Book
int64
10
18
Chapter
int64
1
353
Verse
int64
1
211
Sanskrit
stringlengths
41
2.77k
Transliteration
stringlengths
50
3.07k
DocID
int64
1.01M
1.04M
17
1
37
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् । परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥ ३७ ॥
null
1,040,690
17
1
38
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि । गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ ३८ ॥
null
1,040,691
17
1
39
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् । गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥ ३९ ॥
null
1,040,692
17
1
40
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् । स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥ ४० ॥
null
1,040,693
17
1
41
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत । ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ ४१ ॥
null
1,040,694
17
1
42
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः । जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ॥ ४२ ॥
null
1,040,695
17
1
43
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते । ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ ४३ ॥
null
1,040,696
17
1
44
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः । प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ ४४ ॥
null
1,040,697
17
2
1
वैशंपायन उवाच । ततस्ते नियतात्मान उदीचीं दिशमास्थिताः । ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ १ ॥
null
1,040,699
17
2
2
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् । अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ २ ॥
null
1,040,700
17
2
3
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् । याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ ३ ॥
null
1,040,701
17
2
4
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः । उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ ४ ॥
null
1,040,702
17
2
5
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप । कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥ ५ ॥
null
1,040,703
17
2
6
युधिष्ठिर उवाच । पक्षपातो महानस्या विशेषेण धनंजये । तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ ६ ॥
null
1,040,704
17
2
7
वैशंपायन उवाच । एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः । समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ ७ ॥
null
1,040,705
17
2
8
सहदेवस्ततो धीमान्निपपात महीतले । तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ ८ ॥
null
1,040,706
17
2
9
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः । सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ ९ ॥
null
1,040,707
17
2
10
युधिष्ठिर उवाच । आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन । तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥ १० ॥
null
1,040,708
17
2
11
वैशंपायन उवाच । इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा । भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ ११ ॥
null
1,040,709
17
2
12
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् । आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ १२ ॥
null
1,040,710
17
2
13
तस्मिन्निपतिते वीरे नकुले चारुदर्शने । पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ १३ ॥
null
1,040,711
17
2
14
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः । रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ १४ ॥
null
1,040,712
17
2
15
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः । नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥ १५ ॥
null
1,040,713
17
2
16
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् । अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ १६ ॥
null
1,040,714
17
2
17
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर । यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ १७ ॥
null
1,040,715
17
2
18
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः । पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥ १८ ॥
null
1,040,716
17
2
19
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि । म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ १९ ॥
null
1,040,717
17
2
20
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः । अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ २० ॥
null
1,040,718
17
2
21
युधिष्ठिर उवाच । एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् । न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ २१ ॥
null
1,040,719
17
2
22
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः । यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥ २२ ॥
null
1,040,720
17
2
23
वैशंपायन उवाच । इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह । पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ २३ ॥
null
1,040,721
17
2
24
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव । किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ २४ ॥
null
1,040,722
17
2
25
युधिष्ठिर उवाच । अतिभुक्तं च भवता प्राणेन च विकत्थसे । अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ २५ ॥
null
1,040,723
17
2
26
वैशंपायन उवाच । इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् । श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥ २६ ॥
null
1,040,724
17
3
1
वैशंपायन उवाच । ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः । रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ १ ॥
null
1,040,726
17
3
2
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः । अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ २ ॥
null
1,040,727
17
3
3
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह । न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ ३ ॥
null
1,040,728
17
3
4
सुकुमारी सुखार्हा च राजपुत्री पुरंदर । सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ ४ ॥
null
1,040,729
17
3
5
इन्द्र उवाच । भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् । कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ ५ ॥
null
1,040,730
17
3
6
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ । अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ ६ ॥
null
1,040,731
17
3
7
युधिष्ठिर उवाच । अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह । स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ ७ ॥
null
1,040,732
17
3
8
इन्द्र उवाच । अमर्त्यत्वं मत्समत्वं च राजश्रियं कृत्स्नां महतीं चैव कीर्तिम् । संप्राप्तोऽद्य स्वर्गसुखानि च त्वंत्यज श्वानं नात्र नृशंसमस्ति ॥ ८ ॥
null
1,040,733
17
3
9
युधिष्ठिर उवाच । अनार्यमार्येण सहस्रनेत्रशक्यं कर्तुं दुष्करमेतदार्य । मा मे श्रिया संगमनं तयास्तुयस्याः कृते भक्तजनं त्यजेयम् ॥ ९ ॥
null
1,040,734
17
3
10
इन्द्र उवाच । स्वर्गे लोके श्ववतां नास्ति धिष्ण्यष्टापूर्तं क्रोधवशा हरन्ति । ततो विचार्य क्रियतां धर्मराजत्यज श्वानं नात्र नृशंसमस्ति ॥ १० ॥
null
1,040,735
17
3
11
युधिष्ठिर उवाच । भक्तत्यागं प्राहुरत्यन्तपापंतुल्यं लोके ब्रह्मवध्याकृतेन । तस्मान्नाहं जातु कथंचनाद्यत्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ॥ ११ ॥
null
1,040,736
17
3
12
इन्द्र उवाच । शुना दृष्टं क्रोधवशा हरन्तियद्दत्तमिष्टं विवृतमथो हुतं च । तस्माच्छुनस्त्यागमिमं कुरुष्वशुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ १२ ॥
null
1,040,737
17
3
13
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णांप्राप्तो लोकः कर्मणा स्वेन वीर । श्वानं चैनं न त्यजसे कथं नुत्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ १३ ॥
null
1,040,738
17
3
14
युधिष्ठिर उवाच । न विद्यते संधिरथापि विग्रहोमृतैर्मर्त्यैरिति लोकेषु निष्ठा । न ते मया जीवयितुं हि शक्यातस्मात्त्यागस्तेषु कृतो न जीवताम् ॥ १४ ॥
null
1,040,739
17
3
15
प्रतिप्रदानं शरणागतस्यस्त्रिया वधो ब्राह्मणस्वापहारः । मित्रद्रोहस्तानि चत्वारि शक्रभक्तत्यागश्चैव समो मतो मे ॥ १५ ॥
null
1,040,740
17
3
16
वैशंपायन उवाच । तद्धर्मराजस्य वचो निशम्यधर्मस्वरूपी भगवानुवाच । युधिष्ठिरं प्रीतियुक्तो नरेन्द्रंश्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥ १६ ॥
null
1,040,741
17
3
17
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया । अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ १७ ॥
null
1,040,742
17
3
18
पुरा द्वैतवने चासि मया पुत्र परीक्षितः । पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ १८ ॥
null
1,040,743
17
3
19
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ । मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ १९ ॥
null
1,040,744
17
3
20
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया । तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥ २० ॥
null
1,040,745
17
3
21
अतस्तवाक्षया लोकाः स्वशरीरेण भारत । प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ २१ ॥
null
1,040,746
17
3
22
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि । देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ २२ ॥
null
1,040,747
17
3
23
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः । सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ २३ ॥
null
1,040,748
17
3
24
स तं रथं समास्थाय राजा कुरुकुलोद्वहः । ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥ २४ ॥
null
1,040,749
17
3
25
ततो देवनिकायस्थो नारदः सर्वलोकवित् । उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ २५ ॥
null
1,040,750
17
3
26
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः । कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ २६ ॥
null
1,040,751
17
3
27
लोकानावृत्य यशसा तेजसा वृत्तसंपदा । स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ २७ ॥
null
1,040,752
17
3
28
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् । देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ २८ ॥
null
1,040,753
17
3
29
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे । तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ २९ ॥
null
1,040,754
17
3
30
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः । आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ ३० ॥
null
1,040,755
17
3
31
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः । किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ ३१ ॥
null
1,040,756
17
3
32
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् । नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन ॥ ३२ ॥
null
1,040,757
17
3
33
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप । स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ ३३ ॥
null
1,040,758
17
3
34
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् । पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ ३४ ॥
null
1,040,759
17
3
35
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण । गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ ३५ ॥
null
1,040,760
17
3
36
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता । द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ॥ ३६ ॥
null
1,040,761
18
1
1
जनमेजय उवाच । स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ १ ॥
null
1,040,764
18
1
2
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः । महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ २ ॥
null
1,040,765
18
1
3
वैशंपायन उवाच । स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः । युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ ३ ॥
null
1,040,766
18
1
4
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः । दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ ४ ॥
null
1,040,767
18
1
5
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् । देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ ५ ॥
null
1,040,768
18
1
6
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः । सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ ६ ॥
null
1,040,769
18
1
7
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै । सहितः कामये लोकांल्लुब्धेनादीर्घदर्शिना ॥ ७ ॥
null
1,040,770
18
1
8
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा । हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ॥ ८ ॥
null
1,040,771
18
1
9
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी । परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥ ९ ॥
null
1,040,772
18
1
10
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् । तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ १० ॥
null
1,040,773
18
1
11
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव । स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥ ११ ॥
null
1,040,774
18
1
12
युधिष्ठिर महाबाहो मैवं वोचः कथंचन । दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ १२ ॥
null
1,040,775
18
1
13
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥ १३ ॥
null
1,040,776
18
1
14
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् । यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥ १४ ॥
null
1,040,777
18
1
15
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् । भये महति योऽभीतो बभूव पृथिवीपतिः ॥ १५ ॥
null
1,040,778
18
1
16
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् । द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ १६ ॥
null
1,040,779
18
1
17
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः । संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥ १७ ॥
null
1,040,780
18
1
18
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै । स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ १८ ॥
null
1,040,781
18
1
19
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः । भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ १९ ॥
null
1,040,782
18
1
20
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः । अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ २० ॥
null
1,040,783
18
1
21
यत्कृते पृथिवी नष्टा सहया सरथद्विपा । वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ २१ ॥
null
1,040,784
18
1
22
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः । सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥ २२ ॥
null
1,040,785
18
1
23
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् । कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् ॥ २३ ॥
null
1,040,786
18
1
24
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् । ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥ २४ ॥
null
1,040,787
18
1
25
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद । विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥ २५ ॥
null
1,040,788
18
1
26
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः । अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ २६ ॥
null
1,040,789
18
2
1
युधिष्ठिर उवाच । नेह पश्यामि विबुधा राधेयममितौजसम् । भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ १ ॥
null
1,040,791
18
2
2
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः । राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ २ ॥
null
1,040,792
18
2
3
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः । तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ ३ ॥
null
1,040,793
18
2
4
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः । स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ ४ ॥
null
1,040,794