तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः। चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री। या चीरमासाद्य वनस्य मध्ये जाता विसंज्ञा श्रमणीव काचित्॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ रामेण यदि ते पापे किंचित्कृतमशोभनम्। अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी। अपकारं कमिव ते करोति जनकात्मजा॥ ननु पर्याप्तमेवं ते पापे रामविवासनम्। किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्। अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ इयं धार्मिक कौसल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ पुत्रशोकं यथा नछेत् त्वया पूज्येन पूजिता। मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ इमां महेन्द्रोपम जातगर्धिनी तथा विधातुं जननी ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः। राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः॥ पितुर्वचननिर्देशात् पितुर्वचनगौरवात्। वचनं कौशिकस्येति कर्तव्यमविशङ्कया॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना। पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः। करिष्यामि न संदेहस्ताटकावधमुत्तमम्॥ गोब्राह्मणहितार्थाय देशस्य च हिताय च। तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः॥ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः। ज्याघोषमकरोत् तीव्र दिशः शब्देन नादयन् ॥ तेन शब्देन विवस्तास्ताटकावनवासिनः। ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता॥ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता। श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्। प्रमामेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत॥ पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः। भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च॥ एतां पश्य दुराधर्षां मायाबलसमन्विताम्। विनिवृत्तां करोम्यद्य हृतकर्णाननासिकाम्॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्। वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः॥ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता। उद्यम्य बाहुं गर्जन्ती राममेवाभ्यधावत॥ विश्वामित्रस्तु ब्रह्मर्षिहुँकारेणाभिभय॑ ताम्। स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत॥ उद्धन्वाना रजो घोरं ताटका राघवावुभौ। रजोमेघेन महता मुहूर्तं सा व्यमोहयत्॥ ततो मायां समांस्थाय शिलावर्षेण राघवौ। अवाकिरत् सुमहतां ततश्चक्रोध राघवः॥ शिलावर्षं महत् तस्याः शरवर्षेण राघवः। प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः॥ ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्। सौमित्रिरकरोत् क्रोधाद्धतकर्णाग्रनासिकाम्॥ कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः। अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया॥ अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा। ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः॥ दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत्। अलं ते घृणया राम पापैषा दुष्ट्वारिणी॥ यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया। वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते॥ रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि। इत्युक्तः स तु तां यक्षीमश्मवृष्टयाभिवर्षिणीम् ॥ दर्शयशब्दवेधित्वं तां रुरोध स सायकैः। सा रुद्धा बाणजालेन मायाबलसमन्विता॥ अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी। तामापतन्ती वेगेन विक्रान्तामशनीमिव ॥ शरेणोरसि विव्याध सा पपात ममार च। तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा॥ साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन्। उवाच परमप्रीतः सहस्राक्षः पुरन्दरः॥ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्। मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः॥ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे। प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्॥ तपोबलभृतो ब्रह्मन् राघवाय निवेदय। पात्रभूतश्च ते ब्रह्मस्तवानुगमने रतः॥ कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना। एवमुक्त्वा सुराः सर्वे जग्मुर्हष्टा विहायसम्॥ विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते। ततो मुनिवरः प्रीतस्ताटकावधतोषितः।३२।। मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्। इहाद्य रजनी राम वसाम शुभदर्शन ॥ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम। विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः॥ उवास रजनी तत्र ताटकाया वने सुखम्। मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि। रमणीयं विबभ्राज यथा चैत्ररथं वनम्॥ निहत्य तो यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसंघैः। उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः॥ ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणस्य महाबलः॥ पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्। तारश्चैव महातेजा हरियूथपयूथपः॥ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ वैदूर्यविमलैस्तोयैः पद्यैश्चाकोशकुड्मलैः। शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ कारण्डैः सारसैहँसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥ मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥ तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान्वन्यान् द्विरदान् कूलघातिनः॥ मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्। वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान् ॥ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः। दुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तवासन्नधःशीर्षा नियतं जलशायिनः॥ सप्तरात्रे कृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ तेषामेतत्प्रभावेण दुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥ विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव ॥ त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते। वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैदूर्यगिरयो यथा ॥ कुरु प्रणामं धर्मात्मस्तेषामुद्दिश्य राघव। लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्। न तेषामशुभं किंचिच्छरीरे राम विद्यते॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जग्मुः संहष्टमानसाः॥ ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्। दद्दशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः। पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥ सा तथोक्ता तु वैदेही निर्भया शोककर्शिता। तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ राजा दशरथो नाम धर्मसेतुरिवाचलः। सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः॥ नामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः। दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः। लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति॥ प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात्। शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः। राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा॥ तस्य ज्याविप्रमुक्तास्ते खराः काञ्चनभूषणाः। शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः।७।। असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण। उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे ॥ स ते जीवितशेषस्य राघवोऽन्तकरो बली। पशोडूंपगतस्येव जीवितं तव दुर्लभम्॥ यदि पश्येत् स रामस्त्वं रोषदीप्तेन चक्षुषा। रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥ यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेद् वापि स सीतां मोचयेदिह॥ गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः। लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ न ते पापमिदं कर्म सुखोदकं भविष्यति। याहं नीता विनाभावं पतिपार्ध्वात् त्वया बलात्॥ स हि देवरसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके॥ स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम्। व्यपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे॥ यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः॥ मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम। आत्मनो राक्षसानां च वधायान्तःपुरस्य च॥ न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता। द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्॥ तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता। त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना॥ क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः। हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्॥ इदं शरीरं नि:संज्ञं बन्ध वा घातयस्व वा। नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥ न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः। एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः॥ रावणं जानकी तत्र पुनर्नोवाच किंचन। सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्॥ प्रत्युवाच ततः सीतां भयसंदर्शनं वचः। शृणुमैथिलि मद्वाक्यं मासान् द्वादश भामिनि ॥ कालेनानेन नाभ्येषि यदि मां चारुहासिनि। ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः॥ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः। राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः। दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः॥ वचनादेव तास्तस्य सुघोरा घोरदर्शनाः। कृतप्राञ्जलयो भूत्वा मैथिली पर्यवारयन्॥ स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः। प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्॥ अशोकवनिकामध्ये मैथिली नीयतामिति। तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ तत्रैनां तर्जनैोरैः पुनः सान्त्वैश्च मैथिलीम्। आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिकां जग्मुर्मैथिली परिगृह्य तु॥ सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्। सर्वकालमदैश्चापि द्विजैः समुपसेविताम्॥ सा तु शोकपरिताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा॥ शोकेन महता त्रस्ता मैथिली जनकात्मजा। न शर्म लभते भीरुः पाशबद्धा मृगी यथा॥ न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता। पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता ॥ इतः परं प्रक्षिप्तोऽयं सर्गः।। प्रवेशितायां सीतायां लङ्कां प्रति पितामह। तदा प्रोवाच देवेन्द्र परितुष्टं शतक्रतुम्॥ त्रैलोक्यस्य हितार्थाय रक्षसामहिताय च। लङ्कां प्रवेशिता सीता रावणेन दुरात्मना ॥ पतिव्रता महाभागा नित्यं चैव सुस्त्रैधिता। अपश्यन्ती च भतौरं पश्यन्ती राक्षसीजनम्॥ राक्षसीभिः परिवृता भर्तृदर्शनलालसा। निविष्टा हि पुरी लङ्का तीरे नदनदीपतेः॥ कथं ज्ञास्यति तां रामस्तत्रस्थां तामनिन्दिताम्। दुःशं संचिन्तयनिती सा बहुशः परिदुर्लभा ॥ प्राणयात्रामकुर्राणा प्राणांस्त्यक्ष्यत्यसंशयम्। स भूयः संशयो जातः सीतायाः प्राणसंक्षये॥ स त्वं शीघ्रमितो गत्वा सीतां पश्य शुभाननाम्। प्रविश्य नगरी लङ्कां प्रयच्छ हविरुत्तमम्॥ एवमुक्तोऽथ देवेन्द्रः पुरी रावणपालिताम्। आगच्छन्निद्रया सार्ध भगवान् पाकशासनः॥ निद्रां चोवाच गच्छ त्वं राक्षसान् सम्प्रमोहय। सा तथोक्ता मघवता देवी परमहर्षिता॥ देवकार्यार्थसिद्धयर्थं प्रामोहयत राक्षसान् । एतस्मिन्नन्तरे देवः सहस्राक्षः शचीपतिः॥ आसमाद वनस्थां तां वचनं चेदमब्रवीत् । देवराजोऽस्मि भद्रं ते इह चास्मि शुचिस्मिते॥ अहं त्वां कार्यनिद्दध्यर्थं राघवस्य महात्मनः। साहाय्यं कल्पयिष्यामि मा शुचो जनकात्मजे ॥ मत्प्रसादात् समुद्रं स तरिष्यति बलैः सह। मयैवेह च राक्षस्यो मायाय मोहिताः शुभे॥ तस्मादन्नमिदं सीते हविष्यान्नहं स्वयम्। स त्वां संगृह्य वैदेहि आगतः सह निद्रया।१४।। एतदत्स्यसि मद्धस्तान्न त्वां वाधिष्यते शुभे। क्षुधा तृषा च रम्भोरु वर्षाणामयुतैरपि॥ एवमुक्ता तु देवेन्द्रमुवाच परिशङ्किता। कथं जानामि देवेन्द्रं त्वामिहस्थं खजापतिम्॥ देवलिङ्गानि दृष्टानि रामलक्ष्मणसंनिधौ। तानि दर्शय देवेन्द्र यदि त्वं देवराट् स्वयम्॥ सीताया वचनं श्रुत्वा तथा चक्रे शचीपतिः। गृथिवीं नास्पृशत् पद्भ्यामनिमेषेक्षणानि च॥ अरजोऽम्बरधारी च नम्लीनकुसुमस्तथा। तं ज्ञात्वा लक्ष्णैः सीता वासवं परिहर्षिता ॥ उवाच वाक्यं रुदती भगवन् राघवं प्रति। कह भ्रात्रा महाबाहुर्दिष्टयः मे श्रुतिमागतः॥ यथा मे श्वशुरो राजा यथा च मिथिलाधिपः। सथा त्वमद्य पश्यामि सनाथो मे पतिस्त्वया॥ तवाज्ञया च देवेन्द्र पयोभूतमिदं हविः। अशिष्यामि त्वया दत्तं रघूणां कुलवर्घनम्॥ इन्द्रहस्ताद् गृहीत्वा तत् पायसं सा शुचिस्मिता। न्यवेदयत भर्ने सा लक्ष्मणाय च मैथिली॥ यदि जीवति मे भर्ता सह भ्रात्रा महाबलः। इदमस्तु तयोर्भक्त्या तदाश्नात् स्वयम्॥ इतीव तत् प्राश्य हविर्वरानना जहौ क्षुधादुःखसमुद्भवं च तम्। इन्द्रात् प्रवृत्तिमुपलभ्य जानकी काकुत्स्थयोः प्रीतमना बभूव ॥ स चापि शक्रस्त्रिदिवालयं तदा प्रीतो ययौ राघवकार्यसिद्धये। आमन्त्र्य सीतां स ततो महात्मा जगाम निद्रासहितः स्वमालयम्॥ ततः शूर्पणखां दृष्ट्वा ब्रुवन्ती परुषं वचः। अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थे दण्डकारण्यं प्रविष्टश्च सुदुस्तरम्॥ आयुघं किं च रामस्य येन ते राक्षसा हताः। खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा॥ तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता । इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ॥ ततो रामं यथान्यायमाख्यातुमुपचक्रमे। दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः॥ कन्दर्पसमरूपश्च रामो दशरथात्मजः। शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्॥ दीप्तान् त्रिपति नाराचान् सनिव महाविषान् । नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्।७।। न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे। हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः॥ इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः। रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश॥ निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ एका कथंचित्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना॥ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः। अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्॥ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली। रामस्य दक्षिणो बाहुनित्यं प्राणो बहिश्चरः॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना। धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता॥ सा सुकेशी सुनासोरू: सुरूपा च यशस्विनी। देवतेव वनस्यास्य राजते श्रीरिवापरा॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा॥ नैव देवी न गन्धर्वी न यक्षी न च किंनरी। तथारूपा मया नारी दृष्टपूर्वा महीतले॥ यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्। अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्॥ सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि। तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः॥ तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्। भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्॥ विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज। तां तु दृष्ट्वाद्य वैदेही पूर्णचन्द्रनिभाननाम्॥ मन्मथस्य शराणां च त्वं विधेयो भविष्यसि। यदि तस्यामभिप्रायो भार्यात्वे तव जायते। शीघ्रमुद्भियतां पादो जयार्थमिह दक्षिणः॥ रोचते यति ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण ॥ विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर॥ हताञ्जनस्थानगतान् निशाचरान्। खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि॥ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्। गतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य भूमिपम्॥ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता। उपगृह्य शिरो राज्ञः कैकेयी प्रत्यभाषत ॥ सकामा भव कैकेयि भुक्ष्व राज्यमकण्टकम्। त्यक्त्वा राजानमेकाना नृशंसे दुष्टचारिणि ॥ विहाय मां गतो रामो भर्ता च स्वर्गतो मम। विपथे सार्थहीनेव नाहं जीवितुमुत्सहे॥ भर्तारं तु परित्यज्य का स्त्री दैवतमात्मनः। इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः॥ न लुब्धो बुध्यते दोषान् किंपाकमिव भक्षयन्। कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्॥ अनियोगे नियुक्तेन राज्ञा रामं विवासितम्। सभार्य जनकः श्रुत्वा परितप्स्यत्यहं यथा।७।। स मामनाथां विधवां नाद्य जानाति धार्मिकः। रामः कमलपत्राक्षो जीवनाशमितो गतः॥ विदेहराजस्य सुता तथा चारुतपस्विनी। दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति॥ नदतां भीमघोषाणां निशासु मृगपक्षिणाम्। निशम्यमाना संत्रस्ता राघवं संश्रयिष्यति॥ वृद्धश्चैवाल्पपुत्रश्च वेदेहीमनुचिन्तयन्। सोऽपि शोकसमाविष्टो नूनं त्यक्ष्यति जीवितम्॥ साहमचैव दिष्टान्तं गमिष्यामि पतिव्रता। इदं शरीरमालिङ्गय प्रवेक्ष्यामि हुताशनम्॥ तां ततः सम्परिष्वज्य विलपन्ती तपस्विनीम्। व्यपनिन्युः सुदुःखाता कौसल्यां व्यावहारिकाः॥ तैलद्रोण्यां तदामात्याः संवेश्य जगतीपतिम्। राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्॥ न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः। सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्॥ तैलद्रोण्यां शायितं तं सचिवैस्तु नराधिपम्। हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्॥ बाहूनुच्छ्रित्य कृपणा नेत्रप्रस्रवणैर्मुखैः। रुदत्यः शोकसंतप्ताः कृपणं पर्यदेवयन्॥ हा महाराज रामेण संततं प्रियवादिना। विहीनाः सत्यसंधेन किमर्थं विजहासि नः॥ कैकेय्या दुष्टभावाया राघवेण विवर्जिताः। कथं सपत्न्या वत्स्यामः समीपे विधवा वयम्॥ स हि नाथः स चास्माकं तव च प्रभुरात्मवान्। वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम्॥ त्वया तेन च वीरेण विना व्यसनमोहिताः। कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः॥ यया च राजा रामश्च लक्ष्मणश्च महाबलः। सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥ ता बाष्पेण च संवीताः शोकेन विपुलेन च। व्यचेष्टन्त निरानन्दा राघवस्य वरस्त्रियः॥ निशा नक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता। पुरी नाराजतायोध्या हीना राज्ञा महात्मना॥ बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना। शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्॥ गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च। निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता॥ नारोचयस्ते सुहृदः समागताः। इतीव तस्मिशयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम्॥ गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी। पुरी बभासे रहिता महात्मना कण्ठास्रकण्ठाकुलमार्गचत्वरा ॥ नराश्च नार्यश्च समेत्य संघशो विगर्हमाणा भरतस्य मातरम्। तदा नगाँ नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे॥ स एवं ब्रुवती सीतां धर्मज्ञा धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ सीते महाकुलीनासि धर्मे च निरता सदा। इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले। वने दोषा हि बहवो वसतस्तान् निबोध मे॥ सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्॥ गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतोवनम्॥ क्रीडमानाश्च विस्रब्धामत्ताः शून्ये तथा मृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ लताकण्टकसंकीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ अहोरात्रं च संतोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ देवतानां पितृणां च कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहतैः। आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि। यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ अतीव वातस्तिमिरं बुभुक्षा चास्ति नित्यशः। भयानि च महान्त्यत्र अतो दु:खतरं वनम्॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पथि ते दात्ततो दुःखतरं वनम्॥ नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम्॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह। बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ दुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव सदा वनम्॥ क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ तदलं ते वनं गत्वा क्षेमं नहि वनं तव। विमृशनिव पश्यामि बहुदोषकरं वनम्॥ वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना। न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता॥ सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्। स्वसैन्यं विद्रुतं चापि लक्षयित्वादितं सुरैः॥ ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा। निवर्त्य राक्षसान्सन्मेिघनादो व्यवस्थितः॥ स रथेन महार्हेण कामगेन महारथः। अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन्॥ ततः प्रविशतस्तस्य विविधायुधधारिणः। विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः॥ न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे। सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान्।।५ न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः। एष गच्छति पुत्रो मे युद्धार्थमपराजितः॥ ततः शक्रसुतो देवो जयन्त इति विश्रुतः। रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत।७।। ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्। रावणस्य सुतं युद्धे समासाद्य प्रजनिरे।।।।। तेषां युद्धं समभवत्सदृशं देवरक्षसाम्। महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ततो मातलिपुत्रस्य गोमुखस्य स रावणिः। सारथेः पातयामास शरान्कनकभूषणान्॥ शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम्। तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यता ॥ स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः। रावणिः शक्रतनयं शरवर्षैरवाकिरत्॥ ततो नानाप्रहरणाञ्छितधारान्सहस्रशः। पातयामास संक्रुद्धः सुरसैन्येषु रावणिः॥ शतघ्नीमुसलप्रासगदाखङ्गपरश्वधान्। महान्ति गिरिशृङ्गाणि पातयामास रावणिः॥ ततः प्रव्यथिता लोकाः संजज्ञे च तमस्ततः। तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः॥ ततस्तदैवतबलं समन्तात्तं शचीसुतम्। बहुप्रकारमस्वस्थमभवच्छरपीडितम्॥ नाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा। तत्र तत्र विपर्यस्तं समन्तात्परिधावत ॥ देवा देवानिजघ्नुस्ते राक्षसान्राक्षसास्तथा। संमूढास्तमसा छन्ना व्यद्रवनपरे तथा॥ एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान्। दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोऽपवाहितः॥ संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा। आर्यकः स हि तस्यासीत्पुलोमा येन सा शची।।२० ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः। अप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः॥ रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः। अभ्यधावत देवांस्तान्मुमोच च महास्वनम्॥ दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्वतन्। मातलिं चाह देवेशो रथः समुपनीयताम्॥ स तु दिव्या महाभीमः सज्ज एव महारथः। उपस्थितो मातलिना बाह्यमानो महाजवः॥ ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः। अग्रतो वायुचपला नेदुः परमनिःस्वनाः॥ नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः। ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां समरुद्गणैः। वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः॥ निर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ। भास्करो निष्प्रभश्चैव महोल्काश्च प्रपेदिरे॥ एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्। आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा।२९।। पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः। येषां निःश्वासवातेन प्रदीप्तमिव संयुगे॥ दैत्यैनिशाचरैश्चैव स रथः परिवारितः। समराभिमुखो दिव्यो महेन्द्रं सोऽभ्यवर्तत॥ पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः। सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्॥ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह। शस्त्राणि वर्षतां तेषां मेघनामिव संयुगे॥ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः। नाज्ञायत तदा राजन्युद्धं केनाभ्यपद्यत॥ दन्तैः पादैर्भुजैर्हस्तैः शक्तितोमरमुद्गरैः। येन तेनैव संक्रुद्धस्ताडयामास देवताः॥ स तु रुदैर्महाघोरैः संगम्याथ निशाचरः। प्रयुद्धस्तैश्च संग्रामे क्षतः शस्त्रैर्निरन्तरम्॥ ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः। रणे विद्रावितं सर्वं नानाप्रहरणैस्तदा॥ केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले। वाहनेष्ववसक्ताश्च स्थिता एवपारे रणे॥ रथानागान्खराष्ट्रान्पन्नगांस्तुरगांस्तथा। शिशुमारान्वराहांश्च पिशाचवदनानपि॥ तान्समालिङ्गय बाहुभ्यां विष्टब्धाः केचिदुत्थिताः। देवैस्तु शस्त्रसंभिन्ना मनिरे च निशाचराः॥ चित्रकर्म इवाभाति सर्वेषां रणसंप्लवः। निहतानां प्रसुप्तानां राक्षसानां महीबले॥ शोणितोदकनिष्पन्दा काकगृध्रसमाकुला। प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी॥ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्। निरीक्ष्य तु बलं सर्वं दैवतैर्विनिपातितम्॥ स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्। त्रिदशान्समरे निघ्नशक्रमेवाभ्यवर्तत॥ ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम्। यस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश।।४५ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि। पातयामास स शरान्पावकादित्यवर्चसः॥ तथैव च महाबाहुर्दशग्रीवो निशाचरः। शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत्॥ प्रयुध्यतोरथ तयोर्बाणवषैः समन्ततः। नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम्॥ अतदर्ह महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना॥ त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेदं वरं कस्माद् विधारयितुमिच्छसि॥ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलनिव॥ मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव॥ स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्। यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महातेजाः स कथं त्यज्यते मया॥ शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते।।।। कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं स्थापयिष्यामि दण्डकान्॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्। किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ अकीर्तिरतुला लोके ध्रुवं परिभविष्यति। तथा विलपतस्तस्य परिभ्रमितचेतसः॥ अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता॥ राज्ञो विलपमानस्य न व्यभापत शर्वरी। सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः॥ विललापाविद् दुःखं गगनासक्तलोचनः। ततो राजा न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते॥ क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निघृणाम्॥ नृशंसां केकयों द्रष्टुं यत्कृते व्यसनं मम । एवमुक्त्वा कैकेयीं संयताञ्जलिः॥ प्रसादयामास पुनः कैकेयी राजधर्मवित्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः॥ प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ कुरु साधुप्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवी रामो मे त्वद्दत्तं राज्यमव्ययम्॥ लभतामसितापाने यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरुणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ विशुद्धभावस्य हि दुष्टभावा दीनस्य ताम्राश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नुशंसा न चकार वाक्यम्॥ ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम्। शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्॥ स दुःखेन च संतप्तो मन्त्रिणस्तानुपाह्वयत्। वसिष्ठं वामदेवं च भ्रातृ॑श्च सह नैगमान्॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः। राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन्॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः। कात्यायनोऽथ जाबालिगौतमो नारदस्तथा॥ एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः। महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः॥ मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलिताः। तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्॥ राघवः सर्वमाचष्टे द्विजोऽयमुपरोधति। तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः॥ प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ स्वयम्। शृणु राजन्यथाकाले प्राप्तो बालस्य संक्षयः॥ श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन। पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः।।।। अब्राह्मणस्तदा राजन्न तपस्वी कथंचन। तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते॥ अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः। ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्॥ क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः। वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि॥ मानवा ये महात्मानस्तत्र त्रेतायुगे युगे। ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमवरं च यत्॥ युगयोरुभयोरासीत्समवीर्यसमन्वितम्। अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः॥ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम्। तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते॥ अधर्मः पादमेकं तु पातयत्पृथिवीतले। अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति।।१६ आमिषं यच्च पूर्वेषां राजसं च मलं भृशम्। अनृतं नाम तद्भूतं क्षिप्तेन पृथिवीतले॥ अनृतं पातयित्वा तु पादमेकमधर्मतः। ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्॥ पातिते त्वनृते तस्मिनधर्मेण महीतले। शुभान्येवाचरैल्लोकः सत्यधर्मपरायणः॥ त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये। तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः॥ स्वधर्मः परमस्तेषां वैश्यशूद्रं तदागमत्। पूजां च सर्ववर्णानां शूद्राश्चनुर्विशेषतः॥ एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह। ततः पूर्वे पुनर्वासमगमन्नृपसत्तम॥ ततः पादमधर्मस्य द्वितीयमवतारयत्। ततो द्वापरसंख्या सा युगस्य समजायत॥ तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये। अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ॥ अस्मिन्द्वापरसंख्याने तपो वैश्यान्समाविशत्। त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत्॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः। न शूद्रो लभते धर्म युगतस्तु नरर्षभ॥ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः। भविष्यच्छूद्रयोन्यां हि तपश्चर्या कलौ युगे॥ अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः। स वै विषयपर्यन्ते तव राजन्महातपाः॥ अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम्। यो ह्यधर्ममकार्य वा विषये पार्थिवस्य तु॥ करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः। क्षिप्रं च नरकं याति स च राजा न संशयः॥ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च। षष्ठं भजति भागं तु प्रजा धर्मेण पालयन्॥ षड्भागस्य च भोक्तासौ रक्षते न प्रजाः कथम्। स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्॥ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर। एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्। भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम्॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत्किचिच्छार्दूलं वाक्यमब्रवीत्॥ अयथावच्च ते वर्णो दीनश्चासि निशाचर। नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः॥ इति ते नानुशिष्टस्तु वाचं मन्दमुदीरयन्। तदा राक्षसशार्दूलं शार्दूलो भयविक्लवः॥ न ते चारयितुं शक्या राजन्वानरपुंगवाः। विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः॥ नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते। सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः॥ प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्विचारिते। बलादृहीतो रक्षोभिर्बहुधास्मि विचारितः॥ जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्। परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः॥ परिणीय च सर्वत्र नीतोऽहं रामसंसदि। रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः॥ हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः। राघवेण परित्रातो मामेति च यदृच्छया॥ एष शैलशिलाभिस्तु पूरयित्वा महार्णवम्। द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः।।११ गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः। मां विसृज्य महातेजा लङ्कामेवातिवर्तते॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु। सीतां वापि प्रयच्छाशु युद्धं वापि प्रदीयताम्॥ मनसा तत्तदा प्रेक्ष्य तच्छुत्वा राक्षसाधिपः। शार्दूलं सुमहद्वाक्यमथोवाच स रावणः॥ यदि मां प्रतियुद्ध्यन्ते देवगन्धर्वदानवाः। नैव सीता प्रदास्यामि सर्वलोकभयादपि॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्। चरिता भवता सेना केऽत्र शूराः प्लवंगमाः॥ किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि सुव्रत॥ तथात्र प्रतिपत्स्यापि ज्ञात्वा तेषां बलाबलम्। अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता।।१८ अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावणसंनिधौ॥ अथर्भरजसः पुत्रो युधि राजन्सुदुर्जयः। गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः॥ गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्॥ सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः॥ सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा॥ पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम्। अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः॥ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ॥ पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः॥ दश वानरकोट्यश्च शूराणां युद्धकाक्षिणाम्। श्रीमतां देवपुत्राणां शेष नाख्यातुमुत्सहे॥ पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन स्वरश्च त्रिशिरास्तथा॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः॥ वक्तुं न शक्तो रामस्य गुणान्कश्चिन्नरः क्षितौ। जनस्थानगता येन तावन्तो राक्षसा हताः॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ। वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवंगमः॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः॥ इति सर्वं समाख्यातं तथा वै वानरं बलम्। सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः॥ तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः। शिरोभिश्चरणो स्पृष्ट्वा कन्याशतमभाषत॥ वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति। अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते॥ पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः। पितरं नो वृणीष्व त्वं यदि नो दास्यते तव॥ तेन पापानुबन्धेन वचनं न प्रतीच्छता। एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्॥ तासां तु वचनं श्रुत्वा राजा परमधार्मिकः। प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्॥ क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्। ऐकमत्यमुपागम्य कुलं चावेक्षितं मम॥ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा। दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः॥ यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः। क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः। क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्। विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः॥ मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः। देशे काले च कर्तव्यं सदृशे प्रतिपादनम्॥ एतस्मिन्नेव काले तु चूली नाम महाद्युतिः। ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्॥ तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते। सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ सा च तं प्रणता भूत्वा शुश्रूषणपरायणा। उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः॥ स च तां कालयोगेन प्रोवाच रघुनन्दन। परितुष्टोऽस्मि भद्रं ते किं कमि तव प्रियम्॥ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्। उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्॥ लक्ष्म्या समुदितो ब्राह्मया ब्रह्मभूतो महातपाः। ब्राह्मण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्॥ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्। ब्राह्मणोपगतायाश्च दातुमर्हसि मे सुतम्॥ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्। ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्॥ स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा। काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्॥ स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः। ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा॥ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः। ददौ कन्याशतं राजा सुग्रीवेनान्तरात्मना ॥ यथाक्रमं तदा पाणिं जग्राह रघुनन्दन। ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः। युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा॥ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः। बभूव परमप्रीतो हर्षं लेभे पुनः पुनः॥ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्। सदारं प्रेषयामास सोपाध्यायगणं तदा॥ सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्। यथान्यायं च गन्धवीं स्नुषास्ताः प्रत्यनन्दत। स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च॥ सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्। यथान्यायं च गन्धवीं स्नुषास्ताः प्रत्यनन्दत। स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च॥ अथ तां रजनीं तत्र कृतार्थों रामलक्ष्मणौ। उषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना॥ प्रभातायां तु शर्वर्यां कृतपौर्वाह्निकक्रियौ। विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः॥ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्। ऊचतुः परमोदारं वाक्यं मधुरभाषिणौ॥ इमौ स्म मुनिशार्दूल किंकरौ समुपागतौ। आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम्॥ एवमुक्ते तयोर्वाक्ये सर्वं एक महर्षयः। विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्।५।। मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति। यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम्॥ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि। अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥ तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः। अप्रमेयबलं घोरं मखे परमभास्वरम्॥ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः। कर्तुमारोपणं शक्ता न कथंचन मानुषाः॥ धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः। न शेकुरारोपयितुं राजपुत्रा महाबलाः॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः। तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम्॥ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः। याचितं नरशार्दूल सुनाभं सर्वदैवतैः॥ आयागभूतं नृपतेस्तस्य वेश्मनि राघव। अर्चितं विविधैर्गन्धैधूपैश्चागुरुगन्धिभिः॥ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा। सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः॥ स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्। उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्॥ इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः। उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे॥ तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्। शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम्॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः। अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम्॥ निवर्तयामास ततः सर्षिसङ्घः स पक्षिणः। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे॥ वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः। तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः॥ विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः। रामोऽपि सहसौमित्रिर्मुनीस्तानभिपूज्य च॥ जग्रतो निषसादाथ विश्वामित्रस्य धीमतः। अथ रामो महातेजा विश्वामित्रं तपोधनम्॥ पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम्। भगवन् को न्वयं देशः समृद्धवनशोभितः॥ श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः। नोदितो रामवाक्येन कथयामास सुव्रतः। तस्य देशस्य निखिलमृषिमध्ये महातपाः॥ तदप्रियममित्रघ्नो वचनं मरणोपमम्। श्रुत्वा न विव्यथे रामः कैकेयी चेदमब्रवीत्।।। एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः। जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः। नाभिनन्दति दुर्धर्षो यथापूर्वभरिंदमः॥ मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यााहं प्रियम्॥ अलीकं मानसं त्वेकं हृदयं दहते मम। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरताय प्रचोदितः॥ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्॥ तथाश्वासय ह्रीमन्तं किंत्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात्॥ दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश॥ सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्॥ यास्यन्ति दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादिहावर्तयुतं नराः॥ एवं भवतु तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्। राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते। नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्॥ यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्। पिता तावन्नते राम स्नास्यते भोक्ष्यतेऽपि वा॥ धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः। मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते॥ रामोऽप्युत्थाप्प राजानं कैकेय्याभिप्रचोदितः। कशयेव हतो वाजी वनं गन्तुं कृतत्वरः॥ तदप्रियमनाया वचनं दारुणोदयम्। श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ यत् तत्र भवतः किंचिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत्॥ न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्। यथा पितरि शुश्रूषा तस्य वा वचनक्रिया॥ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश॥ न न्यूनं मयि कैकेयि किंचिदाशंससे गुणान् । यद् राजानमवोचस्त्वं ममेश्वरतरा सती ॥ यावन्मातरमापृच्छे सीतां जानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्॥ भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्मः सनातनः॥ रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता। शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्॥ वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा। कैकेय्याश्चाप्यना या निष्पपात महाद्युतिः॥ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहज्जनम्॥ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्॥ न चास्य महतीं लक्ष्मी राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः॥ न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया॥ प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्॥ धारयन् मनसा दु:खमिन्द्रियाणि निगृह्य च। प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्॥ सर्वोऽप्यभिजनः श्रीमाञ्श्रीमतः सत्यवादिनः। नालक्षयत रामस्य कंचिदाकारमानने॥ उचितं च महाबाहुर्न जहौ हर्षमात्मवान्। शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्॥ वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्। मातुः समीपं धर्मात्मा प्रविवेश महायशाः॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः। सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्॥ प्रविश्य वेश्मातिभृशं मुदा युतं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया॥ खरं तु विरथं रामो गदापाणिमवस्थितम्। मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ गजाश्वरथसम्बाधे बले महति तिष्ठता। कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम्॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्। त्रयाणामपि लोकानामीश्वरोऽपि स तिष्ठति ॥ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर। तीक्ष्णं सर्वजनो हन्ति सष दुष्टमिवागतम्॥ लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते। हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव॥ वसतो दण्डकारण्ये तापसान् धर्मचारिणः। किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस॥ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः। ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः।७।। अवश्यं लभते कर्ता फलं पापस्य कर्मणः। घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ न चिरात् प्राप्यते लोके पापानां कर्मणां फलम्। सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्। अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥ अद्य भित्वा मया मुक्ताः शराः काञ्चनभूषणाः। विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः॥ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः। तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः। निरयस्थं विमानस्था ये त्वया निहताः पुरा॥ प्रहरस्व यथाकामं कुरु यत्नं कुलाधम। अद्य ते पातयिष्यामि शिरस्तालफलं यथा॥ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः। प्रत्युवाच ततो रामं प्रहसन् क्रोधमूच्छितः॥ प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज। आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किंचित् तेजसा चातिगर्विताः॥ प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ कुलं वपदिशन् वीरः समरे कोऽभिधास्यति। मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्॥ सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्। सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्। धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्॥ पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव। त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्। अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत्॥ चतुर्दश सहस्राणि राक्षसानां हतानि ते। त्वद्विनाशात् करोम्यद्य तेषामथुप्रमार्जनम्॥ इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम्। खरश्चिक्षेप रामाय प्रदीप्तामशनि यथा ॥ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा। भस्मवृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः॥ तामापतन्ती महती मृत्युपाशोपमां गदाम्। अन्तरिक्षगती रामश्चिच्छेद बहुधा शरैः॥ सा विशीर्णा शरैर्भिन्ना पपात धरणीतले। गदा मन्त्रौषधिबलैालीव विनिपातिता॥ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः। बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ ततस्त्रिविनतं चापमादायात्मविभूषणम्। आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः॥ तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै। बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्॥ बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः। तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः॥ अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने। अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन॥ शङ्कितं तु समुद्मास्तमुत्पतन्तमिवाम्बरम्। दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ छिन्नाभैरिव संवीतं शारदं चन्द्रमण्डलम्। मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते॥ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्। स दूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः। अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाबले॥ स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत॥ ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्॥ पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः। दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ भूयस्तु शरमुद्धत्य कुपितस्तत्र राघवः। सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम् ॥ संधाय सुदृढे चापे विकृष्य बलवदबली। तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्॥ मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्। शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः॥ मारीचस्यैव हृदयं बिभेदाशनिसंनिभः। तालमीत्रमथोत्प्लुत्य न्यपतत् स भृशातुरः॥ व्यनदद् भैरवं नादं धरण्यामल्पजीवितः। म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम्॥ स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्। इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्॥ स प्राप्तकालमाज्ञाय चकार च ततः स्वनम्। सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥ तेन मर्मणि निर्विद्धं शरेणानुपमेन हि। मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः॥ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्। तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्॥ रामो रुधिरसिक्ताङ्ग चेष्टमानं महीतले। जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु। तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम्। ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरूहः॥ तत्र रामं भयं तीव्रमाविवेश विषादजम्। राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्॥ निहत्य पृषतं चान्यं मांसमादाय राघवः। त्वरमाणो जनस्थानं ससाराभिसुखं तदा॥ तां तु पार्श्वे स्थितां प्रह्वां रामः संमेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे॥ एषासि निर्जिता भद्रे शत्रु जित्वा रणाजिरे। पौरुषात् यदनुष्ठेयं मयैतदुपपादितम्॥ गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता। अवमानश्च शत्रुश्च युगपत्रिहतौ मया॥ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसंपादितो दोषो मानुषेण मया जितः॥ संप्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः॥ लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्। सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः॥ युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तया। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः॥ विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः।।।। इत्येवं वदतः श्रुत्वा सीता रामस्य तद्वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद्राज्ञो बभूव हृदयं द्विधा ॥ सीतामुत्पलपत्राक्षी नीलकुञ्चितमूर्धजाम्। अवदद्वै वरारोहां मध्ये वानररक्षसाम्॥ यत्कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत्कृतं रावणं हत्वा मयेदं मानकाङ्क्षिणा॥ निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥ रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता॥ प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा ॥ तद्गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात्सुहृल्लोभेन चेतसा ॥ रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्॥ यदर्थ निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति ॥ तदद्य व्याहृतं भद्रे मयैतत्कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्॥ शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना॥ नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयत्यचिरं सीते स्वगृहे पर्यवस्थिताम्॥ ततः प्रियाहश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी॥ तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः। कथयित्वा नरश्रेष्ठः कथाशेष प्रचक्रमे॥ ततो हते महावीर्ये वृत्रे देवभयंकरे। ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा॥ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः। कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः॥ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्। भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना॥ निःस्रोतसस्ते सर्वे तु हृदाश्च सरितस्तथा। संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत्॥ क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तनसः सुराः। यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्॥ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः। तं देशं समुपाजग्मुर्यवेन्द्रो भयमोहितः॥ ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया। तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे॥ ततोऽश्वमेधः सुहान्महेन्द्रस्य महात्मनः। ववृते ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः। अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ॥ ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः। चतुर्धा विभजात्मानमात्मनैव दुरासदे॥ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्। संदधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै। चतुरो वार्षिकान्मासान्दर्पघ्नी कामचारिणी॥ भूम्यामहं सर्वकालमेकेनांशेन सर्वदा। वसिष्यामि न संदेहः सत्येनैतद्ब्रवीमि वः॥ । योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु। त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी॥ हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान्। तांश्चतुर्थेन भागेन संश्रयिष्ये सरुर्षभाः॥ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे। तथा भवतु तत्सर्वं साधयस्व यदीप्सितम्॥ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे। विज्वरः पूतपाप्मा च वासवः समपद्यत ॥ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते। यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत्॥ ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन। यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा। परितोषमवाप हृष्टचेताः स निशम्येन्द्रसमानविक्रमौजाः।। प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः। गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्॥ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि। अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव॥ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः। संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः॥ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च। प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्॥ लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभको। दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ॥ पद्मनाभमहानाभौ दुन्दुनाभस्वनाभको। ज्योतिष शकुनं चैव नैरास्यविमलावुभौ ॥ यौगंधरविनिद्रौ च दैत्यप्रमथनौ तथा। शुचिबाहुर्महाबाहुनिष्कलिविरुचस्तथा। सार्चिमाली धृतिमाली वृत्तिमान् रुचिरस्तथा॥ पित्र्यः सौमनसश्चैव विधूतमकरावुभौ। परवीरं रतिं चैव धनधान्यौ च राघव॥ कामरूपं कामरुचिं मोहमावरणं तथा। जृम्भकं सर्पनाथं च पन्थानवरुणौ तथा॥ कृशाश्वतनयान् राम भास्वरान् कामरूपिणः। प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव॥ बाढमित्येव काकुत्स्थः प्रहष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः॥ केचिदङ्गारसदृशाः केचित् धूमोपमास्तथा। चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा॥ रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः। इमे स्म नरशार्दूल शाधि किं करवाम ते॥ गम्यतामिति तानाह यथेयं रघुनन्दनः। मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥ अथ ते रामामन्त्र्य कृत्वा चापि प्रदक्षिणम्। एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्॥ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्। गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्॥ किमेतन्मेघसंकाशं पर्वतस्याविदूरतः। वृक्षखण्डमितो भाति परं कौतूहलं हि मे॥ दर्शनीयं मृगाकीर्णं मनोहरमतीव च। नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम्॥ निःसृताः स्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात्। अनया त्ववगच्छामि देशस्य सुखवत्तया॥ सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्। सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः॥ तव यज्ञस्य विघ्नाय दुरात्मानो महामुने। भगवंस्तस्य को देश: सा यत्र तव याज्ञिकी॥ रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः। एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो॥ विसृज्य तु सुहृद्वर्ग बुद्ध्या निश्चित्य राघवः। समीपे द्वा:स्थमासीनमिदं वचनमब्रवीत्॥ शीघ्रमानय सौमित्रि लक्ष्मणं शुभलक्षणम्। भरतं च महाभागं शत्रुघ्नमपराजितम्॥ रामस्य वचनं श्रुत्वा द्वा:स्थो मूर्ध्नि कृताञ्जलिः। लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः॥ उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः। द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्॥ बाढमित्येव सौमित्रिः कृत्वा राघवशासनम्। प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्॥ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वा:स्थो भरतमन्तिकात्। उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः॥ विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति। भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्॥ उत्पपातासनात्तूर्णं पद्भ्यामेव महाबलः। दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः॥ शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह। एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति॥ गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः। श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात्॥ शिरसा वन्द्य धरणी प्रययौ यत्र राघवः। द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः॥ निवेदयामास तथा भ्रातृन्स्वान्समुपस्थितान्। कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः॥ अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत्। प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः॥ एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम। आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः॥ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः। ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा॥ संध्यागतमिवादित्यं प्रभया परिवर्जितम्। वाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः। हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते॥ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः। तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत्॥ तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः। आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह॥ भवन्तो मम सर्वस्वं भवन्तो जीवितं मम। भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः॥ भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः। संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः॥ तथा वदति काकुत्स्थे अवधानपरायणाः। उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति॥ रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ उत्थाय च यथाकालं राघवः सह सीतया। उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना॥ अथ तेऽग्नि सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥ उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः। सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥ सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥ अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥ अविषह्यातपो यावत् सूर्यो नातिविराजते। अमार्गेणागतां लक्ष्मी प्राप्येवान्वयवर्जितः॥ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिः सीतया सह राघवः॥ तौ सोस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः। गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह। सीतया चानया सार्धं छाययेवानुवृत्तया॥ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्॥ सुप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च॥ फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च॥ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे॥ ततः शुभतरे तूणी धनुषी चायतेक्षणाः। ददौ सीता तयोर्धात्रोः खङ्गौ च विमलौ ततः॥ आबध्य च शुभे तूणी चापे चादाय सस्वने। निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ॥ शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा। प्रस्थितौ धृतचापासी सीतया सह राघवौ॥ शृणु राजन्महासत्व यदर्थमहमागतः। पितामहेन देवेन प्रेषितोऽस्मि महाबल॥ तवाहं पूर्वके भावे पुत्रः परपुरंजय। मायासंभावितो वीर काल: सर्वसमाहरः॥ पितामहश्च भगवानाह लोकपतिः प्रभुः। समयस्ते कृतः सौम्य लोकान्संपरिरक्षितुम्॥ सक्षिप्य हि पुरा लोकान्मायया स्वयमेव हि। महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः॥ भोगवन्तं ततो नागमनन्तमुदकेशयम्। मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ॥ मधुं च कैटभं चैव ययोरस्थिचयैर्वता। इयं पर्वतसंबाधा मेदिनी चाभवत्तदा॥ पद्म दिव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि। प्राजापत्यं त्वया कर्म मयि सर्व निवेशितम्॥ सोऽहं संन्यस्तभारो हि त्वामुपास्य जगत्पतिम्। रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्।।।। ततस्त्वमसि दुर्धर्षात्तस्माद्भावात्सनातनात्। रक्षां विधास्यन्भूतानां विष्णुत्वमुफ्जग्मिवान्॥ अदित्यां वीर्यवान्पुत्रो भ्रातॄणां वीर्यवर्धनः। समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे॥ स त्वमुज्जास्यमानासु प्रजासु जगतोवर। रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः॥ दशवर्षसहस्राणि दशवर्षशतानि च। कृत्वा वासस्य नियमं स्वयमेवात्मना पुरा॥ स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह। कालो नरवरश्रेष्ठ समीपमुपवर्तितुम्॥ यदि भूयो महाराज प्रजा इच्छस्युपासितुम्। वस वा वीर भद्रं ते एवमाह पितामहः॥ अथ वा विजिगीषा ते सुरलोकाय राघव। सनाथा विष्णुना देवा भवन्तु विगतज्वराः॥ श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्। राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्॥ श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम्। प्रीतिर्हि महती जाता तवागमनसंभवा॥ त्रयाणामपि लोकानां कार्यार्थ मम संभवः। भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः॥ हृद्गतो ह्यसि संप्राप्तो न मे तत्र विचारणा। मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्। स्थातव्यं सर्वसंहार यथा ह्याह पितामहः॥ तांस्तु ते संप्रवक्ष्यामि प्रेक्षमाणस्य यूथपान । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्॥ स्निग्धा यस्य बहुव्यामा दीर्घलांगूलमाश्रिताः। ताम्राः पीताः श्वेताः प्रकीर्णा घोरकर्मणः॥ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः। पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः॥ यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः। वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः॥ यूथपा हरिराजस्य किंकराः समुपस्थिताः। नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान्। असंख्येयाननिर्देश्यान्परं पारमिवोदधेः॥ पर्वतेषु च ये केचिद्विषयेषु नदीषु च। एते त्वामभिवर्तन्ते राजनृक्षाः सुदारुणाः॥ एषां मध्ये स्थितो राजा भीमाक्षो भीमदर्शनः। पर्जन्य इव जीमूतैः समन्तात्परिवारितः॥ ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्। सर्वाणामधिपतिधूम्रो नामैष यूथपः॥ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्। भ्रात्रा समानो रूपेण विशिष्टश्च पराक्रमे॥ स एष जाम्बवानाम महायूथपयूथपः। प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः॥ एतेन साह्यं तु महत्त्कृतं शक्रस्य धीमता। देवासुरे जाम्बवता लब्धाश्च बहवो वराः॥ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः। मुश्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च॥ राक्षसानां च सदृशाः पिशाचानां च रोमशाः। एतस्य सैन्या बहवो विचरन्त्यमितौजसः॥ य एनमभिसंरब्धं प्लवमानमवस्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्॥ एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः। बलेन बलसंयुक्तो रम्भो नामैष यूथपः॥ यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते। ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्॥ यस्मात्तु परमं रूपं चतुष्पात्सु न विद्यते। श्रुतः संनादनो नाम वानराणां पितामहः॥ येन युद्धं तदा दत्तं रणे शक्रस्य धीमता। पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः॥ यस्य विक्रममाणस्य शक्रस्येव पराक्रमः। एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना॥ तदा देवासुरे युद्धे साह्याथ त्रिदिवौकसाम्। यत्र वैश्रवणो राजा जम्बूमुपनिषेवते॥ यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्। विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप॥ तत्रैष रमते श्रीमान्बलवान्वानरोत्तमः। युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः॥ वृतः कोटिसहस्रेण हरीणां समवस्थितः। एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम्॥ यो गङ्गामनुपर्येति त्रासयन्गजयूथपान्। हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्॥ एष यूथपतिर्नेता गर्जनिगरिगुहाशयः। गजान्रोधयते वन्यानारुजंश्च महीरुहान्॥ हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु। उशीरबीजमाश्रित्य मन्दरं पर्वतोत्तमम्॥ रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्। एनं शतसहस्राणां सहस्रमभिवर्तते।२८।। वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्। स एष नेता चैतेषां वानराणां महात्मनाम्।२९।। स एष दुर्धरो राजन्प्रमाथी नाम यूथपः। वातेनेवोद्धतं मेघं यमेनमनुपश्यसि॥ अनीकमपि संरब्धं वानराणां तरस्विनाम्। उद्भूतमरुणाभासं पवनेन समन्ततः॥ विवर्तमानं बहुशो य तद्बहुलं रजः। एते सितमुखा घोरा गोलाङ्गला महाबलाः॥ शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्। गोलाङ्गुलं महाराज गवाक्षं नाम यूथपम्॥ परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा। भ्रमराचरिता यत्र सर्वकालफलद्रुमाः॥ यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्। यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः॥ यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः। सर्वकामफला वृक्षाः सर्वे फलसमन्विताः॥ मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे। तत्रैष रमते राजनम्ये काञ्चनपर्वते॥ मुख्यो वानरमुख्यानां केसरी नाम यूथपः। षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः॥ तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्। तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः॥ निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः। सिंहा इव चतुर्दष्ट्रा व्याघ्रा इव दुरासदाः॥ सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः। सुदीर्घाञ्चितलाफूला मत्तमातंगसंनिभाः॥ महापर्वतसंकाशा महाजीमूतनिःस्वनाः। वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः।॥ मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते। एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्॥ जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्। नाम्ना पृथिव्यां विख्यातो राजशतबलीति यः॥ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। विक्रान्तो बलराञ्छूरः पौरुषे स्वे व्यवस्थितः।।४५ रामप्रियार्थं प्राणानां दयां न कुरुते हरिः। गजो गवाक्षो गवयो नलो नीलश्च वानरः॥ एकैकमेव योधानां कोटिभिर्दशभिर्वृतः। तथान्ये व. रश्रेष्ठा विन्ध्यपर्वतवासिनः। न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः॥ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः। सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ जनस्थानस्थिता राजन् राक्षसा बहवो हताः! खरश्च निहतः संख्ये कथंचिदहमागतः॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव तेजसा॥ केन भीमं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गति नाधिगमिष्यति॥ स हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना ॥ कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्यु मरणधर्मेण संयोजयितुमुत्सहे॥ वातस्य तरसा वेगं निहन्तुमपि चोत्सहे। दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ॥ तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात् संदिग्धया वाचा रावणं याचतेऽभयम्॥ दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः॥ पुत्रो दशरथस्यास्ते सिंहसंहननो युवा। रामो नाम महास्कन्धो वृत्तायतमहाभुजः॥ श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः। हतस्तेन जनस्थाने खरश्च सहदूषणः॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः। आचचक्षे बलं तस्य विक्रमं च महात्मनः॥ रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्। दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि ॥ तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः। कनीयाँलक्ष्मणो भ्राता राकाशशिनिभाननः॥ स तेन सह संयुक्तः पावकेनानिलो यथा। श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ नैव देवा महात्मानो नात्र कार्या विचारणा। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः॥ सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्। येन येन च गच्छन्ति राक्षसा भयकर्षिताः॥ तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्। इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम्॥ अथैवमुक्ते वचने प्रोवाचेदमकम्पनः। शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्॥ असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः॥ सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौरामस्तु सीदन्ती श्रीमानभ्युद्धरेन्महीम्॥ भित्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः। वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ संहत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः॥ नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया। रक्षसां वापि लोकेन स्वर्ग: पापजनैरिव ॥ न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि। अयं तस्य वधोपायस्तन्ममैकमनाः शृणु॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी। तुल्या सीमन्तिनी तस्य मानुषी तु कुतो भवेत्॥ तस्यापहर भार्यां त्वं तं प्रमथ्य महावने। सीतया रहितो रामो न चैव हि भविष्यति ॥ अरोचयत तद्वाक्यं रावणो राक्षसाधिपः। चिन्तयित्वा महाबाहुरकम्पनमुवाच ह॥ बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह। आनेष्यामि च वेदेहीमिमां दृष्टो महापुरीम्॥ तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः। रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्॥ स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव॥ स दूरे चाश्रमं गत्वा ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ कच्चित् सुकुशलं राजैल्लोकानां राक्षसाधिप। आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः॥ एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा। जनस्थानमवध्यं तत् सर्वं युधि निपातितम्॥ तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। राक्षसेन्द्रवचः : श्रुत्वा मारीचो वाक्यमब्रवीत्॥ आख्याता केन वा सीता मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः॥ सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्ग छेत्तुमिच्छति॥ प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम्। आशीविषमुखात् दंष्ट्रमुद्धर्तुं चेच्छति त्वया॥ कर्मणानेन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि॥ तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती॥ असौ रणान्तः स्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः॥ चापापहारे भुजवेगपके शरोमिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्।। । प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरी लङ्कां विवेश च गृहोत्तमम्॥ अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत॥ स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च। ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः।। पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम्॥ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्। ददर्श नगरी राजा पताकाध्वजमालिनीम्॥ रुद्धां तु नगरी दृष्ट्वा रावणो राक्षसेश्वरः। उवाचात्महितं काले प्रहस्तं युद्धकोविदम्॥ पुरस्योपनिविष्टस्य सहसा पीडितस्य ह। नान्ययुद्धात्प्रपश्यामि मोक्षं युद्धविशारदाः॥ अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्यम। इन्द्रजिद्धा निकुम्भो वा वहेयुर्भारमीदृशम्॥ सत्त्वं बलमतः शीघ्रमादाय परिगृह्य च। विजयायाभिनियहि यत्र सर्वे वनौकसः॥ निर्याणादेव तूर्णं च चलिता हरिवाहिनी। नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति॥ चपला ह्यविनाताश्च चलचित्ताश्च वानराः। न सहिष्यन्ति ते नादं सिंहनादमिव द्विषा:॥ विद्वते च बले तस्मिन्रामः सौमित्रिणा सह। अवशस्तु निरालम्बः प्रहस्तवशमेष्यति॥ आपत्संशयिता श्रेयो नात्र निःसंशयीकृता। प्रतिलोमानुलोमं वा यत्तु नो मन्यसे हितम्॥ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः। राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना॥ राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः। विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्॥ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया। अप्रदाने पुनयुद्धं दृष्टमेव तथैव नः॥ सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया। सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव॥ नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च। त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि॥ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः। उवाचेदं बलाध्यक्षान्प्रहस्तः पुरतः स्थितान्॥ समानयत मे शीघ्रं राक्षसानां महाबलम्। मद्बाणानां तु वेगेन हतानां तु रणाजिरे॥ अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसः। तस्य तद्वचनं श्रुत्वा बलाध्यक्षा महाबलाः॥ बलमुद्योजयामासुस्तस्मिनाक्षसमन्दिरे। सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः॥ लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला। हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्॥ आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ। सजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः॥ संग्रामसज्जाः संहृष्टा धारयनराक्षसास्तदा। सधनुष्काः कवचिनो वेगादुत्सृज्य राक्षसाः॥ रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्। अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम्।।२४ आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्। हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम्॥ महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्। उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्॥ सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया। ततस्तं रथमास्थाय रावणार्पितशासनः॥ लङ्काया निर्ययौ तूर्णं बलेन महता वृतः। ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः।। वादित्राणां न निनदः पूरयन्निव मेदिनीम्॥ शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्तः स्वरान्घोराराक्षसा जग्मुरग्रतः॥ भीमरूपा महाकायः प्रहस्तस्य पुनःसराः। नरान्तकः कुम्भहनुर्महानादः समुन्नतः।। प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्॥ व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ। गजयूथनिकाशेन बलेन महता वृतः॥ सागरप्रतिमौधेन वृतस्तेन बलेन सः। प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः॥ तस्य निर्याणघोषेण राक्षसानां च नर्दताम्। लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः॥ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः। मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति॥ वमन्ति पावकज्वालाः शिवा घोरा ववाविशे। अन्तरिक्षात्पपातोल्का वायुश्च परुषं ववौ॥ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे। मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः॥ ववधू रुधिरं चास्य सिषिचुश्च पुरःसरान्। केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः॥ नदन्नुभयतः पार्श्व समयां श्रियमाहरन्। सारथेर्बहुशश्चात्र संग्राममानिवर्तिनः॥ प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः। निर्याणश्रीश्च या चस्याद्भास्वरा च सुदुर्लभा॥ सा ननाश मुहूर्तेन समे च स्खलिता हयाः। प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्।। युधि नानाप्रहरणा कपिसेनाभ्यवर्तत॥ अथ घोषः सुतुमुलो हरीणां समजायत। वृक्षानारुजतां चैव गुर्वी गृह्णतां शिलाः॥ नदतां राक्षसानां च वानराणां च गर्जताम्। उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्।॥ वेगितानां समर्थानामन्योन्यवधकाक्षिणाम्। परस्परं चाह्वयतां निनादः श्रूयते महान्॥ ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः। विवृद्धवेगश्च विवेशितां चमूं यथा मुमूर्षुः शलभो विभावसुम्॥ प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः। प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्॥ ततः कतिपयाहःसु वृद्धो जानपदो द्विजः। मृतं बालमुपादाय राजद्वारमुपागमत्॥ किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम्। रुदन्बहुविधा वाचः स्नेहदुःखसमन्वितः। असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह॥ किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम्। यदहं पुत्रमेकं तु पश्यामि निधनं गतम्॥ अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम्। अकाले कालमापन्नं मम दुःखाय पुत्रक॥ अल्पैरहोभिनिधनं गमिष्यामि न संशयः। अहं च जननी चैव तव शोकेन पुत्रक॥ न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्। सर्वेषां प्राणिनां पापं न स्मरामि कदाचन।७।। केनाद्य दुष्कृतेनायं बाल एव ममात्मजः। अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्॥ नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्। मृत्युरप्राप्तकालानां रामस्य विषये ह्ययम्॥ रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः। यथा हि विषयस्थानां बालानां मृत्युरागतः॥ नह्यन्यविषयस्थानां बालानां मृत्युतो भयम्। स राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्॥ राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत्। ब्रह्महत्यां ततो राम समुपेत्य सुखी भव॥ भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि। उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल॥ इदं तु पतितं तस्मात्तव राम वशे स्थितान्। कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम्॥ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्। राम नाथमिहासाद्य बालान्तकरणं ध्रुवम्॥ राजदोषैविपद्यन्ते प्रजा ह्यविधिपालिताः। असद्धृत्ते हि नृपतावकाले म्रियते जनः॥ यद्वा पुरेष्वयुक्तानि जना जनपदेषु च। कुर्वते न च रक्षास्ति तदा कालकृतं भयम्॥ सुव्यक्तं राजदोषो हि भविष्यति न संशयः। पुरे जनपदे चापि तथा बालवधो ह्ययम्॥ एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः। राजानं दुःखसंतप्तः सुतं तमुपगृहति॥ तामेवं ब्रुवतीं तारा ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः। मर्षयिष्यामि केनापि कारणेन वरानने॥ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्प चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ शापितासि मम प्राणैर्निवर्तस्व जनेन च। अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्। नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ स निःश्वस्य महारोषो वाली परमवेगवान्। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाझ्या॥ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम्। गाढं परिदधे वासो वाली परमकोपनः॥ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धं कृतक्षणः॥ श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ तं कली क्रोधताम्राक्षं सुग्रीवं रणकोविदम्। आपतन्तं महावेगमिदं वचनमब्रवीत्॥ एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः। मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्। तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः। अभवच्छोणितोद्गारी सापीड इव पर्वतः॥ सुग्रीवेण तु निःशक़ सालमुत्पाट्य तेजसा। गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ स तु वृक्षण निर्भग्नः सालताडनविह्वलः। गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ। प्रयुद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ। ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयतः। वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ वालिनं प्रति सामर्षो दर्शयामास राघवम्। वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभै खैः॥ मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ। मेघाविव महाशब्देस्त मानौ परस्परम्॥ हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम्। प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ततो रामो महातेजा आतं दृष्ट्वा हरीश्वरम्। स शरं वीक्षते वीरो वालिनो वधकाझ्या॥ ततो धनुषि संधाय शरमाशीविषोपमम्। पूरयामास तच्चापं कालचक्रमिवान्तकः॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः। प्रदुद्रुवुर्मंगाश्चैव युगान्त इव मोहिताः॥ मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः। राघवेण महाबाणो वालिवक्षसि पातितः॥ ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः। वेगेनाभिहतो वाली निपपात महीतले॥ इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले। आश्वयुक्समये मासि गतसत्वो विचेतनः। वाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूपभाषितम्। ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ अथोक्षितः शोणिततोयविस्त्रवैः सुपुष्पिताशोक इवाचलोद्गतः। विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ तस्यामात्या गुणैरासत्रिक्ष्वाकोः सुमहात्मनः। मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः॥ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः। शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः। अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्॥ ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ। वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे॥ सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः। मार्कण्डेयस्तु दीर्घायुस्तथा का.यायनो द्विजः॥ एतैर्ब्रह्मर्षिभिनित्यमृत्विजस्तस्य पौर्वकाः। विद्याविनीता हीमन्तः कुशला नियतेन्द्रियाः॥ श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः। कीर्तिमन्तः प्रगिहिता यथावचनकारिणः।७।। तेजः क्षमायशः प्राप्ताः स्मितपूर्वाभिभाषिणः। क्रोधात् कामार्थहेतोर्वा न ब्रुयुरनृतं वचः।८।। तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा। क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्॥ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः। प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि॥ कोशसंग्रहणे युक्ता बलस्य च परिग्रहे। अहितं चापि पुरुषं न हिंस्युरविदूषकम्॥ वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्॥ ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्। सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्॥ शुचीनामेकबुद्धीनां सर्वेषां सम्पजानताम्। नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्॥ क्वचिन्न दुष्टस्तत्रासीत् परटाररतिर्नरः। प्रशान्तं सर्वमेवासीद् राष्ट्र पुरवरं च तत्॥ सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः। हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा॥ गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः। विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः॥ अभितो गुणवन्तश्च न चासन् गुणवर्जिताः। संधिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः॥ मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु। नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः॥ ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः। उपपन्नो गुणोपेतैरन्वशासत् वसुन्धराम्॥ अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन्। प्रजानां पालनं कुर्वनधर्म परिवर्जयन्॥ विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः। स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्॥ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः। मित्रवानतसामन्तः प्रतापहतकण्टकः। स शशास जगत् राजा दिवि देवपतिर्यथा॥ तैर्मन्त्रिभिर्मन्त्रिहितोनिविष्ठैर्वुतोऽनुरक्तैः कुशलैः समर्थैः। स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः॥ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्। ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः। पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः॥ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः। ससाद सहसा तोत्रैर्हदि विद्ध इव द्विपः॥ भरतं मूर्च्छितं दृष्ट्वा विवर्णवदनो गुहः। बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः॥ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः। परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना भर्तृव्यसनकर्शिताः॥ ताश्च तं पतितं भूमौ रुदत्यः पर्यवारयन्। कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे॥ वत्सला स्वं यथा वत्समुपगुह्य तपस्विनी। परिपप्रच्छ भरतं रुदती शोकलालसा॥ पुत्र व्याधिर्न ते कच्चिच्छरीरं प्रति बाधते। अस्य राजकुलस्याद्य त्वदधीनं हि जीवितम्॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते। वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥ कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम्। पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते॥ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः। कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्॥ भ्राता मे क्वावसद् रात्रौ क्व सीता क्व च लक्ष्मणः। अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे॥ सोऽब्रवीद् भरतं हृष्टो निषादाधिपतिर्मुहः। यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥ अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च। रामायाभ्यवहारार्थं बहुशोऽपहतं मया॥ तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः। न हि तत् प्रत्यगह्नात् स क्षत्रधर्ममनुस्मरन्॥ नह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा। इति तेन वयं सर्वे अनुनीता महात्मना॥ लक्ष्मणेन यदानीतं पीतं वारि महात्मना। औपवास्यं तदकार्षीद् राघवः सह सीतया॥ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत् तदा। वाग्यतास्ते त्रयः संध्यां समुपासन्त संहिताः॥ सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्। स्वयमानीय बींषि क्षिप्रं राघवकारणात्॥ तस्मिन् समाविशद् रामः स्वास्तरे सहसीतया। प्रक्षाल्य च तयोः पादौ व्यपाक्रामत् सलक्ष्मणः॥ एतत् तदिगुदीमूलमिदमेव च तत् तृणम्। यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ शरैः सुपूर्णाविषुधी परंतपः। महद्धनुः सज्जमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम्॥ ततस्त्वहं चोत्तमबाणचापभृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः। महेन्द्रकल्पं परिपालयंस्तदा॥ श्रुत्वा सेनापति प्राप्तं भरतं केकयाधिपः। युधाजिद्गर्गसहितं परां प्रीतिमुपागमत्॥ स निर्ययौ जनौघेन महता केकयाधिपः। त्वरमाणोऽभिचक्राम गन्धर्वान्केकयाधिपः।२।। भरतश्च युधांजिच्च समेतौ लघुविक्रमैः। गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ॥ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः। योद्धकामा महावीर्या व्यनदस्ते समन्ततः॥ ततः समभवद्युद्धं तुमुलं लोमहर्षणम्। सप्तरात्रं महाभीमं न चान्यतरयोर्जयः॥ खङ्गशक्तिधनुाहा नद्यः शोणितसंस्रवाः। नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम्॥ ततो रामानुजः क्रुद्धः कालस्यास्र सुदारुणम्। संवत नाम भरतो गन्धर्वेष्वभ्यचोदयत्॥ ते बद्धाः कालपाशेन संवर्तेन विदारिताः। क्षणेनाभिहतास्तेन तिस्त्र: कोट्यो महात्मना॥ तयुद्धं तादृशं घोरं न स्मरन्ति दिवौकसः। निमेषान्तरमात्रेण तादृशानां महात्मनाम्।।। हतेषु तेषु सर्वेषु भरतः केकयीसुतः। निवेशयामास तदा समृद्ध द्वे पुरोत्तमे॥ तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते। गन्धर्वदेशे रुचिरे गान्धारविषये च सः॥ धमरत्नौघसंकीर्णे काननैरुपशोभिते। अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः॥ उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः। उद्यानयानसंपूर्णे सुविभक्तान्तरापणे॥ उभे पुरवरे रम्ये विस्तरैरुपशोभिते। गृहमुख्यैः सुरुचिरैर्विमानैर्बहुभिर्वृते॥ शोभिते शोभनीयैश्च देवायतनविस्तरैः। तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते॥ निवेश्य पञ्चभिर्वर्भरतो राघवानुजः। पुनरायान्महाबाहुरयोध्या केकयीसुतः॥ सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्। राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः॥ शशंस च यथावृवं गन्धर्ववधमुत्तमम्। निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः॥ विमानात् तु स संक्रम्य प्राकारं हरियूथपः। हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे॥ सम्परिक्रम्य हनुमानरावणस्य निवेशनान्। अदृष्ट्वा जानकी सीतामब्रवीद् वचनं कपिः॥ भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्। नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्॥ पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः॥ लोलिता वसुधा सर्वा न च पश्यामि जानकीम्। इह सम्पातिना सीता रावणस्य निवेशने। आख्याता गृध्रराजेन न च सा दृश्यते न किम्॥ किं तु सीताथ वैदेही मैथिली जनकात्मजा। उपतिष्ठेत विवशा रावणेन हृता बलात्॥ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः। बिभ्यतो रामबाणानामन्तरा पतिता भवेत्॥ अथवा ह्रियमाणायाः पथि सिद्धनिषेविते। मन्ये पतितमाया हृदयं प्रेक्ष्य सागरम्॥ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च। तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया॥ उपर्युपरि सा नूनं सागरं क्रमतस्तदा। विचेष्टमाना पतिता समुद्रे जनकात्मजा॥ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः। अबन्धुभक्षिता सीता रावणेन तपस्विनी॥ अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा। अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति॥ (सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्। रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता।। हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति।।) अथवा निहिता मन्ये रावणस्य निवेशने। भृशं लालप्यते बाला पञ्जरस्थेव सारिका॥ जनकस्य कुले जाता रामपत्नी सुमध्यमा। कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्॥ विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्॥ निवेद्यमाने दोषः स्याद् दोषः स्यादनिवेदने। कथं न खलु कर्तव्यं विषमं प्रतिभाति मे॥ अस्मिन्नेवंगते कार्ये प्राप्तकालं क्षमं च किम्। भवेदिति मतिं भूयो हनुमान् प्रविचारयन्॥ यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति॥ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति। प्रवेशश्चैव लङ्कायां राक्षसानां च दर्शनम्॥ किं वा वक्ष्यति सुग्रीवो हरयो वापि संगताः। किष्किन्धामनुसंप्राप्तं तौ वा दशरथात्मौ ॥ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः। न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्॥ परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम्। सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति॥ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्। भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः॥ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः॥ कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः। रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्॥ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी। पीडिता भर्तुशोकेन रुमा त्यक्ष्यति जीवितम्॥ वालिजेन तु दुःखेन पीडिता शोककर्शिता। पञ्चत्वमागता राज्ञी तारापि न भविष्यति ॥ मातापित्रोविनाशेन सुग्रीवव्यसनेन च। कुमारोऽप्यङ्गदस्तस्माद् विजहिष्यति जीवितम्॥ भर्तृजेन तु दुःखेन अभिभूता वनौकसः। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च॥ सान्त्वेनानुप्रदानेन मानेन च यशस्विना। लालिता: कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः॥ न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः॥ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च॥ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा। उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः॥ घोरमारोदनं मन्ये गते मयि भविष्यति। इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्॥ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः। नहि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिली विना॥ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ। आशया तौ धरिष्येते वानराश्च तरस्विनः॥ हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम्॥ सागरानूपजे देशे बहुमूलफलोदके। चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्॥ उपविष्टस्य वा सम्यग् लिङ्गिनं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च॥ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवक्ष्यामि न चेत्पश्यामि जानकीम्॥ सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्राय मम सीतामपश्यतः॥ तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्।।४३ यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्। अङ्गदः सहितः सर्वैर्वानरैर्न भविष्यति॥ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्। तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः॥ एवं बहुविधं दुःखं मनसा धारयन् बहु। नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः॥ ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव॥ इति चिन्तासमापन्नः सीतामनधिगम्य ताम्। ध्यानशोकपरीतात्मा चिन्तयामास वानरः॥ यावत् सीतां न पश्यामि रामपत्नी यशस्विनीम्। तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः॥ सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन् राघवो भार्यां निर्दहेत्सर्ववानरान्॥ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥ अशोकवनिका चापि महतीयं महादुमा। इमामधिगमिष्यामि नहीयं विचिता मया।५३ ।। वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥ जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्। सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने॥ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन् महाबाहुर्हनूमान् मारुतात्मजः॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः॥ स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य सोऽशोकवनिका प्रति॥ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः॥ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि विश्वात्मा नातिक्षोभं प्रवायति॥ स क्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च। सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह॥ ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्॥ वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च॥ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः॥ तदुनसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यवर्चसम्॥ क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्॥ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः। वृत्रघातमशेषेण कथयेत्याह सुव्रत॥ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः। भूय एव कथां दिव्यां कथयामास सुव्रतः॥ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्। विष्णुर्देवानुवाचेदं सवानिन्द्रपुरोगमान्॥ पूर्व सौहृदबद्धोऽस्मि वृत्रस्येह महात्मनः। तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम्॥ अवश्यं करणीयं च भवतां सुखमुत्तमम्। तस्मादुपायमाख्यास्ये सहस्राक्षो वधिष्यति॥ वेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः। तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः॥ एकांशो वासवं यातु द्वितीयो वज्रमेव तु। तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति॥ तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्।। एवमेतत्र संदेहो यथा वदसि दैत्यहन्॥ भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः। भजस्व परमोदार वासवं स्वेन तेजसा।।।। ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः। तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः॥ तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम्। पिबन्तमिव लोकास्त्रीनिर्दहन्तमिवाम्बरम्॥ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्। कथमेनं वधिष्यामः कथं न स्यात्पराजयः॥ तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः। वज्रं प्रगृह्य पाणिभ्यां प्राहिणोत्रमूर्धनि ॥ कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा। पतता वृत्रशिरसा जगत्त्रासमुपागमत्॥ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः। चिन्तयानो जगामाशु लोकस्यान्तं महायशाः॥ तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति। अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्॥ हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमा:। विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन्॥ त्वं गतिः परमेशान पूर्वजो जगतः पिता। रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्। बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश॥ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्। मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्॥ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः। पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः॥ एवं संदिश्य तां वाणी देवानां चामृतोपमाम्। जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्॥ ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम्। प्रययौ भरतः शीघ्रं रामदर्शनकाम्यया॥ अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोहिताः। अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान्॥ नवनागसहस्राणि कल्पितानि यथाविधिः। अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्॥ षष्टी रथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ शतं सहस्राण्यश्वानां समारूढानि राघवम्। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी। रामानयनसंतुष्टा ययुर्यानेन भास्वता॥ प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्। तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥ मेघश्याम महाबाहुं स्थिरसत्त्वं दृढव्रतम्। कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्॥ दृष्ट एव हि नः शोकमपनेष्यति राघवः। तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः॥ इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः। परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा॥ ये च तत्रापरे सर्वे सम्मता ये च नैगमाः। रामं प्रतिययुर्हृष्टाः सर्वाः प्रकृतयः शुभाः॥ मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः। सूत्रकर्मविशेषज्ञा ये च शस्त्रोफ्जीविनः॥ मायूरकाः क्राकचिका वेधका रोचकास्तथा। दन्तकाराः सुधाकारा ये च गन्धोपजीविनः॥ सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः। स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा॥ रजकास्तुत्रवायाश्च ग्रामघोषमहत्तराः। शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः। गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः॥ सुवेषाः शुद्धवसनास्ताम्रपृष्टानुलेपिनः। सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः॥ प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम्। भ्रातुरानयने यातं भरतं भ्रातृवत्सलम्॥ ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः। समासेदुस्ततो गङ्गां शृङ्गवेरपुरं प्रति॥ यत्र रामसखा वीरो गुहो ज्ञातिगणैर्वृतः। निवसत्यप्रमादेन देशं तं परिपालयन्॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम्। व्यवतिष्ठत सा सेना भरतस्यानुयायिनी॥ निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम्। भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः॥ निवेशयत् मे सैन्यमभिप्रायेण सर्वतः। विश्रान्ताः प्रतरिष्यामः श्व इमां सागरणमाम्॥ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्॥ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः। न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक् ॥ निवेश्य गङ्गामनु तां महानदी चमूं विधानैः परिबर्हशोभिनीम्। उवास रामस्य तदा महात्मो विचिन्तमानो भरतो निवर्तनम्॥ दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च। संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः। ते शूलैः पट्टिशैः खङ्गैः शिलावषैर्दुमैरपि॥ शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम्। ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम्। तत: सेनापतिः क्रुद्धौ दूषणः शत्रुदूषणः॥ शरैरशनिकल्पैस्तं राघवं समवारयत्। ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् । हत्वा चाश्वाशरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि। स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्। वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्॥ आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्। वज्राशनिसमस्पर्श परगोपुरदारणम्॥ तं महोरगसंकाशं प्रगृह्य परिघं रणे। दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः॥ तस्याभिपतमानस्य दूषणस्य च राघवः। द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि। परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥ कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥ दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे। साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥ एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः। संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः। महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥ स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्। दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः॥ तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव। महाकपालस्य शिरश्चिच्छेद रघुनन्दनः॥ असंख्येयैस्तु बाणौधैः प्रममाथ प्रमाथिनम्। स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः ॥ स पपात हतो भूमौ विटपीव महाद्रुमः। दूषणस्यानुगान् पञ्चसाहस्रान्कुपितः क्षणात्॥ हत्वा तु पञ्चसाहौरनयद् यमसादनम्। दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान् ॥ व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलाम्। अयं विनिहतः संख्ये दूषणः सपदानुगः॥ महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्। शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः।।२५ । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सास्यो रुधिराशनः॥ द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः। राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्॥ ततः पावकसंकाशैमवज्रविभूषितैः। जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥ ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः। निजध्नुस्तानि रक्षासिं वज्रा इव महाद्रुमान्॥ रक्षसां तु शतं रामः शतेनैकेन कर्णिना। सहस्रं तु सहस्रेण जघान रणमूर्धनी॥ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः। निपेतुः शोणितादिग्धा धरण्यां रजनीचराः॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ तत्क्षणै तु महाघोरं वनं निहतराक्षसम्। बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण मानुषेण पदातिनः॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः। राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥ शेषा हता महावीर्या राक्षसा रणमूर्धनी। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ततस्तु तद्भीमबलं महाहवे समीक्ष्य धर्मेण हतं बलीयसा। रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः॥ तस्यालयवरिष्ठस्य मध्ये विमलमायतम्। ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः॥ अर्धयोजनविस्तीर्णमायतं योजनं महत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनूमानरिसूदनः॥ उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः।५।। राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्या भरावृतम्॥ तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्॥ या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने। सा रावणगृहे रम्या नित्यमेवानपायिनी॥ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह॥ तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम्। बहुनिफूहसंयुक्तं ददर्श पवनात्मजः॥ ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥ परेण तपसा लेभे यत् कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः॥ ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया॥ मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्। कूटागारैः शुभागारैः सर्वतः समलंकृतम्॥ ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा। हेमसोपानयुक्तं च चारुप्रवरवेदिकम्॥ जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्॥ विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्॥ चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्॥ विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम्॥ दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं वन्धुर्बन्धुमिवोत्तमम्॥ इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालं ददर्श महतीं शिवाम्॥ रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्॥ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि॥ विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजूभिरत्युच्चैः समन्तात् सुविभूषितैः॥ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव। महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया॥ पृथिवीमिव विस्तीर्णां स राष्ट्रगृहशालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्॥ पराास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम्॥ पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्। मनसो मोदजननी वर्णस्यापि प्रसाधिनीम्॥ तां शोकनाशिनी दिव्यां श्रियः संजननीमिव। इन्द्रियाणीन्द्रियाथैस्तु पञ्चपञ्चभिरुत्तमैः॥ तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः॥ प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूतैर्देवनेन पराजितान्॥ दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिभिभूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेषविभूषितम्॥ परिवृत्तेऽर्धरात्रे तु पाननिद्रावसंगतम्। क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा॥ तत् प्रसुप्तं विरुरुचे नि:शब्दान्तरभूषितम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्॥ तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः। अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्॥ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनः संवृतपत्राणि रात्राविव बभुस्तदा॥ इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः॥ इति वामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः॥ सा तस्य शुशुभे शाला ताभिःस्त्रीभिर्विराजिता। शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता॥ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः। यथा झुडुपतिः श्रीमांस्ताराभिरिव संवृतः॥ याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः। इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा॥ ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्॥ व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः। पानव्यायामकालेषु निद्रोपहतचेतसः।॥ व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः। पार्वे गलितहाराश्च काश्चित् परमयोषितः॥ मुक्ताहारवृताश्चान्याः काश्चित् प्रसस्तवाससः। व्याविद्धरशनादामाः किशोर्य इव वाहिताः॥ अकुण्डलधराश्चान्या विच्छन्नमृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने॥ चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद्रताः। हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्॥ अपरासां च वैदूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्॥ हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः। आपगा इव ता रेजूर्जघनैः पुलिनैरिव ॥ किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः। भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः।५१।। मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः। बभूबुर्भूषणानीव शुभा भूषणराजयः॥. अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः॥ ताः पताका इवोद्धृताः पत्नीनां रुचिरप्रभाः। नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे॥ ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्। मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम्॥ शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः। तासां वदननि:श्वासः सिषेवे रावणं तदा॥ रावणाननशङ्काश्च काश्चिद् रावणयोषितः। मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः॥ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा॥ बाहू उपनिधायान्याः पारिहार्यविभूषिताः। अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे॥ अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम्। अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ॥ ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः। परस्परनिविष्टाङ्गयो मदस्नेहवशानुगाः॥ अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः सुमध्यमाः। एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः॥ अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्॥ प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद् वनमिवोद्धृतं स्त्रीवनं रावणस्य तत्॥ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्यमाधातुं भूषणाङ्गाम्बरस्रजाम्॥ रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव॥ राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः। रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः॥ युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः॥ न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वराहाँ जनकात्मजां तु।७०।। न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः॥ पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म॥ पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म॥ तथा तयोः संवदोर्दुर्वासा भगवानृषिः। रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्॥ सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः। रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिववर्तते॥ मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा। अभिवाद्य महात्मानं वाक्यमेतदुवाच ह॥ किं कार्य ब्रूहि भगवन्को ह्यर्थः किं करोम्यहम्। व्यग्रो हि राघवो ब्रह्मन्मुहूर्त परिपाल्यताम्॥ तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः। उवाच लक्ष्मणं वाक्यं निर्दहनिव चक्षुषा॥ अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय। विषयं त्वां पुरं चैव शपिष्ये राघवं तथा॥ भरतं चैव सौमित्रे युष्माकं या च संततिः। न हि शक्ष्याम्यहं भूयो मन्यु धारयितुं हृदि।७।। तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः। चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्॥ एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्। इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्॥ लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च। निःसृत्य त्वरितो राजा अत्रेः पुत्रं ददर्श ह॥ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा। किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः। प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल॥ अद्य वर्षसहस्रस्य समाप्तिर्मम राघव। सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः। भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्॥ स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्। साधु रामेति संभाष्य स्वमाश्रममुपागमत्॥ संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत्। दुःखेन च सुसंतप्तः स्मृत्वा तद्धोरदर्शनम्॥ अवाङ्मुखो दीनमना व्याहतुं न शशाक ह। ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः। नैतदस्तीति निश्चित्य तूष्णीमासीन्ग्रहायशाः॥ स ददर्शासने रामो विषण्णं पितरं शुभे। कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ तदपूर्वं नरपते दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ इन्द्रियैरप्रहष्टैस्तं शोकसंतापकर्शितम्। निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषि यथा॥ अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्। बभूव संरब्धतरः समुद्र इव पर्वणि।७।। चिन्तयामास चतुरो रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ स दीन इव शोका” विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्।॥ कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विषण्णवदनो दीनः नहि मां प्रति भाषते॥ शारीरो मानसो वापि कच्चिदेनं न बाधते। संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ कच्चिन किंचित् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातृणां वा ममाशुभम्॥ अतोषयन् महाराजमकुर्वन् वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः। कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ कच्चित्ते परुषं किंचिदभिमानात् पिता मम। उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ न राजा कुपितो राम व्यसनं नास्य किंचन। किंचिन्मनोगतं त्वस्य त्वद्भयात्रानुभाषते॥ प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ अतिसृज्य ददानीति वरं मम विशाम्पतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ धर्ममूलमिदं राम विदितं च सतामपि। तत् स्त्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्। करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवी नृपसंनिधौ॥ अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ तद् ब्रूहि वचनं देवि राज्ञो यदभिकाशितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्॥ पुरा देवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नर श्रेष्ठ मम वाक्यमिदं शृणु॥ संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ भरतश्चाभिषिच्येत यदेतदभिषेचनम्। त्वदर्थं विहितं राज्ञा तेन सर्वेण राघव॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव ॥ भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्। नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम्॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजां च पुत्रव्यसनाभितप्तः॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजां च पुत्रव्यसनाभितप्तः॥ संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्। अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः॥ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कमें किंस्वित्कृतमिदं मया॥ धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥ क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरुनपि। क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णा स पुरुष वै उच्यते॥ धिगस्तु मां सुदुर्बुद्धिं निर्लज्ज पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्॥ यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी। दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते॥ किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्॥ कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥ धिगस्तु राजसं भावमनीशमनवस्थितम् ईश्वरेणापि यद्रागान्मया सीता न रक्षिता॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् ॥ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥ नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥ त्रयाणां भरतादीनां भ्रातृणां देवता च या। रामस्य च मन:कान्ता सा कथं विनशिष्यति॥ यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः न मे दहति लाङ्गुलं कथमार्या प्रधक्ष्यति ॥ पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्नि न तामग्निः प्रधक्ष्यति ॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम् ॥ अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्नि विसृजता तीक्ष्णं भीमं राक्षससद्मनि ॥ प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः॥ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥ इति शुश्राव हनुमान्वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥ स निमित्तैश्च दृष्टार्थोः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः॥ ततः कपिः प्राप्तमनोरथार्थस्तमक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ इति ब्रुवति रामे तु लक्ष्मणोऽवाक्शिरा इव। ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ तदा तु बद्ध्वा भृकुटी ध्रुवोर्मध्ये नरर्षभः। निशश्वास महासर्पो बिलस्थ इव रोषितः॥ तस्य दुष्प्रतिवीक्ष्यं तद् भृकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमीवात्मनः। तिर्यगूज़ शरीरे च पातयित्वा शिरोधराम्॥ अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्। अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया। कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः। किं नाम कृपणं दैवमशक्तमभिशंससि।७।। पापयोस्ते कथं नाम तयोः शङ्का न विद्यते। सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे।८।। तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः। यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव। ययौ प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्। नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ येनैवमागता द्वैधं तव बुद्धिर्महामते। सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः। करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते। जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः। मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः। तयोस्त्वहितयोर्नित्यं शञ्चोः पित्रभिधानयोः॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्। तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते। वीराः सम्भावितात्मानो न दैवं पर्युपासते।।१६ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्। न दैवेन विपत्रार्थः पुरुषः सोऽवसीदति॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च। दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये॥ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्। न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिताः।। यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः। अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव। अभिषेकविघातेन पुत्रराज्याय वर्तते॥ मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्। आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ स चेद् राजन्यमेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् । राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्। न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रु वज्रिणं वा न कल्पये॥ खङ्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ खङ्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः। पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ बद्धगोधामुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ बहुभिश्चैकमत्यस्यन्नेकेन च बहूजनान्। विनियोक्ष्याम्यहं बाणानृवाजिगजमर्मसु॥ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति। राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च। वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तृणां ते निवारणे॥ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशः सुहृज्जनैः। यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः॥ विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः। उवाच पित्रोर्वचने व्यवस्थित निबोध मामेष हि सौम्य सत्पथः॥ सोऽवतीर्य दुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥ तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥ का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। दुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता॥ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥ सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने ॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरारोहे देवता प्रतिभासि मे॥ किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका॥ कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे। वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि॥ रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि। न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्॥ व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता॥ रावणेन जनस्थानाद् बलात् प्रमथिता यदि। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥ यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् । तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥ सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता। उवाच वाक्यं वैदेही हनूमन्तं दुमाश्रितम्॥ पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः॥ दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः॥ समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥ तस्मिन् सम्ध्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमिदं वचनमब्रवीत्॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः॥ स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥ ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत॥ स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्। अपि जीवितहेतोहि रामः सत्यपराक्रमः॥ स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥ साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी। नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते॥ प्रागेव तु महाभागः सौमित्रिमित्रनन्दनः। पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः॥ ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः। प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम्॥ वसतो दण्डकारण्ये तस्याहममितौजसः। रक्षसापहृता भार्या रावणेन दुरात्मना ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्।। ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥ साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥ स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारै वमिवाम्भसि॥ दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः। स ददर्श विदूरस्था राक्षसी?रदर्शनाः॥ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्ककर्णां च मस्तकोच्छ्वासनासिकाम्॥ अतिकायोक्तमाङ्गीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशी तथाकेशी केशकम्बलधारिणीम्॥ लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठी चिबुकोष्ठी च लम्बास्यां लम्बजानुकाम्॥ ह्रस्वां दीर्घा च कुब्नां च विकटां वामनां तथा। कराला भुग्नवक्त्रां च पिङ्गाक्षी विकृताननाम्॥ विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गधारिणी:॥ वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः॥ एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः॥ अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः॥ हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः॥ अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखी!मुखी: सूकरीमुखीः॥ हयोष्ट्रखरवक्त्राश्च राक्षसी_रदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः। पिबन्ति सततं पानं सुरामांससदाप्रियाः॥ मांसशोणितदिग्धाङ्गीमा॑सशोणितभोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥ स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्॥ लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्। निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्॥ क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥ भूषणैरुत्तमैीनां भर्तृवात्सल्यभूषिताम्। राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। चन्द्ररेखां पयोदान्ते शारदाभ्रेरिवावृताम् ॥ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ददर्श हनुमांस्तत्र लतामकुसुमामिव। सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः॥ तां देवीं दीनवदनामदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्।।२७ तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः॥ दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिमिवोत्थिताम्॥ तां क्षामां सुविभक्ताङ्गी विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्॥ हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्॥ नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहष्टो हनुमान् संवृतोऽभवत्॥ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ उद्विग्नहृदयः सर्वा दिशः समवलोकयन्। न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः॥ नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह ॥ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ एतौ वनमिदं दुर्ग वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जन्मुर्गिरितटा तस्मादन्यच्छिखरमुत्तमम्॥ ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ एवमेकायनगताः प्लवमाना गिरेगिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ततः शाखामृगाः सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्॥ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः। संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ ततस्तु भयसंत्रस्तं वालिकिल्विषशङ्कितम्। उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥ सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ यस्मात् तव भयं सौम्यं पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयात्मानं न स्थापयसि यो मतौ।। ।॥ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर। नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ दीर्घबाहू विशालाक्षौ शरश्चापासिधारिणौ। कस्य स स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः। विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि॥ कृत्येषु वाली मेधावी राजानो बहुदर्शिनः। भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैनरैः॥ तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवङ्गम। इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव। प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम। व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टताऽनयोः॥ इत्येवं कपिराजेन संदिष्टो मारुतात्मजः। चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य। महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबली सलक्ष्मणः॥ धृतराष्ट्र उवाच तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्॥ संजय उवाच तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः॥ दृष्टवा सुमहदाश्चर्यमात्मनो विजयावहम्। यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ॥ अर्जुन उवाच संग्रामे न्यहनं शत्रूशरौधैर्विमलैरहम्। अग्रता लक्षये यान्तं पुरुषं पावकप्रभम्॥ ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते। तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने॥ तेन भग्नानरीन् सर्वान् मद्भग्नान् मन्यते जनः। तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम्॥ भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः। शूलपाणिर्मया हृष्टतेजसा सूर्यसंनिभः॥ न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति। शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा॥ व्यास उवाच प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम्। भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम्! तं गच्छ शरणं देव वरदं भुवनेश्वरम्॥ महादेवं महात्मानमीशानं जटिलं विभुम्। त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्। जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम्॥ जगद्योनि जगद्वीजं जयिनं जगतो गतिम्। विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम्॥ विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम्। शम्भुं स्वयम्भुं भूतेशुं भूतभव्यभवोद्भवम्॥ योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम्। सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम्॥ लोकत्रयविधातारमेकं लोकत्रयाश्रयम्। शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम्॥ शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम्। । सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम्॥ ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम्। दातारं चैव भक्तानां प्रसादविहितान् वरान्॥ तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः। वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः॥ महाकाया महोत्साहा महाकर्णास्तथापरे। आननैविकृतैः पादैः पार्थ वेषैश्च वैकृतैः॥ ईदृशैः स महादेवः पूज्यमानो महेश्वरः। स शिवस्तात तेजस्वी प्रसादाद् याति तेऽग्रतः॥ तस्मिन् घोरे सदा पार्थ संग्रामे रोमहर्षणे। द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः॥ कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत्। ऋते देवान्महेष्वासाद् बहुरूपान्महेश्वरात्॥ स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते। न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥ गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः। विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च॥ तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि। ये चान्ये मानवा लोके ते च स्वर्गजितो नराः॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्। अनन्यभावेन सदा सर्वेशं समुपासते॥ इहलोके सुखं प्राप्य ते यान्ति परमां गतिम्। नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा॥ रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे। कपर्दिने करालाय हर्यक्षवरदाय च॥ याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च। काम्याय हरिनेत्राय स्थाणवे पुरुषाय च॥ हरिकेशाय मुण्डाय कृशायोत्तारणाय च। भास्कराय सुतीर्थाय देवदेवाय रंहसे॥ बहुरूपाय शर्वाय प्रियाय प्रियवाससे। उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ गिरिशाय प्रशान्ताय यतये चीरवाससे। हिरण्यबाहवे राज्ञे उग्राय पतये दिशाम्॥ पर्जन्ययतये चैव भूतानां पतये नमः। वृक्षाणां पतये चैव गवां च पतये नमः॥ वृक्षरावृतकायाय सेनान्ये मध्यमाय च। स्रुवहस्ताय देवाय धन्विने भार्गवाय च॥ बहुरूपाय विश्वस्य पतये मुञ्जवाससे। सहस्रशिरसे चैव सहस्रनयनाय च॥ सहस्रबाहवे चैव सहस्रचरणाय च। शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम्॥ उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्। प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्॥ कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्। वृषदष वृषपतिं वृषशृङ्गं वृषर्षभम्॥ वृषाङ्क वृषभोदारं वृषभं वृषभेक्षणम्। वृषायुधं वृषशरं वृषभूतं वृषेश्वरम्॥ महोदरं महाकायं द्वीपिचर्मनिवासिनम्। लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्॥ त्रिशूलपाणिं वरदं खगचर्मधरं प्रभुम्। पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम्॥ प्रपद्ये शरणं देवं शरण्यं चीरवाससम्। नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा॥ सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने। धनुर्धराय देवाय प्रियधन्वाय धन्विने॥ धन्वन्तराय धनुषे धन्वाचार्याय ते नमः। उग्रायुधाय देवाय नमः सुरवराय च॥ नमोऽस्तु बहुरूपाय नमोऽस्तु बहुधन्विने। नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने॥ नमोऽस्तु त्रिपुरनाय भगनाय च वै नमः। वनस्पतीनां पतये नराणां पतये नमः॥ मातृणां पतये चैव गणानां पतये नमः। गवां च पतये नित्यं यज्ञानां पतये नमः॥ अपां च पतये नित्यं देवानां पतये नमः। पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च॥ नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः। कर्माणि यानि दिव्यानि महादेवस्य धीमतः॥ तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्। न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः॥ सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः। दक्षस्य यजमानस्य विधिवत् सम्भृतं पुरा॥ विव्याध कुपितो यज्ञं निर्दयस्त्वभवत् तदा। धनुषा बाणमुत्सृज्य सघोषं विननाद च॥ ते न शर्म कुतः शान्ति लेभिरे स्म सुरास्तदा। विद्रुते सहसा यज्ञे कुपिते च महेश्वरे॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः। बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः॥ आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा। पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥ अन्धेन तमसा लोका न प्राक्राशन्त संवृताः। जनिवान् सह सूर्येण सर्वेषां ज्योतिषां प्रभाः॥ चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च। ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः॥ पूषाणमभ्यद्रवत शंकरः प्रहसन्निव। पुरोडाशं भक्षयतो दशनान् वै व्यशातयत्॥ ततो निश्चक्रमुर्देवा वेपमाना नताः स्म ते। पुनश्च संदधे दीप्तान् देवानां निशिताशरान्॥ सधूमान् सस्फुलिङ्गांश्च विद्युत्तोयदसंनिभान्। तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम्॥ रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन्। भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे॥ तेन चैवातिकोपेन स यज्ञः संधितस्तदा। रुद्रं जग्मुः भग्नाश्चापि सुरा आसन भीताश्चाद्यापि तं प्रति॥ असुराणां पुराण्यासंस्रीणि वीर्यवतां दिवि। आयसं राजतं चैव सौवर्णं परमं महत्॥ सौवर्ण कमलाक्षस्य तारकाक्षस्य राजतम्। तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्॥ न शक्तस्तानि मघवान् भेत्तुं सर्वायुधैरपि। अथ सर्वे पुरा शरणमर्दिताः॥ ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः। ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः॥ पीडयन्त्यधिकं लोकं यस्मात् ते वरदर्पिताः। त्वदृते देवदेवेश नान्यः शक्तः कथंचन॥ हन्तुं दैत्यान् महादेव जहि तांस्त्वं सुरद्विषः। रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥ निपातयिष्यसे चैतानसुरान् भुवनेश्वर। स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया॥ गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः। पृथ्वी ससागरवनां रथं कृत्वा तु शङ्करः॥ अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः। चक्रे कृत्वा तु चन्द्रार्को देवदेवः पिनाकधृक्॥ अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकेः। यूपं कृत्वा तु मलयमवनाहं च तक्षकम्॥ योक्त्राङ्गानि च सत्त्वानि कृत्वा वेदान् कृत्वाऽथ चतुरश्चतुरश्वान् महेश्वरः॥ उपवेदान् खलीनांश्च कृत्वा लोकत्रयेश्वरः। गायत्री प्रग्रहं कृत्वा सावित्री च महेश्वरः॥ कृत्वोङ्कारं प्रतोदं च ब्रह्माणं चैव सारथिम्। गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥ विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च। शर्वः प्रतापवान्। वायुकृत्वाथ वाजाभ्यां पुढे वैवस्वतं यमम्॥ विद्युत् कृत्वाथ निश्राणं मेलं कृत्वाथ वै ध्वजम्। आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः॥ त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः। असुराणामन्तकरः श्रीमानतुलविक्रमः॥ स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः। स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः॥ अतिष्ठत् स्थाणुभूतः स सहस्रं परिवत्सरान्। यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च॥ त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः। पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्॥ शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्। पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम्॥ बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः। उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत् सुरान्॥ असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः। बाहुं सवजं तं तस्य क्रुद्धस्यास्तमभयत् प्रभुः॥ प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः। तत: स स्तम्भितभुजः शक्रो देवगणैर्वृतः॥ जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम्। ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा॥ किमप्यङ्कगतं ब्रह्मन् पार्वत्या भूतमद्भुतम्। बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः॥ तस्मात् त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम्। अयुध्यता हि बालेन लीलया सपुरंदराः॥ तेषां तद् वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः। ध्यात्वा स शम्भुं भगवान् बालं चामिततेजसम्॥ उवाच भगवान् ब्रह्मा शादींश्च सुरोत्तमान्। चराचरस्य जगतः प्रभुः स भगवान् हरः॥ तस्मात् परतरं नान्यत् किंचिदस्ति महेश्वरात्। यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः॥ स पार्वत्याः कृते शर्वः कृतवान् बालरूपताम्। ते मया सहिता यूयं प्रापयध्वं तमेव हि॥ स एष भगवान् देवः सर्वलोकेश्वरः प्रभुः। न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्॥ सप्रजापतयः सर्वे बालार्कसदृशप्रभम्। अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्॥ अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः। ब्रह्मोवाच त्वं यज्ञो भुवनस्यास्य त्वं गतिस्त्वं परायणम्॥ त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम्। त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्॥ भगवन् भूतभव्येश लोकनाथ जगत्पते। प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै॥ व्यास उवाच पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः। प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत्॥ ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। अभवच पुनर्बाहुर्यथाप्रकृति वज्रिणः॥ तेषां प्रसन्नो भगवान् सपत्नीको वृषध्वजः। देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः॥ स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित्। स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः॥ स भव: स च पर्जन्यो महादेवः सनातनः। स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः॥ स. काल: सोऽन्तको मृत्युः स यमो राज्यहानि तु। मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः॥ द्वे धाता च स विधाता च विश्वात्मा विश्वकर्मकृत्। सर्वासां देवतानां च धारयत्यवपुर्वपुः॥ सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः। शतधा सहस्रधा चैव भूयः शतसहस्रधा॥ तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः। घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः॥ घोरा तु या तनुस्तस्य सोऽग्निर्विष्णुः स भास्करः। सौम्या तु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः॥ वेदा साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः। यदत्र परमं गुह्यं स वै देवो महेश्वरः॥ ईदृशश्च महादेवो भूयांश्च भगवानजः। न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः॥ अपि वर्षसहस्रेण सततं पाण्डुनन्दना सर्वैर्ग्रहैर्गृहीतान् वै सर्वपापसमन्वितान्॥ स मोचयति सुप्रीतः शरण्यः शरणागतान्। आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्। ११२॥ स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः। सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥ स चैव व्यापृतो लोके मनुष्याणां शुभाशुभे। ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते॥ महेश्वरच महतां भूतानातीश्वरश्च सः। बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्॥ तस्य देवस्य यद् वक्त्रं समुद्रे तदधिष्ठितम्। वडवामुखेति विक्ष्यातं पिबत् तोयमयं हविः॥ एष चैव श्मशानेषु देवो वसति नित्यशः। यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्॥ अस्य दीप्तानि रूपाणि घोराणि च बहूनि च। लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च॥ नामधेयानि लोकेषु बहून्यस्य यथार्थवत्। निरुच्यन्ते महत्त्वाच विभुत्वात् कर्मणस्तथा॥ वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम्। नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः॥ स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः। स विभुः स प्रभुर्देवो विश्वं व्याप्नोति वै महत्॥ ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा। प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्॥ सर्वथा यत् पशून् पाति तैश्च यद् रमते पुनः। तेषामधिपतिर्यच तस्मात् पशुपतिः स्मृतः॥ दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम्। महयत्येष लोकांश्च महेश्वर इति स्मृतः॥ ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा। लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूक्समास्थितम्॥ पूज्यमाने ततस्तस्मिन् मोदते च महेश्वरः। सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः॥ यदस्य बहुधा रूपं भूतभव्यभवस्थितम्। स्थावरं जङ्गमं चैवं बहुरूपस्ततः स्मृतः॥ एकाक्षो जाज्वलनास्ते सर्वतोऽक्षिमयोऽपि वा। क्रोधाद् यश्चाविशल्लोकांस्तस्मात् सर्व इति स्मृतः॥ धूम्ररूपं च यत् तस्य धूर्जटिस्तेन चोच्यते। विश्वेदेवाश्च यत् तस्मिन् विश्वरूपस्ततः स्मृतः॥१२९ तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः। द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः॥ समेधयति यन्नित्यं सर्वार्थान् सर्वकर्मसु। शिवमिच्छन् मनुष्याणां तस्मादेष शिवः स्मृतः॥ सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा। यच विश्वं महत् पाति महादेवस्ततः स्मृतः॥ महत् पूर्वं स्थितो यच प्राणोत्पत्तिस्थितश्च यत्। स्थितलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः॥१३३ सूर्याचन्द्रमसोलोके प्रकाशन्ते रुचश्च याः। ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः॥ भूतं भव्यं भविष्यं च सर्वं जगदशेषतः। भव एव ततो यस्माद् भूतभव्यभवोद्भवः॥ कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते। स देवदेवो भगवान् कीर्त्यतेऽतो वृषाकपिः॥ ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च। निगृह्य हरते यस्मात् तस्माद्धर इति स्मृतः॥ निमीलिताभ्यां नेत्राभ्यां बलाद् देवो महेश्वरः। ललाटे नेत्रमसृजत् तेन त्र्यक्षः स उच्यते॥ विषमस्थः शरीरेषु समश्च प्राणिनामिह। स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु॥ पूजयेद् विग्रहं यस्तु लिङ्गं चापि महात्मनः। लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥ ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः। . आत्मनोऽर्धं तथा चाग्निः सोमोऽर्धं पुनरुच्यते॥ तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः। भास्वती मानुषेष्वस्य तनु?राग्निरुच्यते॥ ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया। यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः॥ यनिर्दहति यत् तीक्ष्णो यदुग्रो यत् प्रतापवान्। मांसशोणितमज्जादो यत् ततो रुद्र उच्यते॥ एष देवो महादेवो योऽसौ पार्थ तवाग्रतः। संग्रामे शात्रवान् निघ्नंस्त्वया हृष्टः पिनाकधुक्॥ सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयानघ। कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि॥ एष वै भगवान् देवः संग्रामे याति तेऽग्रतः। येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः॥ धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम्। देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्॥ सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम्। सर्वपापप्रशमनं सर्वदुःखभयापहम्॥ चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा। विजित्य शत्रून् सर्वान् स रुद्रलोके महीयते॥ चरितं महात्मनो नित्यं सांग्रामिकमिदं स्मृतम्। पठन् वै शतरुद्रीयं शृण्वंश्च सततोत्थितः॥ भक्तो विश्वेश्वरं देव मानुषेषु च यः सदा। वरान् कामान् स लभते प्रसन्ने त्र्यम्बके नरः॥ गच्छ युद्ध्यस्व कौन्तेय न तवास्ति पराजयः। यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः।।१५३ संजय उवाच एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा। जगाम भरतश्रेष्ठ यथागतमरिन्दम॥ युद्धं कृत्वा महद् घोरं पञ्चाहानि महाबलः। ब्राह्मणो निहतो राजन् ब्रह्मलोकमवाप्तवान्॥ स्वधीते यत् फलं वेदे तदस्मिन्नपि पर्वणि। क्षत्रियाणामभीरूणां युक्तमत्र महद् यशः॥ य इदं पठते पर्व शृणुयाद् वापि नित्यशः। स मुच्यते महापापैः कृतैोरैश्च कर्मभिः॥ यज्ञावाप्तिाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यश्चा शेषौ वर्णी काममिष्टं लभेते पुत्रान् पौत्रान् नित्यमिष्टांस्तथैव॥ स्वधीते यत् फलं वेदे तदस्मिन्नपि पर्वणि। क्षत्रियाणामभीरूणां युक्तमत्र महद् यशः॥ य इदं पठते पर्व शृणुयाद् वापि नित्यशः। स मुच्यते महापापैः कृतैोरैश्च कर्मभिः॥ यज्ञावाप्तिाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यश्चा शेषौ वर्णी काममिष्टं लभेते पुत्रान् पौत्रान् नित्यमिष्टांस्तथैव॥ धृतराष्ट्र उवाच युधिष्ठिर महाबाहो कच्चित् त्वं कुशली ह्यसि। सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा॥ ये च त्वामनुजीवन्ति कच्चित् तेऽपि निरामयाः। सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप॥ कच्चित् तेऽपि निरातङ्का वसन्ति विषये तव। कच्चिद् वर्तसि पौराणी वृत्तिं राजर्षिसेविताम्॥ कच्चिन्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते। अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः॥ ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि। कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ।॥ शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा। कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः॥ अतिथीनन्नपानेन कच्चिदर्चसि भारत। कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव।॥ क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः। कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचते॥ जामयः पूजिताः कच्चित् तव गेहे नरर्षभ। कच्चिद् राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्॥ यथोचितं महाराज यशसा नावसीदति। इत्येवंवादिनं तं स न्यायवित् प्रत्यभाषत॥ वैशम्पायन उवाच कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि। कच्चित् ते वर्धते राजस्तपो दमशमौ च ते॥ युधिष्ठिर उवाच अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा। अथास्याः सफलो राजन् वनवासो भविष्यति॥ इयं च माता ज्येष्ठा मे शीतवातावकर्शिता। घोरेण तपसा युक्ता देवी कच्चिन्न शोचति॥ हतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान्। नापध्यापति वा कच्चिदस्मान् पापकृतः सदा॥ क्व चासौ विदुरो राजन् नेमं पश्यामहे वयम्। सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः॥ वैशम्पायन उवाच इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्। कुशली विदुरः पुत्र तपो घोरं समाश्रितः॥ वायुभक्षो निराहारः कृशो धमनिसन्ततः। कदाचिद् दृश्यते विप्रैः शून्येऽस्मिन् कानने क्वचित्॥ इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः। दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः॥ दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः। निवर्तमानः सहसा राजन् दृष्ट्वाऽऽश्रमं प्रति॥ तमन्वधावन्नृपतिरेक एव युधिष्ठिरः। प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित् क्वचित् ।। भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः। इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत॥ ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः। विदुरो वृक्षमाश्रित्य कच्चितत्र वनान्तरे॥ तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्। अभिजज्ञे महाबुद्धिं महाबुद्धियुधिष्ठिरः॥ युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः। विदुरस्य श्रवे राजा तं च प्रत्यभ्यपूजयत्॥ ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत। संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः॥ विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह। प्राणान् प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च॥ स योगबलमास्थाय विवेश नृपतेस्तनुम्। विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव॥ विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्। वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्॥ बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा। धर्मराजो महातेजास्तच्च सस्मार पाण्डवः॥ पौराणामात्मनः सर्वं विद्यावान् स विशाम्पते। योगधर्मं महातेजा व्यासेन कथितं यथा॥ धर्मराजश्च तत्रैव संचस्कारयिषुस्तदा। दग्धुकामोऽभवद् विद्वानथ वागभ्यभाषत॥ भो भो राजन्न दग्धव्यमेतद् विदुरसंज्ञकम्। कलेवरमिहैवं ते धर्म एष सनातनः॥ लोकाः सान्तानिका नाम भविष्यन्त्यस्य भारत। यतिधर्ममवाप्तोऽसौ नैष शोच्यः परंतप॥ इत्युक्तो धर्मराज: स विनिवृत्य ततः पुनः। राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत्॥ ततः स राजा द्युतिमान् स च सर्वो जनस्तदा। भीमसेनादयश्चैव परं विस्मयमागताः॥ तच्छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजमब्रवीत्। आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्॥ यदर्थो हि नरो राजस्तदर्थोऽस्यातिथिः स्मृतः। इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्॥ फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः। ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः। तां रात्रिमवसन् सर्वे फलमूलजलाशनाः॥ नारद उवाच एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्। विमृश्यावहितो राजा निश्चित्य च पुनः पुनः॥ यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः। ययातिः सर्वकाशीश इदं वचनमब्रवीत्॥ दृष्ट्वा प्रियसखं टायं गालवं च द्विजर्षभम्। निदर्शनं च तपसा भिक्षा श्लाघ्यां च कीर्तिताम्॥ अतीत्य च नृपानन्यानादित्यकुलसम्भवान्। मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च॥ अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्। अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ।॥ वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा। न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे।॥ न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग। न चाशामस्य विप्रर्षेवितथीकर्तुमुत्सहे॥ तत् तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति। अभिगम्य हताशो हि निवृत्तो दहते कुलम्॥ नातः परं वैनतेय किंचित् पापिष्ठमुच्यते। यथाशानाशनाल्लोके देहि नास्तीति वा वचः॥ हताशो ह्यकृतार्थः सन् हतः सम्भावितो नरः। हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम्॥ तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम। इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी॥ प्रदास्यन्ति नृपा सदा देवमनुष्याणामसुराणां च गालव। कादिक्षता रूपतो बाला सुता मे प्रतिगृह्यताम्॥ अस्याः शुल्कं राज्यमपि ध्रुवम्। किं पुनः श्यामकर्णानां हयानां द्वे चतुः शते॥ स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम्। अहं दौहित्रवान् स्यां वै वर एष मम प्रभो॥ प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा। पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया॥ उपलब्धमिदं द्वारमश्वानामिति चाण्डजः। उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्॥ गते पतगराजे तु गालवः सह कन्यया। चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत्॥ सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्। अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्॥ कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्। प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्॥ तमुवागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्। कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी॥ इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम्। शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम्॥ युधिष्ठिर उवाच नापदामस्ति मर्यादा न निमित्तं न कारणम्। धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः॥ भीम उवाच प्रातिकाम्यनयत् कृष्णां सभायां प्रेष्यवत् तदा। न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्॥ अर्जुन उवाच वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः। अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्॥ सहदेव उवाच शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत। स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्। आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश॥ पानीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान्। एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्। अब्रवीद् भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः॥ पश्यामि बहुलान् राजन् वृक्षानुदकसंश्रयान्। सारसानां च निदिमत्रोदकमसंशयम्॥ ततोऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। गच्छ सौम्य ततः शीघ्रं तूणैः पानीयमानय॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्येष्ठस्य शासनात्। प्राद्रवद् यत्र पानीयं शीघ्रं चैवान्वपद्यत॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्। पातुकामस्ततो वाचमन्तरिक्षात् स शुश्रुवे॥ यक्ष उवाच मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च॥ अनादृत्य तु तद् वाक्यं नकुलः सुपिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः। अब्रवीद् भ्रातरं वीरं सहदेवमरिंदमम्॥ भ्राता हि चिरयातो नः सहदेव तवाचजः। तथैवानय सोदर्यं पानीयं च त्वमानय॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। ददर्श च हतं भूमौ भ्रातरं नकुलं तदा॥ भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः। अभिदुद्राव पानीयं ततो वागभ्यभाषत॥ मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा यथाकामं पिवस्व च हरस्व च॥ अनाहृत्य तु तद् वाक्यं सहदेवः पिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥ अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः। भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन॥ तौ चैवानय भद्रं ते पानीयं च त्वमानय। त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः। आमुक्तखङ्गो मेधावी तत् सरः प्रत्यपद्यत॥ ततः पुरुषशार्दूलो पानीयहरणे गतौ। तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः। धनुरुद्यम्य कौन्तेयो व्यलोकयत् तद् वनम्॥ नापश्यत् तत्र किञ्चित् स भूतमस्मिन् महावने। सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत॥ अभिधावंस्ततो वाक्यमन्तरिक्षात् स शुश्रुवे। किमासीदसि पानीयं तच्छक्यं बलात् त्वया।॥ कौन्तेय यदि प्रश्नांस्तान् मयोक्तान् प्रतिपत्स्यसे। ततः पास्यसि पानीयं हरिष्यसि च भारत॥ वारितस्त्वब्रवीत् पार्थो दृश्यमानो निवारय। यावद् बाणैर्विनिर्भिन्नः पुन:वं वदिष्यसि॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः। प्रववर्ष दिशः कृत्स्ना: शब्दवेधं च दर्शयन्॥ कर्णिनालीकनाराचानुत्सृजन् भरतर्षभ। स त्वमोघानिषून मुक्त्वा तृष्णायाभिप्रपीडितः॥ अनेकैरिषुसङ्घातैरन्तरिक्षे ववर्ष ह। यक्ष उवाच किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब॥ अनुक्त्वा च पिबन् प्रश्नान् पीत्वैव न भविष्यसि। एवमुक्तस्ततः पार्थः सव्यसाची धनंजयः॥ अवज्ञायैव तां वाचं पीत्वैव निपपात ह। अथाब्रवीद् भीमसेनं कुन्तीपुत्रो युधिष्ठिः॥ नकुलः सहदेवश्च बीभत्सुश्च परंतप! चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत॥ तांश्चैवानय भद्रं ते पानीयं च त्वमानय। भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत॥ यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः। तान् दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः॥ अमन्यत महाबाहुः कर्म तद् यक्षरक्षसाम्। स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य वै॥ पास्यामि तावत् पानीयमिति पार्थो वृकोदरः। ततोऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः॥ यक्ष उवाच मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥ एवमुक्तस्तदा भीमो यक्षेणामिततेजसा। अनुक्त्वैव तु तान् प्रश्नान् पीत्वैव निपपात ह॥ ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः। समुत्थाय महाबाहुर्दह्यमानेन चेतमा॥ व्यपेतजननिर्घोषं प्रविवेश महावनम्। रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्॥ नीलभास्वरवर्णश्च पादैपरुपशोभितम्। भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः॥ स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम्। ददर्श तत् सरः श्रीमान् विश्वकर्मकृतं यथा॥ उपेतं नलिनीजालैः सिन्धुवारैः सवेतसैः। केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्। श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः॥ युधिष्ठिर उवाच कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव। आदौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर॥ बृहस्पति देवपतिरभिवाद्य कृताञ्जलिः। उपसंगम्य पप्रच्छ वासवः परवीरहा।॥ इन्द्र उवाच अहितेषु कथं ब्रह्मन् प्रवर्तेयमतन्द्रितः। असमुच्छिद्य चैवैतान् नियच्छेयमुपायतः॥ सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्। किंकुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी॥ ततो धर्मार्थकामानां कुशलः प्रतिभानवान्। राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्॥ बृहस्पतिरुवाच न जातु कलहेनेच्छेन्नियन्तुमपकारिणः। बालैरासेवितं ह्येतद् यदम! यदक्षमा॥ न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्गता। क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि॥ अमित्रमुपसेवेत विश्वस्तवदविश्वसन्। प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्॥ विरमेच्छुष्कवैरेभ्यः कण्ठायासांश्च वर्जयेत्। यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः॥ तान् द्विजान् कुरुते वश्यांस्तथा युक्तो महीपतिः। वशं चोपनयेच्छन् निहन्याच्च पुरंदर॥ न नित्यं परिभूयारीन् सुखं स्वपिति वासव। जागर्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः॥ न संनिपातः कर्तव्यः सामान्ये विजये सति। विश्वास्यैवोपसन्नार्थो वशे कृत्वा रिपुः प्रभो॥ सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः। उपेक्ष्यमाणोऽवज्ञातो हृदयेनापराजितः॥ अथास्य प्रहरेत् काले किंचिद्विचलिते पदे। दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः॥ आदिमध्यावसानज्ञः प्रच्छन्नं च विधारयेत्। बलानि दूषयेदस्य जानन्नेव प्रमाणतः॥ भेदेनोपप्रदानेन संसृजेदौषधैस्तथा। न त्वेवं खलु संसर्गं रोचयेदरिभिः सह॥ दीर्घकालमपीक्षेत निहन्यादेव शात्रवान्। कालाकाङ्क्षीहि क्षपयेद् यथा विश्रम्भमाप्नुयुः॥ न सद्योऽरीन् विहन्याच्च द्रष्टव्यो विजयो ध्रुवः। न शल्यं वा घटयति न वाचा कुरुते व्रणम्॥ प्राप्ते न प्रहरेत् काले न च संवर्तते पुनः। हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून् प्रति॥ यो हि कालो व्यतिक्रामेत् पुरुषं कालकाक्षिणम्। दुर्लभः स पुनस्तेन कालः कर्मचिकीर्षुणा॥ ओजश्च जनयेदेव संगृह्णन् साधुसम्मतम्। अकाले साधयेन्मित्रं न च प्राप्ते प्रपीडयेत्॥ विहाय कामं क्रोधं च तथाहंकारमेव च। युक्तो विवरमन्विच्छेदहितानां पुनः पुनः॥ मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम। मायाः सुविहिताः शक्र सादयन्त्यविचक्षणम्॥ निहत्यैतानि चत्वारि मायां प्रति विधाय च। ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्॥ यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्। यच्छन्ति सचिवा गुह्यं मिथो विश्रावयन्त्यपि॥ अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्। ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्॥ भेदं च प्रथमं युज्यात् तूष्णीं दण्डं तथैव च। काले प्रयोजयेद् राजा तस्मिंस्तस्मिंस्तदा तदा॥ प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः। युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः॥ प्रणिपातेन दानेन वाचा मधुरया ब्रूवन्। अमित्रमपि सेवेत न च जातु विशङ्कयेत्।।३ स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्। न च तेष्वाश्वसेद् राजा जाग्रतीह निराकृताः॥ न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तमा यथा विविधवृत्तानामैश्वर्यममराधिप।॥ तथा विविधवृत्तानामपि सम्भव उच्यते। यतते योगमास्थाय मित्रामित्रं विचारयेत्॥ मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव॥ यथा वप्रे वेगवति सर्वतः सम्प्लुतोदके। नित्यं विवरणाद् बाधस्तथा राज्यं प्रमाद्यतः॥ न बहूनभियुञ्जीत यौगपद्येन शात्रवान्। साम्ना दानेन भेदेन दण्डेन च पुरंदर॥ एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत्। न तु शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः॥ यदास्यान्महती सेना हयनागरथाकुला। पदातियन्त्रबहुला अनुरक्ता षडगिनी॥ यदा बहुविधां वृद्धिं मन्येत प्रतिलोमतः। तदा विवृत्य प्रहरेद् दस्यूनामविचारयन्॥ न सामदण्डोपनिषत् प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा। न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा॥ मायाविभेदानुपसर्जनानि तथैव पापं न यशःप्रयोगात्। आप्तैर्मनुष्यरूपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान्॥ पुरापि चैषामनुसृत्य भूमिपाः पुरेषु भोगानखिलान् जयन्ति। पुरेषु नीति विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन॥ प्रदाय गूढानि वसूनी राजन् प्रच्छिद्य भोगानवधाय च स्वान्। दुष्टान् स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति॥ तथैव चान्यैरपि शास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानदृष्टिभिः। सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च॥ इन्द्र उवाच कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम। कथं दुष्टं विजानीयामेतत् पृष्टो वदस्व मे॥ बृहस्पतिरुवाच परोक्षमगुणानाह सद्गुणानभ्यसूयते। परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः॥ तूष्णीम्भावेऽपि विज्ञेयं न चेद्भवति कारणम्। निःश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥ करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते। अदृष्टितो न कुरुते दृशे नैवाभिभाषते॥ पृथगेत्य समश्नाति नेदमद्य यथाविधि। आसने शयने याने भावा लक्ष्या विशेषतः॥ आर्तिराते प्रिये प्रीतिरेतावन्मित्रलक्षणम्। विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्॥ एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप। पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥ इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम। निशम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर॥ भीष्म उवाच स तद्वचः शत्रुनिबर्हणे रत स्तथा चकारावितथं बृहस्पतेः। चचार काले विजयाय चारिहा वशं च शत्रूननयत् पुरंदरः॥ वैशम्पायन उवाच निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः। त्रिगर्तानस्पृशन् मत्स्याः सूर्ये परिणते सति॥ ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः। अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः॥ भीमाश्च मत्तमातङ्गास्तोमराङ्कुशनोदिताः। ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः॥ तेषां समागमो घोरस्तुमुलो लोहमर्षणः। घ्नतां परस्परं राजन् यमराष्ट्रविवर्धनः॥ देवासुरसमो राजन्नासीत् सूर्येऽवलम्बति। पदातिरथनागेन्द्रहयारोहबलौघवान्॥ अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्। उदतिष्ठद् रजो भौम प्राज्ञायत किंचन॥ पक्षिणश्चापतन् भूमौ सैन्येन रजसाऽऽवृताः। इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत॥ खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत। रुक्मपृष्ठानि चापानि व्यतिषिक्तानि धन्विनाम्॥ पततां लोकवीराणां सव्यदक्षिणमस्यताम्। रथा रथैः समाजग्मुः पादातैश्च पदातयः॥ सादिनः सादिभिश्चैव गजैश्चापि महागजाः। असिभिः पदृिशैः प्रासैः शक्तिभिस्तोमरैरपि॥ संरब्धाः समरे राजन् निजघ्नुरितरेतरम्। निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः॥ न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्। कृत्तोत्तरोष्ठं सुनसं कृत्तकेशमलंकृतम्॥ अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्। अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः॥ शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे। नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः॥ आस्तीर्णा वसुधा भाति शिरोभिश्च सकुण्डलैः। रथिनां रथिभिश्चात्र सम्प्रहारोऽभ्यवर्तत॥ सादिभिः सादिनां चापि पदातीनां पदातिभिः। उपाशाम्यद् रजो भौमं रुधिरेण प्रसर्पता॥ कश्मलं चाविशद् घोरं निर्मर्यादमवर्तत। उपाविशन् गरुत्मन्तः शरैर्गाढं प्रवेजिताः। अन्तरिक्षे गतिर्येषां दर्शनं चाप्यरुध्यत॥ ते जन्तः समरेऽन्योन्यं शूराः परिघबाहवः। न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्॥ शतानीकः शतं हत्वा विशालक्षश्चतुःशतम्। प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ॥ तौ प्रविष्टौ महासेनां बलवन्तौ मनस्विनौ। आर्छतां बहुसंरब्धौ केशाकेशि रथारथिः॥ लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्। अग्रतः सूर्यदत्तश्च मदिराक्षश्च पृष्ठतः॥ विराटस्तत्र संग्रामे हत्वा पञ्चशतान् रथान्। हयानां च शतान्यष्टौ हत्वा पञ्च महारथान्॥ चरन् स विविधान् मार्गान् रथेन रथसत्तमः। त्रिगर्तानां सुशर्माणमार्च्छद् रुक्मरथं रणे॥ तौ व्यवाहरतां तत्र महात्मानौ महाबलौ। अन्योन्यमभिगर्जन्तौ गोष्ठेषु वृषभाविव॥ ततो राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः। मत्स्य समायाद् राजानं द्वैरथेन नरर्षभः॥ ततो स्थाभ्यां रथिनौ व्यतीयतुरमर्षणौ। शरान् व्यसृजतां शीघ्रं तोयधारा घना इव॥ अन्योन्यं चापि संरब्धौ विचेस्तुरमर्षणौ। कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ॥ ततो राजा सुशर्माणं विव्याध दशभिः शरैः। पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्॥ तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः। पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्॥ ततः सैन्यं महाराज मत्स्यराजसुशर्मणोः। नाभ्यजानात् तदान्योन्यं सैन्येन रजसाऽऽवृतम्॥३ सौतिरुवाच जनमेजयः पारिक्षितः सह भ्रातृभिः भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते। तस्य भ्रातरस्त्रयः श्रुतसेन। उग्रसेनो भीमसेन इति। तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ जनमेजयस्य भ्रातृभिरभिहतो भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ पुत्रदुःखार्ता तं माता रोरूयमाणमुवाच 'किं रोदिषि, केनास्यभिहत' इति॥ प्रत्युवाच-'जनमेजयस्य भ्रातृभिरभिहतोऽस्मि' इति॥ तं माता प्रत्युवाच-'व्यक्तं त्वया तत्रापराद्धम्, येनास्यभिहतः' इति॥ स तां पुनरुवाच 'नापराध्यामि, किंचिन्नावेक्षे, हवींषि नावलिह' इति॥ तच्छ्रुत्वा माता सरमा तत्सत्रमुपागच्छत्, यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ तया क्रुद्धया तत्रोक्त 'अयं मे पुत्रो न किंचिदपराध्यति, नावेक्षते, हवींषि, नावलेढि, किमर्थमभिहतः' इति॥ न किंचिदुक्तवन्तस्ते सा तानुवाच 'यस्मादयमभिहतो ऽनपकारी, तस्माददृष्टं त्वां भयमागमिष्यति' इति।॥ जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत्॥ स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विष्यमाणः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ तत्र कश्चिद्ऋषिरासाञ्चक्रे श्रुतश्रवा नाम। तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय ववे॥ स नमस्कृत्य तमृषिमुवाच-'भगवन्यं तव पुत्रो मम पुरोहितोऽस्तु' इति॥ स एवमुक्तः प्रत्युवाच जनमेजयम् 'भो जनमेजय, पुत्रोऽयं मम सर्म्या जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद् ब्राह्मण: कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् यद्येतदुत्सहसे ततो नयस्वैनम्' इति॥ तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच-'भगवंस्तत् तथा भविष्यति ॥ स तं पुरोहितमुपादायोपावृत्तो भ्रातूनुवाच-'मयाऽयं वृत उपाध्याय यदयं ब्रूयात्तत् कार्यमविचारयद्भिर्भवद्भिः' इति। तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातृन् संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ एतस्मिन्नन्तरे कश्चिद् ऋषिौम्यो नामायोदः। तस्य शिष्यास्त्रयो बभूवुः॥ उपमन्युरारुणिर्वेदश्चेति स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 'गच्छ, केदारखण्डं बधान' इति॥ स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तम्, केदारखण्डं बर्द्ध नाशकत्। क्लिश्यमानोऽपश्यदुपायम् भवत्वेवं करिष्यामि॥ स तत्र संविवेश केदारखण्डे। शयाने च तथा तस्मिंस्तदुदकं तस्थौ॥ ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यानपृच्छत् 'क्व आरुणिः पाञ्चाल्यो गतः' इति॥ ते तं प्रत्यूचुः ‘भगवंस्त्वयैव प्रेषितः' गच्छ केदारखण्डं बधान इति। स एवमुक्तस्तान् शिष्यान् प्रत्युवाच'तस्मात्तत्र सर्वे गच्छामो यत्र स गतः' इति।॥ स तत्र गत्वा तस्याहानाय शब्दं चकार-'भो आरुणे, पाञ्चाल्य, क्वासि वत्स, एहि, इति॥ स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसोत्याय तमुपाध्यायमुपतस्थे॥ प्रोवाच चैनम् 'अयमस्मि, अत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धं संविष्टः, भगवच्छब्दं श्रुत्वैव, सहसा विदार्य केदारखण्डम्, भवन्तमुपस्थितः। तदभिवादये भगवन्तम्, आज्ञापयतु भवान् कमर्थं करवाणि इति॥२९-३०॥ स एवमुक्त उपाध्यायः प्रत्युवाच 'यस्माद्भवान् केदारखण्डं विदार्योत्थितः, तस्मादुद्दालक एव नाम्ना भवान् भविष्यति इत्युपाध्यायेनानुगृहीतः॥ 'यस्माच्च त्वया मद्वचनमनुष्ठितम्, तस्माच्छ्रेयो ऽवाप्स्यसि। सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणि' इति॥ स एवमुक्त उपाध्यायेनेष्टं देशं जगाम। अथापर: शिष्योऽस्यैवापोदस्य धौम्यस्योपमन्युर्नाम॥ तं चोपाध्यायः प्रेषयामास-'वत्सोपमन्यो! गा रक्षस्व' इति॥ स उपाध्यायवचनादरक्षद्गाः। स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ तमुपाध्यायः पीवानमपश्यदुवाच चैनं 'वत्सोपमन्यो केन! वृत्तिं कल्पयसि, पीवानसि दृढम् इति॥ स उपाध्यायं प्रत्युवाच-'भो भैक्ष्येण वृत्तिं कल्पयामि' इति॥ तमुपाध्यायः 'मय्यनिवेद्य भैक्ष्य नोपयोक्तव्यम्' इति। स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत्॥ स तस्मादुपाध्यायःसर्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षद्गाः। अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रत:स्थित्वा नमश्चक्रे॥ तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच'वत्सोपमन्यो! सर्वमशेषतस्ते भैक्ष्यं गृह्णामि। केनेदानीं वृत्तिं कल्पयसि' इति॥ 'भगवते निवेद्य पूर्वमपरं चरामि। तेन वृत्तिं कल्पयामि' इति॥ तमुपाध्यायः प्रत्युवाच 'नैषा न्याय्या 'नैषा न्याय्या गुरुवृत्तिः अन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि, इत्येवं वर्तमानो लुब्धोऽसि' इति॥ स तथेत्त्युक्त्वा गा अरक्षत्। रक्षित्वा पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच-'वत्सोपमन्यो! अहं ते सर्वं भक्ष्यं गृह्णामि न चान्यच्चरसि। पीवानसि भृशम् केन वृत्तिं कल्पयसि' इति॥ स एवमुक्तस्तमुपाध्यायं प्रत्युवाच-'भो एतासां गवां पयसा वृत्ति कल्पयामि' इति। तमुवाचोपाध्यायः 'नैतन्याय्यं पय उपयोक्तुम्। भवतो मया नाभ्यनुज्ञात' इति॥ स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रत: स्थित्वा नमश्चक्रे॥ तमुपाध्याय: पीवानमेव दृष्टोवाच 'वत्सोपमन्यो भैक्ष्य नाश्नासि, न चान्यच्चरसि, पयो न पीबसि, पीवानसि भृशम् केनेदानी वृत्ति कल्पयसि' इति॥ स एवमुक्त उपाध्यायं प्रत्युवाच-'भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनात्पिबन्त उद्गिरन्ति॥ तमुपाध्यायः प्रत्युवाच ‘एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति। तदेषामपि तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि भवान्न पातुमर्हति' इति। स तथेति प्रतिश्रुत्य पुनररक्षद्गाः॥ तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति। फेनं नोपयुङ्क्ते स कदा चिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ तैरर्कपत्रैक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव। ततः सोऽन्धोऽपि चङ्कम्यमाण: कूपे पपात॥ अथ तस्मिन्ननागच्छति, सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्-'नायात्युपमन्युः।' ते ऊचु 'वनं गतो गा रक्षितुम्' इति॥ तानाह उपाध्याय:-'मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्यः' इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार-'भो उपमन्यो! क्वासि वत्स! एहि' इति॥ स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैः-'अयमस्मिन् कूपे पतितोऽहम्' इति। तमुपाध्यायः प्रत्युवाच-'कथं त्वमस्मिन् कूपे पतितः' इति॥ स उपाध्यायं प्रत्युवाच-'अर्कपत्राणि भक्षयित्वाऽन्धीभूतोऽस्मि। अतः कूपे पत्तितः' इति॥ तमुपाध्यायः प्रत्युवाच-'अश्विनौ स्तुहि। तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्तारौ' इति। स एवमुक्त उपाध्यायेनोपमन्युरश्विनौ स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिधंग्भिः॥ प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽऽशंसामि तपसा ह्यनन्तौ। वधिक्षिपन्तौ भुवनानि विश्वा॥ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्त्रौ सुनसौ वै जयन्तौ। वधिव्ययन्तावसितं विवस्वतः॥ ममुञ्चतामश्विनौ सौभगाय। तावत् सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन्॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति। स्तावश्विनौ दुहतो धर्ममुक्थ्यम्॥ एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः। अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी॥ एकं चक्रं वर्तते द्वादशारं घण्णाभिमेकाक्षमृतस्य धारणम्। स्तावश्विनौ मुञ्चतं मा विषीदतम्॥ अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी। हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तवृष्टिमह्ना प्रस्थितौ बलस्य॥ युवां दिशो जनयथो दशाये समानं मूर्ध्नि रथयानं वियन्ति। तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ युवां वर्णान् विकुस्थो विश्वरूपां स्तेऽधिक्षियन्ते भुवनानि विश्वा। ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां विभृथः पुष्करस्य। तौ नासत्यावमृतावृतावृधावृते देवास्तत् प्रपदे न सूते॥ मुखेन गर्भं लभेतां युवानी गतासुरेतत् प्रपदेन सूते। स्तावश्विनौ मुञ्चथो जीवसे गाः॥ स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः। दुर्गेऽहमस्मिन् पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये॥ इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनम्-'प्रीतौ स्वः, एष तेऽपूपः, अशानैनम्' इति॥ स एवमुक्तः प्रत्युवाच-'नानृतमूचतुर्भगवन्तौ न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्य' इति॥ ततस्तमश्विनावूचतुः 'आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्तः, उपयुक्तः स तेनानिवेद्य गुरवे। त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेन' इति॥ एवमुक्तः प्रत्युवाच-'एतत् प्रत्यनुनये भवन्तावश्विनौ, नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुम्' इति॥ तमश्विनावाहतु:-'प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति, चक्षुष्मांश्च भविष्यसीति, श्रेयश्चावाप्स्यसि इति॥ एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ आचचक्षे च स चास्य प्रीतिमान् बभूव।। आह चैनम् 'यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥ सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणि, इति। एषा तस्यापि परीक्षोपमन्योः॥ अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम। तमुपाध्यायः समादिदेश-'वत्स, वेद इहास्यतां तावन्मम गृहे कञ्चित् कालम्। शुश्रूषुणा च भवितव्यम्। श्रेयस्ते भविष्यति' इति॥ स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्-गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः। तस्य महताकालेन गुरुः परितोषं जगाम॥ तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप। एषा तस्यापि परीक्षा वेदस्य॥ स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत। तस्यापि स्वगृहे वसतस्त्रयः शिष्याः बभूवुः। स शिष्यान्नकिंचिदुवाच कर्म वा क्रियता गुरुशुश्रूषा चेति। दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान् परिक्लेशेन योजयितुं नेयेष॥ अथ कस्मिंश्चित् काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास॥ 'भो यत् किंचिदस्मद्गृहे परिहीयते, तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणम्' इति। स एवं प्रतिसंदिश्योत्तवं वेदः प्रवासं जगाम॥ अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्मा स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 'उपाध्यायिनी ते ऋतुमती। उपाध्यायश्च प्रोषितः अस्या यथाऽयमृतुर्वन्ध्यो न भवति, तथा क्रियताम् एषा विषीदति' इति॥ एवमुक्तस्ताः स्त्रियःप्रत्युवाच-'न मया स्त्रीणां वचनादिदमकार्यं करणीयम्। ह्यहमुपाध्यायेन संदिष्टः-अकार्यमपि त्वया कार्यम्' इति॥ तस्य पुनरुपाध्याय: कालान्तरेण गृहमाजगाम तस्मात् प्रवासात्। स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥ उवाच चैनम्-'वत्सोत्तङ्क, किं ते प्रियं करवाणि' इति। धर्मतो हि शुश्रूषितोऽस्मि भवता। तेन प्रीतिः परस्परेण नौ संवृद्धा। तदनुजाने भवन्तम्, सर्वानेव कामानवाप्स्यसि, गम्यताम् इति॥ स एवमुक्तः प्रत्युवाच-'किं ते प्रियं करवाणि' इति, एवमाहुः॥ यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति। तनेवैमुक्त उपाध्यायः प्रत्युवाच-'वत्सोत्तङ्क! उष्यतां तावत्' इति॥ स कदाचिदुपाध्यायमाहोत्तङ्कः-'आज्ञापयतु भवान् किं ते प्रियमुपहरामि गुर्वर्थम्' इति॥ तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायिनीं पृच्छ किमुपाहरामीति॥ एषा यद्वीति तदुपाहरस्वेति। एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छद्भगवत्युपाध्यायेनासम्यनुज्ञातो गृहं गंतुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुमिति॥ स स स तदाज्ञापयतु भवती किमुपहरामि गुर्वर्थमिति सैवमुक्तोपाध्यायिनी तमुत्तकं प्रत्युवाच। गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ आनयस्व चतुर्थेऽहनि पुण्यकं भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्यपरिवेष्टुमिच्छामि तत्संपादयस्व एवं हि कुर्वतःश्रेयो भविताऽन्यथा कुतःश्रेय इति॥ एवमुक्तस्तया प्रातिष्ठतोत्तङ्कः। पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं पुरुषमतिप्रमाणमेव। स पुरुष उत्तङ्कमभ्यभाषत॥ भो उत्तकैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ तमाह पुरुषो भूयो भक्षयस्वेत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ स एवमुक्तो बाढमित्युक्त्वा तदा तवृषभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कःसंभ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे॥ यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः। स उत्तङ्कस्तमुपेत्याशीभिरभिनंद्योवाच॥ प्रत्युवाच पौष्यः अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच। भगवन्पौष्य:खल्वहं किं करवाणीति॥ तमुवाचगुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति। ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातु-मर्हतीति॥ तं पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति। स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ स एवमुक्तः पौष्यःक्षणमात्रं विमृश्योत्तकं प्रत्युवाच। नियतं भवानुच्छिष्टः। स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं। पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मयोत्थितेनोपस्पृष्टं गच्छता चेति। तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवतीति शीघ्रं गच्छता चेति॥ अथोत्तङ्कस्तं तथेत्युक्त्वा प्राडुमुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिहृद्गताभिराद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिपस्पृश्य चान्तःपुरं प्रविवेश॥ ततस्तां क्षत्रियामपश्यत् सा च दृष्ट्वैवोत्तत प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति। सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कण्डलेऽवमुच्यास्मै प्रायच्छदाह तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भगवति सुनिवृता भव। न मां शक्तस्तक्षको नागराजो घर्षयितुमिति॥ स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्। आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तकं पौष्यः प्रत्युवाच॥ भगवंश्चिरेण पात्रमासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं, क्रियतां क्षण इति॥ तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि। यथोपपन्नममुपस्कृतं भवतेति तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच। यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ तं पौष्यः प्रत्युवाच यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच॥ न युक्तं भवताऽन्नमशुचि दत्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु। ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ अथ तदन्नं मुक्तकेश्यां स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तकं प्रसादयामास॥ भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुत्तङ्कः प्रत्युवाच॥ न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति। ममापि शापो भवता दत्तो न भवेदिति॥ तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरधाप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते तथा॥ नवनीतं हृदयं ब्राह्मणस्य, वाचि क्षुरो निशितस्तीक्ष्णधारः। तदुभयमेतद्विपरीतं क्षत्रियस्य वाड्नवनीतं हृदयं तीक्ष्णधारमिति॥ तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति। तमुत्तङ्कः प्रत्युवाच। प्रत्युवाच। भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक् तेऽभिहितम्॥ च यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तंङ्कस्ते कुण्डले गृहीत्वा। सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानं च॥ अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे। एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ तमुत्तकोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ तस्य तक्षको दृढमासन्नः स तं जग्राह गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ प्रविश्य च नागलोकं स्वभवनमगच्छत्। अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ स तद्विलं दण्डकाष्ठेन चखान न चाशकत्। तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥ गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति। अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्विलमदारयत्॥ तमुत्तोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकाविधप्रासादहऱ्यावलभीनि!हशतसंकुलमुच्चावचक्रीडश्चर्यस्थानावकीर्णमपश्यत्॥ स तत्र नागांस्तानस्तुवदेभिः श्लोकैः य ऐरावतराजानः सर्पाः समितिशोभनाः। क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः। आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥ बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे। तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ इच्छेत्कोऽर्षांशुसेनायां चर्तुमैरावतं विना। शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ सर्पाणां प्रग्रहा यन्ति धृतराष्ट्रो यदैजति। ये चैनमुपसर्पन्ति ये च दूरपथं गताः। अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नम:॥ यस्य वासः कुरुक्षेत्रे खाण्डवे कुरुक्षेत्रे खाण्डवे चाभवत्पुरा। तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्॥ तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ। कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु॥ जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः। अवसद्यो महद्युम्नि प्रार्थयन्नाममुख्यताम्॥ करवाणि सदा चाहं नमस्तस्मै महात्मने। एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्। नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ। तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यत् द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवदेव श्लोकैः। त्रीण्यर्पितान्यत्र शतानि मध्ये घष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्। चक्रे चतुर्विशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति॥ तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तंतून्सततं वर्तयन्त्यौ। कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेनिहन्ता। कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति। नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय॥ ततः स एनं पुरुषः प्राह-'प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण, किं ते प्रियं करवाणि' इति स तमुवाच॥ नागा मे वशमीयुरिति। स चैनं पुरुषः पुनरुवाच एतमश्चमपाने धमस्वेति॥ ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्त्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः॥ ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षको ऽग्नेस्तेजोभयाद्विषण्ण: कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच॥ इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुणलेऽचिन्तयत्॥ अद्य तत्पुण्यकमुपाध्यायिन्या दूरं चाहमभ्यागत: स कथं संभावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥ उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायिनी च स्माता केशानावापयन्त्युपविष्टोत्तको नागच्छतीति शापायास्य मनो दधे॥ अथ तस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलमुपाध्यायिनीमभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स त्वमनागसि मया न शप्तः श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ अथोत्तङ्क उपाध्यायमभ्यवादयत्। तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरंकृतमिति॥ तमुत्तङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनाऽस्मि नागलोकं गतः॥ तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिश्च कृष्णाः सिताश्च तन्तवः किं तत्॥ तत्र च मया चक्रं दृष्टं द्वादशारं षड्वैनं कुमारा: परिवर्तयन्ति तदपि किम्। पुरुषश्चापि मया दृष्टः स चाऽपि कः। अश्वश्चातिप्रमाणो दृष्टः स चाऽपि कः॥ पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनाऽस्मि सोपचारमुक्त उत्तङ्कस्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः। तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति। स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी। यदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षऋतवः संवत्सरश्चक्रम्॥ यः पुरुषः स पर्जन्यो योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ यश्चैनमधिरूढः पुरुषः स चेन्द्रो यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान्। तस्मात्कृण्डले गृहीत्वा पुनरागतोऽसि॥ तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति। स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ स हास्तिनपुरं प्राप्य न चिराद्विप्रसत्तमः। समागच्छत राजानमुत्तको जनमेजयम्।. १७०॥ पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्। सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः। उवाचैनं वचः काले शब्दसंपन्नया गिरा॥ उत्तङ्क उवाच अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम। बाल्यादिवान्यदेव तवं कुरुषे नृपसत्तम॥ सौतिरुवाच एवमुक्तस्तु विप्रेण स राजा जनमेजयः। अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ जनमेजय उवाच आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि। प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ सौतिरुवाच स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः। उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व॥ उत्तङ्क उवाच तक्षकेण महीन्द्रेन्द्र येन ते हिंसित: पिता। तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः। तद्गच्छापचिति राजन्पितुस्तस्य महात्मनः॥ ते ह्यनपराधी स दुष्टान्तरात्मना। पञ्चत्वमगमद्राजा वजाहत इव दुमः॥ बलदर्पसमुत्सितस्तक्षकः पन्नगाधमः। अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ राजर्षिवंशगोप्तारममरप्रतिमं नृपम्। यियासुं कश्यपं चैव न्यवर्तयत पापकृत्॥ हेतुमर्हसि तं पापं ज्वलिते हव्यवाहने। सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि। मम प्रियं च सुमहत्कृतं राजन् भविष्यति॥ कर्मणः पृथिवीपाल मम येन दुरात्मना। विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ सौतिरुवाच एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप है। उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः। उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगति प्रति॥ तदैव हि स राजेन्द्रो दुःखशोकाल्पुतोऽभवत्। यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा॥ संजय उवाच ततः प्रववृते युद्धं कुरूणां भयवर्धनम्। संजयैः सह राजेन्द्र घोरं देवासुरोपमम्॥ नरा रथा गजौघाश्च सादिनश्च सहस्रशः। वाजिनश्च पराक्रान्ता: समाजग्मुः परस्परम्॥ गजानां भीमरूपाणां द्रवता निःस्वनो महान्। अश्रूयत यथा काले जलदानां नभस्तले॥ नागैरभ्याहता: केचित् सरथा रथिनोऽपतन्। व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः॥ हयौधन पादरक्षांश्च रथिनस्तत्र शिक्षिताः। शरैः सम्प्रेषयामासुः परलोकाय भारत॥ सादिनः शिक्षिता राजन् परिवार्य महारथान्। विचरन्तो रणेऽभ्यघ्नन् प्रासशक्तवृष्टिभिस्तथा।।६। धन्विनः पुरुषाः केचित् परिवार्य महारथान्। एकं बहव आसाद्य प्रययुर्यमसादनम्॥ नागान् रथवरांश्चान्ये परिवार्य महारथाः। सान्तरायोधिनं जघ्नुर्द्रवमाणं महारथम्॥ तथा च रथिनं क्रुद्धं विकिरन्तं शरान् बहून्। नागा जघ्नुर्महाराज परिवार्य समन्ततः॥ नागो नागमभिद्रुत्य रथी च रथिनं रणे। शक्तितोमरनाराचैर्निजने तत्र भारत॥ पादातानवमृद्नन्तो रथवारणवाजिनः। रणमध्ये व्यदृश्यन्त कुर्वन्तो महादाकुलम्॥ हयाश्च पर्यधावन्त चामरैरुपशोभिताः। हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनाम्॥ तेषां तु वाजिना भूमिः खुरैश्चित्रा विशाम्पते। अशोभत यथा नारी करजैः क्षतविक्षता॥ वाजिनां खुरशब्देन रथनेमिस्वनेन च। पत्तीनां चापि शब्देन नागानां बृंहितेन च॥ वादित्राणां च घोषेण शङ्खानां निनदेन च। अभवन्नादिता भूमिर्निर्घातैरिव भारत॥ धनुषां कूजमानानां शस्त्रौघानां च दीप्यताम्। कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन॥ बहवो बाहवश्छिन्ना नागराजकरोपमाः। उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्॥ शिरोभिः पतितै ति पततां धरणीतले। च्युतानामिव तालेभ्यस्तालानां श्रूयते स्वनः॥ शिरोभिः पतितै ति रुधिराद्रैर्वसुन्धरा। तपनीयनिभैः काले नलिनैरिव भारत॥ उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः। व्यभ्राजत मही राजन् पुण्डरीकैरिवावृता।॥ बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः। पतितै ति राजेन्द्र महाशक्रध्वजैरिव॥ ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे। हस्तिहस्तोपमैरन्यैः संवृतं तद् रणाङ्गणम्॥ कबन्धशतसंकीर्णं छत्रचामरसंकुलम्। सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा॥ तत्र योधा महाराज विचरन्तो ह्यभीतवत्। दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः॥ मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः। पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे॥ गजानीकं महाराज वध्यमानं महात्मभिः। व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव॥ ते गजा घनसंकाशा: पेतुरुा समन्ततः। वज्रनुन्ना इव बभुः पर्वता युगसंक्षये॥ हयानां सादिभिः सार्धं पतितानां महीतले। राशयः स्म प्रदृश्यन्ते गिरिमात्रस्ततस्ततः॥ संजज्ञे रणभूमौ तु परलोकवहा नदी। शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा॥ भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला। मेदोमजाकर्दमिनी छत्रहंसा गदोडुपा॥ कवचोष्णीषसंच्छन्ना पताकारुचिरदुमा। चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता॥ शूराणां हर्षजननी भीरूणां भयवर्धनी। प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला॥ तां नदी परलोकाय वहन्तीमतिभैस्वाम्। तेरुहिननौभिस्तैः : शूराः परिधबाहवः॥ वर्तमाने तदा युद्धे निर्मयादे विशाम्पते। चतुरङ्गक्षये घोरे पूर्वदेवासुरोपमे॥ व्याक्रोशन् बान्धवानन्ये तत्र तत्र परंतप। क्रोशाद्भिर्दयितैरन्ये भयार्ता न निवतिरे।॥ निर्मर्यादे तथा युद्धे वर्तमाने भयानके। अर्जुनो भीमसेनश्च मोहयांचक्रतुः परान्॥ सा वध्यमाना महती सेना तव नराधिप। अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव॥ मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ। दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः॥ श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डीनौ। धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ॥ तत्राश्चर्यमपश्याम घोररूपं विशाम्पते। शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः॥ माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ। अभ्ययातां त्वरायुक्तौ जिगीषन्तौ परंतप॥ ततो न्यवर्तत बलं तावकं भरतर्षभ। शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः॥ वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव। भेजे दिशो महाराज प्रणुन्ना शरवृष्टिभिः॥ हाहाकारो महाञ्जज्ञे योधानां तव भारत। तिष्ठ तिष्ठेति चाप्यासीद् द्रावितानां महात्मनाम्॥ क्षत्रियाणां सहान्योन्यं संयुगे जयमिच्छताम्। प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः॥ त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातृनथ पितामहान्। मातुलान् भागिनेयांश्च वयस्यानपि भारत॥ हयान् द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः। आत्मत्राणकृतोत्साहास्तावका भरतर्षभ॥ अव्यक्तात् पूर्वमुत्पन्नो महानात्मा महामतिः। आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते॥ महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान्। बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिधृतिः स्मृतिः॥ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते। तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधिगच्छति॥ सर्वत:पाणिपादश्च सर्वतोऽक्षिशिरोमुखः। सर्वत:श्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति॥ महाप्रभावः पुरुषः सर्वस्य हृदि निश्चितः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः॥ तत्र बुद्धिविदो लोकाः सद्भावनिरताश्च ये। ध्यानिनो नित्ययोगाश्च सत्वसंधा जितेन्द्रियाः॥ ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः। प्रसन्नमनसो धीरा निर्ममा निरहंकृताः॥ विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत। आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्॥ अहंकारात् प्रसूतानि पहाभूतानि पञ्च वै। पृथिवी वायुराकाशमायो ज्योतिश्च पञ्चमम्॥ तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु। ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च॥ महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्॥ स धीरः सर्वलोकेषु न मोहमधिगच्छति। विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः॥ एवं हि यो वेद गुहाशय प्रभु परं पुराणं पुरुष विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति॥ हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति॥ वैशम्पायन उवाच ततः काव्यो भृगुश्रेष्ठ समन्युरुपगम्य हा वृषपर्वाणमासीनमित्युवाचाविचारयन्॥ नाधर्मश्चरितो राजन् सद्यः फलति गौरिव। शनैरावय॑मानो हि कर्तुर्मूलानि कृन्तति॥ पुत्रेषु वा नतृषु वा न चेदात्मनि पश्यति। फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे॥ यदधात यथा विप्रं कचमाङ्गिरसं तदा। अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम्॥ वधादनहतस्तस्य वधाच दुहितुर्मम। वृषपर्वन् निबोधेदं त्यक्ष्यामि त्वां सबान्धवम्। स्थातुं त्वद्विषये राजन् न शक्ष्यामि त्वया सह॥ अहो मामभिजानासि दैत्य मिथ्याप्रलपिनम्। यथेममात्मनो दोषं न नियच्छस्युपेक्षसे॥ वृषपर्वोवाच नाधर्मं न मृषावादं त्वयि जानामि भार्गव। त्वयि धर्मश्च सत्यं च तत् प्रसीदतु नो भवान्॥ यद्यस्मानपहाय त्वमितो गच्छसि भार्गव। समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम्॥ शुक्र उवाच समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः। दुहितु प्रियं सोढुं शक्तोऽहं दयिता हि मे॥ प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्। योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः॥ वृषपर्वोवाच यत् किंचिदसुरेन्द्राणां विद्यते वसु भार्गव। भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्वरः॥ शुक्र उवाच यत् किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोऽस्मि यद्येषा देवयानी प्रसाद्यताम्॥ वैशम्पायन उवाच एवमुक्तस्तथेत्याह वृषपर्वा महाकविः। देवयान्यन्तिकं गत्वा तमर्थ प्राह भार्गवः॥ देवयान्युवाच यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव नाभिजानामि तत् तेऽहं राजा तु वदतु स्वयम्॥ वृषपर्वोवाच यं काममभिकामासि देवयानि शुचिस्मिते। तत् तेऽहं सम्प्रदास्यामि यदि वापि हि दुर्लभम्॥ देवयान्युवाच दासी कन्यासहस्रेण शर्मिष्ठामभिकामये। अनु मां तत्र गच्छेत् सा यत्र दद्याच मे पिता॥ वृषपर्वोवाच उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय। यं च कामयते कामं देवयानी करोतु तम्॥ वैशम्पायन उवाच ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्। उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह॥ त्यजति ब्राह्मण: शिष्यान् देवयान्या प्रचोदितः। सायं कामयते कामं स कार्योऽद्य त्वयानघे॥ शर्मिष्ठोवाच यं सा कामयते कामं करवाण्यहमद्य तम्। यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्। मद्दोषान्मा गमच्छुक्रो देवयानी च मत्कृते॥ वैशम्पायन उवाच ततः कन्यासहस्रेण वृता शिबिकया तदा। पितुर्नियोगात् त्वरिता निश्चक्राम पुरोत्तमात्॥ शर्मिष्ठोवाच अहं दासीसहस्रेण दासी ते परिचारिका। अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता॥ देवयान्युवाच स्तुवतो दुहिताहं ते याचतः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि॥ शर्मिष्ठोवाच येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्। अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता॥ वैशम्पायन उवाच प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः। देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्॥ देवयान्युवाच प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम। अमोघं तव विज्ञानमस्ति विद्याबलं च ते॥ वैशम्पायन उवाच एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः। प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः॥ वैशम्पायन उवाच क्रोशमानं प्रयातेषु पाण्डवेषु महात्मसु। पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्॥ श्रान्ता दुःखपरीता च वातवर्षेण तेन च। सौकुमार्याच्च पाञ्चाली सम्मुमोह तपस्विनी॥ सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा। वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत॥ आलम्बमाना सहितावूरू गजकरोपमौ। पपात सहसा भूमौ वेपन्ती कदली यथा॥ तां पतन्तीं वरारोहां भज्यमानां लतामिव। नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्॥ नकुल उवाच राजन् पञ्चालराजस्य सुतेयमसितेक्षणा। श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत॥ अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी। आश्वासय महाराज तामिमां श्रमकर्शिताम्॥ वैशम्पायन उवाच राजा तु वचनात् तस्य भृशं दुःखसमन्वितः। भीमश्च सहदेवश्च सहसा समुपाद्रवन्॥ तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम्। अङ्कमानीयधर्मात्मा पर्यदेवयदातुरः॥ युधिष्ठिर उवाच कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता। भूमौ निपतिता शेते सुखार्दा वरवर्णिनी॥ सुकुमारौ कथं पादौ मुखं च कमलप्रभम्। मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्॥ किमिदं द्यूतकामेन मया कृतमबुद्धिना। आदाय कृष्णां चरता वने मृगगणायुते॥ सुखं प्राप्स्यसि कल्याणि पाण्डवान् प्राप्य वै पतीन्। इति दुपदराजेन पित्रा दत्ताऽऽयतेक्षणा॥ तत् सर्वमनवाप्येयं श्रमशोकाध्वकर्शिता। शेते निपतिता भूमौ पापस्य मम कर्मभिः॥ वैशम्पायन उवाच तथा लालप्यमाने तुधर्मराजे युधिष्ठिरे। धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः॥ ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्। रक्षोघ्नांश्च तथा मन्त्राओपुश्चक्रुश्च ते क्रियाः॥ पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः। स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः॥ सेव्यमाना च शीतेन जलमिश्रेण वायुना। पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः॥ परिगृह्य च तां दीनां कृष्णामजितनसंस्तरे। पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम्॥ तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ। कराभ्यां किणजाताभ्यां शनकैः संववाहतुः॥ पर्याश्वासयदप्येनांधर्मराजो युधिष्ठिरः। उवाच च कुरश्रेष्ठो भीमसेनमिदं वचः॥ बहवः पर्वता भीम विषमः हिमदुर्गमाः। तेषु कृष्णा महाबाहो कथं नु विचंरिष्यति॥ भीमसेन उवाच त्वां राजन् राजपुत्रीं च यमौ च पुरुषर्षभ। स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः॥ हैडिम्बाश्च महावीर्यो विहगो मद्बलोपमः। वहेदनघ सर्वान्नो वचनात् ते घटोत्कचः॥ वैशम्पायन उवाच अनुज्ञातोधर्मराज्ञा पुत्रं सस्मार राक्षसम्। घटोत्कचस्तुधर्मात्मा स्मृतमात्रः पितुस्तदा॥ कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान्। ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः॥ उवाच भीमसेनं स पितरं भीमविक्रमम्। स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः॥ आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम्। तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे॥ भीष्म उवाच एतत् ते राजधर्माणां नवनीतं युधिष्ठिर। बृहस्पतिर्हि भगवान् न्याय्यं धर्मं प्रशंसति॥ विशालाक्षश्च भगवान् काव्यश्चैव महातपाः। सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः॥ भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः। राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः॥ रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर। राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु॥ चारश्च प्रणिधिश्चैव काले दानममत्सरात्। युक्त्यादानं न चादानमयोगेन युधिष्ठिर॥ सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्। अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम्॥ केतनानां च जीर्णानामवेक्षा चैव सीदताम्। द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः॥ साधूनामपरित्यागः कुलीनानां च धारणम्। निचयश्च निचेयानां सेवा बुद्धिमतामपि॥ बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्। कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्॥ पुरगुप्तिरविश्वास: पौरसंघातभेदनम्। अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्॥ उपजापश्च भृत्यानामात्मनः पुरदर्शनम्। अविश्वासः स्वयं चैव परस्याश्वासनं तथा।॥ नीतिधर्मानुसरणं नित्यमुत्थानमेव च। रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्॥ उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत। राजधर्मस्य तन्मूलं श्लोकांश्चात्र निबोध मे॥ उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महन्द्रेण श्रेष्ठ्यं प्राप्तं दिवीह च॥ उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति। उत्थानवीरान् वाग्वीरा रमयन्त उपासते॥ उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः। प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा। अल्पोऽपि हि दहत्यग्निविषमल्पं हिनस्ति च॥ एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः। सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥ राज्ञो रहस्यं यद् वाक्यं जयार्थं लोकसंग्रहः। हृदि यच्चास्य जिह्यं स्यात्कारणेन च यद् भवेत्॥ यच्चास्य कार्यं वृजिनमार्जवेनैव धारयेत्। दम्भनार्थं च लोकस्य धर्मिष्ठामाचरेत् क्रियाम्॥ राज्यं हि सुमहत् तन्त्रं धार्यते नाकृतात्मभिः। न शक्यं मृदुना वोढुमायासस्थानमुत्तमम्॥ राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते। तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर॥ यद्यप्यस्य विपत्तिः स्याद् रक्षमाणस्य वै प्रजाः। सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः॥ एष ते राजधर्माणां लेशः समनुवर्णितः। भूयस्ते यत्र संदेहस्तद् ब्रूहि कुरुसत्तम॥ वैशम्पायन उवाच ततो व्यासश्च भगवान् देवस्थानोऽश्म एव च। वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा॥ साधु साध्विति संहृष्टाः पुष्ष्यमाणैरिवाननैः। अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम्॥ ततो दीनमना भीष्ममुवाच कुरुसत्तमः। नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्॥ श्व इदानीं स्वसन्देहं प्रक्ष्यामि त्वां पितामह। उपैति सविता शस्तं रसमापीय पार्थिवम्॥ ततो द्विजातीनभिवाद्य केशवः कृपश्व ते चैव युधिष्ठिरादयः। प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदान्विताः॥ दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्थाः कृतजष्यमङ्गलाः। उपास्य संध्यां विधिवत् परंतर्पा स्तत: पुरं ते विविशुर्गजाह्वयम्॥ संजय उवाच दृष्ट्वा कर्ण महेष्वासं युयुत्सुं समवस्थितम्। चुक्रुशः कुरवः सर्वे हृष्टरूपाः समन्ततः॥ ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च। बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्॥ निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम्। प्रयाते तु ततः कर्णे योधेषु मुदितेषु च।॥ चचाल पृथिवी राजन् ववाश च सुविस्तरम्। निःसरन्तौ व्यद्दश्यन्त सूर्यात् सप्त महाग्रहाः॥ उल्कापाताश्च संजजुदिशां दाहास्तथैव च। शुष्काशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः॥ मृगपक्षिगणाश्चैव पृतनां बहुशस्तव। अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम्॥ प्रथितस्य च कर्णस्य निपेतुस्तुरगा भुवि। अस्थिवर्षं च पतितमन्तरिक्षाद् भयानकम्॥ जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे। अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते॥ एते चान्ये च बहव उत्पातास्तत्र दारुणाः। समुत्येतुर्विनाशाय कौरवाणां सुदारुणाः॥ न च तान् गणयामासुः सर्वे दैवेन मोहिताः। प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नराधिपाः। निर्जितान् पाण्डवाश्चैव मेनिरे तत्र कौरवाः॥ ततो रथस्थः परवीरहन्ता भीष्मद्रोणावस्तवीर्यो समीक्ष्य। समज्ज्वलन् भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो नृप॥ स शल्यमाभाष्य वाक्यं पार्थस्य कर्मातिशयं विचिन्त्य। मानेन दर्पण विदह्यमानः क्रोधेन दीप्यनिव निःश्वसंश्च॥ नाहं महेन्द्रादपि वज्रपाणे: क्रुद्धाद् बिभेम्यायुधवान् रथस्थः। नतीव मां ह्यस्थिरता जहाति॥ महेन्द्रविष्णुप्रतिमावनिन्दतौ रथाश्वनागप्रवरप्रमाथिनौ। स्ततो न मेऽप्यस्ति रणे साध्वसम्॥ समीक्ष्य संख्येऽतिबलान् नराधिपान् ससूतमातङ्गरथान् परैर्हतान्। कथं न सर्वानहितान् रणेऽवधीद् महास्त्रविद् ब्राह्मणपुङ्गवो गुरुः॥ स संस्मरन् द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत। न वा मदन्यः प्रसहेद् रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम्॥ शिक्षाप्रमादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च। स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये॥ नेह ध्रुवं किंचिदपि प्रचिन्तयन् विद्यां लोके कर्मणो नित्ययोगात्। सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते॥ न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा। अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः॥ हुताशनदित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम्। नये बृहस्पत्युशनोः सदा समं न चैनमस्त्रं तदुपास्त दुःसहम्॥ सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्र। मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद् द्विषतामनीकम्॥ यत्र राजा पाण्डवः सत्यसंधो व्यवस्थितो भीमसेनार्जुनौ चा वासुदेवः सात्यकिः सृजायाश्च यमौ च कस्तान् विषहेन्मदन्यः॥ तस्मात् क्षिप्रं मद्रपते प्रयाहि रणे पञ्चालान् पाण्डवान् सृञ्जयांश्च। तान् वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणपथा यमाय॥ न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति मां शल्य विद्धि। मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम्॥ प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य। अतो विद्वन्नभियास्यामि पार्थान् दिष्टं न शक्यं व्यतिवर्तितुं वै॥ कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत्। तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान भोगान् दुस्त्यजं जीवितं च॥ वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोषं रजतत्रिवेणुम्। युक्तं प्रादान्मह्यमिमं हि रामः॥ धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान् गदाः सायकांचोग्ररूपान्। असिं च दीप्तं परमायुधं च शङ्ख च शुभं स्वनवन्तमुग्रम्॥ पताकिनं वज्रनिपातनि:स्वनं सिताश्वयुक्तं शुभतूणशोभितम्। इमं समास्थाय रथं स्थर्षभं रणे हनिष्याम्यहमर्जुनं बलात्॥ तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाप्रमत्तः समरे पाण्डुपुत्रम्। तं वा हनिष्यामि रणे समेत्य यास्यामि वा भीष्ममुखो यमाय॥ यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे। जुगुपिषव इहैत्य पाण्डवं किमु बहुना सह तैर्जयामि तम्॥ संजय उवाच स्तदुत निशम्यवचः स मद्रराट्। अवहमदवपन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम्॥ शल्य उवाच दतिरभसोऽप्यतिवाचमुक्तवान्। क्व च हि नरवरो धनंजयः क्व पनरहो पुरुषाधमो भवान्॥ यदुसदनमुपेन्द्रपालितं त्रिधशमिवामरराजरक्षितम्। प्रसभमतिरिलोड्य को हरेत् पुरुषवरावरजामृतेऽर्जुनात्॥ त्रिभुवनविभुमीश्वरं क इह पुमान भवमाह्वयेद् युधि। मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः॥ असुरसुरमहोरगान् नरान् गरुडपिशाचसयक्षराक्षसान्। इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः॥ स्मरसि ननु यदा परैर्हतः स च धृतराष्ट्रसुतोऽपि मोक्षितः। दिनकरसदृशैः शरोत्तमैर्युधा कुरुषु बहून् विनिहत्य तानरीन्॥ प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः। स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः॥ समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे। सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः॥ स्तव निधनाय सुयुद्धमद्य वै। यदि न रिपुभयात् पलायसे समरगतोऽद्य हतोऽसि सूतज॥ संजय उवाच इति बहु परुषं प्रभाषति प्रमनसि मद्रपती रिपुस्तवम्। भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम्॥ कर्ण उवाच भवतु भवतु कि विकत्यसे ननु मम तस्य हि युद्धमुद्यतम्। यदि स जयति मानिहाहवे तत इदमस्तु सुकस्थितं तव॥ संजय उवाच एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्। याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया॥ स रथः प्रययौ शत्रूश्वेताश्वः शल्यसारथिः। निघ्नन्नमित्रान् समरे तमो घ्नन् सविता यथा॥ ततः प्रायात् प्रीतिमान् वै रथेन वैया ण श्वेतयुजाथ कर्णः। स चालोक्य ध्वजिनी पाण्डवानां धनंजयं त्वरया पर्यपृच्छत्॥ धृतराष्ट्र उवाच बहूनि हि विचित्राणि द्वैस्थानि स्म संजय। पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः॥ न चैव मामकं किंचित् हृष्टं शंससि संजय। नित्यं पाण्डुसुतान् हृष्टानभग्नान् सम्प्रशंससि॥ वै जीयमानान् विमनसो मामकान् विगतौजसः। वदसे संयुगे सूत दिष्टमेतन्न संशयः॥ संजय उवाच यथाशक्तिं यथोत्साहं युद्धे चेष्टन्ति तावकाः। दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ॥ गङ्गायाः सुरनद्या स्वादु भूत्वा यथोदकम्। महोदधेर्गुणाभ्यासाल्लवणत्वं निगच्छति॥ तथा तत् पौरुषं राजंस्तावकानां परंतप। प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे॥ घटमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम्। न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि॥ तवापराधात् सुमहान् सपुत्रस्य विशाम्पते। पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः॥ आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप। न हि रक्षन्ति राजान: सर्वथाऽत्रापि जीवितम्॥ युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः। चमू विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः॥ पूर्वाह्ने तु महाराज प्रावर्तत जनक्षयः। तं त्वमेकमना भूत्वा शृणु देवासुरोपमम्॥ आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ। इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ॥ तेषां प्रववृते युद्धं सुमहल्लोमहर्षणम्। इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ॥ विव्याध निशितैस्तूर्णं शरैःसंनतपर्वभिः। तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ॥ युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत। यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्॥ इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः। चतुरभिश्चतुरो वाहाननयद् यमसादनम्॥ भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष। चिच्छेद समरे राजस्तदद्भुतमिवाभवत्॥ त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः। धनुर्गृहीत्वा परमं भारसाधनमुत्तमम्॥ तावेकस्थो रणे वीरावावन्त्यौ रथिनां वरौ। शरान् मुमुग्रतुस्तूर्णमिरावति महात्मनि॥ ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः। दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्॥ इरावांस्तु रणे क्रुद्धो भ्रातरौ तौ महारथौ। ववर्ष शरवर्षेण सारथिं चाप्यपातयत्॥ तस्मिंस्तु पतिते भूमौ गतसत्त्वे तु सारथौ! रथः प्रदुद्राव दिशः समुद्घान्तहयस्ततः॥ तौ स जित्वा महाराज नागराजसुतासुतः। पौरुषं ख्यापयंस्तूर्णं व्यधमत् तव वाहिनीम्॥ सा वध्यमाना समरे धार्तराष्ट्री महाचमूः। वेगान् बहुविधांश्चक्रे विषं पीत्वेव मानवः॥ हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्। रथेनादित्यवर्णेन सध्वजेन महाबलः॥ ततः प्राग्ज्योतिषो राजा नागराज समास्थितः। यथा वज्रधरः पूर्वं संग्रामे तारकामये॥ तत्र देवाः सगन्धर्वा ऋषयश्च समागताः। विशेषं न स्म विविदुईडिम्बभगदत्तयोः॥ यथा सुरपतिः शक्रस्त्रासयामास दानवान्। तथैव समरे राजा द्रावयामास पाण्डवान्॥ तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्। त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत॥ भैमसेनि रथस्थं तु तत्रापश्याम भारत। शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः॥ निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत। आसीनिष्ठानका घोरस्तत सैन्यस्य संयुगे॥ घटोत्कचस्ततो राजन् भगदत्त महारणे। शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः॥ निहत्य ताशरान् राजा राक्षसस्य धनुश्च्युतान्। भैमसेनि रणे तूर्णं सर्वमर्मस्वताडयत्॥ स ताड्यमानो बहुभिः शरैः संनतपर्वभिः। न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः॥ तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश। प्रेषयामास समरे ताश्चिच्छेद स राक्षसः॥ स तांश्छित्त्वा महाबाहुस्तोमरान् निशितैः शरैः। भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः॥ ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत। तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः॥ स हताश्वे रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान्। शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति॥ तामापतन्ती सहसा हेमदण्डां सुवेगिनीम्। त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम्॥ शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद् भयात्। यथेन्द्रस्य रणात् पूर्वं नमुचिर्दैत्यसत्तमः॥ तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम्। अजेयं समरे वीरं यमेन वरुणेन च॥ पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः। यथा वनगजो राजन् मृनश्चरति पद्मिनीम्॥ मद्रेश्वरस्तु समरे यमाभ्यां समसज्जत। स्वस्त्रीयौ छादयांचक्रे शरौः पाण्डुनन्दनौ॥ सहदेवस्तु समरे मातुलं दृश्य संगतम्। अवारयच्छरौघेण मेघो यद्वद् दिवाकरम्॥ छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत्। तयोश्चाप्यभवत् प्रीतिरतुला मातृकारणात्॥ ततः प्रहस्य समरे नकुलस्य महारथः। अश्वांश्च चतुरो रांजश्चतुर्भिः सायकोत्तमैः॥ प्रेषयामास समरे यमस्य सदनं प्रति। हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः॥ आरुरोह ततो यानं भ्रातुरेव यशस्विनः। एकस्थौ तु रणे शूरो दृढे विक्षिप्य कार्मुकौ॥ मद्रराजरथं तूर्णं छादयामासतुः क्षणात्। स छाद्यमानो बहुभिः शरैः संनतपर्वभिः॥ स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः। प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह॥ सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्। पद्रराजमभिप्रेक्ष्य प्रेषयामास भारत।॥ स शरः प्रेषितस्तेन गरुडानिलवेगवान्। मद्रराजं विनिर्भिद्य निपपात महीतले॥ स गाढविद्धो व्यथितो रथोपस्थे महारथः। निषसाद महाराज कश्मलं च जगाम ह॥ तं विसंज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे। अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्॥ दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम्। सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्॥ निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ। दध्मतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः॥ अभिदुद्रुवतुर्हष्टौ तव सैन्यं विशाम्पते। यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ॥ वैशम्पायन उवाच ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः। अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥ साज्येन पयसेनैव मधुना मिश्रितेन च। कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः॥ भक्ष्यप्रकारैर्विविधैः फलैश्चापि तथा नृप। चोष्यैश्च विविधै राजन् पेयैश्च बहुविस्तरैः॥ अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि। तर्पयामास विप्रेन्द्रान् नानादिग्भ्यः समागतान्॥ ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः। पुण्याहघोषस्तत्रासीद दिवस्पृगिव भारत॥ वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि। पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च॥ तत्र मल्ला नटा झल्ला: सूता वैतालिकास्तथा। उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्॥ तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः। तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि॥ सभायामृषयस्तस्यां पाण्डवैः सह आसते। आसांचक्रुनरेन्द्राश्च नानादेशसमागताः॥ असितो देवलः सत्यः सर्पिर्माली महाशिराः। अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः॥ बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः। सुमन्तुजैमिनिः पैलो व्यासशिष्यास्तथा वयम्॥ तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः। अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ॥ दामोष्णीषस्त्रैबलिश्च पर्णादो घटजानुकः। मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः॥ बलिवाकः सिनीवाकः सत्यपालः कृतश्रमः। जातूकर्ण: शिखावांश्च आलम्बः पारिजातकः॥ पर्वतश्च महाभागो मार्कण्डेयो महामुनिः। पवित्रपाणि: सावर्णो भालुकिर्गालवस्तथा॥ जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः। हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः॥ काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः। पैङ्गयो वराहः शुनकः शाण्डिल्यश्च महातपाः॥ कुक्कुरो वेणुजङ्घोऽथ कालापः कद्द एव च। मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः॥ एते चान्ये च बहवो वेदवेदाङ्गपारगाः। उपासते महात्मानं सभायामृषिसत्तमाः॥ कथयन्तः कथाः पुण्या धर्मज्ञा शुचयोऽमलाः। तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते॥ श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः। संग्रामजिद् दुमुखश्च उग्रसेनश्च वीर्यवान्॥ कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः। कम्बोजराजः कमद्दः कम्पनश्च महाबलः॥ सततं कम्पयामास यवनानेक एव यः। बलपौरुषसम्पन्नान् कृतास्त्रानमितौजसः। यथासुरान् कालकेयान् देवो वज्रधरास्तथा॥ जटासुरो मद्रकाणां च राजा कुन्तिः पुलिन्दश्च किरातराजः। तथाऽऽङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण॥ अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः। किरातराजः सुमना यवनाधिपतिस्तथा॥ चाणूरो देवरातश्च भोजो भीमरथश्च यः। श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः॥ सुकर्मा चेकितानश्च पुस्श्वामित्रकर्शनः। केतुमान् वसुदानश्च वैदेहोऽथ कृतक्षणः॥ सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः। अनूपराजो दुर्धर्षः क्रमजिच्च सुदर्शनः॥ शिशुपालः सहसुत: करूषाधिपतिस्तथा। वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः॥ आहुको विपृथुश्चैव गदः सारण एव च। अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः॥ भीष्मकोऽथाकृतिश्चैव धुमत्सेनश्च वीर्यवान्। केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः॥ केतुमान् वसुमांश्चैव कृतास्त्रश्च महाबलः। एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः॥ उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्। अर्जुनं ये च संश्रित्य राजपुत्रा महाबलाः॥ अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः। तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः॥ रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः। सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः॥ एते चान्ये च बहवो राजानः पृथिवीपते। धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः॥ उपासते महात्मानमासीनं सप्तविंशतिः। चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा॥ गीतवादित्रकुशलाः साम्यतालविशारदाः। प्रमाणेऽथ लये स्थाने किन्नराः कृतनिश्रमाः॥ संचोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा। गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः। पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते॥ तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः। दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते॥ धृतराष्ट्र उवाच दृष्ट्वा मे निहतान् पुत्रान् बहूनेकेन संजय। भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे।।। अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय। मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्॥ यत्र मे तनया: जीयन्ते न जयनत्युत। यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः॥ सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः। अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्॥ अन्येषां चैव शूराणां मध्यगास्तनया मम। यदहन्यन्त संग्रामे किमन्यद् भागधेयतः॥ न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत। वार्यमाणो मया तात भीष्मेण विदुरेण च॥ गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया। नाबुध्यत पुरा मोहात् तस्य प्राप्तमिदं फलम्॥ यद् भीमसेनः समरे पुत्रान् मम विचेतसः। अहन्यहनि संक्रुद्धो नयते यमसादनम्॥ संजय उवाच इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्। न बुद्धवानसि विभो प्रोच्यमानं हितं तदा॥ निवारय सुतान् द्यूतात् पाण्डवान् मा दुहेति च। सुहृदां हितकामानां ब्रुवतां तत् तदेव च॥ न शुश्रूषसि तद् वाक्यं मर्त्यः पथ्यमिवौषधम्। तदेव त्वामनुप्राप्तं वचनं साधुभाषितम्॥ विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्। अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः॥ तदेतत् समनुप्राप्तं पूर्वमेव विशाम्पते। तस्मात् त्वं शृणु तत्त्वेन यथा युद्धमवर्तत॥ मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत। लोकक्षयकरो राजस्तन्मे निगदतः शृणु।॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया॥ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथतः। युक्तानीका महाराज भीष्ममेव समभ्ययुः॥ विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः। अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम्॥ केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः। युक्तानीका महाराज भीष्ममेव समभ्ययुः॥ अर्जुनो द्रौपदेयाश्च चेकितानश्च वीर्यवान्। दुर्योधनसमादिष्टान् राज्ञः सर्वान् समभ्ययुः॥ अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः। भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान्॥ त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवै राजन्नवध्यन्त परे रणे॥ द्रोणस्तु रथिनः श्रेष्ठान् सोमकान् संजयैः सह। अभ्यधावत संक्रुद्धः प्रेषयिष्यन् यमक्षयम्॥ तत्राक्रन्दो महानासीत् सुंजयानां महात्मनाम्। वध्यतां समरे राजन् भारद्वाजेन धन्विना॥ द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विचेष्टन्तो ह्यदृश्यन्त व्याधिक्लिष्टा नरा इव॥ कूजतां क्रन्दतां चैव रस्तनतां चैव भारत। अनिशं शुश्रुवै शब्दः क्षुत्क्लिष्टानां नृणामिव॥ तथैव कौरवेयाणां भीमसेनो महाबलः। चकार कदनं घोरं क्रुद्धः काल इवापरः॥ वध्यतां तत्र सैन्यानामन्योन्येन महारणे। प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी॥ स संग्रामो महाराज घोररूपोऽभवन्महान्। कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः॥ ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे॥ तत्र भारत भीमेन नाराजाभिहता गजाः। पेतुर्नेदुश्च सेदुश्च दिसश्च परिबभ्रमुः॥ छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष। क्रौञ्चवद् व्यनदन् भीताः पृथिवीमधिशेरते॥ नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः॥ वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः। पतिद्भिस्तुरगै राजन् समास्तीर्यत मेदिनी॥ निर्जिकैश्च श्वसद्धिश्च कूजद्भिश्च गतासुभिः। हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा॥ अर्जुनेन हतैः संख्ये तथा भारत राजभिः। प्रबभौ वसुधा घोरा तत्र तत्र विशाम्पते॥ स्थैर्भग्नैर्ध्वजैश्छिन्नैनिकृत्तैश्च महायुधैः। चामरैर्व्यजनैश्चैव छत्रैश्च सुमहाप्रभैः॥ हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः। उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः॥ अनुकषैः शुभै राजन् योक्त्रैश्चैव सरश्मिभिः। संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव॥ एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्ध शान्तनवे भीष्मे द्रोणे च रथसत्तमे॥ अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः॥ व्यास उवाच धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम। वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्॥ न मे प्रियं महाबाहो यद् गताः पाण्डवा वनम्। निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः॥ ते स्मरन्तः परिक्लेशान् वर्षे पूर्णे त्रयोदशे। विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत॥ तदयं किं नु पापात्मा तव पुत्रः सुमन्दधी। पाण्डवान् नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति॥ वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः। वनस्थांस्तानयं हन्तुमिच्छन् प्राणान् विमोक्ष्यति॥ यथा हि विदुर: प्राज्ञो यथा भीष्मो यथा वयम्। यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि॥ विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः। अधर्म्यमयशस्यं च मा राजन् प्रतिपद्यताम्॥ समीक्षा यादृशी ह्यस्य पाण्डवान् प्रति भारत। उपेक्ष्यमाणा स राजन् महान्तमनयं स्पृशेत्॥ अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः। पाण्डैवः सहितो राजन्नेक एवासहायवान्॥ ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः। यदि स्यात् कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर।॥ अथवा जायमानस्य यच्छीलमनुजायते। श्रूयते तन्महाराज नामृतस्यापसर्पति॥ कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा। भवान् वात्र क्षमं कार्य पुरा वोऽर्थोऽभिवर्धते॥ वैशम्पायन उवाच भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परंतपः॥ श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः। आयत्यां च तदात्वे च यः पश्यति स पश्यति॥ धर्मस्य जानमानोऽहं गतिमवयां सुदुर्विदाम्। कथं बलात् करिष्यामि मेरोरिव विमर्दनम्॥ स मुहूर्तमिवध्यात्वा विनिश्चत्येतिकृत्यताम्। भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्॥ युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत् समादत्स्व वाच्यं मे वाक्यकोविद॥ महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत॥ समुन्त्रिते सुविक्रान्ते सुकृते सुविचारिते। सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्॥ यत् तु केवचापल्याद् बलदपोत्थितः स्वयम्। आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे॥ भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्॥ धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृतास्त्राश्च सततं चाततायिनः॥ राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। संश्रिताः कौरवं पक्षं जातस्नेहाश्च तं प्रति॥ दुर्योधनहिते युक्ता न तथास्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति संगरे॥ सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः। संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः॥ दुर्योधनेन ते वीरा मानिताश्च विशेषतः। प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः॥ समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च। द्रोणस्य च महाबाहो कृपस्य च महात्मनः॥ अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः। तस्मात् त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्॥ सर्वे दिव्यास्त्रविद्वांसः सर्वेधर्मपरायणाः। अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः॥ अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः। सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः॥ अनिर्जित्य रणे सर्वानेतान् पुरुषसत्तमान्। अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया॥ न निद्रामधिगच्छामि चिन्तयानो वृकोदर। अतिसर्वान्धनुाहान् सूतपुत्रस्य लाघवम्॥ वैशम्पायन उवाच एतद् वचनमाज्ञाय भीमसेनोऽत्यमर्षणः। बभूव विमनास्त्रस्तो न चैवोवाच किंचन॥ तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः। आजगाम महायोगी व्यास: सत्यवतीसुतः॥ सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः। युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः॥ व्यास उवाच युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्। मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ॥ भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोण पुत्राच्च भारत। दुर्योधनान्नृपसुतात् तथा दुःशासनादपि॥ यत् ते भयममित्रघ्न हृदि सम्परिवर्तते। तत् तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा॥ तच्छुत्वाधृतिमास्थाय कर्मणा प्रतिपादय। प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि॥ तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम। अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः॥ श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम। येनाभिभविता शत्रून् रणे पार्थोधनुर्धरः॥ गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव। विद्यां प्रतिस्मृति नाम प्रपन्नाय ब्रवीमि ते॥ यामवाप्य महाबाहुरर्जुनः साधयिष्यति। अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु॥ वरुणं च कुबेरं चधर्मराजं च पाण्डव। शक्तो ह्येष सुरान् द्रष्टुं तपसा विक्रमेण च॥ ऋषिरेष महातेजा नारायणसहायवान्। पुराणः शाश्वतो देवस्त्वजेयी जिष्णुरच्युतः॥ अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च। समादाय महाबाहुर्महत् कर्म करिष्यति॥ वनादस्माच्च कौन्तेय वनमन्यद् विचिन्त्यताम्। निवासार्थाय यद् युक्तं भवेद् वः पृथिवीपते॥ एकत्र चिरवासो हि न प्रीतिजननो भवेत्। तापसानां च सर्वेषां भवेदुद्वेगकारकः॥ मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः। बिभर्षि च बहून् विप्रान् वेदवेदाङ्गपारगान्॥ वैशम्पायन उवाच एवमुक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः। प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम्॥ धर्मराजायधीमान् स व्यासः सत्यवतीसुतः। अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत॥ युधिष्ठिरस्तुधर्मात्मा तद् ब्रह्म मनसा यतः। धारयामास मेधावी काले काले सदाभ्यसन्॥ स व्यासवाक्यमुदितो बनाद् द्वैतवनात् ततः। ययौ सरस्वतीकूले काम्यकं नाम काननम्॥ तमन्वयुर्महाराज शिक्षाक्षरविशारदाः। ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा॥ ततः काम्यकमासाद्य पुनस्ते भरतर्षभ। न्यविशन्त महात्मानः सामात्याः सपरिच्छदाः॥ तत्र ते न्यवसन् राजन् किंचित् कालं मनस्विनः। धनुर्वेदपरा वीराः शृण्वन्तो वेदमुत्तमम्॥ चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः। पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि॥ ब्राहाण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कार्तवीर्यस्य संवादं समुद्रस्य च भाविनि॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्। येन सागरपर्यन्ता धनुषा निर्जिता मही॥ स कदाचित् समुद्रान्ते विचरन् बलदर्पितः। अवाकिरशरशतैः समुद्रमिति नः श्रुतम्॥ तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच हा मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते॥ मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः। वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो॥ अर्जुन उवाच मत्समो यदि संग्रामे शरासनधरः क्वचित्। विद्यते तं समाचक्ष्व यः समासीत मां मृधे॥ समुद्र उवाच महर्षिर्जमदग्निस्ते यदि राजन् परिश्रुतः। तस्य पुत्रस्तवातिथ्यं यथावत् कर्तुमर्हति।॥ ततः स राजा प्रययौ क्रोधेन महता वृतः। स तमाश्रममागम्य राममेवान्वपद्यत॥ स रामप्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य च महात्मनः॥ ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन् रिपुसैन्यानि तदा कमललोचने।॥ ततः परशुमादाय स तं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखमिव दुमम्॥ तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः। असीनादाय शक्तीश्च भार्गवं पर्यधावयन्॥ रामोऽपि धनुरादाय रथमारुह्य सत्वरः। विसृजशरवर्षाणि व्यधमत् पार्थिवं बलम्॥ ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः। विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव॥ तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्। प्रजा वृषलता प्राप्ता ब्राह्मणानामदर्शनात्॥ एवं ते द्रविडाऽऽभीरा: पुण्ड्राश्च शबरैः सह। वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मिणः॥ ततश्च हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत॥ एकविंशतिमेधान्ते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता॥ राम राम निवर्तस्व के गुणं तात पश्यसि। क्षत्रबधूनिमान् प्राणैर्विप्रयोज्य पुनः पुनः॥ तथैव तं महात्मानमृचीकप्रमुखास्तदा। पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्॥ पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हन्तीह भवन्तो मां निवारयितुमित्युत॥ पितर ऊचुः नार्हसे क्षत्रबन्धुंस्त्वं निहन्तुं जयतां वरा नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्॥ जनमेजय उवाच कथं समभवद् द्यूतं भ्रातृणां तन्महात्ययम्। यत्र तद् व्यसनं प्राप्तं पाण्डवैर्म पितामहैः॥ के च तत्र सभास्तारा राजानो ब्रह्मवित्तम। के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्॥ विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विजा मूलं ह्येतद् विनाशस्य पृथिव्या द्विजसत्तम॥ सौतिरुवाच एवमुक्तस्ततो राजा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद् वृत्तं तत् सर्वं वेदतत्त्ववित्॥ वैशम्पायन उवाच शृणु मे विस्तरेणेमां कथां भारतसत्तम। भूय एव महाराज यदि ते श्रवणे मतिः॥ विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः। दुर्योधनमिदं वाक्यमुवाच विजने पुनः॥ अलं द्यूतेन गान्धारे विदुरो न प्रशंसति। न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति॥ हितं हि परमं मन्ये विदुरो यत् प्रभाषते। क्रियतां पुत्र तत् सर्वमेतन्मन्ये हितं तव॥ देवर्षिर्वासवगुरुर्देवराजाय धीमते। यत् प्राह शास्त्रं भगवान् बृहस्पतिरुदारधीः। तद् वेद विदुरः सर्वं सरहस्यं महाकविः॥ स्थितस्तु वचने तस्य सदाहमपि पुत्रका विदुरो वापि मेधावी कुरूणां प्रवरो मतः॥ उद्धवो वा महाबुद्धिवृष्णीनामर्चितो नृप। तदलं पुत्र द्यूतेन छूते भेदो हि दृश्यते॥ भेदे विनाशो राज्यस्य तत् पुत्र परिवर्जय। पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम्॥ प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम्। अधीतवान् कृती शास्त्रे लालितः सततं गृहे॥ भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम्। पृथग्जनैरलभ्यं यद् भोजनाच्छादनं परम्॥ तत् प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रका स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्॥ नित्यमाज्ञापयन् भासि दिवि देवेश्वरो यथा। तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्। समुत्थितं दुःखकरं यन्मे शंसितुमर्हसि॥ दुर्योधन उवाच अश्नाम्याच्छादयामीति प्रपश्यन् पापपूरुषः। नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः॥ न मां प्रीणाति राजेन्द्र लक्ष्मी: साधारणी विभो। ज्वलितामेव कौन्तेये श्रियं दृष्ट्वा च विव्यथे॥ सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्। स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद् ब्रवीमि ते।। आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः। कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने॥ हिमवत्सागरानूपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने॥ ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते। युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे॥ उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्। नादृश्यत परः पारो नापरस्तत्र भारत॥ न मे हस्तः समभवद् वसु तत् प्रतिगृहणतः। अतिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु॥ कृतां विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनी पूर्णामुदकस्येव भारत॥ वस्त्रमुत्कर्षति मयि प्राहसत् स वृकोदरः। शत्रोर्ऋद्धिविशेषेण विमूढं रत्नवर्जितम्॥ तत्र स्म यदि शक्तः स्यां पातयेऽहं वृकोदरम्। यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप।॥ शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः। सपनेनावहासो मे स मां दहति भारत॥ पुनश्च तादृशीमेव वापी जलजशालिनीम्। मत्वा शिलासमां तोये पतितोऽस्मि नराधिप॥ तत्र मां प्राहसत् कृष्णः पार्थेन सह सुस्वरम्। द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम॥ क्लिन्नवस्त्रस्य तु जले किंकरा राजनोदिताः। ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम॥ प्रलम्भं च शृणुष्वान्यद् वदतो मे नराधिप। अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा। अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः॥ तत्र मां यमजौ दूरादालोक्याभिहतं तदा। बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ॥ उवाच सहदेवस्तु तत्र मां विस्मयन्निव। इदं द्वारमितो गच्छ राजनिति पुनः पुनः॥ भीमसेनेन तत्रोक्तो धृतराष्टात्मजेति च। सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप॥ नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे। यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे॥ वैशम्पायन उवाच श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत् तथा। मार्कण्डेयान्महाभागात् स्वर्गस्य प्रतिपादनम्॥ युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ। मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्॥ विदितास्तव धर्मज्ञ देवदानवराक्षसाः। राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वतः॥ न तेऽस्त्यविदितं किञ्चिदस्मॅिल्लोके द्विजोत्तम् कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम्॥ देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा। इदमिच्छाम्यहं श्रोतुं तत्त्वेन द्विजसत्तम॥ कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः। कथं नामविपर्यासाद् धुन्धुमारत्वमागतः॥ एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम। विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः॥ वैशम्पायन उवाच युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः। धौन्धुमारमुपाख्यानं कथयामास भारत॥ मार्कण्डेय उवाच हन्त ते कथयिष्यामि शृणु राजन् युधिष्ठिर। धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु॥ यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः। धुन्धुमारत्वमगमत् तच्छृणुष्व महीपते॥ महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत। मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव॥ उत्तङ्कस्तु महाराज तपोऽतप्यत् सुदुश्चरम्। आरिराधयिषुर्विष्णुं बहून् वर्षगणान् विभुः॥ तस्य प्रीतः स भगवान् साक्षाद् दर्शनमेयिवान्। दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः॥ उत्तङ्कं उवाच त्वया देवा प्रजाः सर्वाः ससुरासुरमानवाः। स्थावराणि च भूतानि जङ्गमानि तथैव च।॥ ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते। शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ॥ निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत। बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः॥ ऊरू ते पर्वता देव खं नाभिर्मधुसूदन। पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा॥ इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः। प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः॥ त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर। योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः॥ त्वयि तुष्टे जगत् स्वास्थ्यं त्वयि क्रुद्ध महद् भयम्। भयानामपनेतासि त्वमेकः पुरुषोत्तम।॥ देवानां मानुषाणां च सर्वभूतसुखावहः। त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया हृताः॥ असुराणां समृद्धानां विनाशश्च त्वया कृतः। तव विक्रमणैर्देवा निर्वाणमगमन् परम्॥ पराभूताश्च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते। त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः॥ आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः। एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना॥ उत्तङ्कमब्रवीद् विष्णुः प्रीतस्तेऽहं वरं वृणु। उत्तङ्क उवाच पर्याप्तो मे वरो ह्येष यदहं दृष्टवान् हरिम्॥ पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम्। विष्णुरुवाच प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम॥ अवश्यं हि त्वया ब्रह्मन् मत्तो चाह्यो वरो द्विज। मार्कण्डेय उवाच एवं स छन्द्यमानस्तु वरेण हरिणा तदा॥ उत्तङ्कः प्राञ्जलिर्ववे वरं भरतसत्तम। यदि मे भगवन् प्रीतः पुण्डरीकनिभेक्षण॥ धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा। अभ्यासश्च भवेद् भक्त्या त्वयि नित्यं ममेश्वर॥ श्रीभगवानुवाच सर्वमेतद्धि भविता मत्प्रसादात् तव द्विज। प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्॥ त्रयाणामपि लोकानां महत् कार्यं करिष्यसि। उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः॥ तपस्यति तपो घोरं शृणु यस्तं हनिष्यति। राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः॥ बृहदश्व इति ख्यातो भविष्यति महीपतिः। तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः॥ स योगबलमास्थाय मामकं पार्थिवोत्तमः। शासनात् तव विप्रर्षे धुन्धुमारो भविष्यति। एवमुक्त्वा तु तं विप्रं विष्णुरन्तरधीयत॥ मार्कण्डेय उवाच एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत। कथामकथयद् भूयो मनसः प्रीतिवधनीम्॥ ब्राह्मण उवाच महाभूतानि यान्याहुः पञ्च धर्मभृतां वर। एकैकस्य गुणान् सम्यक् पञ्चानामपि मे वद॥ व्याध उवाच भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्॥ भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्। गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तरा॥ शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम। अपामेते गुणा ब्रह्मन् कीर्तितास्तव सुव्रत॥ शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः। शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु॥ एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु। वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः॥ अन्योन्यं नातिवर्तन्ते सम्यक् च भवति द्विजा यदा तु विषमं भावमाचरन्ति चराचराः॥ तदा देही देहमन्यं व्यतिरोहति कालतः। आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः॥ तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः। यैरावृतमिदं सर्वं जगत् स्थावरजङ्गमम्॥ इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तमिति स्मृतम्। तदव्यक्तमिति ज्ञेयं लिङ्गचाह्यमतीन्द्रियम्॥ यथास्वं चाहकाण्येषां शब्दादीनामिमानि तु। इन्द्रियाणि यदा देही धारयन्निव तप्यते॥ लोके विततमात्मानं लोकं चात्मनि पश्यति। परावरज्ञो यः शक्तः स तु भूतानि पश्यति॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते॥ अज्ञानमूलं तं क्लेशमतिवृत्तस्य पौरुषम्। लोकवृत्तिप्रकाशेन ज्ञानमार्गेण गम्यते॥ अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्। अनौपम्यममूर्तं च भगवानाह बुद्धिमान्॥ तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि। इन्द्रियाण्येव संयम्य तपो भवति नान्यथा॥ इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ। निगृहीतविसृष्टानि स्वर्गाय नरकाय च॥ एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्। एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च।॥ इन्द्रियाणां प्रसङ्केन दोषमार्छन्त्यसंशयम। संनियम्य तु तान्येव ततः सिद्धिं समाप्नुयात्॥ घण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥ मात्मा नियन्तेन्द्रियाण्याहुरश्वान्। र्दान्तः सुखं याति रथीव धीरः॥ षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम्। यो धीरो धारयेद् रश्मीन् स स्यात् परमसारथिः॥ इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु। धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम्॥ इन्द्रियाणां विचरतां यन्मनोऽनु विधीयते। तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि॥ येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमम्। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्॥ श्रीमहेश्वर उवाच शृणु मूढ गुणान् कांश्चिद् ब्राह्मणानां महात्मनाम्। ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः।।।। त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह। नाश जगाम तां विप्रो व्यस्तम्भयत कश्यपः॥ अजेया ब्राह्मणा राजन् दिवि चेह च नित्यदा। अपिबत् तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा॥ स ताः पिबन् क्षीरमिव नातृप्यत महामनाः। अपूरयन्महौघेन महीं सर्वां च पार्थिव॥ तस्मिन्नहं च क्रुद्ध वै जगत् त्यक्त्वा ततो गतः। व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्॥ अथ शप्तश्च भगवान् गौतमेन पुरन्दरः। अहल्यां कामयानो वै धर्मार्थं च न हिंसितः॥ तथा समुद्रो नृपते पूर्णो मृष्टस्य वारिणः। ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः॥ सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः। क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः॥ महतश्चूर्णितान् पश्य ये हासन्त महोदधिम्। सुवर्णधारिणा नित्यमवशप्ता द्विजातिना॥ समो न त्वं द्विजातिभ्यः श्रेयो विद्धि नराधिप। गर्भस्थान् ब्राह्मणान् सम्यङ् नमस्यति किल प्रभुः।।१० दण्डकानां महद् राज्यं ब्राह्मणेन विनाशितम्। तालजंघं महाक्षत्रमौर्वेणैकेन नाशितम्॥ त्वया च विपुलं राज्यं बलं धर्मे श्रुतं तथा। दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम्॥ अग्निं त्वं यजसे नित्यं कस्माद् ब्राह्मणमर्जुन। स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम्।। अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्। कर्तारं जीवलोकस्य कस्माज्जानन् विमुह्यसे॥ तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभुरव्ययः। येनेदं निखिलं विश्वं जनितं स्थावरं चरम्॥ अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः। अण्डाद् भिन्नाद् बभुः शैला दिशोऽम्भ:पृथिवी दिवम् द्रष्टव्यं नैतदेवं हि कथं जायेदजो हि सः। स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः॥ तिष्ठेत् कथमिति ब्रूहि न किंचिद्धि तदा भवेत्। अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः॥ नास्त्यण्डमस्ति तु ब्रह्मा स राजा लोकभावनः। इत्युक्तः स तदा तूष्णीमभूद् वायुस्ततोऽब्रवीत्॥ वैशम्पायन उवाच अथ दुर्योधनो राजा समरे भीष्ममब्रवीत्। द्रोणं च रथशार्दूलं कृपं च सुमहारथम्॥ उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत्। पुनरेव प्रवक्ष्यामि न हि तृष्यामि तं ब्रुवन्॥ पराभूतैर्हि वस्तव्यं तैश्च द्वादश वत्सरान्। वने जनपदे ज्ञातैरेप एव पणो हि नः॥ तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम्। अज्ञातवासो बीभत्सुरथास्माभिः समागतः॥ अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः। पुनादश वर्षाणि वने वत्स्यन्ति पाण्डवाः॥ लोभाद् वा ते न जानीयुरस्मान् वा मोह आविशत्। हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति॥ अर्थानां च पुनद्वैध नित्यं भवति संशयः। अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा।॥ उत्तरं मार्गमाणानां मत्स्यानां च युयुत्सताम्। यदि बीभत्सुरायातस्तदा कस्यापरानुमः॥ त्रिगर्तानां वयं हेतोर्मत्स्यान् योद्भुमिहागताः। मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन्॥ तेषां भयाभिभूतानां तदस्माभिः प्रतिश्रुतम्। प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत्। सप्तम्यामपराठे वै तथा तैस्तु समाहितम्॥ अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति। इमा गावो ग्रहीतव्या गते मत्स्ये गवां पदम्॥ ते वा गाश्चानयिष्यन्ति यदि वा स्युः पराजिताः। अस्मान् वा [पसंधाय कुर्युर्मत्स्येन संगतम्॥ अथवा तानपाहाय मत्स्यो जानपदैः सह। सर्वया सेनया साधु संवृतो भीमरूपया। आयातः केवलं रात्रिमस्मान् योद्भुमिहागतः॥ तेषामेव महावीर्यः कश्चिदेष पुरःसरः। असमाढोतुमिहायातो मत्स्यो वापि स्वयं भवेत्॥ यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। सर्योद्धव्यमस्माभिरिति नः समयः कृतः॥ अथ कस्मात् स्थिता ह्येते रथेषु रथसत्तमाः। भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च॥ सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन् महारथाः। नान्यत्र युद्धाच्छ्रेयोऽस्ति तथाऽऽत्मा प्रणिधीयताम्॥१७ आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा। यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत्॥ शरैरेभिः प्रणुनानां भग्नानां गहने वने। को हि जीवेत् पदातीनां भवेदश्वेषु संशयः॥ दुर्योधनवचः श्रुत्वा राधेयस्त्वब्रवीद् वचः। आचार्य पृष्ठतः कृत्वा तथा नीतिर्विधीयताम्॥ जानाति हि मतं तेषामतस्त्रासयतीह नः। अर्जुने चास्य सम्प्रीतिमधिकामुपलक्षये।॥ तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति। यथा सेना न भज्येत तथा नीतिर्विधीयताम्॥ हृषितं ह्यपशृण्वाने द्रोणे सर्वं विघदृितम्। अदेशिका महारण्ये ग्रीष्मे शत्रु वशं गताः। यथा न विभ्रमेत् सेना तथा नीतिविधीयताम्॥ इष्टा हि पाण्डवा नित्यमाचार्यस्य विशेषतः आसयनपरार्थाश्च कथ्यते स्म स्वयं तथा॥ अश्वानां हृषितं श्रुत्वा कः प्रशंसापरो भवेत्। स्थाने वापि व्रजन्तो वा सदा द्वेषन्ति वाजिनः।२५॥ सदा च वायवो वान्ति नित्यं वर्षति वासवः। स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा॥ किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते। अन्यत्र कामाद् द्वेषाद् वा रोषादस्मासु केवलात्॥ आचार्या वै कारुणिकाः प्राज्ञाश्चापापदर्शिनः। नैते महाभये प्राप्ते सम्प्रष्टव्याः कथंचन॥ प्रासादेषु विचित्रेषु गोष्ठीषूपवनेषु च। कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः।।२९। बहून्याश्चर्यरूपाणि कुर्वाणा जनसंसदि। इज्यास्त्रे चोपसंधाने पण्डितास्तत्र शोभनाः॥ परेषां विवरज्ञाने मनुष्यचरितेषु च। हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि।॥ गोधनेषु प्रतोलीषु वरद्वारमुखेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः॥ पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः। विधीयतां तता नीतिर्यथा वध्यो भवेत् परः॥ गावश्च सम्प्रतिष्ठाप्य सेनां व्यूह्य समन्ततः। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान्॥ । नारद उवाच गयं चामूर्तरयसं मृतं सृञ्जय शुश्रुम। यो वै वर्षशतं राजा हुतशिष्टाशनोऽभवत्॥ तस्मै ह्यग्निर्वरं प्रदात् ततो ववे वरं गयः। तपसा ब्रह्मचर्येण व्रतेन नियमेन च॥ गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्। स्वधर्मेणाविहिंस्यान्यान् धनमिच्छामि चाक्षयम्॥ विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः। अनन्यासु सवर्णासु पुत्रजन्म च मे भवेत्॥ अन्नं मे ददतः श्रद्धा धर्मे मे रमतां मनः। अविनं चास्तु मे नित्यं धर्मकार्येषु पावक॥ तथा भविष्यतीत्युक्त्वा तत्रैवान्तरधीयत। गयो ह्यवाप्य तत् सर्वे धर्मेणारीनजीजयत्॥ स दर्शपौर्णमासाभ्यां कालेष्वाग्रयणेन च। चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः॥ अयजच्छ्रद्धया राजा परिसंवत्सरान् शतम्। गवां शतसहस्राणि शतमश्वशतानि च॥ शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्। उत्थायोत्थाय स प्रादात् परिसंवत्सरान् शतम्॥ नक्षत्रेषु च सर्वेषु ददनक्षत्रदक्षिणा:। ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा॥ सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम्। विप्रेभ्यः प्राददद् राजा सोऽश्वमेधे महामखे॥ जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः। गयस्यासन् समृद्धास्तु सर्वभूतमनोहराः॥ सर्वकामसमृद्धं च प्रादादनं गयस्तदा। ब्राह्मणेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च॥ स समुद्रवनद्वीपनदीनदवनेषु च। नगरेषु च राष्ट्रषु दिवि व्योम्नि च येऽवसन्॥ भूतग्रामाश्च विविधाः संतृप्ता यज्ञसम्पदा। गयस्य सदृशो यज्ञो नास्त्यन्य इतितेऽब्रुवन्॥ षट्त्रिंशद् योजनायामा त्रिंशद् योजनमायता। पश्चात् पुस्चतुर्विशद् वेदी ह्यासीद्धिरण्मयी॥ गयस्य यजमानस्य मुक्तावज्रमणिस्तृता। प्रादात् स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च॥ यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः। यत्र भोजनशिष्टस्य पर्वताः पञ्जविंशतिः॥ कुल्याः कुशलवाहिन्यो रसानामभवंस्तदा। वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः॥ यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः। वटचाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ जनक उवाच अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते। स्त्रीपुंसोऽपि भगवन् सम्बन्धस्तद्वदुच्यते॥ ऋते तु पुरुषं नेह स्त्री गर्भ धारयत्युत। ऋते स्त्रियं न पुरुषो रूपं निवर्तयेत् तथा॥ अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात्। रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु॥ ये रत्यर्थमभिसम्बन्धादन्योन्यगुणसंश्रयात्। ऋतौ निर्वय॑ते रूपं तद् वक्ष्यामि निदर्शनम्॥ गुणाः पुरुषस्येह ये च मातृगुणास्तथा। अस्थि स्नायुश्च मज्जा च जानीम: पितृणो गुणाः॥ त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुम। एवमेतद् द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते॥ प्रमाणं यत् स्ववेदोक्तं शास्त्रोक्तं यच्च पठ्यते। वेदशास्त्रद्वयं चैव प्रमाणं तत् सनातनम्॥ अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात्। एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषो॥ पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते। अथवानन्तरकृतं किंचिदेव निदर्शनम्॥ तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा। मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्। अदेहमजरं नित्यमतीन्द्रियमनीश्वरम्॥ वसिष्ठ उवाच यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्। एवमेतद् यथा चैतन्निगृह्णाति तथा भवान्॥ धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः। न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः। न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा॥ भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः। यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा॥ ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति। यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति॥ न यः संसत्सु कथयेद् ग्रन्थार्थं स्थूलबुद्धिमान्। स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्॥ निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः। सोपहासात्मतामेति यस्माच्चैवात्मवानपि॥ तस्मात् त्वं शृणु राजेन्द्र यथैतदनुदृश्यते। याथातथ्ये सांख्येषु योगेषु च महात्मसु॥ यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते। एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्॥ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जा च स्नायु च। अथ चैन्द्रियकं तात तद् भवानिदमाह माम्॥ द्रव्याद् द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा। देहाद् देहमवाप्नोति बीजाद् बीजं तथैव च॥ निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः। कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः॥ गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च। एवं गुणा: प्रकृतितो जायन्ते निविशन्ति च।॥ त्वमांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च। अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै॥ पुमांश्चैवापुमांश्चैव त्रैलिङ्गचं प्राकृतं स्मृतम्। न वापुमान् पुमांश्चैव स लिङ्गीत्यभिधीयते॥ अलिङ्गात् प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः। यथा पुष्पफलैर्नित्यमृतवोऽमूर्तयस्तथा॥ एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते। पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः॥ अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः। केवलं त्वभिमानित्वाद् गुणेषु गुण उच्यते॥ गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः। तस्मादेवं विजानन्ति ये जना गुणदर्शिनः॥ यदा त्वेष गुणानेतान् प्राकृतानभिमन्यते। तदा स गुणहान्य तं परमेवानुपश्यति॥ यत् तद् बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशः। बुद्ध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्॥ अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम्। निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च॥ प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः। सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः॥ यदा प्रबुद्धा ह्यव्यक्तमवस्थाजन्मभीरवः। बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा॥ एतन्निदर्शनं सम्यगसम्यगनिदर्शनम्। बुध्यमानाप्रबुद्धानां पृथपृथगरिंदम्॥ परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्। एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते॥ पञ्चविंशतिनिष्ठोऽयं यदा सम्यक् प्रवर्तते। एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्॥ तत्त्वनिस्तत्त्वयोरेतत् पृथगेव निदर्शनम्। पञ्चविंशतिसगं तु तत्त्वमाहुर्मनीषिणः॥ निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्। सर्गस्य वर्गमाधारं तत्त्वं तत्त्वात् सनातनम्॥ भीष्म उवाच एते रथास्तवाख्यातास्तथैवातिरथा नृप। ये चाप्यर्धरथा राजन् पाण्डवानामत: शृणु।॥ यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप। रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपः॥ स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः। अग्निवत् समरे तात चरिष्यति न संशयः॥ भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः। न तस्यास्ति समो युद्धे गदया सायकैरपि।॥ नागायुतबलो मानी तेजसा न स मानुषः। माद्रीपुत्रौ च रथिनौ द्वावेष पुरुषर्षभौ॥ अश्विनाविव रूपेण तेजसा च समन्वितौ। एते चमूमुपगताः स्मरन्तः क्लेशमुत्तमम्॥ रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः। सर्व एव महात्मानः शालस्तम्भा इवोद्गताः॥ प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः। सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः॥ चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः। ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः॥ जवे प्रहारे सम्म सर्व एवातिमानुषाः। सर्वैर्जिता महीपाला दिग्जये भरतर्षभ॥ न चैषां पुरुषाः केचिदायुधानि गदाः शरान्। विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव॥ उद्यन्तं वा गदा गुर्वीः शरान् वा क्षेप्तुमाहवे। जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे॥ बालैरपि भवन्तस्तैः सर्व एव विशेषिताः। एतत् सैन्यं समासाद्य सर्व एव बलोत्कटाः॥ विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः। एकैकशस्ते सम्पर्दे हन्युः सर्वान् महीक्षितः॥ प्रत्यक्षं तव राजेन्द्र राजसूये यथाऽभवत्। द्रौपद्याश्च परिक्लेश द्युते च परुषा गिरः॥ ते स्मरन्तश्च संग्रामे चरिष्यन्ति च रुद्रवत्। लोहिताक्षो गुडाकेशो नारायणसहायवान्॥ उभयोः सेनयोर्वीरो रथो नास्तीति तादृशः। न हि देवेषु वा पूर्वं मनुष्ये पूरगेषु च॥ राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु। भूतोऽथवा भविष्यो वा रथः कश्चिन्मया श्रुतः॥ समायुक्तो महाराज स्थः पार्थस्य धीमतः। वासुदेवश्च संयन्ता योद्धा चैव धनंजयः॥ गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः। अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी॥ अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च। याम्यश्च वारुणश्चैव गदाचोग्रप्रदर्शनाः॥ वज्रादीनि च मुख्यानि नानाप्रहरणानि च। दानवानां सहस्राणि हिरण्यपुरवासिनाम्॥ हतान्येकरथेनाजौ कस्तस्य सदृशो रथः। एष हन्याद्धि संरम्भी बलवान् सत्यविक्रमः॥ तव सेनां महाबाहुः स्वां चैव परिपालयन्। अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्॥ न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि। य एनं शरवर्षाणि वर्षन्तमुदियाद् रथी।॥ जीमूत इव धर्मान्ते महावातसमीरितः। समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्। तरुणश्च कृती चैव जीर्णावावामुभावपि॥ वैशम्पायन उवाच एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा। काञ्चनाङ्गदिन: पीना भुजाश्चन्दनरूषिताः॥ मनोभिः सह संवेगैः संस्मृत्य च पुरातनम्। सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात्॥ धृतराष्ट्र उवाच भगवन्नेवमेवैतद् यथा वदसि नारद। इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्॥ वैशम्पायन उवाच एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः। स्वयं लोक्यं च मामात्य धर्म्यं न्याय्यं च केशव॥ न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम्। अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम॥ अनुनेतुं महाबाहो यतस्व पुरुषोत्तम। न शृणोति महाबाहो वचनं साधुभाषितम्॥ गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः। अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम्॥ स त्वं पापमति क्रूरं पापचित्तमचेतनम्। अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम्॥ सुहृत्कार्यं तु सुमहत् कृतं ते स्याज्जनार्दन। ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम्॥ अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्। दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम॥ शर्मार्थं ते विशेषण सानुबन्धस्य भारत। महाप्राज्ञकुले जातः साध्वेतत् कर्तुमर्हसि॥ श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः। दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः॥ त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे। धर्मार्थयुक्ता लोकेऽस्मिन् प्रवृत्तिर्लक्ष्यते सताम्॥ असतां विपरीता तु लक्ष्यते भरतर्षभ। विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि॥ अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान्। अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत।॥ तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि। भ्रातॄणामथ भृत्यानां मित्राणां च परंतप॥ अधादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे। प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः॥ संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ। तद्धितं च प्रियं चैव धृतराष्ट्रस्य पितामहस्य द्रोणस्य विदुरस्य महामतेः। कृपस्य सोमदत्तस्य बाह्रीकस्य च धीमतः॥ अश्वत्थाम्नो विकर्णस्य संजस्य विविंशतेः। ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप॥ शमे शर्म भवेत् तात सर्वस्य जगतस्तथा। ह्रीमानसि कुले जातः श्रुतवाननृशंसवान्। धीमतः॥ तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ॥ एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत। उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्॥ रोचते ते पितुस्तात पाण्डवैः सह संगमः। सामात्यस्य कुरुश्रेष्ठ तत् तुभ्यं तात रोचताम्॥ श्रुत्वा यः सुहृदां शास्त्रं मर्यो न प्रतिपद्यते। विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम्॥ यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते॥ यस्तु निःश्रेयसं श्रुत्वा प्राक् तदेवाभिपद्यते। आत्मनो मतमुत्सृज्य स लोके सुखमेधते॥ योऽर्थकामस्य वचनं प्रातिकूल्यान मृष्यते। शृणोति प्रतिकूलानि द्विषतां वशमेति सः॥ सतां मतमतिक्रम्य योऽसतां वर्तते मते। शोचन्ते व्यसने तस्य सुहृदो न चिरादिव॥ मुख्यानमात्यानुत्सृज्य यो निहीनान् निषेवते। स घोरामापदं प्राप्य नोत्तारमधिगच्छति॥ योऽसत्सेवीवृथाचारो न श्रोता सुहृदां सताम्। परान् वृणीते स्वान् द्वेष्टि तं गौस्त्यजति भारत॥ स त्वं विरुध्य तैवीरैरन्येभ्यस्त्राणमिच्छसि। अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ।॥ को हि शक्रसमान् ज्ञातीनतिक्रम्य महारथान्। अन्येभ्यस्त्राणमाशंसेत् त्वदन्यो भुवि मानवः॥ जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया। न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवा॥ मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः। त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः॥ त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ। स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः॥ त्रिवर्गयुक्तः प्राज्ञानामारम्भो भतर्षभ। धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः॥ पृथक् च विनिविष्टानां धर्मं धीरोऽनुरुध्यते। मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते॥ इन्द्रियैः प्राकृतो लोभाद् धर्मं विप्रजहाति यः। कामार्थावनुपायेन लिप्समानो विनश्यति॥ कामार्थों लिप्समानस्तु धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन॥ उपायं धर्ममेवाहुस्त्रिवर्गस्य विशाम्पते। लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते॥ स त्वं तातानुपायेन लिप्ससे भरतर्षभ। आधिराज्यं महद् दापितं प्रथितं सर्वराजसु॥ आत्मानं तक्षति ह्येष वनं परशुना यथा। यः सम्यग्वर्तमानेषु मिथ्या राजन् प्रवर्तते॥ न तस्य हि मतिं छिन्द्याद् यस्य नेच्छेत् पराभवम्। अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः। आत्मवान् नावमन्येत त्रिषु लोकेषु भारत॥ अप्यन्यं प्राकृतं किंचित् किमु तान् पाण्डवर्षभान्। अमर्षवशमापन्नो न किंचिद् बुध्यते जनः॥ छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत। श्रेयस्ते दुर्जनात् तात पाण्डवैः सह संगतम्॥ तैर्हि सम्प्रीयमाणस्त्वं सर्वान् कामानवाप्स्यसि। पाण्डवैनिर्मितां भूमि भुञ्जानो राजसत्तम॥ पाण्डवान् पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः। दुःशासने दुर्विषहे कर्णे चापि ससौबले॥ एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत। न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा॥ विक्रमे चाप्यपर्याप्ताः पाण्डवान् प्रति भारत। न हीमे सर्ववराजानः पर्याप्ताः सहितास्त्वया॥ क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे। इदं संनिहितं तात समग्रं पार्थिवं बलम्॥ अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः। भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः॥ अशक्ताः सर्वं एवैते प्रतियोद्धं धनंजयम्। अजेयो ह्यर्जुनः संख्ये सर्वैरपि सुरासुरैः। मानुषैरिप गन्धर्वैर्मा युद्धे चेत आधिथाः॥ दृश्यतां वा पुमान् कश्चितं समग्रे पार्थिवे बले। योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद् गृहान्॥ किं ते जनक्षयेणेह कृतेन भरतर्षभ। यस्मिञ्जिते जितं तत् स्यात् पुमानेकः स दृश्यताम्॥५२ यः स देवान् सगन्धर्वान् सयक्षासुरपन्नगान्। अजयत् खाण्डवप्रस्थे कस्तं युध्येत मानवः॥ तथा विराटनगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्॥ युद्धे येन महादेवः साक्षात् संतोषितः शिवः। तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम्। आशंससीह समरे वीरमर्जुनमूर्जितम्॥ मद् द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति। युद्धे प्रतीपमायान्तमपि साक्षात् पुरंदरः॥ बाहुभ्यामुद्वहेद् भूमि दहेत् क्रुद्ध इमाः प्रजाः। पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्॥ पश्य पुत्रांस्तथा भ्रातृज्ञातीन् सम्बन्धिनस्तथा। त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः॥ अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम्। कुलन इति नोच्येथा नष्टकीर्तिनराधिप॥ त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः। महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम्॥ मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम्। अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि॥ पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः। सम्प्रीयमाणोमित्रैश्च चिरं भद्राण्यवाप्सस्यसि॥ संजय उवाच कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष। उलूकः सौबलश्चैव राजा च सह सोदरैः॥ सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्। समुहुः स्म वेगेन भिन्नां नावमिवार्णवे॥ ततो युद्धमतीवासीन्मुहूर्तमिव भारत। भीरूणां त्रासजननं शूराणां हर्षवर्धनम्॥ कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे। सृञ्जयांश्छादयामासुः शलभानां व्रजा इव॥ शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ। ववर्ष शरवर्षाणि समन्ताद् द्विजपुङ्गवम्॥ कृपस्तु शरवर्षं तद् विनिहत्य महास्त्रवित्। शिखण्डिनं रणे क्रद्धो विव्याध दशभिः शरैः॥ ततः शिखण्डी कुपितः शरैः सप्तभिराहवे। कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः॥ ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः। व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः॥ हताश्चात् तु ततो यानादवप्लुत्य महारथः। खङ्गं चर्म तथा गृह्य सत्वं ब्राह्मणं ययौ॥ तमापतन्तं सहसा शरैः संनतपर्वभिः। छादयामास समरे तदद्भुतमिवाभवत्॥ तत्राद्भुतमपश्याम शिलानां प्लवनं यथा। निश्चेष्टस्तद् रणे राजञ्छिखण्डी समतिष्ठत॥ कृपेणच्छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्। प्रत्युद्यायौ कृपं तूर्णं धृष्टद्युम्नो महारथः॥ धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति। प्रतिजग्राह वेगेन कृतवर्मा महारथः॥ युधिष्ठिरमथायान्तं शारद्वतरथं प्रति। सपुत्रं सहसैन्यं च द्रौणपुत्रो न्यवारयत्॥ नकुलं सहदेवं च त्वरमाणौ महारथौ। प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्॥ भीमसेन करूषांश्च केकयान् सह संजयैः। कर्णो वैकर्तनो युद्धे वारयामास भारत॥ शिखण्डिनस्ततौ बाणान् कृपः शारद्वतो युधि। प्राहिणोत् त्वरया युक्तो दिधक्षुरिव मारिष।॥ ताञ्छरान् प्रेषितास्तेन समन्तात् स्वर्णभूषितान्। चिच्छदेन खङ्गमाविध्य भ्रामयंश्च पुनः पुनः॥ शतचन्द्रं च तचर्म गौतमस्तस्य भारत। व्यधमत् सायकैस्तूर्णं तत उचुक्रुशुर्जनाः॥ स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्। कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः॥ शारद्वतशरैर्ग्रस्तं विश्यमानं महाबलः। चित्रकेतुसुतो राजन् सुकेतुस्त्वरितो ययौ॥ विकिरन् ब्राह्मणं युद्धे बहुभिर्निशितैः शरै। अभ्यापतदमेयात्मा गौतमस्य रथं प्रति॥ दृष्ट्वा च युक्तं त युद्धे ब्राह्मणं चरितव्रतम्। अपयातस्तस्तूर्णं शिखण्डी राजसत्तम।॥ सुकेतुस्तु ततो राजन् गौतमं नवभिः शरैः। विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः॥ अथास्य सशरं चापं पुनश्चिच्छेद मारिष। सारथिं च शरेणास्य भृशं मर्मस्वताडयत्॥ गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्। सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्॥ स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे। भूमिकम्पे यथा वृक्षश्चचाल कम्पितो भृशम्॥ चलतस्तस्य कायात् तु शिरो ज्वलितकुण्डलम्। सोष्णीयं सशिरस्त्राणं क्षुरप्रेण त्वपातयद्॥ तच्छिरंः प्रापतद् भूमौ श्येनाहतमिवामिषम्। ततोऽस्य कायो वसुधां पश्चात् प्रापतदच्युत॥ तस्मिन् हते महाराज त्रस्तास्तस्य पुरोगमाः। गौतमं हरे त्यक्त्वा दुदुवुस्ते दिशो दश॥ धृष्टद्युम्नं तु समरे संनिवार्य महारथः। कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति भारत॥ तदभूत् तुमुलं युद्धं वृष्णिपार्षतयो रणे। आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोप॥ धृष्टद्युम्नस्तु समरे हार्दिक्य नवभिः शरैः। आजधानोरसि क्रुद्धः पीडयन् हृदिकात्मजम्॥ कृतवर्मा तु समरे पार्षतेन दृढाहतः। पार्षतं सरथं छादयामास सायकैः॥ सरथश्छादितो राजन् धृष्टद्युम्नो न दृश्यते। मेधैरिव परिच्छन्नो भास्करो जलधारिभिः॥ विधूय तं बाणगणं शरैः कनकभूषणैः। व्यरोचत रणे राजन् धृष्टद्युम्नः कृतव्रणः॥ ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्। कृतवर्माणमासाद्य व्यसृजत् पृतनापतिः॥ तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्। शरैरनेकसाहस्त्रैर्हार्दिक्योऽवारयद् युधि॥ दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्। कृतवर्माणमासाद्य वारयामास पार्षतः॥ सारथिं चास्य तरसा प्राहिणोद् यमसादनम्। भल्लेन शितधारेण स हतः प्रापतद् रथात्॥ धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रु महाबलम्। कौरवान् समरे तूर्णं वारयामास सायकैः॥ ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्। सिंहनादरवं कृत्वा ततो युद्धमवर्तत॥ मनुरुवाच यदा तैः पञ्चभिः पञ्च युक्तानि मनसा सह। अथ तद् रक्ष्यते ब्रह्म मणौ सूत्रमिवापितम्॥ तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः। मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा॥ तद्वद् गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु। तद्वत् कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः॥ येन येन शरीरेण यद्यत्कर्म करोत्ययम्। तेन तेन शरीरेण तत् तत् फलमुपाश्नुते॥ यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी। तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी॥ ज्ञानपूर्वा भवेल्लिप्सा लिप्सापूर्वाभिसंधिता। अभिसधिपूर्वकं कर्म कर्ममूलं ततः फलम्॥ फलं कर्मात्मकं विद्यात् कर्म ज्ञेयात्मकं तथा। ज्ञेयं ज्ञानात्मकं विद्याजानं सदसदात्मकम्॥ ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा। क्षयान्ते यत् फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम्॥ महद्धि परमं भूतं यत् प्रपश्यन्ति योगिनः। अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः॥ पृथिवीरूपतो रूपमपामिह महत्तरम्। अद्भयो महत्तरं तेजस्तेजसः पवनो महान्॥ पवनाच्च महद् व्योम तस्मात् परतरं मनः। मनसो महती बुद्धिर्बुद्धेः कालो महान् स्मृतः॥ कालात् स भगवान् विष्णुर्यस्य सर्वमिदं जगत्। नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते॥ अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः। अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते॥ तद् ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्। तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः॥ गुणेष्वेते प्रकाशन्ते निर्गुणत्वात् ततः परम्। निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते॥ ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः। जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः॥ न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम्। न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवत्॥ । ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते। अन्तश्चादिमतां दृष्टो न त्वादिब्रह्मणः स्मृतः॥ अनादिन्वादनन्तत्वात्तदन्तमथाव्ययम्। अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम्॥ अदृष्टतोऽनुपायाच्च प्रतिसंधेश्च कर्मणः। न तेन माः पश्यन्ति येन गच्छन्ति तत् पदम्॥ विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात्। मनसा चान्यदाकाङ्क्षन् परं न प्रतिपद्यते॥ गुणान् यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः। परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः॥ गुणैर्यस्त्ववरैर्युक्तः कथं विद्यात् परान् गुणान्। अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्॥ सूक्ष्मेण मनसा विद्यो वाचा वक्तुं न शक्नुमः। मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्॥ ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा। मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते॥ बुद्धिप्रवीणो मनसा समृद्धो निराशिषं निर्गुणमभ्युपैति। परं त्यजन्तीह विलोड्यमाना हुताशनं वायुरिवेन्धनस्थम्॥ गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम्। अनेनैव विधिना सम्प्रवृत्तो गुणापाये ब्रह्म शरीर मेति॥ अव्यक्तात्मा पुरुषो व्यक्तकर्मा सोऽव्यक्तत्वं गच्छति दन्तकाले। ग्लायद्भिर्वाऽऽवर्ततेऽकामरूपः॥ सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात्। नासामर्थ्याद् गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन॥ पृथ्व्यां नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि। परं नयन्तीह विलोड्यमानं यथा प्लवं वायुरिवार्णवस्थम्॥ दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः। तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम्॥ अनागतं सुकृतवतां परां गति स्वयम्भुवं प्रभवनिधानमव्ययम्। सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ अनागतं सुकृतवतां परां गति स्वयम्भुवं प्रभवनिधानमव्ययम्। सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ युधिष्ठिर उवाच किंशीला: किंसमाचाराः कथंरूपाश्च भारत। किंसन्नाहाः कथंशस्त्रा जनाः स्युः संगरे क्षमाः॥ भीष्म उवाच यथाऽऽचरितमेवात्र शस्त्रं पत्रं विधीयते। आचाराद् वीरपुरुषस्तथा कर्मसु वर्तते॥ गान्धाराः सिन्धुसौवीरा नखर प्रासयोधिनः। अभीरवः सुबलिनस्तद्वलं सर्वपारगम्॥ सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्यशीनराः। प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः॥ तथा यवनकाम्बोजा मथुरामभितश्च ये। एते नियुद्धकुशला दाक्षिणात्यासिपाणयः॥ सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः। प्राय एव समुद्दिष्टा लक्षणानि तु मे शृणु॥ सिंहशार्दूलवाड्नेत्राः सिंहशार्दूलगामिनः। पारावतकुलिङ्क्षाक्षाः सर्वे शूराः प्रमाथिनः॥ मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तरस्विनः। प्रमादिनश्च मन्दाश्च क्रोधनाः किङ्किणीस्वनाः॥ मेघस्वनाः क्रोधमुखाः केचित् करभसंनिभाः। जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः॥ शीघ्राश्चपलवृत्ताश्च ते भवन्ति दुरासदाः॥ गोधानिमीलिताः केचिन्मृदुप्रकृतयस्तथा। तरङ्गगतिनि?षास्ते नरा: पारयिष्णवः॥ सुसंहताः सुतनवो व्यूढोरस्काः सुसंस्थिताः। प्रवादितेषु कुप्यन्ति हृष्यन्ति कलहेषु च॥ गम्भीराक्षा निःसृताक्षाः पिङ्गाक्षा भृकुटीमुखाः। नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः॥ जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च। वज्रबाहङ्गुलीचक्राः कृशा धमनिसंतताः॥ प्रविशन्ति च वेगेन साम्पराये छुपस्थिते। वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः॥ दीप्तस्फुटितकेशान्ता: स्थूलपार्श्वहनूमुखाः। उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः॥ उद्धता इव सुग्रीवा विनताविहगा इव।। पिण्डशीर्षातिवक्त्राश्च वृषदंशमुखास्तथा॥ उग्रस्वरा मन्युमन्तो युद्धेष्वारावसरिणः। अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शनाः॥ त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः। पुरस्कार्याः सदा सैन्ये हन्यन्ते मन्ति चापि ये॥ अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः। एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्।। युष्ठिर उवाच शमो बहुविधाकारः सूक्ष्म उक्तः पितामह। न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम्॥ अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह। स्वकृते का नु शान्तिः स्याच्छमाद् बहुविधादपि॥ शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च। शर्म नोपलभे वीर दुष्कृतान्येव चिन्तयन्॥ रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्। त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्॥ अतः कष्टतरं किं नु मत्कृते यत् पितामहः। इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे॥ तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः। मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः॥ वयं हि धार्तराष्ट्राश्च कालमन्युवंशगताः। कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप।॥ इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप। इमामवस्थां सम्प्राप्तं यदसौ त्वां न पश्यति॥ सोऽहं तव ह्यन्तकरः सुहृद्वधकरस्तथा। न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ॥ दुर्योधनो हि समरे सहसैन्यः सहानुजः। निहतः क्षत्रधर्मेऽस्मिन् दुरात्मा कुलपांसनः॥ न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ। अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः॥ अहं हि समरे वीर गमितः शत्रुभिः क्षयम्। अभविष्यं यदि पुरा सह भ्रातृभिरच्युत॥ न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्। नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप॥ अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्। तथा प्रशाधि मां राजन् मम चेदिच्छसि प्रियम्॥ भीष्म उवाच परतन्त्रं कथं हेतुमात्मानमनुपश्यसि। कर्मणां हि महाभाग सूक्ष्मं ह्येतदतान्द्रियम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः॥ गौतमी नाम कौन्तेय स्थविरा शमसंयुता। सर्पण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्॥ अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः। लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत्॥ स चाब्रवीदयं ते स पुत्रहा पन्नगाधमः। ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना॥ अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। न ह्ययं बालहा पापश्चिरं जीवितुमर्हति॥ गौतम्युवाच विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया। को ह्यात्मानं गुरुं कुर्यात् प्राप्तव्यमविचिन्तयन्॥ प्लवन्ते धर्मलघवो लोकऽम्भसि यथा प्लवाः। मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके॥ हत्वा चैनं नामृत: स्यादयं मे जीवत्यस्मिन् कोऽत्ययः स्यादयं ते। अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम्॥ लुब्धक उवाच जानाम्यहं देवि गुणागुणज्ञे सर्वार्तियुक्ता गुरवो भवन्ति। स्वस्थस्यैते तूपदेशा भवन्ति तस्मात् क्षुद्रं सर्पमेनं हनिष्ये।॥ शमार्थिनः कालगतिं वदन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति। श्रेयःक्षयं शोचति नित्यमोहात् तस्माच्छुचं मुञ्च हते भुजङ्गे॥ गौतम्युवाच आतिनैवं विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सज्जना हि। दीशे नाहं पन्नगस्य प्रमाथे॥ न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातनाम्। मार्दवारक्षम्यतां साधो मुच्यतामेष पन्नगः॥ लुब्धक उवाच ल्लभ्यो लाभ्यः स्याद् बलिभ्यः प्रशस्तः। कालाल्लाभो यस्तु सत्यो भवेत श्रेयोलाभः कुत्सितेऽस्मिन्न ते स्यात्॥ गौतम्युवाच का नु प्राप्तिर्गृह्य शत्रु निहत्य का कामाप्तिः प्राप्य शत्रु न मुक्त्वा। कस्मात् सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम्॥ लुब्धक उवाच अस्मादेकाद् बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः। कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम्॥ गौतम्युवाच नास्मिन् हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै। गुणं चान्यं नास्य वधे प्रपश्ये तस्मात् सर्प लुब्धक मुञ्च जीवम्॥ लुब्धक उवाच वृत्रं हत्वा देवराट् श्रेष्ठभाग वै यज्ञं हुत्वा भागमवाप चैव। शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्प जहि मा भूत्ते विशङ्का॥ भीष्म उवाच असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति। लुब्धकेन महाभागा पापे नैवाकरोन्मतिम्॥ ईषदुच्छ्वसमानस्तु कृच्छ्रात् संस्तभ्य पन्नगः। उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः॥ सर्प उवाच कोन्वर्जुनक दोषोऽत्र विद्यते मम बालिश। अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्॥ तस्यायं वचनाद् दष्टो न कोपेन न काम्यया। तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम्॥ लुब्धक उवाच यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्। कारणं वै त्वमप्यत्र तस्मात् किल्बिषी॥ मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा। कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग॥ सर्प उवाच किल्विषी चापि मे वध्यः किल्बिषी चासि पन्नग। आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम॥ सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा। तथाऽहमपि तस्मान्मे नैष दोषो मतस्तव॥ अथवा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः। कार्यकारणसन्देहो भवत्यन्योन्यचोदनात्॥ एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी। किल्विषं समवाये स्यान्मन्यसे यदि किल्विषम्॥ लुब्धक उवाच कारणं यदि न स्याद् वै न कर्ता स्यास्त्वमप्युत। विनाशकारणं त्वं च तस्माद् वध्योऽसि मे मतः॥ असत्यपि कृते कार्यं नेह पन्नग लिप्यते। तस्मान्नात्रैव हेतुः स्याद् वध्यः किं बहु मन्यसे॥ सर्प उवाच कार्याभावे क्रिया न स्यात् सत्यसत्यपि कारणे। तस्मात् समेऽस्मिन् हेतौ मे वाच्यो हेतुर्विशेषतः॥ अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने।॥ यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः। लुब्धक उवाच वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्। भाषसे किं बहु पुनर्वध्यः सन् पन्नगाधम॥ सर्प उवाच यथा हवींषि जुह्वाना मखे वै लुब्धकर्विजः। न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम्॥ भीष्म उवाच तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते। आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्॥ मृत्युरुवाच प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्। विनाशहेतुर्नास्य तमहं न प्राणिनः शिशोः॥ यथा वायुर्जलधरान् विकर्षति ततस्ततः। तद्वज्जलदवत् सर्प कालस्याहं वशानुगः॥ सात्त्विका राजसाश्चैव तामसा ये च केचन। भावाः कालात्मकाः सर्वे प्रवर्तन्ते ह जन्तुषु॥ जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि। सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्॥ प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः। तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्॥ आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः। अग्नि: स्वं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः।।५५ सरितः सागराचैव भावाभावौ च पन्नग। सर्व कालेन सृज्यन्ते ह्रियन्ते च पुनः पुनः॥ एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे। अथ चैवंगते दोघे मयि त्वमपि दोषवान्॥ सर्प उवाच निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्। त्वयाहं चोदित इति ब्रवीम्येतावदेव तु॥ यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते। दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्॥ निर्मोक्षस्त्वस्य दोषस्य मया कार्या यथा तथा। मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम्॥ भीष्म उवाच सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्। नानागसं मां पाशेन संतापयितुमर्हसि॥ लुब्धक उवाच मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम। नैव तावददोषत्वं भवति त्वयि पन्नग॥ मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने। उभयं कारणं मन्ये न कारणमकारणम्॥ धिमृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्। त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम्॥ मृत्युरुवाच विवशौ कालवशगावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि॥ लुब्धक उवाच युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ। हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम्॥ मृत्युरुवाच या काचिदेव चेष्टा स्यात् सर्वा कालप्रचोदिता। पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः॥ तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित्॥ भीष्म उवाच अथोपगम्य कालस्तु तस्मिन् धर्मार्थसंशये। अब्रवीत् पन्नगं मृत्यु लुब्धं चार्जुनकं तथा॥ काल उवाच न ह्यहं नाप्ययं मृत्यु यं लुब्धक पन्नगः। किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः॥ अकरोद् यदयं कर्म तन्नोऽर्जुनक चोदकम्। विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा॥ यदनेन कृतं कर्म तेनायं निधनं गतः। विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्॥ कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः। कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम्॥ यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति। एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥ यथाच्छायातयौ नित्यं सुसम्बद्धौ निरन्तरम्। तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः॥ एवं नाहं न वै मृत्यु सर्पो न तथा भवान्। न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्॥ तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप। स्वकर्मप्रत्ययाँल्लोकान् मत्वाऽर्जुनकमब्रवीत्॥ गौतमी उवाच नैव कालो न भुजगो न मृत्युरिह कारणम्। स्वकर्मभिरयं बालः कालेन निधनं गतः॥ मया च तत् कृतं कर्म येनायं मे मृतः सुतः। यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्॥ भीष्म उवाच ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः। अभूद् विशोकोऽर्जुनको विशोका चैव गौतमी॥ एतच्छुत्वा शमं गच्छ मा भूः शोकपरो नृप। स्वकर्मप्रत्ययाँल्लोकान् सर्वे गच्छन्ति वै नृप॥ नैव त्वया कृतं कर्म नापि दुर्योधनेन वै। कालेनैतत् कृतं विद्धि निहता येन पार्थिवाः॥ वैशम्पायन उवाच इत्येतद् वचनं श्रुत्वा बभूव विगतज्वरः। युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित्॥ अवश्यं कथनीयं मे तवैतन्नरपुङ्गव। यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप॥ भृगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप। ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना॥ क्षत्रियाश्च भृगून् सर्वान् वधिष्यन्ति नराधिप। आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः॥ तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः। उर्वो नाम महातेजा ज्वलनार्कसमद्युतिः॥ स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति। महीं सपर्वतवनां यः करिष्यति भस्मसात्॥ कंचित् कालं तु वह्निं च स एव शमयिष्यति। समुद्रे वडवावको प्रक्षिप्य मुनिसत्तमः॥ पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम्। साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ।॥ क्षत्रियाणामभावाय दैवयुक्तेन हेतुना। स तु तं प्रतिगृह्मैव पुत्रे संक्रामयिष्यति॥ जमदग्नौ महाभागे तपसा भावितात्मनि। स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति॥ कुलात् तु तव धर्मात्मन् कन्यां सोऽधिगमिष्यति। उद्भावनार्थं भवतो वंशस्य नृपसत्तम॥ गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः। ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति॥ क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा। विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्॥ तपसा महता युक्तं प्रदास्यति महाद्युते। स्त्रियौ त कारणं तत्र परिवर्ते भविष्यतः॥ पितामहनियोगाद् वै नान्यथैतद् भविष्यति। तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति॥ भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्। भीष्म उवाच कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः॥ श्रुत्वा हृष्टोऽभवद् राजा वाक्यं चेदमुवाच ह। पुनरेव नराधिपम्। वरार्थं चोदयामास तमुवाच स पार्थिवः॥ बाढमेवं करिष्यामि कामं त्वत्तो महामुने। च्यवनस्तु महातेजाः ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्॥ एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः। अभ्यनुज्ञाय नृपति तीर्थयात्रा ययौ तदा॥ एतत् ते कथितं सर्वमशेषेण मया नृप। भृगूणां कुशिकानां च अभिसम्बन्धकारणम्॥ यथोक्तमृषिणा चापि तदा तदभवन्नृप। जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि॥ युधिष्ठिर उवाच भवानेतादृशो लोके वेदवेदाङ्गपारगः। ब्रूहि किं कुर्वतः कर्म भवेद् गतिरनुत्तमा॥ सर्प उवाच पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत। अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम॥ युधिष्ठिर उवाच दानाद् वा सर्प सत्याद् वा किमतो गुरु दृश्यते। अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्॥ सर्प उवाच दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च। एषां कार्यगरीयस्त्वाद् दृश्यते गुरुलाघवम्॥ कस्माच्चिद् दानयोगाद्धि सत्यमेव विशिष्यते। सत्यवाक्याच्च राजेन्द्र किंचिद् दानं विशिष्यते॥ एवमेव महेष्वास प्रियवाक्यान्महीपते। अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते॥ एवमेतद् भवेद् राजन् कार्यापेक्षमनन्तरम्। यदभिप्रेतमन्यत् ते ब्रूहि यावद् ब्रवीम्यहम्॥ युधिष्ठिर उवाच कथं स्वर्गे गति: सर्प कर्मणां च फलंध्रुवम्। अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे॥ सर्प उवाच तिगे वै गतयो राजन् परिदृष्टाः स्वकर्मभिः। मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत् त्रिधा॥ तत्र वै मानुषाल्लोकाद् दानादिभिरतन्द्रितः। अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते॥ विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्। तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते॥ कामक्रोधसमायुक्तो हिंसालोभसमन्वितः। मनुष्यत्वात् परिभ्रष्टस्तिर्यग्योनौ प्रसूयते॥ तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते। गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते॥ सोऽयमेता गतीस्तात जन्तुश्चरति कार्यवान्। नित्ये महति चात्मानमवस्थापयते द्विजः॥ जातो जातश्च बलवद् भुङ्क्ते चात्मा स देहवान्। फलार्थस्तात निष्पृक्तः प्रजापालनभावनः॥ युधिष्ठिर उवाच शब्दे स्पर्श च रूपे च तथैव रसगन्धयोः। तस्याधिष्ठानमव्यचो ब्रूहि सर्प यथातथम्॥ किं न गृहणाति विषयान् युगपच्च महामते। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम।॥ सर्प उवाच यदात्मद्रव्यमायुष्मन् देहसंश्रयणान्वितम्। करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि॥ ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ। तस्य भोगाधिकरणे करणानि निबोध मे॥ मनसा तात पर्येति क्रमशो विषयानिमान्। विषयायतनस्थो हि भूतात्मा क्षेत्रमास्थितः॥ तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते। तस्माद् युगपदत्रास्य ग्रहणं नोपपद्यते॥ स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः। बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्॥ वुद्धेश्त्तरकाला च वेदना दृश्यते बुधैः। एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः॥ युधिष्ठिर उवाच मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्। एतदध्यात्मविदुषां परं कार्यं विधीयते॥ सर्प उवाच बुद्धिरात्मानुगा तात उत्पातेन विधीयते। तदाश्रिता हि संज्ञैषा बुद्धिस्तस्यैषिणी भवेत्॥ बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि। बुद्धेर्गुणविधानेन मनस्तहगुणवद् भवेत्॥ एतद् विशेषणं तात मनोबुद्ध्योर्यदन्तरम्। त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान्॥ युधिष्ठिर उवाच अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव। विदितं वेदितव्यं ते कस्मात् समनुपृच्छसि॥ सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम्। एवमद्भुतकर्माणमिति मे संशयो महान्॥ सर्प उवाच सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्। वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥ सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर। पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्॥ कृतं कार्य महाराज त्वया मम परंतप। क्षीण: शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना।। अहं हि दिवि दिव्येन विमानेन चरन् पुरा। अभिमानेन मत्तः सन् कंचिन्नान्यमचिन्तयम्॥ ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः। करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते। तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम॥ ब्रह्मर्षीणां सतरं हि उवाह शिबिकां मम। स मामपनयो राजन् भ्रंशयामास वै श्रियः॥ तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः। अगस्तयेन ततोऽस्म्युक्तः सर्पस्त्वं च भवेति ह॥ ततस्तस्माद् विमानावयात् प्रच्युतश्च्युतलक्षणः। प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्। अन्याचं तमहं विप्रं शापस्यान्तो भवेदिति॥ सर्प उवाच प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि। ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः॥ युधिष्ठिरोधर्मराजः शापात् त्वां मोक्षयिष्यति। अभिमानस्य घोरस्य पापस्य च नराधिप॥ फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि। ततो मे विस्मयो जातस्तद् दृष्ट्वा तपसो बलम्॥ ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्। सत्यं दमस्तपो दानाहिंसाधर्मनित्यता।॥ साधकानि सदा पुंसां न जातिर्न कुलं नृप। अरिष्ट एष भ्राता भीमसेनो महाबलः। स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः॥ वैशम्पायन उवाच इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः। दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह॥ युधिष्ठिरोऽपिधर्मात्मा भ्रात्रा भीमेन संगतः। धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्॥ ते ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्। कथयामास तत् सर्वधर्मराजो युधिष्ठिरः॥ तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातश्चास्य ते त्रयः। आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी॥ ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया। मैवमित्यब्रुवन् भीमं गर्हयन्तोऽस्य साहसम्॥ पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्। हर्षमाहारयांचक्रुर्विजह्वश्च मुदा युताः॥ संजय उवाच समं व्यूढेष्वनीकेषु भूयिष्ठेष्वनिवर्तिनः। ब्रह्मलोकपराः सर्वे समपद्यन्त भारत॥ न ह्यनीकमनीकेन समसज्जत संकुले। रथा न रथिभिः सार्ध पादाता न पदातिभिः॥ अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः। उन्मत्तवन्महाराज युध्यन्ते तत्र भारत॥ महान् व्यतिकरो रौद्रः सेनयोः समपद्यता नरनागगणेष्वेव विकीर्णेषु च सर्वशः॥ क्षये तस्मिन् महारौद्रे निर्विशेषमजायत। ततः शल्यः कृपश्चैव चित्रसेनश्च भारत॥ दुःशासनो विकर्णश्च रथानास्थाय भास्वरान्। पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्॥ सा वध्यमाना समरे पाण्डुसेना महात्मभिः। भ्राम्यते बहुधा राजन् मारुतेनेव नौर्जले॥ यता हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति॥ तथैव तव सैन्यस्य पार्थेन च महात्मना। नवमेघप्रतीकाशा: पातिता बहुधा गजाः॥ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः। इषुभिस्ताङ्यमानाश्च नाराचैश्च सहस्रशः॥ पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः। आनद्धाभरणैः कार्येनिहतानां महात्मनाम्॥ छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः। तस्मिन्नेव महाराज महावीरवरक्षये॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये। ते पराक्रान्तमालोक्य राजन् युधि पितामहम्॥ अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः। इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्॥ पाण्डवानभ्यवर्तन्त तस्मिन् वीरवरक्षये। पाण्डवाऽपि महाराज स्मरन्तो विविधान् बहून्॥ क्लेशान् कृतान् सपुत्रेण त्वया पूर्वं नराधिप। भय त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः॥ तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्। सेनापतिस्तु समरे प्राह सेनां महारथः॥ अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह। सेनापतिवचः श्रुत्वा समोकाः सृञ्जयाश्च ते॥ अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः। वध्यमानस्ततो राजन् पिता शान्तनवस्तव॥ अमर्षवशमापन्नो योधयामास सृञ्जयान्। तस्य कीर्तिमतस्तात पुरा रामेण धीमता॥ सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशनी। स ता शिक्षामधिष्ठाय कुर्वन् परबलक्षयम्॥ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः। भीष्मो दश सहस्राणि जघान परवीरहा।॥ तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ। भीष्मेणैकेन मत्स्येषु पञ्चालेषु च संयुगे॥ गजाश्वमिमितं हत्वा हताः सप्त महारथाः। हत्वा पञ्च सहस्राणि रथानां प्रपितामहः॥ नराणां च महायुद्धे सहस्राणि चतुर्दशः। दन्तिनां च सहस्राणि हयानामयुतं पुनः॥ शिक्षाबलेन नहितं पित्रा तव विशाम्पते। ततः सर्वमहीपनां क्षपयित्वा वरूथिनीम्॥ विराटस्य प्रियो भ्राता शतानीको निपातितः। शतानीकं च समरे हत्वा भीष्मः प्रतापवान्॥ सहस्राणि महाराज राज्ञा भल्लैरपातयत्। उद्विग्नाः समरे योधा विक्रोशन्ति धनंजयम्॥ ये च केचन पार्थानामभियाता धनंजयम्। राजानो भीष्ममासाद्य गतास्ते यमसादनम्॥ एवं दश दिशो भीष्मः शरजालैः समन्ततः। अतीत्य सेनां पार्थानामवतस्थे चमूमुखे॥ स कृत्वा सुमहत् कर्म तस्मिन् वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन् प्रगृहीतशरासनः॥ न चैनं पार्थिवाः केचिच्छक्ता राजन् निरीक्षितुम्। मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि॥ यथा दैत्यचमूं शक्तस्तापयामास संयुगे। तथा भीष्मः पाण्डवेयास्तापयामास भारत॥ तथा चैनं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनंजयम्॥ एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः। संनिहत्य बलादेन विजयस्ते भविष्यति॥ बलात् संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः। न हि भीष्मशरानन्यः सोढुमुत्सहते विभो॥ ततस्तस्मिन् क्षणे राजंश्चोदितो वानरध्वजः। सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः॥ स चापि कुरुमुख्यानमृषभः पाण्डवेरितान्।। शरव्रातैः शरव्रातान् बहुधा विदुधाव तान्॥ ततः पञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्। पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥ यमौ च चेकितानश्च केकया: पञ्च चैव ह। सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः॥ द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान्। सुशर्मा च विराटश्च पाण्डवेया महाबलाः॥ एते चान्ये च बहवः पीडिता भीष्मसायकैः। समुद्धृताः फाल्गुनेन निमग्नाः शोकसागरे॥ ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना॥ ततोऽस्यानुचरान् हत्वा सर्वान् रणविभागवित्। भीष्ममेवाभिदुद्राव बीभत्सुम्पराजितः॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना। अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः॥ दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः। ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः॥ बहुधा भीष्ममानछुर्मार्गणैः क्षतमार्गणैः। विधूय तान् बाणगणान् ये मुक्ताः पार्थिवोत्तमैः॥ पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम्। चक्रे शरविघातं चक्रीडन्निव पितामहः॥ नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहः। स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाशिखण्डिने॥ जगान द्रुपदानीके रथान् सप्त महारथः। तत: किलकिलाशब्दः क्षणेन समभूत् तदा॥ मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम्। ते नराश्वरथव्रातैर्मार्गणैश्च परंतप॥ तमेकं छादयामासुर्मेघा इव दिवाकरम्। भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्॥ ततस्तम्य च तेषां च युद्धे देवासुरोपमे। किरीटीभीष्ममागच्छत् पुरस्कृत्य शिखण्डिनम्॥ धृतराष्ट्र उवाच केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय। उदग्रमनसः के वा के वा दीना विचेतसः॥ के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने। मामकाः पाण्डवेया वा तन्ममाचक्ष्व संजय॥ कस्य सेनासमुदये गन्धमाल्यसमुद्भवः। वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम्॥ संजय उवाच व्यूढानां उभयोः सेनयोस्तत्र योधा जहषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः॥ संहतानामनीकानां भरतर्षभ। संसर्गात् समुदीर्णानां विमर्दः सुमहानभूत्॥ वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम्। उभयोः सेनयो राजन् महान् व्यतिकरोऽभवत्॥ अन्योन्यं वीक्ष्यमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम्॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्। धर्मरजमनुप्राप्य ययौ प्राची दिशं प्रति॥ महता बलचक्रेण परराष्ट्रावमर्दिना। हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्॥ वृतो भरतशार्दूलो द्विषच्छोकविवर्द्धनः। स गत्वा नरशार्दूल: पञ्चालानां पुरं महत्॥ पञ्चालान् विविधेपायैः सान्त्वयामास पाण्डवः। ततः स गण्डकाञ्छूरो विदेहान् भरतर्षभः॥ विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः। तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्। कृतवान् भीमसेनेन महद् युद्धं निरायुधम्॥ भीमसेनस्तु तद् दृष्ट्वा तस्य कर्म महात्मनः। अधिसेनापतिं चक्रे सुधर्माणं महाबलम्॥ ततः प्राची दिशं भीमो ययौ भीमपराक्रमः। सैन्येन महता राजन् कम्पयन्निव मेदिनीम्॥ सोऽश्वमेधेश्वरं राजन् रोचमानं सहानुगम्। जिगाय समरे वीरो बलेन बलिनां वरः॥ स तं निर्जित्य कौन्तेयो नातितीव्रण कर्मणा॥ पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दन॥ ततो दक्षिणमागम्य पुलिन्दनगरं महत्। सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्॥ ततस्तु धर्मराजस्य शासनाद् भरतर्षभः। शिशुपालं महावीर्यमभ्यगाज्जनमेजय॥ चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्। उपनिष्क्रम्य नगरात् प्रत्यगृहणात् परंतप॥ तौ समेत्य महाराज कुरुचेदिवृषौ तदा। उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्॥ ततो निवेद्य तद् राष्ट्र चेदिराजो विशाम्पते। उवाच भीमं प्रहसन् किमिदं कुरुषेऽनघ॥ तस्य भीमस्तदाऽचख्यौ धर्मराजचिकीर्षितम्। स च तं प्रतिगृह्येव तथा चक्रे नराधिपः॥ ततो भीमस्तत्र राजन्नुषित्वा त्रिदश क्षपाः। सत्कृत: शिशुपालेन ययौ सबलवाहनः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्॥ संजय उवाच ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः। उपास्तमनवेलायां शिविराभ्याशमागताः॥ विमुच्य वाहांस्त्वरिता भीता समभवंस्तदा। गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते॥ सेनानिवेशमभितो नातिदूरमवस्थिताः। निकृत्ता निशितैः शस्त्रैः समन्तात् क्षतविक्षताः॥ दीर्घमुष्णं च निःश्वस्य पाण्डवानेव चिन्तयतन्। श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्॥ अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन् पुनः। ते मुहूर्तात् ततो गत्वा श्रान्तवाहाः पिपासिताः॥ नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः। राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः॥ धृतराष्ट्र उवाच अश्रद्धेयमिदं कर्म कृतं भीमेन संजय। यत् स नागायुतप्राणः पुत्रो मम निपातितः॥ अवध्यः सर्वभूतानां वज्रसंहननो युवा। पाण्डवैः समरे पुत्रो निहतो मम संजय॥ न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः। यत् समेत्य रणे पाथैः पुत्रो मम निपातितः॥ अद्रिसारमयं नूनं हृदयं मम संजय। हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा॥ कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति। न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे॥ कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय। प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्॥ आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय। कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्॥ कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय। येन पुत्रशतं पूर्णमेकेन निहतं मम॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। अकुर्वता वचस्तेन मम पुत्रेण संजय॥ अधर्मेण हते तात पुत्रे दुर्योधने मम। कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय॥ संजय उवाच गत्वा तु तावका राजन् नातिदूरमवस्थिताः। अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्॥ ते मुहूर्तं तु विश्रम्य लब्धतोयैहयोत्तमैः। सूर्यास्तमनवेलायां समासेदुर्महद् वनम्॥ नानामृगगणैर्जुष्टं नानापक्षिगणावृतम्। नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्॥ नानातोयैः समाकीर्णं नानापुष्पोपशोभितम्। पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्॥ प्रविश्य तद् वनं घोरं वीक्षमाणाः समन्ततः। शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः॥ उपेत्य तु तदा राजन् न्यग्रोधं ते महारथाः। ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्॥ तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः। उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो॥ ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे। सर्वस्य जगतो धात्री शर्वरी समपद्यत॥ ग्रहनक्षत्रताराभिः सम्पूर्णाभिरलंकृतम्। नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः॥ इच्छया ते प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः॥ रात्रिंचराणां सत्त्वानां निर्घोषोऽभूत् सुदारुणः। क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी॥ तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः। कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्॥ तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः। तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्॥ निद्रया च परीताङ्गा निषेदुर्धरणीतले। श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः॥ ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ। सुखोचितावदुःखार्ही निषण्णौ धरणीतले॥ तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ। महार्हशयनोपेतौ भूमावेव ह्यनाथवत्॥ क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत। न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्॥ न लेभे स तु निद्रां वै दह्यमानो हि मन्युना। वीक्षाञ्चक्रे महाबाहुस्तद् वनं घोरदर्शनम्॥ वीक्षमाणो वनोद्देशं नानसत्त्वैर्निषेवितम्। अपश्यत महाबाहुर्यग्रोधं वायसैर्युतम्॥ तत्र काकसहस्राणि तां निशां पर्यणामयन्। सुखं स्वपन्ति कौरव्य पृथक् पृथगुपाश्रयाः॥ सुप्तेषु तेषु काकेषु विश्रव्येषु समन्ततः। सोऽपश्यत् सहसा यान्तमुलूकं घोरदर्शनम्॥ महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्। सुदीर्घघोणानखरं सुपर्णमिव वेगितम्॥ सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः। न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत॥ संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः। सुप्ताञ्जधान सुबहून् वायसान् वायसान्तकः॥ केषांचिदच्छिनत् पक्षाशिरांसि च चकर्त ह। चरणांश्चैव केषांचिद् बभञ्ज चरणायुधः॥ क्षणेनाहन् स बलवान् येऽस्य दृष्टिपथे स्थिताः। तेषां शरीरावयवैः शरीरैश्च विशाम्पते॥ न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत्। तांस्तु हत्वा ततः काकान् कौशिको मुदितोऽभवत्।।४३ प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः। तद् दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि॥ तद्भावकृतसंकल्पो द्रोणिरेकोऽन्वचिन्तयत्। उपदेशः कृतोऽनेन पक्षिणा मम संयुगे॥ शत्रूणां क्षपणे युक्तः प्राप्तः कालश्च मे मतः। नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः॥ बलवन्तः कृतोत्साहाः प्राप्तलक्ष्याः प्रहारिणः। राज्ञः सकाशात् तेषां तु प्रतिज्ञातो वधो मया॥ पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्। न्यायतो युध्यमानस्य प्राणत्यागो न संशयः॥ छद्मना च भवेत् सिद्धिः शत्रूणां च क्षयो महान्। तत्र संशयितादाद् योऽर्थो निःसंशयो भवेत्॥ तं जना बहुः मन्यन्ते ये च शास्त्रविशारदाः। यचाप्यत्र भवेद् वाच्यं गर्हितं लोकनिन्दितम्॥ कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता। निन्दितानि च सर्वाणि कुत्सितानि पदे पदे॥ सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः। अस्मिन्नर्थे पुरा गीता श्रूयन्ते धर्मचिन्तकैः॥ श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः। परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः॥ प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्। निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्॥ भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत्। इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे॥ पाण्डूनां सह पञ्चालैोणपुत्रः प्रतापवान्। स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः॥ सुप्तौ प्राबोधयत् तौ तु मातुलं भोजमेव च। तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ॥ नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ। स मुहूर्तमिव ध्यात्वा बाष्यविह्वलमब्रवीत्॥ हतो दुर्योधनो राजा एकवीरो महाबलः। यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह॥ एकाकी बहुभिः क्षुदैराहवे शुद्धविक्रमः। पातितो भीमसेनेन एकादशचमूपतिः॥ वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्। मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता॥ विनर्दन्ति च पञ्चाला: श्वेलन्ति च हसन्ति च। धमन्ति शङ्खाशतशो हृष्टा जन्ति च दुन्दुभीन्॥ वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः। अनिलेनेरितो घोरो दिशः पूरयतीव ह॥ अश्वानां हेषमाणानां गजानां चैव बुंहताम्। सिंहनादश्च शूराणां श्रूयते सुमहानयम्॥ दिशं प्राची समाश्रित्य हृष्टानां गच्छतां भृशम्। रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः॥ पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्। वयमेव त्रयः शिष्टा अस्मिन् महति वैशसे॥ केचिन्नागशतप्राणाः केचित् सर्वास्त्रकोविदाः। निहताः पाण्डवेयैस्ते मन्ये कालस्य पर्ययम्॥ एवमेतेन भाव्यं हि नूनं कार्वेण तत्त्वतः। यथा ह्यस्येदृशी निष्ठा कृतकार्येऽपि दुष्करे॥ भवेतास्तु यदि प्रज्ञा न मोहादपनीयते। व्यापन्नेऽस्मिन् महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥ वैशम्पायन उवाच स्वर्गतः स तु राजेन्द्रो निवसन् देववेश्मनि। पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा॥ देवलोकं ब्रह्मलोकं संचरन् पुण्यकृद् वशी। अवसत् पृथिवीपालो दीर्घकालमिति श्रुतिः॥ स कदाचिनृपश्रेष्ठो ययातिः शक्रमागमत्। कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः।३॥ शक्र उवाच यदा स पूरुस्तव रूपेण राजन् जरां गृहीत्वा प्रचचार भूमौ। तदा च राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम्॥ ययातिरुवाच गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव। मध्य पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव॥ स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत्। ययास्य वाचा पर उद्विजेत न तां वदेदुषती पापलोक्याम्॥ अरुन्तुदं परुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्॥ सद्भिः पुरस्तादभिपूजित: स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात्। सदासतामतिवादांस्तितिक्षेत् सतां वृत्तं चाददीतार्यवृत्तः॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु॥ न हीदृशं संवननं त्रिषु लोकेषु विद्यते। दया मैत्री च भूतेषु दानं च मधुरा च वाक्॥ तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्। पूज्यान् सम्पूजयेद् दद्यान्न च याचेत् कदाचन॥ संजय उवाच राजन् शतसहस्राणि तत्र तत्र पदातिनाम्। निर्मर्यादं प्रयुद्धानि तत् ते वक्ष्यामि भारत॥ न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम्। न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः॥ न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युद्धयन्ते पाण्डवाः कुरुभिः सह॥ स्थानीकं नरव्याघ्राः केचिदभ्यपतन रथैः। अभज्यन्त युगैरेव युगानि भरतर्षभ॥ रथेषाश्च रथेषाभिः कूबरा रथकूबरैः। संगतैः सहिताः केचित् परस्परजिघांसवः॥ न शेकुश्चलितुं केचित् संनिपत्य स्था रथैः। प्रभिन्नास्तु महाकायः संनिपत्य गजा गजैः॥ बहुधादारयन् क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश वारणा वरवारणैः॥ अभिसृत्य महाराज वेगवद्भिर्महागजैः। दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः॥ अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः॥ प्रभिन्नैरपि संसक्ताः केचित् तत्र महागजाः। क्रौञ्चवन्निनदं कृत्वा दुर्दुवुः सर्वतो दिशम्॥ सम्यक् प्रणीता नागाश्च प्रभिन्नकरटामुखाः। ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः॥ प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान् रवान्।॥ गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः। ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः॥ गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः। आयसैः परिपैश्चैव निस्त्रिंशैविमलैः शितैः॥ प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः। व्यदृश्यन्त महाराज परस्परजिघांसवः॥ राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। प्रत्यदृश्यन्त शूराणामन्योन्मभिधावताम्॥ अवक्षिप्तावधूतानामसीनां वीरबाहुभिः। संजज्ञे तुमुलः शब्दः पततां परमर्मसु॥ गदामुसलरुग्णानां भिन्नानां च वरासिभिः। दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः॥ तत्र तत्र नरौघाणां क्रोशतामितरेतरम्। शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत॥ हयैरपि हयारोहाश्चामरापीडधारिभिः। हंसैरिव महावेगैरन्योन्यमभिविद्रुताः॥ तैविमुक्ता महाप्रासा जाम्बूनदविभूषणाः। आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः॥ अश्वैरच्यजवैः केचिदाप्लुत्य महतो स्थान्। शिरांस्याददिरे वीरा रथिनामश्वसादिनः॥ बहूनपि हयारोहान् भल्लैः संनतपर्वभिः। रथी जघान सम्प्राप्य बाणगोचरमागतान्॥ नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान् गजाः। पादैरेव विमृद्नन्ति मत्ताः कनकभूषणाः॥ पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः। प्रासैर्विनिहताः केचिद् विनेदुः परमातुराः॥ साश्वारोहान् हयान् कांश्चिदुन्मथ्य वरवारणाः। सहसा चिक्षिपुस्तत्र संकुले भैरवे सति॥ साश्वारोहान् विषाणाप्रैक्षिप्य तुरगान् गजाः। रथौघानभिमृद्नन्तः सध्वजानभिचक्रमुः॥ पुंस्त्वादतिमदत्वाच्च केचित् तत्र महागजाः। साश्वारोहान् हयाञ्जघ्नुः करैः सचरणैस्तथा॥ अश्वारोहैश्च समरे हस्तिसादिभिरेव च। प्रतिमानेषु गात्रेषु पार्श्वेष्वभि च वारणान्। आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः॥ नराश्वकायान् निर्भिद्य लौहानि कवचानि च। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः॥ महोल्काप्रतिमा घोरास्तत्र तत्र विशाम्पते। द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि॥ विकोशैविमलैः खङ्गैरभिजग्मुः परान् रणे। अभिप्लुतमभिक्रुद्धमेकपाविदारितम्॥ विदर्शयन्तः सम्पेतुः खगचर्मपरश्वधैः। केचिदाक्षिप्य करिणः शाश्वानपि रथान् करैः॥ विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः। शङ्कुभिर्दारिताः केचित् सम्भिन्नाश्च परश्वधैः॥ हस्तिभिर्मुदिताः केचित् क्षुण्णाश्चान्ये तुरंगमैः। रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वधैः॥ व्याक्रोशन्त नरा राजंस्तत्र तत्र स्म बान्धवान्। पुत्रानन्ये पितृनन्ये भ्रातृ॑श्च सह बन्धुभिः॥ मातुलान् भागिनेयांश्च परानपि च संयुगे। विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत॥ बाहुभिश्चापरे छिन्नैः पार्थेषु च विदारिताः। क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः॥ तृषा परिगताः केचिदल्पसत्त्वा विशाम्पते। भूमौ निपतिताः संख्ये मृगयांचक्रिरे जलम्॥ रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत। व्यनिन्दन भृशमात्मानं तव पुत्रांश्च संगतान्॥ अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्। नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष॥ तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्। आदश्य दशनैश्चापि क्रोधात् सरदनच्छदम्॥ भृकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति च परस्परम्। अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः॥ निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः। अन्ये च विस्थाः शूरा स्थमन्यस्य संयुगे।॥ प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः। अशोभन्त महाराज सपुष्पा इव किंशुकाः॥ सम्बभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन् वीरवरक्षये।॥ निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः॥ सखा सखायं च तथा सम्बन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह॥ वर्तमाने तथा तस्मिन् निर्मर्यादे भयानके। भीष्ममासाद्य पार्थानां वाहिनी समकम्पत॥ केतुना पञ्चतारेण तालेन भरतर्षभ। राजतेन महाबाहुरुच्छ्रितेन महारथे। बभौ भीष्मस्तदा राजश्चन्द्रमा इव मेरुणा॥ धृतराष्ट्र उवाच मेरोरथोत्तरं पार्श्व पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्॥ संजय उवाच दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः॥ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च॥ सर्वकामफलास्तत्र केचिद् वृक्षा जनाधिप। अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप॥ ये क्षरन्ति सदा क्षीरं षड्रसं चामृतोपमम्। वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका। सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप। पुध्यकरिण्यः शुभास्तत्र सुखस्पर्शा मनोरमाः॥ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः॥ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्॥ मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूपगुणोपेतं समवेषं तथैव च॥ एकैकमनुरक्तं च चक्रवाकसमं विभो। निरामयाश्च ते लोका नित्यं मुदितमानसाः॥ दश वर्षसहस्राणि दश वर्षशतानि च। जीवन्ति ते महाराज न चान्योन्यं जहत्युत॥ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः। तान् निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च॥ उत्तराः कुरवो राजन् व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्॥ तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते। भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः॥ कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः। दुमश्च योजनोत्सेधः सिद्धचारणसेवितः। तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः॥ चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः। चन्द्रशीतलगायश्च नृत्यगीतविशारदाः॥ दश वर्षसहस्राणि तत्रायुर्भरतर्षभ। कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः॥ सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीप: सनातनः॥ योजनानां सहस्रं च शतं च भरतर्षभ। उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वरः॥ अरत्नीनां सहस्रं च शतानि दश पञ्च च। परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्॥ पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम्। मुञ्चन्ति च रसं राजेस्तस्मिन् रजतसंनिभम्॥ तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप। मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान् कुरून्।॥ तत्र तेषां मन:शान्तिन पिपासा जनाधिप। तस्मिन् फलरसे पीते न जरा बाधते च तान्॥ तत्र जाम्बूनदं नाम कनकं देवभूषणम्। इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्॥ तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः। तथा माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा॥ नाम्ना संवर्तको नाम कालग्निर्भरतर्षभ। तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका॥ योजनानां सहस्राणि पञ्चषण्माल्यवानथ। महारजतसंकाशा जायन्ते तत्र मानवाः॥ ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः। तपस्तप्यन्ति ते तीव्र भवन्ति झूर्ध्वरेतसः। रक्षणार्थं तु भूतानां प्रविशन्ते दिवाकरम्॥ षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्॥ षष्टि वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्॥ सौतिरुवाच स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखां भग्नां चैकामधारयत्॥ तां भक्त्वा स महाशाखां स्मयमानो विलोकयन्। अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्॥ ॥ ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्। तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः। नखैदूंढतरं वीरः संगृह्य गजकच्छपौ॥ स तद्विनाशसंत्रासादभिपत्य खगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः। विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ गुरुं भारं समासाद्यड्डीन एष विहंगमः। गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ ततः शनैः पर्यपतत्पक्षैः शैलाप्रकम्पयन्। एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ दयार्थं बालखिल्यानां न च स्थानमविन्दत। स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ ददर्श कश्यपं तत्र पितरं तपसि स्थितम्। ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ तेजोवीर्यबलोपेतं मनोमारुतरंहसम्। शैल,ङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्। महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ अप्रधृष्यमजेयं च देवदानवराक्षसैः। भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ लोकसंलोडनं घोरं कृतान्तसमदर्शनम्। तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ कश्यप उवाच पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ सौतिरुवाच ततः प्रसादयामास कश्यपः पुत्रकारणात्। वालखिल्यान्महाभागांतपसा हतकल्मषान्॥ कश्यप उवाच प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ सौतिरुवाच एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तंतपोऽर्थिनः॥ ततस्तेष्वपयातेषु पितरं विनतासुतः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्॥ भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्। वर्जितं मानुषैर्देशमाख्यातु भगवान्मम॥ ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥ तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः! जवेनाभ्यपतत्तार्क्ष्य: सशाखागजकच्छपः॥ न तां वध्री परिणहेच्छतचर्मा महातनुम्। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः॥ स ततः शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पतगेश्वरः॥ स तं गत्वा क्षणेनैव पर्वतं वचनापितुः। अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः॥ पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादपः॥ शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्॥ शाखिनो बहवश्चापि शाखायाऽभिहतास्तया। काञ्चनैः कुसुमैर्भान्त विद्युत्त्वन्त इवाम्बुदाः॥ ते हेमविकचा भूमौ युताः पर्वतधातुभिः। व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः॥ ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ॥ तावुभौ भक्षयित्वा तु स तायः कूर्मकुञ्जरौ। ततः पर्वतकूटाग्रादुत्पपात महाजवः॥ प्रावर्तन्ताथ देवानामुत्पाताभयशंसिनः। इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः॥ सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता। तथा वसूनां रुद्राणामादित्यानां च सर्वशः॥ साध्यानां मरुतां चैव ये चान्ये देवतागणाः। स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्॥ अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च। वदुर्वाताः सनिर्घाता: पेतुरुल्काः सहस्रशः॥ निरभ्रमेव चाकाशं प्रजगर्न महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षत शोणितम्॥ मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु॥ रजांसि मुकुटान्येषामुत्थिानि व्यघर्षयन्। ततस्त्राससमुद्विग्नः सह देवैः शतऋतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ इन्द्र उवाच किमर्थं भगवन्योरा उत्पाताः सहसोस्थिताः। न च शत्रु प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ बृहस्पतिरुवाच तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा बालखिल्यानां महर्षीणां महात्मनाम्॥ कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्॥ समर्थो बलिना श्रेष्ठो हर्तुं सोमं विहंगमः। सर्वं संभवायाम्यस्मिन्नसाध्यमपि साधयेत्॥ सौतिरुवाच श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबल: पक्षी हर्तुं सोममिहोद्यतः॥ युष्मान्संबोधयाम्येष यया न स हरेबलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ धारयन्तो विचित्राणि काञ्चनानि मनस्विनः। कवचानि महार्हाणि वैदूर्यविकृतानि च॥ चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च। विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः। सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्। शक्तीश्च विविधास्तीक्ष्णा: करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः॥ तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ अनुपमबलवीर्यतजेसो धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपु:प्रकाशिनः॥ इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ वैशम्पायन उवाच मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः। मत्वा च दुस्तरं दैवमेतद् राजश्चकार ह॥ अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः। नाभ्यनन्दद् वचो भ्रातुर्वचनं चेदमब्रवीत्॥ विदुर उवाच नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद् बिभेमि। देतच्छङ्के द्यूतकृते नरेन्द्र॥