv
13Aluminium's picture
Ganpati Bappa Morya
9f6a5b0 verified
raw
history blame
189 kB
image_name,text
shlok_1.jpg,आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ।\n\nपंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ।\n\n
shlok_2.jpg,धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।\n\nप्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १
shlok_3.jpg,मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।\n\nमहौजसो महाभागा महासत्रं वितेनिरे ॥ २ ॥
shlok_4.jpg,तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।\n\nआजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ॥ ३ ॥
shlok_5.jpg,तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।\n\nचेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४ ॥
shlok_6.jpg,ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।\n\nसुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ५ ॥
shlok_7.jpg,रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।\n\nपुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ६ ॥
shlok_8.jpg,तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।\n\nरत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७ ॥
shlok_9.jpg,यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।\n\nन त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ८ ॥
shlok_10.jpg,त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।\n\nकुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ ९ ॥
shlok_11.jpg,तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।\n\nन तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १० ॥
shlok_12.jpg,इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।\n\nतद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११ ॥
shlok_13.jpg,प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।\n\nदुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२ ॥
shlok_14.jpg,परापवादनिरताः परद्र व्याभिलाषिणः ।\n\nपरस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३ ॥
shlok_15.jpg,देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।\n\nमातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १४ ॥
shlok_16.jpg,विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।\n\nधनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५ ॥
shlok_17.jpg,त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।\n\nत्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६ ॥
shlok_18.jpg,अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।\n\nकृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७ ॥
shlok_19.jpg,क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।\n\nअसत्संगाः पापरता व्यभिचारपरायणाः ॥ १८ ॥
shlok_20.jpg,अशूरा अरणप्रीताः पलायनपरायणाः ।\n\nकुचौरवृत्तयः शूद्रा ः कामकिंकरचेतसः ॥ १९ ॥
shlok_21.jpg,शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।\n\nशरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ २० ॥
shlok_22.jpg,प्रजापालनसद्धर्मविहीना भोगतत्पराः ।\n\nप्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१ ॥
shlok_23.jpg,वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।\n\nकुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२ ॥
shlok_24.jpg,गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।\n\nअभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३ ॥
shlok_25.jpg,कामिनीजारभावेषु सुरता मलिनाशयाः ।\n\nलोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ २४ ॥
shlok_26.jpg,तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।\n\nउज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५ ॥
shlok_27.jpg,कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।\n\nशिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २६ ॥
shlok_28.jpg,शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।\n\nप्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७ ॥
shlok_29.jpg,धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।\n\nआख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ २८ ॥
shlok_30.jpg,सुभूपाकृतयो दंभाः सुदातारो महामदाः ।\n\nविप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ २९ ॥
shlok_31.jpg,स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।\n\nमहाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३० ॥
shlok_32.jpg,सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।\n\nसर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ३१ ॥
shlok_33.jpg,स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।\n\nश्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ॥ ३२ ॥
shlok_34.jpg,कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।\n\nजारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३ ॥
shlok_35.jpg,तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।\n\nअविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४ ॥
shlok_36.jpg,एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।\n\nपरलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ३५ ॥
shlok_37.jpg,इति चिंताकुलं चित्तं जायते सततं हि नः ।\n\nपरोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥
shlok_38.jpg,लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।\n\nसर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
shlok_39.jpg,इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।\n\nमनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥
shlok_40.jpg,सूत उवाच ।\n\nसाधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।\n\nगुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
shlok_41.jpg,वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।\n\nसर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
shlok_42.jpg,कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।\n\nविजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
shlok_43.jpg,तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।\n\nसर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥
shlok_44.jpg,तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ।\n\nयावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥
shlok_45.jpg,तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ।\n\nयावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥
shlok_46.jpg,तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ।\n\nयावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥
shlok_47.jpg,तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।\n\nयावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८ ॥
shlok_48.jpg,तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ।\n\nयावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥
shlok_49.jpg,तावत्सर्वाणि तीर्थानि विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥
shlok_50.jpg,तावत्सर्वाणि मंत्राणि विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥
shlok_51.jpg,तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥
shlok_52.jpg,तावत्सर्वाणि पीठानि विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥
shlok_53.jpg,तावत्सर्वाणि दानानि विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥
shlok_54.jpg,तावत्सर्वे च ते देवा विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥
shlok_55.jpg,तावत्सर्वे च सिद्धान्ता विवदंति महीतले ।\n\nयावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥
shlok_56.jpg,अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ।\n\nफलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥
shlok_57.jpg,तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ।\n\nचित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥
shlok_58.jpg,एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ।\n\nयः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ २० ॥
shlok_59.jpg,एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ।\n\nयथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥
shlok_60.jpg,एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।\n\nदिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥
shlok_61.jpg,एतच्छिवपुराणं यस्साधारणपदेच्छया ।\n\nअन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥
shlok_62.jpg,एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।\n\nसर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥ एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः
shlok_63.jpg,शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥
shlok_64.jpg,उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।\n\nयः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥
shlok_65.jpg,कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।\n\nआत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे ॥ ३० ॥
shlok_66.jpg,विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।\n\nतत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥
shlok_67.jpg,एतच्छिवपुराणं हि गायते योप्यहर्निशम् ।\n\nआज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२ ॥
shlok_68.jpg,एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।\n\nयद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥
shlok_69.jpg,समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ।\n\nस ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४ ॥
shlok_70.jpg,तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ।\n\nत्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५ ॥
shlok_71.jpg,तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ।\n\nप्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥
shlok_72.jpg,कैलाससंहिता तत्र ततोऽपि परमस्मृता ।\n\nब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥
shlok_73.jpg,कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ।\n\nकृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८ ॥
shlok_74.jpg,तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।\n\nयज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥
shlok_75.jpg,न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।\n\nतन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥
shlok_76.jpg,शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ।\n\nकुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥
shlok_77.jpg,ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।\n\nमासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥
shlok_78.jpg,दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ।\n\nपापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥
shlok_79.jpg,शिवालये बिल्ववने संहितां तां पठेत्तु यः ।\n\nस तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४ ॥
shlok_80.jpg,संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ।\n\nतस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५ ॥
shlok_81.jpg,चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ।\n\nबिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥
shlok_82.jpg,अन्यापि संहिता तत्र सर्वकामफलप्रदा ।\n\nउभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥
shlok_83.jpg,तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।\n\nनिर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८ ॥
shlok_84.jpg,ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।\n\n
shlok_85.jpg,वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ६२ ॥
shlok_86.jpg,एतच्छिवपुराणं हि सप्तसंहितमादरात् ।\n\nपरिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३ ॥
shlok_87.jpg,शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न संगृहीतम् ।\n\nसंक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ६५ ॥
shlok_88.jpg,विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः ।\n\nअमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ ६६ ॥
shlok_89.jpg,शैवं पुराणतिलकं खलु सत्पुराणं ।\n\nवेदांतवेदविलसत्परवस्तुगीतम् ।\n\nयो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां ।\n\nगतिं वै ॥ ६७ ॥
shlok_90.jpg,इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः
shlok_91.jpg,वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १
shlok_92.jpg,इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।\n\nसंस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ २ ॥
shlok_93.jpg,सूत उवाच ।\n\nशृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।\n\nपुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३ ॥
shlok_94.jpg,यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४ ॥
shlok_95.jpg,वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ५ ॥
shlok_96.jpg,सूत उवाच ।\n\nशृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।\n\nपुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥ ६ ॥
shlok_97.jpg,अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।\n\nमुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७ ॥
shlok_98.jpg,इदं परमिदं नेति विवादः सुमहानभूत् ।\n\nतेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८ ॥
shlok_99.jpg,वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।\n\nत्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९ ॥
shlok_100.jpg,कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ।\n\nब्रह्मोवाच ।\n\nयतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ १० ॥
shlok_101.jpg,यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं पूर्वकम् ।\n\nसहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ॥ ११ ॥
shlok_102.jpg,एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।\n\nअयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ॥ १२ ॥
shlok_103.jpg,रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।\n\nभक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥ १३ ॥
shlok_104.jpg,बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ।\n\nप्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।\n\nयथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १४ ॥
shlok_105.jpg,तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।\n\nदीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५ ॥
shlok_106.jpg,अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।\n\nवेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १६ ॥
shlok_107.jpg,मुनय ऊचुः ।\n\nअथ किं परमं साध्यं किंवा तत्साधनं परम् ।\n\nसाधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७ ॥
shlok_108.jpg,ब्रह्मोवाच ।\n\nसाध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।\n\nसाधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १८ ॥
shlok_109.jpg,कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।\n\nपरमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ १९ ॥
shlok_110.jpg,तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।\n\nतत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २० ॥
shlok_111.jpg,संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।\n\nश्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २१ ॥
shlok_112.jpg,मनसा मननं तस्य महासाधनमुच्यते ।\n\nश्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २२ ॥
shlok_113.jpg,इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम् ।\n\nसाध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २३ ॥
shlok_114.jpg,प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ।\n\nअप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २४ ॥
shlok_115.jpg,तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ।\n\nततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ २५ ॥
shlok_116.jpg,क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते ।\n\nशिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २६ ॥
shlok_117.jpg,सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते ।\n\nअभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥ २७ ॥
shlok_118.jpg,तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ।\n\nबद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १ ॥
shlok_119.jpg,तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ।\n\nपूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ २ ॥
shlok_120.jpg,तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ॥
shlok_121.jpg,दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।\n\nशिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥
shlok_122.jpg,एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ।\n\nकुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥
shlok_123.jpg,शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः ।\n\nअर्चयेद्वा यथान्यायं यथाबलमवंचकः ॥
shlok_124.jpg,यत्फलं मम पूजायां वर्षमेकं निरंतरम् ।\n\nतत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥
shlok_125.jpg,मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः ।\n\nप्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः ॥
shlok_126.jpg,यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ।\n\nस कालो मार्गशीर्षे तु स्यादाद्रा र् ऋक्षमर्भकौ ॥
shlok_127.jpg,आद्रा र्यां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।\n\nमद्बेरमपि वा लिंगं स गुहादपि मे प्रियः ॥
shlok_128.jpg,अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।\n\nअभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥
shlok_129.jpg,रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा ।\n\nजृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् ॥
shlok_130.jpg,रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।\n\nअत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥
shlok_131.jpg,मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।\n\nअत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥
shlok_132.jpg,तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ।\n\nसर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् ॥
shlok_133.jpg,अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् ।\n\nसालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥
shlok_134.jpg,सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ।\n\nसर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥
shlok_135.jpg,सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ।\n\nशिव उवाच ।\n\nमत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १ ॥
shlok_136.jpg,सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।\n\nपंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ २ ॥
shlok_137.jpg,सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता ।\n\nसंहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ३ ॥
shlok_138.jpg,तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम् ।\n\nकृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ४ ॥
shlok_139.jpg,सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम् ।\n\nपंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ५ ॥
shlok_140.jpg,तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः ।\n\nसृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ६ ॥
shlok_141.jpg,तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ।\n\nसृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ॥ ७ ॥
shlok_142.jpg,अर्द्यते तेजसा सर्वं वायुना चापनीयते ।\n\nव्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ८ ॥
shlok_143.jpg,पंचकृत्यमिदं वोढुं ममास्ति मुखपंचकम् ।\n\nचतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ॥ ९ ॥
shlok_144.jpg,युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ।\n\nसृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १० ॥
shlok_145.jpg,तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम् ।\n\nअनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ११ ॥
shlok_146.jpg,तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ।\n\nन तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १२ ॥
shlok_147.jpg,रूपे वेशे च कृत्ये च वाहने चासने तथा ।\n\nआयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १३ ॥
shlok_148.jpg,मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ।\n\nमज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ १४ ॥
shlok_149.jpg,तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम् ।\n\nइतः परं प्रजपतं मामकं मानभंजनम् ॥ १५ ॥
shlok_150.jpg,उपादिशं निजं मंत्रमॐकारमुरुमंगलम् ।\n\nॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १६ ॥
shlok_151.jpg,वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः ।\n\nतदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १७ ॥
shlok_152.jpg,अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ।\n\nमकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा ॥ १८ ॥
shlok_153.jpg,नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः ।\n\nएकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ १९ ॥
shlok_154.jpg,नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ।\n\nव्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः ॥ २० ॥
shlok_155.jpg,अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत् ।\n\nआकारादिक्रमेणैव नकारादियथाक्रमम् ॥ २१ ॥
shlok_156.jpg,अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः ।\n\nतस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ २२ ॥
shlok_157.jpg,कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ।\n\nकथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १ ॥
shlok_158.jpg,युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।\n\nअनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २ ॥
shlok_159.jpg,यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ।\n\nपार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ३ ॥
shlok_160.jpg,कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ।\n\nसर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ४ ॥
shlok_161.jpg,चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।\n\nसलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ५ ॥
shlok_162.jpg,मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ।\n\nखट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥ ६ ॥
shlok_163.jpg,प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ।\n\nयेन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥ ७ ॥
shlok_164.jpg,लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ।\n\nलिंगप्रमाणं कर्तृणां द्वादशांगुलमुत्तमम् ॥ ८ ॥
shlok_165.jpg,न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ।\n\nकर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥ ९ ॥
shlok_166.jpg,आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ।\n\nतत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे ॥ १० ॥
shlok_167.jpg,संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ।\n\nअग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥
shlok_168.jpg,अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ।\n\nदद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ ॥
shlok_169.jpg,स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ।\n\nसुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ १३ ॥
shlok_170.jpg,सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।\n\nउदीर्य च महामंत्रमॐकारं नादघोषितम् ॥ १४ ॥
shlok_171.jpg,लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ।\n\nलिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥ १५ ॥
shlok_172.jpg,एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ।\n\nपंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ १६ ॥
shlok_173.jpg,बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।\n\nएवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥ १७ ॥
shlok_174.jpg,पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ।\n\nस्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥ १८ ॥
shlok_175.jpg,जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ।\n\nस्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥ १९ ॥
shlok_176.jpg,तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।\n\nपीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥ २० ॥
shlok_177.jpg,यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ।\n\nतथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥ २१ ॥
shlok_178.jpg,एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ।\n\nनित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ २२ ॥
shlok_179.jpg,इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ।\n\nअथवा चरलिंगं तु षोडशैरुपचारकैः ॥ २३ ॥
shlok_180.jpg,पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।\n\nआवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ २४॥
shlok_181.jpg,तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ।\n\nवस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥ २५ ॥
shlok_182.jpg,नीराजनं च तांबूलं नमस्कारो विसर्जनम् ।\n\nअथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ २६॥
shlok_183.jpg,अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।\n\nयथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ २७ ॥
shlok_184.jpg,अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ।\n\nस्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा ॥२८ ॥
shlok_185.jpg,पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ।\n\nप्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ २९ ॥
shlok_186.jpg,लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ।\n\nमृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ३० ॥
shlok_187.jpg,गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ।\n\nलिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥ ३१ ॥
shlok_188.jpg,अंगुष्ठादावपि तथा पूजामिच्छंति केचन ।\n\nलिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ ३२ ॥
shlok_189.jpg,सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।\n\nअथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥ ३३ ॥
shlok_190.jpg,श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।\n\nअथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ३४ ॥
shlok_191.jpg,संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।\n\nजपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥ ३५ ॥
shlok_193.jpg,समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ।\n\nसमानप्रणवं चेमं बिंदुनादयुतं विदुः ॥ ३६ ॥
shlok_194.jpg,अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ।\n\nसंध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ३७ ॥
shlok_195.jpg,प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।\n\nदीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥ ३८ ॥
shlok_196.jpg,कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ।\n\nब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ३९ ॥
shlok_197.jpg,द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ।\n\nस्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥ ४० ॥
shlok_198.jpg,विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ।\n\nपंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ ४१ ॥
shlok_199.jpg,एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ।\n\nजपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ ४२ ॥
shlok_200.jpg,अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।\n\nसहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ४३ ॥
shlok_201.jpg,जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।\n\nअष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ४४ ॥
shlok_202.jpg,ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ।\n\nवेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ ४५ ॥
shlok_203.jpg,एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ।\n\nअयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ४६॥
shlok_204.jpg,वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।\n\nअन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥ ४७ ॥
shlok_205.jpg,एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ।\n\nततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ ४८ ॥
shlok_206.jpg,एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ।\n\nनित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥ ४९ ॥
shlok_207.jpg,जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ।\n\nपुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥५० ॥
shlok_208.jpg,शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ।\n\nशिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ५१ ॥
shlok_209.jpg,जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।\n\nतस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ ५२ ॥
shlok_210.jpg,लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।\n\nसहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ५३ ॥
shlok_211.jpg,दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ।\n\nधनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ ५४॥
shlok_212.jpg,पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।\n\nशिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥ ५५ ॥
shlok_213.jpg,तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।\n\nशिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ५६ ॥
shlok_214.jpg,दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ।\n\nआब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ ५७ ॥
shlok_215.jpg,सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ।\n\nअथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् ॥ ५८ ॥
shlok_216.jpg,त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।\n\nस्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ५९ ॥
shlok_217.jpg,वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।\n\nसर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥६० ॥
shlok_218.jpg,सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।\n\nप्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ६१ ॥
shlok_219.jpg,प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।\n\nसायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥ ६२ ॥
shlok_220.jpg,कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।\n\nशिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६३ ॥
shlok_221.jpg,एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।\n\nकलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६४ ॥
shlok_222.jpg,उक्तेन केनचिद्वापि अधिकारविभेदतः ।\n\nसद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ६५ ॥
shlok_223.jpg,ऋषय ऊचुः ।\n\nसदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ।\n\nधर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १ ॥
shlok_224.jpg,सूत उवाच ।\n\nसदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।\n\nवेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २ ॥
shlok_225.jpg,अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।\n\nकिंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ३ ॥
shlok_226.jpg,शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।\n\nअसूयालुः परद्रो ही चंडालद्विज उच्यते ॥ ४ ॥
shlok_227.jpg,पृथिवीपालको राजा इतरेक्षत्रिया मताः
shlok_228.jpg,धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥५
shlok_229.jpg,ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।\n\nकर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६ ॥
shlok_230.jpg,सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ।\n\nधर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७ ॥
shlok_231.jpg,आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।\n\nव्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८ ॥
shlok_232.jpg,निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते ।\n\nतत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ ९ ॥
shlok_233.jpg,गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ।\n\nउदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः ॥ १० ॥
shlok_234.jpg,जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।\n\nलिंगं पिधाय वामेन मुखमन्येन पाणिना ॥ ११ ॥
shlok_235.jpg,मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।\n\nउद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ १२ ॥
shlok_236.jpg,अथवा देवपित्रार्षतीर्थावतरणं विना ।\n\nसप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ १३ ॥
shlok_237.jpg,लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।\n\nतत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४ ॥
shlok_238.jpg,येन केन च पत्रेण काष्ठेन च जलाद्बहिः ।\n\nकार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ॥ १५ ॥
shlok_239.jpg,जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् ।\n\nअशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥ १६ ॥
shlok_240.jpg,आजानु जलमाविश्य मंत्रस्नानं समाचरेत् ।\n\nदेवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७ ॥
shlok_241.jpg,धौतवस्त्रं समादाय पंचकच्छेन धारयेत्
shlok_242.jpg,उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ १८
shlok_243.jpg,यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥ २२ ॥
shlok_244.jpg,हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥
shlok_245.jpg,ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च ।\n\nअत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥ २४ ॥
shlok_246.jpg,प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।\n\nअपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ २५ ॥
shlok_247.jpg,गायत्र् या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।\n\nमंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा ॥ २६ ॥
shlok_248.jpg,अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः ।\n\nउद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥ २७ ॥
shlok_249.jpg,अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् ।\n\nआत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८ ॥
shlok_250.jpg,सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् ।\n\nअकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥ २९ ॥
shlok_251.jpg,दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ।\n\nआदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् ॥ ३० ॥
shlok_252.jpg,मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ।\n\nईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ॥ ३१ ॥
shlok_253.jpg,एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ।\n\nब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ३२ ॥
shlok_254.jpg,तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः ।\n\nतत्र देवालये वापि गृहे वा नियतस्थले ॥ ३३ ॥
shlok_255.jpg,सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ।\n\nप्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ३४ ॥
shlok_256.jpg,जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत्
shlok_257.jpg,त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ॥ संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे
shlok_258.jpg,nज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ॥ भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा
shlok_259.jpg,इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥
shlok_260.jpg,केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ।\n\nसहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥ ३८ ॥
shlok_261.jpg,अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत् ।\n\nसायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ३९ ॥
shlok_262.jpg,मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा ।\n\nविद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ ४० ॥
shlok_263.jpg,ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ।\n\nतानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥ ४१ ॥
shlok_264.jpg,महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ।\n\nएकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ४२ ॥
shlok_265.jpg,परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ।\n\n
shlok_266.jpg,शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥
shlok_267.jpg,मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः ।\n\nसहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ॥ ४४ ॥
shlok_268.jpg,इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ।\n\nदिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ४५ ॥
shlok_269.jpg,लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ।\n\nगायत्र् या लक्षहीनं तु वेदकार्येन योजयेत् ॥ ४६ ॥
shlok_270.jpg,आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ।\n\nप्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ४७ ॥
shlok_271.jpg,दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् ।\n\nमासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥ ४८ ॥
shlok_272.jpg,अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् ।\n\nएवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥ ४९ ॥
shlok_273.jpg,धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ।\n\n
shlok_274.jpg,ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥
shlok_275.jpg,धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः ।\n\nधर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ५१ ॥
shlok_276.jpg,विपरीतार्थभोगेन राग एव प्रजायते ।\n\nधर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ॥ ५२ ॥
shlok_277.jpg,द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ।\n\nधनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ ५३ ॥
shlok_278.jpg,निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ।\n\nकृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ॥ ५४ ॥
shlok_279.jpg,कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ।\n\nद्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ५५ ॥
shlok_280.jpg,यादृशं पुण्यं पापं वा तादृशं फलमेव हि ।\n\nद्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ५६ ॥
shlok_281.jpg,विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ।\n\nधर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ५८ ॥
shlok_282.jpg,चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः ।\n\nसहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ ६० ॥
shlok_283.jpg,इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ।\n\nयां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ६१ ॥
shlok_284.jpg,तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ।\n\nअर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ ६२ ॥
shlok_285.jpg,तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ।\n\nअर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ६३ ॥
shlok_286.jpg,कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः
shlok_287.jpg,अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥
shlok_288.jpg,क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ।\n\nन्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ६५ ॥
shlok_289.jpg,ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ।\n\nमोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ६६ ॥
shlok_290.jpg,सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः ।\n\nधनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ६७ ॥
shlok_291.jpg,ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ।\n\nपापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ७१ ॥
shlok_292.jpg,आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ।\n\nनित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ७२ ॥
shlok_293.jpg,वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ।\n\nहितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ ७३ ॥
shlok_294.jpg,कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ।\n\nशेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ७४ ॥
shlok_295.jpg,अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ।\n\nवृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ ७५ ॥
shlok_296.jpg,पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ।\n\nजन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ७८ ॥
shlok_297.jpg,परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ।\n\nविशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ७९ ॥
shlok_298.jpg,न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः ।\n\nसंध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ ८० ॥
shlok_299.jpg,अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ।\n\nतंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥ ८१ ॥
shlok_300.jpg,स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ।\n\nप्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ८२ ॥
shlok_301.jpg,नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ।\n\nअथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ८३ ॥
shlok_302.jpg,एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।\n\nब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४ ॥
shlok_303.jpg,अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।\n\nब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५ ॥
shlok_304.jpg,ऋषय ऊचुः ।\n\nअग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ।\n\nगुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १ ॥
shlok_305.jpg,सूत उवाच ।\n\nअग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।\n\nब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २ ॥
shlok_306.jpg,समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।\n\nप्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३ ॥
shlok_307.jpg,आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।\n\nहितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४ ॥
shlok_308.jpg,औपासनाग्निसंधानं समारभ्य सुरक्षितम् ।\n\nकुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ५ ॥
shlok_309.jpg,अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ।\n\nअग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ६ ॥
shlok_310.jpg,संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ।\n\nआयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ७ ॥
shlok_311.jpg,अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ।\n\nइंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ ८ ॥
shlok_312.jpg,देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ।\n\nचौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ९ ॥
shlok_313.jpg,ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ।\n\nब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् ॥ १० ॥
shlok_314.jpg,आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ।\n\nसर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १२ ॥
shlok_315.jpg,भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ।\n\n
shlok_316.jpg,आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥
shlok_317.jpg,वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ।\n\nस्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ २० ॥
shlok_318.jpg,आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च ।\n\nपुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ २१ ॥
shlok_319.jpg,वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ।\n\nअन्येषामपि देवानां पूजायाः फलदः शिवः ॥ २२ ॥
shlok_320.jpg,उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ।\n\nनेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥ २५ ॥
shlok_321.jpg,आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ।\n\nदिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ २६ ॥
shlok_322.jpg,प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम् ।\n\nजपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ २७ ॥
shlok_323.jpg,पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत् ।\n\nआदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ २८ ॥
shlok_324.jpg,स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ।\n\nअपमृत्युहरे मंदे रुद्रा द्री श्चं यजेद्बुधः ॥ ३४ ॥
shlok_325.jpg,तिलहोमेन दानेन तिलान्नेन च भोजयेत् ।\n\nइत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ३५ ॥
shlok_326.jpg,देवानां नित्ययजने विशेषयजनेपि च ।\n\nस्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ३६ ॥
shlok_327.jpg,तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ।\n\nआदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ३७ ॥
shlok_328.jpg,तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः ।\n\nदेशकालानुसारेण तथा पात्रानुसारतः ॥ ३८ ॥
shlok_329.jpg,द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ।\n\nतारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ३९ ॥
shlok_330.jpg,शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही ।\n\n
shlok_331.jpg,आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥
shlok_332.jpg,दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि ।\n\nपुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ४३ ॥
shlok_333.jpg,पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।\n\nछायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ४४ ॥
shlok_334.jpg,सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।\n\nकालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५ ॥
shlok_335.jpg,य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।\n\nश्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ ४६ ॥
shlok_336.jpg,ऋषय ऊचुः ।\n\nदेशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।\n\nसूत उवाच ।\n\nशुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १ ॥
shlok_337.jpg,ततो दशगुणं गोष्ठं जलतीरं ततो दश ।\n\nततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ २ ॥
shlok_338.jpg,ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।\n\nततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ३ ॥
shlok_339.jpg,सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।\n\nगंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ४ ॥
shlok_340.jpg,सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ।\n\nततोऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ ५ ॥
shlok_341.jpg,शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।\n\nतस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ॥ ८ ॥
shlok_342.jpg,विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।\n\nतद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश ॥ ९ ॥
shlok_343.jpg,ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ।\n\nजगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ १० ॥
shlok_344.jpg,अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ।\n\n
shlok_345.jpg,विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥
shlok_346.jpg,जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ।\n\nमहतां संगकालश्च कोट्यर्कग्रहणं विदुः ॥ १२ ॥
shlok_347.jpg,तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।\n\nपूजायाः पात्रमेते हि पापसंक्षयकारणम् ॥ १३ ॥
shlok_348.jpg,चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।\n\nब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ १४ ॥
shlok_349.jpg,पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।\n\nदातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ १५ ॥
shlok_350.jpg,गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ।\n\nयथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति ॥ १६ ॥
shlok_351.jpg,अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।\n\nस्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति ॥ १७ ॥
shlok_352.jpg,गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।\n\nतस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ १८ ॥
shlok_353.jpg,दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ।\n\nअन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ १९ ॥
shlok_354.jpg,प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ।\n\nनवं नावांतरमिति प्रणवं वै विदुर्बुधाः ॥ ४ ॥
shlok_355.jpg,प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः ।\n\nप्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ ५ ॥
shlok_356.jpg,स्वजापकानां योगिनां स्वमंत्रपूजकस्य च ।\n\nसर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ ६ ॥
shlok_357.jpg,तमेव मायारहितं नूतनं परिचक्षते ।\n\nप्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ७ ॥
shlok_358.jpg,नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ।\n\nप्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ ८ ॥
shlok_359.jpg,सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः ।\n\nसूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ॥ ९ ॥
shlok_360.jpg,जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ।\n\nमंत्रेणार्थानुसंधानं स्वदेहविलयावधि ॥ १० ॥
shlok_361.jpg,षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ।\n\nसूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ १२ ॥
shlok_362.jpg,अकारश्च उकारश्च मकारश्च ततः परम् ।\n\nबिंदुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १३ ॥
shlok_363.jpg,दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम् ।\n\nमकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १४ ॥
shlok_364.jpg,शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ।\n\nह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ १५ ॥
shlok_365.jpg,भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश ।\n\nआशान्वयेदशपुनः प्रवृत्ता इति कथ्यते ॥ १६ ॥
shlok_366.jpg,ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ।\n\nव्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् ॥ १७ ॥
shlok_367.jpg,वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि ।\n\nनवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् ॥ १८ ॥
shlok_368.jpg,पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ।\n\nपुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् ॥ १९ ॥
shlok_369.jpg,पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात् ।\n\nपुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ।\n\nआकाशजयमाप्नोति नवकोटिजपेन वै ॥ २० ॥
shlok_370.jpg,गंधादीनांक्रमेणैवनवकोटिजपेणवै ।\n\nअहंकारस्य च पुनर्नव कोटिजपेन वै ॥ २१ ॥
shlok_371.jpg,सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान् ।\n\nततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ २२ ॥
shlok_372.jpg,एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ।\n\nप्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ २३ ॥
shlok_373.jpg,शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ।\n\nसदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ २४ ॥
shlok_374.jpg,समाधिस्थो महायोगीशिव एव न संशयः ।\n\nऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् ॥ २५ ॥
shlok_375.jpg,प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ।\n\nदशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ २६ ॥
shlok_376.jpg,प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ।\n\nक्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ २७ ॥
shlok_377.jpg,धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः ।\n\nक्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ २८ ॥
shlok_378.jpg,पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः ।\n\nपरद्रो हादिरहितस्तपोयोगीति कथ्यते ॥ २९ ॥
shlok_379.jpg,एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः ।\n\nसदा जपपरः शांतोजपयोगीति तं विदुः ॥ ३० ॥
shlok_380.jpg,जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ।\n\nतपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ ३२ ॥
shlok_381.jpg,शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम् ।\n\nस्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ॥ ३३ ॥
shlok_382.jpg,पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ।\n\nप्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ॥ ३४ ॥
shlok_383.jpg,गुरूपदेशं संगम्य सुखवासे सुभूतले ।\n\nपूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ ३५ ॥
shlok_384.jpg,माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ।\n\nएकवारं मिताशीतु वाग्यतो नियतेंद्रि यः ॥ ३६ ॥
shlok_385.jpg,स्वस्य राजपितृणां च शुश्रूषणं च नित्यशः ।\n\nसहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ॥ ३७ ॥
shlok_386.jpg,पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन् ।\n\nपद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम् ॥ ३८ ॥
shlok_387.jpg,वामोरुस्थितशक्त्या च विराजं तं महागणैः ।\n\nमृगटंकधरं देवं वरदाभयपाणिकम् ॥ ३९ ॥
shlok_388.jpg,सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन् ।\n\nसंपूज्य मनसा पूर्वं हृदिवासूर्यमंडले ॥ ४० ॥
shlok_389.jpg,जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत् ।\n\nप्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ॥ ४१ ॥
shlok_390.jpg,मनोरमे शुचौ देशे नियतः शुद्धमानसः ।\n\nपंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ॥ ४२ ॥
shlok_391.jpg,मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत् ।\n\nदशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ ४६ ॥
shlok_392.jpg,कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ।\n\nकारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ ४७ ॥
shlok_393.jpg,पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः ।\n\nपुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ॥ ५३ ॥
shlok_394.jpg,पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात् ।\n\nआहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ॥ ५६ ॥
shlok_395.jpg,तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात् ।\n\nनित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ९७ ॥
shlok_396.jpg,क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ।\n\nतद्दर्शनगताः सर्वे मुक्ता एव न संशयः ॥ ९८ ॥
shlok_397.jpg,मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ।\n\nक्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ ९९ ॥
shlok_398.jpg,शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ।\n\nयथा रविः स्वकिरणादशुद्धिमपनेष्यति ॥ १०० ॥
shlok_399.jpg,कृपाविचक्षणः शंभुरज्ञानमपनेष्यति ।\n\nअज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ १०१ ॥
shlok_400.jpg,पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात् ।\n\nपुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १०४ ॥
shlok_401.jpg,पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ।\n\nपुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ १०३ ॥
shlok_402.jpg,शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ।\n\nआत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ १०२ ॥
shlok_403.jpg,पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ।\n\nपुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८ ॥
shlok_404.jpg,पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ।\n\nपुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८ ॥
shlok_405.jpg,एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ।\n\nक्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ १०९ ॥
shlok_406.jpg,गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम् ।\n\nपंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः ॥ १२२ ॥
shlok_407.jpg,स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः ।\n\nमंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः ॥ १२३ ॥
shlok_408.jpg,क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति ।\n\nपुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ॥ १२४ ॥
shlok_409.jpg,मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ।\n\nवैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति ॥ १२५ ॥
shlok_410.jpg,पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते ।\n\nपुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति ॥ १२६ ॥
shlok_411.jpg,पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते ।\n\nशूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः ॥ १२७ ॥
shlok_412.jpg,मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ।\n\nनारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १२८ ॥
shlok_413.jpg,पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ।\n\nशिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १३१ ॥
shlok_414.jpg,शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि ।\n\nशिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ १३२ ॥
shlok_415.jpg,शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ।\n\nयावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् ॥ १३३ ॥
shlok_416.jpg,तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ।\n\nदेवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा ॥ १३४ ॥
shlok_417.jpg,यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।\n\nशिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५ ॥
shlok_418.jpg,शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।\n\nशक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७ ॥
shlok_419.jpg,शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ।\n\nउपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १३८ ॥
shlok_420.jpg,ऋषयः ऊचुः ।\n\nबंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।\n\nसूत उवाच ।\n\nबंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥ १ ॥
shlok_421.jpg,प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ।\n\nप्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ २ ॥
shlok_422.jpg,प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।\n\nबद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३ ॥
shlok_423.jpg,प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ।\n\nपंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ ४ ॥
shlok_424.jpg,प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते ।\n\nपुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥ ५ ॥
shlok_425.jpg,शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ।\n\nस्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ॥ ६ ॥
shlok_426.jpg,कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ।\n\nसुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ७ ॥
shlok_427.jpg,तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ।\n\nशरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ ८ ॥
shlok_428.jpg,चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ।\n\nप्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ९ ॥
shlok_429.jpg,चक्रकर्ता महेशो हि प्रकृतेः परतोयतः ।\n\nपिबति वाथ वमति जीवन्बालो जलं यथा ॥ १० ॥
shlok_430.jpg,शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ।\n\nसर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ।\n\nशिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ११ ॥
shlok_431.jpg,सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः ।\n\nअनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ १२ ॥
shlok_432.jpg,अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् ।\n\nशिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥ १३ ॥
shlok_433.jpg,त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः ।\n\nशिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥ ८० ॥
shlok_434.jpg,भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत् ।\n\nशिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥ ८१ ॥
shlok_435.jpg,शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ।\n\n
shlok_436.jpg,ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥
shlok_437.jpg,स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम् ।\n\nगुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ ८३ ॥
shlok_438.jpg,सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति ।\n\nगुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ ८४ ॥
shlok_439.jpg,गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ।\n\nविश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥ ८५ ॥
shlok_440.jpg,तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः ।\n\nगुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ ८६ ॥
shlok_441.jpg,श्रुतं करोति शुश्रूषा कायेन मनसा गिरा ।\n\nउक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥ ८७ ॥
shlok_442.jpg,करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ।\n\nतस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ ८८ ॥
shlok_443.jpg,शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः ।\n\nअग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥ ८९ ॥
shlok_444.jpg,शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ।\n\nजिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥ ९० ॥
shlok_445.jpg,जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम् ।\n\nनिमज्जयति पुत्रं वै संसारे जनकः पिता ॥ ९१ ॥
shlok_446.jpg,संतारयति संसाराद्गुरुर्वै बोधकः पिता ।\n\nउभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥ ९२ ॥
shlok_447.jpg,अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ।\n\nपादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥ ९३ ॥
shlok_448.jpg,धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः ।\n\nस्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ ९४ ॥
shlok_449.jpg,गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ।\n\nगुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥ ९५ ॥
shlok_450.jpg,गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम् ।\n\nशिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥ ९६ ॥
shlok_451.jpg,गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ।\n\nगुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥ ९७ ॥
shlok_452.jpg,अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ।\n\nआदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥ ९८ ॥
shlok_453.jpg,निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत् ।\n\nतस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥ ९९ ॥
shlok_454.jpg,सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः ।\n\nज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥ १०० ॥
shlok_455.jpg,पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा ।\n\nअकस्मादेव गोधादिजंतूनां पतनेपि च ॥ १०१ ॥
shlok_456.jpg,गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च ।\n\nवृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥ १०२ ॥
shlok_457.jpg,भाविदुःखं समायाति तस्मात्ते भौतिका मता ।\n\nअमेध्या शनिपातश्च महामारी तथैव च ॥ १०३ ॥
shlok_458.jpg,ज्वरमारी विषूचिश्च गोमारी च मसूरिका ।\n\nजन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥ १०४ ॥
shlok_459.jpg,एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ।\n\nशांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥ १०६ ॥
shlok_460.jpg,देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे ।\n\nप्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥ १०७ ॥
shlok_461.jpg,भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च ।\n\nमध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥ १०८ ॥
shlok_462.jpg,तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम् ।\n\nमध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥ १०९ ॥
shlok_463.jpg,सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ।\n\nपूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ॥ ११० ॥
shlok_464.jpg,प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा ।\n\nकर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥ १११ ॥
shlok_465.jpg,सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत् ।\n\nसशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥ ११२ ॥
shlok_466.jpg,प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत् ।\n\nतत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥ ११३ ॥
shlok_467.jpg,आवाहनादिकं सर्वमाचार्येणैव कारयेत् ।\n\nआचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ११४ ॥
shlok_468.jpg,कुंभस्य पश्चिमे भागे जपांते होममाचरेत् ।\n\nकोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ ११५ ॥
shlok_469.jpg,एकाहं वा नवाहं वा तथा मंडलमेव वा ।\n\nयथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ ११६ ॥
shlok_470.jpg,शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम् ।\n\nसमिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ॥ ११७ ॥
shlok_471.jpg,प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत् ।\n\nपुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥ ११८ ॥
shlok_472.jpg,आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि ।\n\nऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥ १२० ॥
shlok_473.jpg,एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात् ।\n\nशांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ १२९ ॥
shlok_474.jpg,शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ।\n\nदुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ १३८ ॥
shlok_475.jpg,धर्मेणैव हि पापानामपनोदनमीरितम् ।\n\nशिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ १३९ ॥
shlok_476.jpg,अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ।\n\nक्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ १४० ॥
shlok_477.jpg,जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ।\n\nशिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४१ ॥
shlok_478.jpg,बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।\n\nपदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ १४२ ॥
shlok_479.jpg,नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।\n\nनिर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४३ ॥
shlok_480.jpg,सूत उवाच ।\n\nअथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।\n\nवैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ १ ॥
shlok_481.jpg,सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।\n\nब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ॥ २ ॥
shlok_482.jpg,नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।\n\nशिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ॥ ३ ॥
shlok_483.jpg,वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।\n\nपूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ॥ ४ ॥
shlok_484.jpg,नदीतीरे तडागे च पर्वते काननेऽपि च ।\n\nशिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ५ ॥
shlok_485.jpg,शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।\n\nशिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ ६ ॥
shlok_486.jpg,विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।\n\nवैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ७ ॥
shlok_487.jpg,संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ।\n\nअतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ॥ ८ ॥
shlok_488.jpg,संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ।\n\nविधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ॥ ९ ॥
shlok_489.jpg,ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।\n\nतत्प्रकारमहं वच्मि शृणुध्वं संविधानतः ॥ १० ॥
shlok_490.jpg,नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ।\n\nभूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥ ११ ॥
shlok_491.jpg,आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।\n\nनमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते ॥ १२ ॥
shlok_492.jpg,शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।\n\nनमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ॥ १३ ॥
shlok_493.jpg,नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ।\n\nचरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ॥ १४ ॥
shlok_494.jpg,भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ।\n\nआसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥ १५ ॥
shlok_495.jpg,मानो महन्तमिति च मंत्रेणावाहनं चरेत् ।\n\nयाते रुद्रे ण मंत्रेण संचरेदुपवेशनम् ॥ १६ ॥
shlok_496.jpg,मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।\n\nअध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥ १७ ॥
shlok_497.jpg,मनुना सौजीव इति देवतान्यासमाचरेत् ।\n\nअसौ योवसर्पतीति चाचरेदपसर्पणम् ॥ १८ ॥
shlok_498.jpg,नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।\n\nअर्घ्यं च रुद्र गायत्र् याऽचमनं त्र् यंबकेण च ॥ १९ ॥
shlok_499.jpg,पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।\n\nदधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् ॥ २० ॥
shlok_500.jpg,घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ।\n\nमधुवाता मधुनक्तं मधुमान्न इति त्र् यृचा ॥ २१ ॥
shlok_501.jpg,मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।\n\nअथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ॥ २२ ॥
shlok_502.jpg,मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।\n\nनमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ २३ ॥
shlok_503.jpg,या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।\n\nशिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ २४ ॥
shlok_504.jpg,नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।\n\nनमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ २५ ॥
shlok_505.jpg,नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।\n\nनमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ २६ ॥
shlok_506.jpg,नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।\n\nदीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ २७ ॥
shlok_507.jpg,नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।\n\nमनुना त्र् यम्बकमिति पुनराचमनं स्मृतम् ॥ २८ ॥
shlok_508.jpg,इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ।\n\nनमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ २९ ॥
shlok_509.jpg,मानो महांतमिति च मानस्तोके इति ततः ।\n\nमंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् ॥ ३० ॥
shlok_510.jpg,हिरण्यगर्भ इति त्र् यृचा दक्षिणां हि समर्पयेत् ।\n\nदेवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ॥ ३१ ॥
shlok_511.jpg,दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।\n\nपुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र् यृचा ॥ ३२ ॥
shlok_512.jpg,मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।\n\nमानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ॥ ३३ ॥
shlok_513.jpg,एषते इति मंत्रेण शिवमुद्रा ं प्रदर्शयेत् ।\n\nयतोयत इत्यभयां ज्ञानाख्यां त्र् यंबकेण च ॥ ३४ ॥
shlok_514.jpg,नमःसेनेति मंत्रेण महामुद्रा ं प्रदर्शयेत् ।\n\nदर्शयेद्धेनुमुद्रा ं च नमो गोभ्य ऋचानया ॥ ३५ ॥
shlok_515.jpg,पंचमुद्रा ः प्रदर्श्याथ शिवमंत्रजपं चरेत् ।\n\nशतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ॥ ३६ ॥
shlok_516.jpg,ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।\n\nदेवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥ ३७ ॥
shlok_517.jpg,ऋषयः ऊचुः ।\n\nअग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।\n\nब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १ ॥
shlok_518.jpg,सूत उवाच ।\n\nशृणुध्वं मुनयः सर्वे सावधानतयाधुना ।\n\nसर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥ २ ॥
shlok_519.jpg,शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ।\n\nभक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३ ॥
shlok_520.jpg,दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ।\n\nभक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥ ४ ॥
shlok_521.jpg,अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।\n\nभक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५ ॥
shlok_522.jpg,यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते ।\n\nतद्गृहं पावनं सर्वमन्यपावनकारणम् ॥ ६ ॥
shlok_523.jpg,आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ।\n\nभक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् ॥ ७ ॥
shlok_524.jpg,आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ।\n\nविलंबे पापसंबंधो भवत्येव हि मानवे ॥ ८ ॥
shlok_525.jpg,न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते ।\n\nस पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥ ९ ॥
shlok_526.jpg,स्नापयित्वा विधानेन यो लिंगस्नापनोदकम् ।\n\nत्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ १८ ॥
shlok_527.jpg,अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।\n\nशालग्रामशिलासंगात्सर्वं याति पवित्रिताम् ॥ १९ ॥
shlok_528.jpg,लिंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ।\n\nसुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः ॥ २० ॥
shlok_529.jpg,बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ।\n\nयः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ २४ ॥
shlok_530.jpg,बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति ।\n\nस सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥ २५ ॥
shlok_531.jpg,एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ।\n\nजलाकुलं महादेवो दृष्ट्वा तुष्टोभवत्यलम् ॥ २६ ॥
shlok_532.jpg,पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः ।\n\nशिवलोकमवाप्नोति संततिर्वर्द्धते सुखम् ॥ २७ ॥
shlok_533.jpg,बिल्वमूले दीपमालां यः कल्पयति सादरम् ।\n\nस तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥ २८ ॥
shlok_534.jpg,बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।\n\nगृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥ २९ ॥
shlok_535.jpg,बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।\n\nएकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ ३० ॥
shlok_536.jpg,ऋषय ऊचुः ।\n\nसूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।\n\nतदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १ ॥
shlok_537.jpg,तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।\n\nत्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ २ ॥
shlok_538.jpg,सूत उवाच ।\n\nसाधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ।\n\nभवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३ ॥
shlok_539.jpg,येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।\n\nसदा शिवकथा लोके वल्लभा भवतां सदा ॥ ४ ॥
shlok_540.jpg,ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।\n\nउद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ ५ ॥
shlok_541.jpg,मुखे यस्य शिवनाम सदाशिवशिवेति च ।\n\nपापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ ६ ॥
shlok_542.jpg,श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।\n\nतन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७ ॥
shlok_543.jpg,तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः ।\n\nतीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८ ॥
shlok_544.jpg,यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजा ।\n\nतस्य दर्शनमात्रेण वेणीस्नानफलंलभेत् ॥ ९ ॥
shlok_545.jpg,शिवनामविभूतिश्च तथा रुद्रा क्ष एव च ।\n\nएतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥ १० ॥
shlok_546.jpg,एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।\n\nतस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११ ॥
shlok_547.jpg,तद्दर्शनं यथा वेणी नोभयोरंतरं मनाक् ।\n\nएवं योनविजानाति सपापिष्ठो न संशयः ॥ १२ ॥
shlok_548.jpg,विभूतिर्यस्य नो भाले नांगे रुद्रा क्षधारणम् ।\n\nनास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३ ॥
shlok_549.jpg,शैवं नाम यथा गंगा विभूतिर्यमुना मता ।\n\nरुद्रा क्षं विधिना प्रोक्ता सर्वपापाविनाशिनी ॥ १४ ॥
shlok_550.jpg,शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।\n\nएकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ १५ ॥
shlok_551.jpg,तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ।\n\nसमानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६ ॥
shlok_552.jpg,तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ।\n\nधार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७ ॥
shlok_553.jpg,ऋष्य ऊचुः ।\n\nईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।\n\nतन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८ ॥
shlok_554.jpg,सूत उवाच ।\n\nऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।\n\nतन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९ ॥
shlok_555.jpg,सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।\n\nभवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २० ॥
shlok_556.jpg,कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ।\n\nमहेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१ ॥
shlok_557.jpg,वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ।\n\nशृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२ ॥
shlok_558.jpg,शिवेति नामदावाग्नेर्महापातकपर्वताः ।\n\nभस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः ॥ २३ ॥
shlok_559.jpg,पापमूलानि दुःखानि विविधान्यपि शौनक ।\n\nशिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४ ॥
shlok_560.jpg,स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः ।\n\nशिवनामजपासक्तो यो नित्यं भुवि मानव ॥ २५ ॥
shlok_561.jpg,भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।\n\nयेषां भवति विश्वासः शिवनामजपे मुने ॥ २६ ॥
shlok_562.jpg,पातकानि विनश्यंति यावंति शिवनामतः ।\n\nभुवि तावंति पापानि क्रियंते न नरैर्मुने ॥ २७ ॥
shlok_563.jpg,ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।\n\nशिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८ ॥
shlok_564.jpg,शिवनामतरीं प्राप्य संसाराब्धिं तरंति ये ।\n\nसंसारमूलपापानि तानि नश्यंत्यसंशयम् ॥ २९ ॥
shlok_565.jpg,संसारमूलभूतानां पातकानां महामुने ।\n\nशिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ३० ॥
shlok_566.jpg,शिवनामामृतं पेयं पापदावानलार्दितैः ।\n\nपापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ३१ ॥
shlok_567.jpg,शिवेति नामपीयूषवर्षधारापरिप्लुताः ।\n\nसंसारदवमध्येपि न शोचंति कदाचन ॥ ३२ ॥
shlok_568.jpg,शिवनाम्नि महद्भक्तिर्जाता येषां महात्मनाम् ।\n\nतद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ ३३ ॥
shlok_569.jpg,अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ।\n\nशिवनाम्नि भवेद्भक्तिः सर्वपापापहारिणी ॥ ३४ ॥
shlok_570.jpg,यस्या साधारणं शंभुनाम्नि भक्तिरखंडिता ।\n\nतस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ३५ ॥
shlok_571.jpg,कृत्वाप्यनेकपापानि शिवनामजपादरः ।\n\nसर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ३६ ॥
shlok_572.jpg,भवंति भस्मसाद्वृक्षा दवदग्धा यथा वने ।\n\nतथा तावंति दग्धानि पापानि शिवनामतः ॥ ३७ ॥
shlok_573.jpg,यो नित्यं भस्मपूतांगः शिवनामजपादरः ।\n\nसंतरत्येव संसारं सघोरमपि शौनक ॥ ३८ ॥
shlok_574.jpg,ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।\n\n
shlok_575.jpg,न लिप्यते नरः पापैः शिवनामजपादरः ॥ ३९ ॥
shlok_576.jpg,विलोक्य वेदानखिलाञ्छिवनामजपः परम् ।\n\nसंसारतारणोपाय इति पूर्वैर्विनिश्चितः ॥ ४० ॥
shlok_577.jpg,किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ।\n\nशिवनाम्नो महिमानं सर्वपापापहारिणम् ॥ ४१ ॥
shlok_578.jpg,पापानां हरणे शंभोर्नामः शक्तिर्हि पावनी ।\n\nशक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ ४२ ॥
shlok_579.jpg,शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।\n\nइन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥ ४३ ॥
shlok_580.jpg,तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ।\n\nशिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४ ॥
shlok_581.jpg,इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।\n\nशृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५ ॥
shlok_582.jpg,सूत उवाच ।\n\nद्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ।\n\nतत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १ ॥
shlok_583.jpg,एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।\n\nमहाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २ ॥
shlok_584.jpg,तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।\n\nभस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३ ॥
shlok_585.jpg,श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।\n\nअन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४ ॥
shlok_586.jpg,धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः ।\n\nकेवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ॥ ५ ॥
shlok_587.jpg,आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ।\n\nतदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने ॥ ६ ॥
shlok_588.jpg,अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः ।\n\nअन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ ७ ॥
shlok_589.jpg,अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः ।\n\nसप्तभिधूलनं कार्यं भस्मना सजलेन च ॥ ८ ॥
shlok_590.jpg,वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च ।\n\nत्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ॥ ९ ॥
shlok_591.jpg,भस्मनोद्धूलनं चैव यथा तिर्यक्त्रिपुंड्रकम् ।\n\nप्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः ॥ १० ॥
shlok_592.jpg,शिवेन विष्णुना चैव तथा तिर्यक्त्रिपुंड्रकम् ।\n\nउमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ॥ ११ ॥
shlok_593.jpg,ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः ।\n\nअपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना ॥ १२ ॥
shlok_594.jpg,उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।\n\nतेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ १३ ॥
shlok_595.jpg,उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये ।\n\nतेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः ॥ १४ ॥
shlok_596.jpg,उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।\n\nतेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥ १५ ॥
shlok_597.jpg,उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।\n\nते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ १६ ॥
shlok_598.jpg,उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये ।\n\nतेषामाचरितं सर्वं विपरीतफलाय हि ॥ १७ ॥
shlok_599.jpg,महापातकयुक्तानां जंतूनां शर्वविद्विषाम् ।\n\nत्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ १८ ॥
shlok_600.jpg,शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।\n\nमुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ १९ ॥
shlok_601.jpg,सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।\n\nसर्वपापविनिर्मुक्तः शिवेन सह मोदते ॥ २० ॥
shlok_602.jpg,सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् ।\n\nयो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ॥ २१ ॥
shlok_603.jpg,अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।\n\nत्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ २२ ॥
shlok_604.jpg,अदयो वाधमो वापि सर्वपापान्वितोपि वा ।\n\nउषःपापान्वितो वापि मूर्खो वा पतितोपि वा ॥ २३ ॥
shlok_605.jpg,यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः ।\n\nसर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा ॥ २४ ॥
shlok_606.jpg,त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।\n\nपापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ २५ ॥
shlok_607.jpg,यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।\n\nगतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥ २६ ॥
shlok_608.jpg,बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।\n\nलिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः ॥ २७ ॥
shlok_609.jpg,ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः ।\n\nभस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ २८ ॥
shlok_610.jpg,इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च ।\n\nपापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते ॥ २९ ॥
shlok_611.jpg,ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः ।\n\nतेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ३० ॥
shlok_612.jpg,ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम् ।\n\nयेन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ॥ ३१ ॥
shlok_613.jpg,ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम् ।\n\nतेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ ३२ ॥
shlok_614.jpg,मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत् ।\n\nब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ॥ ३३ ॥
shlok_615.jpg,वैश्यस्त्रियं बकेनैव शूद्र ः पंचाक्षरेण तु ।\n\nअन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत् ॥ ३४ ॥
shlok_616.jpg,पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ।\n\nत्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ॥ ३५ ॥
shlok_617.jpg,यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ॥ ३६ ॥
shlok_618.jpg,अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात् ।\n\nशिवयोगी च नियतमीशानेनापि धारयेत् ॥ ३७ ॥
shlok_619.jpg,न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ।\n\nअन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥ ३८ ॥
shlok_620.jpg,भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः ।\n\nतावंति शिवलिंगानि तनौ धत्ते हि धारकः ॥ ३९ ॥
shlok_621.jpg,ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः ।\n\nस्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा ॥ ४० ॥
shlok_622.jpg,ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ।\n\nनार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ॥ ४१ ॥
shlok_623.jpg,ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ।\n\nज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥ ४२ ॥
shlok_624.jpg,नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना ।\n\nभुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः ॥ ४३ ॥
shlok_625.jpg,\n\nएनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत्
shlok_626.jpg,त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते ।\n\nधारयंति च ये भक्त्या धारयन्ति तमेव ते ॥ ४४ ॥
shlok_627.jpg,धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।\n\nधिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ ४५ ॥
shlok_628.jpg,ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने ।\n\nते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥ ४६ ॥
shlok_629.jpg,ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः ।\n\nसत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥ ४७ ॥
shlok_630.jpg,तत्रैते बहवो लोका बृहज्जाबालचोदिताः ।\n\nते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ॥ ४९ ॥
shlok_631.jpg,यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना ।\n\nविभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः ॥ ५० ॥
shlok_632.jpg,स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम् ।\n\nतद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ॥ ५१ ॥
shlok_633.jpg,त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।\n\nमहापातकसंघातैर्मुच्यते चोपपातकैः ॥ ५२ ॥
shlok_634.jpg,ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः ।\n\nब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः ॥ ५३ ॥
shlok_635.jpg,उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च ।\n\nभस्मनो विधिना सम्यक्पापराशिं विहाय च ॥ ५४ ॥
shlok_636.jpg,श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।\n\nधृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ॥ ७५ ॥
shlok_637.jpg,जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ।\n\nमंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥ ७६ ॥
shlok_638.jpg,सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।\n\nतत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥ ७७ ॥
shlok_639.jpg,भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने ।\n\nभस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ॥ ७८ ॥
shlok_640.jpg,न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ।\n\nत्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ॥ ७९ ॥
shlok_641.jpg,वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा ।\n\nमध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥ ८० ॥
shlok_642.jpg,एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः ।\n\nशिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ॥ ८१ ॥
shlok_643.jpg,यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः ।\n\nतस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ॥ ८२ ॥
shlok_644.jpg,तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः ।\n\nललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥ ८४ ॥
shlok_645.jpg,भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः ।\n\nतावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ॥ ८५ ॥
shlok_646.jpg,मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः ।\n\nअंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ॥ ८६ ॥
shlok_647.jpg,मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः ।\n\nत्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ॥ ८७ ॥
shlok_648.jpg,तिसृणामपि रेखानां प्रत्येकं नवदेवताः ।\n\nसर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ॥ ८८ ॥
shlok_649.jpg,अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ।\n\nऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ८९ ॥
shlok_650.jpg,महदेवश्च रेखायाः प्रथमायाश्च देवता ।\n\nविज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ ९० ॥
shlok_651.jpg,उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ।\n\nमध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥ ९१ ॥
shlok_652.jpg,महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।\n\nविज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥ ९२ ॥
shlok_653.jpg,मकाराहवनीयौ च परमात्मा तमोदिवौ ।\n\nज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ९३ ॥
shlok_654.jpg,शिवश्चैव च रेखायास्तृतियायाश्च देवता ।\n\nविज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ॥ ९४ ॥
shlok_655.jpg,एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः ।\n\nत्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ॥ ९५ ॥
shlok_656.jpg,एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः ।\n\nकुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १०२ ॥
shlok_657.jpg,शीर्षके च ललाटेच कंठे चांसद्वये भुजे ।\n\nकूर्परे मणिबंधे च हृदये नाभिपार्श्वके ॥ १०३ ॥
shlok_658.jpg,पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते ।\n\nशिवशक्तिं तथा रुद्र मीशं नारदमेव च ॥ १०४ ॥
shlok_659.jpg,वामादिनवशक्तीश्च एताः षोडशदेवताः ।\n\nनासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥ १०५ ॥
shlok_660.jpg,अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा ।\n\nबाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥ १०६ ॥
shlok_661.jpg,जानुद्वये च पदयोः पृष्ठभागे च षोडश ।\n\n
shlok_662.jpg,शिवश्चन्द्र श्च रुद्र ः को विघ्नेशो विष्णुरेव वा ॥ १०७ ॥
shlok_663.jpg,श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ।\n\nनागश्च नागकन्याश्च उभयोरृषिकन्यकाः ॥ १०८ ॥
shlok_664.jpg,पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः ।\n\nइत्येव षोडशस्थानमष्टस्थानमथोच्यते ॥ १०९ ॥
shlok_665.jpg,गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ।\n\nअंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ ११० ॥
shlok_666.jpg,ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः॥ १११ ॥
shlok_667.jpg,अथ वा मस्तकं बाहूहृदयं नाभिरेव च ।\n\nपंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ११२ ॥
shlok_668.jpg,त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ।\n\nस्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४ ॥
shlok_669.jpg,ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ।\n\nबीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५ ॥
shlok_670.jpg,कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ।\n\nभीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६ ॥
shlok_671.jpg,सूत उवाच ।\n\nशौनकर्षे महाप्राज्ञ शिवरूपमहापते ।\n\nशृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १ ॥
shlok_672.jpg,शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ।\n\nदर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २ ॥
shlok_673.jpg,पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ।\n\nलोकोपकरणार्थाय शिवेन परमात्मना ॥ ३ ॥
shlok_674.jpg,शिव उवाच ।\n\nशृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ।\n\nकथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ ४ ॥
shlok_675.jpg,श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ।\n\nस्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥ १२ ॥
shlok_676.jpg,वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।\n\nशिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३ ॥
shlok_677.jpg,धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।\n\nबदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ १४ ॥
shlok_678.jpg,अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ।\n\nशृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५ ॥
shlok_679.jpg,बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ।\n\nतथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ॥ १६ ॥
shlok_680.jpg,धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ।\n\nगुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ १७ ॥
shlok_681.jpg,यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ।\n\nएकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८ ॥
shlok_682.jpg,रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे ।\n\nतस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ॥ १९ ॥
shlok_683.jpg,यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः ।\n\nन तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २० ॥
shlok_684.jpg,समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ।\n\nरुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१ ॥
shlok_685.jpg,क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ।\n\nव्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् ॥ २२ ॥
shlok_686.jpg,स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् ।\n\nयत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३ ॥
shlok_687.jpg,रुद्रा क्षधारणं प्राप्तं महापातकनाशनम् ।\n\nरुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः ॥ २४ ॥
shlok_688.jpg,एकादशशतानीह धृत्वा यत्फलमाप्यते ।\n\nतत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥
shlok_689.jpg,शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ।\n\nरुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६ ॥
shlok_690.jpg,त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।\n\nरुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ २७ ॥
shlok_691.jpg,शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि ।\n\nकर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥ २८ ॥
shlok_692.jpg,शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया ।\n\nकूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ॥ २९ ॥
shlok_693.jpg,उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ।\n\nशेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ॥ ३० ॥
shlok_694.jpg,एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि ।\n\nतद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१ ॥
shlok_695.jpg,एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ।\n\nशिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२ ॥
shlok_696.jpg,शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ।\n\nतदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ॥ ३३ ॥
shlok_697.jpg,शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत् ।\n\nपंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥ ३४ ॥
shlok_698.jpg,मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ।\n\nअष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५ ॥
shlok_699.jpg,एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः ।\n\nतं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ॥ ३६ ॥
shlok_700.jpg,एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके ।\n\nद्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७ ॥
shlok_701.jpg,एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ।\n\nकरयोरविमानेन द्विगुणेन मुनीश्वर ॥ ३८ ॥
shlok_702.jpg,संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ।\n\nशिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ॥ ३९ ॥
shlok_703.jpg,शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ।\n\nअघोरेण गले धार्यं तेनैव हृदयेपि च ॥ ४० ॥
shlok_704.jpg,अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ।\n\nपंचदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१ ॥
shlok_705.jpg,पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ।\n\nअथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥ ४२ ॥
shlok_706.jpg,मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ।\n\nश्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३ ॥
shlok_707.jpg,वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ॥ ४४ ॥
shlok_708.jpg,ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः श्रुतिगदितमार्गोयमगजे ॥ ४४ ॥
shlok_709.jpg,आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा ।\n\nधार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ॥ ४६ ॥
shlok_710.jpg,सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया ।\n\nधार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ॥ ४७ ॥
shlok_711.jpg,दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ।\n\nप्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८ ॥
shlok_712.jpg,ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ।\n\nये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ॥ ४९ ॥
shlok_713.jpg,रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ।\n\nपंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ॥ ५० ॥
shlok_714.jpg,यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके ।\n\nमुखे पंचाक्षरं नास्ति तमानय यमालयम् ॥ ५१ ॥
shlok_715.jpg,ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः ।\n\nते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२ ॥
shlok_716.jpg,एवमाज्ञापयामास कालोपि निजकिण्करान् ।\n\nतथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३ ॥
shlok_717.jpg,अत एव महादेवि रुद्रा क्षोत्यघनाशनः ।\n\nतद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४ ॥
shlok_718.jpg,सुरासुराणां सर्वेषां वंदनीयः सदा स वै ।\n\nपूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६ ॥
shlok_719.jpg,ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः ।\n\nसर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७ ॥
shlok_720.jpg,रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ।\n\nदशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८ ॥
shlok_721.jpg,यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ।\n\nतावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९ ॥
shlok_722.jpg,त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम् ।\n\nमृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् ॥ ६० ॥
shlok_723.jpg,पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ।\n\nसर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ॥ ६१ ॥
shlok_724.jpg,विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ।\n\nरुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ॥ ६२ ॥
shlok_725.jpg,रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ।\n\nडाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ॥ ८४ ॥
shlok_726.jpg,कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ।\n\nतत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ॥ ८५ ॥
shlok_727.jpg,रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ।\n\nदेवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ॥ ८६ ॥
shlok_728.jpg,शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ ।\n\nतद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९ ॥
shlok_729.jpg,भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते ।\n\nपंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९० ॥
shlok_730.jpg,विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।\n\nपूजितोपि महादेवो नाभीष्टफलदायकः ॥ ९१ ॥
shlok_731.jpg,तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ।\n\n
shlok_732.jpg,भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ।\n\nरुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥ ९३ ॥
shlok_733.jpg,इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ।\n\nलभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४ ॥
shlok_734.jpg,विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ।\n\nसर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५ ॥