index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
615,301
पूर्वादीशानपर्यन्तमर्चयेदष्टदिग्घटान् । महामुम्भादि संगृह्य प्रासादं तु परिभ्रमेत् ॥ 23 ॥
पूर्वादी, ईशान, पर्यन्तम्, अर्चयेद्, अष्टदिग्घ्, हटा, आन्, सङ्गृह्य, प्रासादम्, तु, परि, भ्रमेत्
615,302
शङ्खभेर्यादिनादैस्तु नृत्तगीतसमन्वितम् । स्वस्तिवाचनसंयुक्तं गर्भागारं प्रवेशयेत् ॥ 24 ॥
शङ्ख, भेर्या, आदिना, अदैस्, तु, नृत्त, गीत, समन्वितम्, गर्भागारम्, प्र, वेशयेत्
615,303
एवमभ्यर्च्य मतिमान् क्षम्यतामिति चोच्चरन् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥ 27 ॥
एवम्, अभ्यर्च्य, मतिमान्, क्षम्यताम्, इति, क्रियाहीनम्, भक्तिहीनम्, जनार्दन
615,304
क्षन्तुमर्हसि देवेश परिपूर्णं तदस्तु मे । एवं कृत्वा तु मन्त्रज्ञो मङ्गलानि समीरयेत् ॥ 28 ॥
क्षन्तुम्, अर्हसि, देवेश, परिपूर्णम्, तदस्, तु, मे, कृत्वा, तु, मन्त्रज्ञो*, मङ्गलानि, समीर्, रयेत्
615,305
आचार्यः पुष्पमादाय नमस्कृत्य हरिं प्रभुम् । कुम्भस्थितेन देवेशे मूलबेरे नियोजयेत् ॥ 29 ॥
आचार्यः, पुष्पम्, आदाय, नमस्कृत्य, हरिम्, प्रभुम्, देवेशे, मूलबेरे, नियो, जयेत्
615,306
मूलबेरस्य मूर्ध्नेव सेचयेत्तांस्त्रिबिन्दुना । देवपादे तु हस्ताभ्यां पुष्पं दत्वा पुनः पुनः ॥ 31 ॥
मूलबेरस्य, मूर्ध्ने, इव, सेचयेत्, तांस्, त्रि, बिन्दुना, तु, हस्ताभ्याम्, पुष्पम्, दत्, वा, पुनः, पुनः
615,307
तथैवाष्टघटाच्छक्तिं तद्देहे विनिवेशयेत् । परमेष्ठ्या न्यसेत् पूर्वं दिङ्मूर्त्यादीन् स्वविद्यया ॥ 30 ॥
तथै, एवाष्, ट, घटाच्छ्, शक्तिम्, तद्, देहे, विनि, वेशयेत्, पूर्वम्, दिङ्मूर्त्या, आदीन्, स्वविद्यया
615,308
ततः पुरुष्ासूक्तं तु ब्राह्मणैः सह संजपेत् । तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनैः ॥ 32 ॥
ततः, तु, ब्राह्मणैः, सह, सञ्, जपेत्, काले, महाप्राज्ञ*, आचार्यम्, पूजयेद्ध्, हनैः
615,309
नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणैः । कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम् ॥ 33 ॥
नववस्त्रा, अङ्गुलीयैस्, तु, कटका, अदि, विभूषणैः, तोयेन, प्रो, क्षयेद्, गेहम्, उत्तमम्
615,310
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् । क्रियावसाने मतिमान् चित्रकर्म च कारयेत् ॥ 36 ॥
ब्राह्मणान्, भोजयेत्, तत्र, वैष्णवान्, वेदपारगान्, मतिमान्, चित्रकर्म, च, कारयेत्
615,311
निवेदितं तु तत्सर्वं सात्त्वतेभ्यो निवेदयेत् । शिल्पिनं पूजयेत्तत्र दैवज्ञमनुपूजयेत् ॥ 35 ॥
निवेदितम्, तु, तत्, सर्वम्, सात्त्वतेभ्यो*, नि, वेदयेत्, पूजयेत्, तत्र, दैवज्ञम्, अनु, पूजयेत्
615,312
अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतं विना । आचार्याय प्रदातव्यं वस्त्रं व्रीह्यादिभिः सह ॥ 34 ॥
अत्रो, उपयुक्तम्, यद्, द्रव्यम्, देवता, अलङ्कृतम्, विना, प्रदातव्यम्, वस्त्रम्, व्रीह्या, आदिभिः, सह
615,313
हवनं मण्डपाद्येषु एवमेव समाचरेत् । एवमुक्तप्रकारेण कारयेदधिवासनम् ॥ 37 ॥
हवनम्, मण्डपाद्ये, एषु, एवम्, एव, समा, चरेत्, कारयेद्, अधिवासनम्
615,314
वासाधिवासनं चैव प्रासादप्रोक्षणे मुने । अङ्कुरार्पणकार्ये तु होममत्र न विद्यते ॥ 38 ॥
वासा, अधिवासनम्, चै, ऐव, प्रासाद, प्रोक्षणे, मुने, तु, होमम्, अत्र, न, विद्यते
615,315
बालालयप्रतिष्ठायां स्थण्डिले होममाचरेत् । अधिवासादिकर्माणि वासवादीनि कारयेत् ॥ 40 ॥
बालालय, प्रतिष्ठायाम्, स्थण्डिले, होमम्, आ, चरेत्, वासवाद्, ई, नि, कारयेत्
615,316
बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात् । जगती कुमुदादीनि वर्जयेत्तरुणालये ॥ 39 ॥
बाल, गेहम्, तु, देवर्षे, कल्पयेत्, पूर्ववत्, क्रमात्, कुमुदादी, नि, व, अर्जयेत्, तरुणालये
615,317
एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद । जीर्णोद्धारं ततः कुर्यात् शिल्पिना कुशलेन तु ॥ 41 ॥
एवम्, उक्त, प्रकारेण, शक्तिम्, उद्वास्य, नारद, ततः, कुर्यात्, शिल्पिना, कुशलेन, तु
615,318
अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षयः । स्थाननाशो भवेत्तत्र संभवेन्नात्र संशयः ॥ 42 ॥
अन्यथा, कुरुते, मोहात्, ग्राम, नाशो*, धनक्षयः, भवेत्, तत्र, सम्भवे, ईन्न्, आत्र, संशयः
615,319
तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम् । उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि ॥ 43 ॥
तस्मात्, सर्वप्रयत्नेन, विमानस्थ, हरिम्, परम्, क्रमात्, पूर्वम्, यथाविधि
615,320
तस्मात् सर्वप्रयत्नेन शक्त्युद्वासनमारभेत् । मार्गेणैकेन संयोज्य प्रासादस्याधिदैवतम् ॥ 44 ॥
तस्मात्, सर्वप्रयत्नेन, संयोज्य, प्रासादस्या, अधिदैवतम्
615,321
विनोदमण्डपं चैव वप्रप्राकारके तथा । परिवारालयाद्येषु बहिः प्राकारके तथा ॥ 45 ॥
विनोदम्, अण्ड, पम्, चै, ऐव, वप्र, प्राकार, के, तथा, बहिः, प्राकार, के, तथा
615,322
अतः परं प्रवक्ष्यामि जीर्णोद्धारविधिं परम् । आचार्यं यजमानं च तक्षाचार्यं महामुने ॥ 47 ॥
अतः, परम्, प्रव, क्ष्या, अमि, जीर्णोद्धार, विधिम्, परम्, यजमानम्, च, तक्षा, आचार्यम्, महामुने
615,323
शैलजप्रतिमाजीर्णे लोहजाः शैलजास्तथा । रत्नजप्रतिमाजीर्णे सौवर्णं वापि राजतम् ॥ 49 ॥
शैलज, प्रतिमा, अजीर्णे, लोहजाः, शैलजास्, तथा, सौवर्णम्, वापि, राजतम्
615,324
मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जवः । पुनस्तु मृण्मयाः कार्या शिलया वापि कारयेत् ॥ 48 ॥
मृण्मय, प्रतिमा, अजीर्णे, शूल, मृत्, पट, रज्जवः, मृण्मयाः, कार्या, शिलया, वापि, कारयेत्
615,325
एवमुक्तप्रकारेण कारयेदधिवासनम् । एवं संक्षेपतः प्रोक्तं जीर्णोद्धारमथारभेत् ॥ 46 ॥
एवम्, उक्त, प्रकारेण, कारयेद्, अधिवासनम्, सङ्क्षेप, तः, प्रोक्तम्
615,326
दारुमृच्छैललोहाद्या रुक्मरत्नादिकाः क्रमात् । उत्तमा इति विज्ञेया उत्तरोत्तरमग्रतः ॥ 50 ॥
दारुम्, ऋच्छै, ऐल, लोहाद्, या*, रुक्म, रत्ना, अदिकाः, क्रमात्, इति, विज्ञेया*, उत्तरोत्तरम्, अग्रतः
615,327
हाटकं रजतं ताम्रं समानमिति नारद । लोहशब्देन संज्ञात्वा कारयेदुत्सवादिकम् ॥ 52 ॥
हाटकम्, रजतम्, ताम्रम्, समानम्, इति, नारद, सञ्ज्ञात्वा, कारयेद्, उत्सवा, अदिकम्
615,328
रुक्मं रत्नं समानं च केचिदाहुर्मनीषिणः । शिलालोहं च सदृशं देवर्षे इति केचन ॥ 51 ॥
रुक्मम्, रत्नम्, समानम्, च, के, चिद्, आहुर्, मनीषिणः, च, सदृशम्, देवर्षे, इति, के, चन
615,329
आत्मार्थे च परार्थे च प्रतिमाकरणे मुने । अधमद्रव्यसंपन्नं परकार्यमनुत्तमम् ॥ 54 ॥
आत्मार्थे, च, परार्थे, च, प्रतिमा, अकरणे, मुने, परकार्यम्, अनुत्तमम्
615,330
यजमानस्य वाञ्छा चेत् यथावित्तानुसारतः । अस्मिन् मुनिवरश्रेष्ठ त्रपुकं चायसं विना ॥ 53 ॥
यजमानस्य, वाञ्छा, यथा, आवित्तान्, उसा, अरतः, मुनिवर, श्रेष्ठ, त्रपु, कम्, चाय, सम्, विना
615,331
सदृशने तु यत्कार्यं मध्यमं प्रोच्यते बुधैः । नोत्तमं त्वधमैः कार्यं कुर्वन् मोहात् प्रणश्यति ॥ 55 ॥
सदृश, ने, तु, यत्कार्यम्, मध्यमम्, प्रो, उच्यते, बुधैः, त्व, अधमैः, कार्यम्, कुर्वन्, मोहात्, प्रण, श्यति
615,332
राजराष्ट्रं च सकलं इति शास्त्रस्य निश्चयः । द्रव्य एव विसंवादो मानोन्मानप्रमाणकैः ॥ 56 ॥
राज, राष्ट्रम्, च, सकलम्, इति, शास्त्रस्य, निश्चयः, एव, विसंवादो*, मानो, उन्मान, प्रमाणकैः
615,333
आत्मार्थे वा परार्थे वा तुल्यमेतद्द्विजोत्तम । आत्मार्थे वंशनाशः स्यात् परार्थे राष्ट्रनाशनम् ॥ 58 ॥
आत्मार्थे, वा, परार्थे, वा, तुल्यम्, एतद्, द्विजोत्तम, वंश, नाशः, स्यात्, परार्थे, राष्ट्र, नाशनम्
615,334
न न्यूनमतिरिक्तं च यदि चेत्सिद्धिमात्मनः । मूलबेरादिबेराणं जीर्णोद्धारविधौ मुने ॥ 57 ॥
न, न्यूनम्, अतिरिक्तम्, च, यदि, जीर्णोद्धार, विधौ, मुने
615,335
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् । विमानं प्रतिमां वापि प्राकारं गोपुरं तथा ॥ 59 ॥
तस्मात्, सर्वप्रयत्नेन, कारयेद्, विधि, चोदितम्, प्रतिमाम्, वापि, प्राकारम्, गोपुरम्, तथा
615,336
मण्डपं पूर्ववत् कुर्यात् नवकर्मानुलेपने । नष्टालयं चेत्तद्भूमौ पुराणोक्तं चार्षं तु वा ॥ 60 ॥
मण्डपम्, पूर्ववत्, कुर्यात्, नव, कर्मा, अनुलेपने, पुराणो, उक्तम्, चा, आर्षम्, तु, वा
615,337
दैविकं मानुषं वापि यथाकामं तु कारयेत् । उत्तमालयमत्रैव उत्तमोत्तममेव वा ॥ 61 ॥
दैविकम्, मानुषम्, वापि, यथाकामम्, तु, कारयेत्, उत्तमोत्तमम्, एव, वा
615,338
अधमोत्तमं वा विप्रेन्द्र जीर्णं चेन्मुनिसत्तम । मध्यमेनाधमेनैव कारयेदालयं पुनः ॥ 62 ॥
अधमोत्तमम्, वा*, विप्रेन्द्र, जीर्णम्, चे, ईन्, मुनिसत्तम, कारयेद्, आलयम्, पुनः
615,339
यजमानस्य वाञ्छा चेन्मध्यमेऽप्येवमेव तु । अधमालयं भवेत्तस्मिन् अधमोत्तममेव वा ॥ 63 ॥
यजमानस्य, वाञ्छा, चे, ईन्, मध्यमेऽ, अप्ये, वमेव, तु, भवेत्, तस्मिन्, अधमोत्तमम्, एव, वा
615,340
यथावित्तानुसारेण कुर्यादेकतलं तु वा । उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत् ॥ 65 ॥
यथावित्तानुसारेण, कुर्यादे, कत, लम्, तु, वा, ज्ञात्वा, यथाकामम्, तु, वर्धयेत्
615,341
अधमाधममेवाथ जीर्णोद्धारणकर्मणि । उपपीठसमायुक्तं द्वितलं त्रितलं तु वा ॥ 64 ॥
अधमाधमम्, एवात्, ह, जीर्णोद्धारण, कर्मणि, द्वितलम्, त्रितलम्, तु, वा
615,342
वर्धनाच्छ्रियमाप्नोति राज्ञो राष्ट्रस्य नारद । तथैव नगरादीनामालयस्य विशेषतः ॥ 66 ॥
वर्धनाच्छ्, श्रियम्, आप्नोति, राज्ञो*, राष्ट्रस्य, नारद, नगराद्, ईनाम्, आलयस्य, विशेषतः
615,343
भवनं गोपुराकारं शालकूटादिकं मुने । जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम् ॥ 67 ॥
भवनम्, गोपुराकारम्, शाल, कूटा, अदिकम्, मुने, चेदि, ह, लोके, तु, कारयेद्, वा, प्रपा, आकृतिम्
615,344
नगरादीनि संज्ञात्वा ग्रामराजानुकूलतः । यथावित्तानुसारेण कुर्याद्वेश्म यथापरुचि ॥ 68 ॥
नगराद्, ई, नि, सञ्ज्ञात्वा, ग्राम, राजा, अनुकूल, तः, कुर्याद्, वेश्म, यथा, आप, रुचि
615,345
ग्रामानुकूलतो वापि धाम कुर्यादनुत्तमम । प्रतिमां पुनरत्रैव कुर्यात् प्रासादमात्रतः ॥ 69 ॥
ग्रामा, अनुकूलतो, वापि, धाम, कुर्याद, नुत्तम्, अम, पुनर्, अत्रैव, कुर्यात्, प्रासादम्, आत्र, तः
615,346
द्वारमानेन वा चास्मिन् गर्भमानेन वा मुने । उत्तमाधममध्येन नष्टोद्धारणकर्मणि ॥ 70 ॥
द्वारमानेन, वा, चा, अस्मिन्, गर्भम्, आनेन, वा*, मुने, नष्टो, उद्धारण, कर्मणि
615,347
तद्गेहात् पश्चिमे याम्ये निर्गमाकृति नेष्यते । पूर्ववत् कारयेज्जीर्णस्योद्धारे मुनिसत्तम ॥ 71 ॥
तद्, गेहात्, पश्चिमे, याम्ये, निर्गमा, अकृति, नेष्यते, मुनिसत्तम
615,348
संमोहात् पश्चिये याम्ये निर्गमं कारयेद्यदि । ग्रामस्य कलहं कुर्यात् धर्ममार्गं विनश्यति ॥ 72 ॥
सं, मोहात्, याम्ये, निर्गमम्, कारयेद्, यदि, कलहम्, कुर्यात्, धर्ममार्गम्, विन, श्यति
615,349
तद्राष्ट्रं यजमानश्च नश्यत्येव न संशयः । तस्मात् सर्वप्रयत्नेने न कुर्यान्निर्गमाकृतिम् ॥ 73 ॥
तद्, राष्ट्रम्, यजमानश्, च, नश्यत्ये, एव, न, संशयः, सर्वप्रयत्नेने, न, कुर्यान्, निर्गमा, आकृतिम्
615,350
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् । यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत् ॥ 74 ॥
पूर्वद्वारस्य, गेहस्य, मण्डपादि, यथा, अक्रमम्, वाञ्छा, चेद्य, अथा, अकामम्, तु, वर्धयेत्
615,351
जीर्णोद्धारे मुनिश्रेष्ठ सर्वं पूर्ववदाचरेत् । तस्मात् सर्वप्रयत्नेन यथाकामं तु वर्धयेत् ॥ 76 ॥
जीर्णोद्धारे, मुनि, श्रेष्ठ, सर्वम्, पूर्ववद्, आ, चरेत्, सर्वप्रयत्नेन, यथाकामम्, तु, वर्धयेत्
615,352
सर्वशः प्रतिदिक्ष्वादि पश्चिमं नेष्यते मुने । पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ॥ 75 ॥
सर्वशः, प्रति, दिक्ष्वा, आदि, पश्चिमम्, नेष्यते, मुने, गेहस्य, मण्डपादि, यथा, अक्रमम्
615,353
वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने । प्राकारादिषु भूषाणां भेदो वा दोषकारणम् ॥ 77 ॥
वर्धनाच्छ्, श्रियम्, आप्नोति, तद्, गेहस्य, दिने, दिने, भूषाणाम्, भेदो*, वा*, दोषका, अरणम्
615,354
न भवेदिति भाषन्ते मुनयो नारदादयः । गोपुरेऽधिकभावं च प्राकारेऽपि विशेषतः ॥ 78 ॥
न, भवेद्, इति, भाषन्ते, मुनयो*, नारदाद्, अयः, च, प्राकारेऽ, अपि, विशेषतः
615,355
एवं परीक्ष्य मतिमान् नवकर्मानुलेपने । नष्टोद्धारे च वै चास्मिन् जीर्णोद्धारादिषु क्रमात् ॥ 79 ॥
एवम्, परीक्ष्य, मतिमान्, नव, कर्मा, अनुलेपने, च, वै, चा, अस्मिन्, जीर्णोद्धाराद्, इषु, क्रमात्
615,356
कारयेत् साधकः पश्चात् शिल्पाचार्यसमन्वितः । मूलबेरे मुनिश्रेष्ठ भिन्नं छेद्यं भवेद्यदि ॥ 80 ॥
कारयेत्, साधकः, पश्चात्, शिल्पाचार्य, समन्वितः, मुनि, श्रेष्ठ, भिन्नम्, छेद्यम्, भवेद्, यदि
615,357
स्फुटितं चेत्तु तद्बेरं त्यक्त्वा पश्चान्महामुने । शक्तिमुद्वासयेद्बेरात् क्षिप्रं शान्तिं समाचरेत् ॥ 81 ॥
स्फुटितम्, चेत्तु, तद्, बेरम्, त्यक्त्वा, पश्चान्, महामुने, क्षिप्रम्, शान्तिम्, समा, चरेत्
615,358
तस्याग्रे विधिवत् कुम्भे संस्थाप्य हरिमव्ययम् । तत्कुम्भमध्ये मूलेन मूलबेरान्नयेद्धरिम् ॥ 82 ॥
तस्या, अग्रे, विधिवत्, कुम्भे, संस्थाप्य, हरिम, व्ययम्, मूलेन, मूलबेरान्न्, अये, इद्ध, रि, इम्
615,359
शान्तिहोमं ततः कृत्वा चक्रमन्त्रेण मन्त्रवित् । सुदर्शनमहामन्त्रं सर्वशन्तिकरं भवेत् ॥ 83 ॥
शान्तिहोमम्, ततः, कृत्वा, चक्रमन्त्रेण, मन्त्रवित्, सर्व, शन्ति, करम्, भवेत्
615,360
आवाहनविसर्गं तु कुम्भात् पूर्ववदाचरेत् । बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम् ॥ 84 ॥
आवाहन, विसर्गम्, तु, कुम्भात्, पूर्ववद्, आ, चरेत्, क्रमात्, कल्प्य, स्थापयेद्, विधि, चोदितम्
615,361
जलाधिवासनं तस्य नेष्यते मुनिसत्तम । सद्योऽधिवासनेनैव स्थापयेद्धरिमव्ययम् ॥ 85 ॥
जला, अधिवासनम्, तस्य, नेष्यते, मुनिसत्तम, स्थापयेद्ध्, हरिम, व्ययम्
615,362
जीर्णोद्धारे मुनिश्रेष्ठ कालवेलादि नेष्यते । निरीक्ष्य बहुधा दोषान् पूजाकाले दिने दिने ॥ 86 ॥
जीर्णोद्धारे, मुनि, श्रेष्ठ, कालवेला, अदि, नेष्यते, बहुधा, दोषान्, पूजाकाले, दिने, दिने
615,363
पश्चात् संपूजयेद्देवं दोषहीनं भवेद्यदि । एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम् ॥ 87 ॥
पश्चात्, सम्, पूजयेद्, देवम्, दोष, हीनम्, भवेद्, यदि, दोष, समायुक्तम्, मोहाल्, लोभाद्, यजेद्ध्, हरिम्
615,364
तत्पूजा निष्फला याति कर्ता भर्ता च नश्यति । तद्ग्रामं निधनं याति रोगवृद्धिर्भविष्यति ॥ 88 ॥
तत्, पूजा*, निष्फला*, याति, कर्ता*, भर्ता, च, नश्यति, निधनम्, याति, रोग, वृद्धिर्, भविष्यति
615,365
उत्सवं च मुनिश्रेष्ठ शान्तिहोमसमन्वितम् । बालस्थाने समासाद्य उत्सवं तत्र कारयेत् ॥ 90 ॥
उत्सवम्, च, मुनि, श्रेष्ठ, शान्तिहोम, समन्वितम्, समासाद्य*, उत्सवम्, तत्र, कारयेत्
615,366
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारणमाचरेत् । ध्वजे वारोहिते पश्चात् वैगुण्यं यदि दृश्यते ॥ 89 ॥
तस्मात्, सर्वप्रयत्नेन, जीर्णोद्धारणम्, आ, चरेत्, वारो, ऊहिते, पश्चात्, वैगुण्यम्, यदि, दृश्यते
615,367
नित्योत्सवादि कर्माणि बालस्थानेऽपि नारद । पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चयः ॥ 92 ॥
नित्योत्सवा, अदि, कर्माणि, बालस्थानेऽ, अपि, नारद, कारयेद्ध्, ही, इमान्, इति, शास्त्रस्य, निश्चयः
615,368
अन्यथा चेन्महादोषो राज्ञश्चैव विनाशकृत् । तस्मात् सर्वप्रयत्नेन शेषकर्म समाचरेत् ॥ 91 ॥
अन्यथा, चे, ईन्, महादोषो*, राज्ञश्, चै, ऐव, विनाशकृत्, सर्वप्रयत्नेन, शेष, कर्म, समा, चरेत्
615,369
मन्त्रज्ञो वंशसंपन्नो कुलीनः शास्त्रपारगः । तन्त्रज्ञो वेदपाठी च स्थापनादिक्रियापरः ॥ 93 ॥
मन्त्रज्ञो*, वंश, सम्पन्नो, कुलीनः, शास्त्र, पारगः, वेदपाठी, च, स्थापना, आदिक्, रिया, अपरः
615,370
सर्वावयवसंपूर्णः सर्वरोगविवर्जितः । सुशान्तः कुशलो दान्तो यदृच्छालाभतोषकः ॥ 94 ॥
सर्वावयव, सम्पूर्णः, सर्वरोग, विवर्जितः, कुशलो*, दान्तो*, यदृच्छा, अलाभ, तोषकः
615,371
अमत्सरी जितक्रोधः धूद्रसंकरवर्जितः । वर्ज्यावर्ज्यः कृतज्ञश्च पूर्वकारी च भक्तिमान् ॥ 95 ॥
अमत्सरी, जितक्रोधः, धू, उद्र, सङ्कर, वर्जितः, कृतज्ञश्, च, पूर्वकारी, च, भक्तिमान्
615,372
तद्वंश्यो वापि शिष्यो वा प्रशिष्यस्तन्त्रपारगः । तन्त्रवान् दीक्षितो वापि गुणवान् गुणवित्तमः ॥ 96 ॥
तद्वं, श्यो, वापि, शिष्यो*, वा, प्रशिष्यस्, तन्त्र, पारगः, दीक्षितो*, वापि, गुणवान्, गुण, वित्तम्, अः
615,373
ह्रस्वाकारोऽतिदीर्घश्च कृशचिबुक एव च । बधिरो विकलाङ्गश्च विप्रो रदनदोषयुक् ॥ 98 ॥
ह्रस्वाकारोऽ, अतिदीर्घश्, च, कृश, चिबुक*, एव, च, विकलाङ्गश्, च, विप्रो*, रदन, दोष, युक्
615,374
राजयक्ष्मा च कुष्ठी च गुल्मी च शिबि विष्टकः । खल्वाटः चातिवृद्धश्च बालो वृषणरोगवान् ॥ 97 ॥
राजयक्ष्मा, च, कुष्ठी, च, गुल्मी, च, शिबि, विष्ट, कः, चा, अतिवृद्धश्, च, बालो*, वृषण, रोग, वान्
615,375
जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत् । सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वितः ॥ 101 ॥
जीर्णोद्धारे, विशेषेण, लक्षयेल्, लक्षणान्, क्रामत्, सुलग्ने, च, स्थापकस्, तक्षकान्, वितः
615,376
वर्जयेद्देवकार्येषु कुनखी च विशेषतः । स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद ॥ 99 ॥
व, अर्जयेद्, देवकार्येषु, कुनखी, च, विशेषतः, लक्षणम्, विद्धि, नारद
615,377
संग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा । एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु ॥ 100 ॥
स्थापकम्, तथा, परीक्ष्य, मतिमान्, प्रतिष्ठा, आराधनाद्, इषु
615,378
तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद । यत्तन्त्रेण समारब्धं तत्तन्त्रेण समाचरेत् ॥ 102 ॥
तन्त्रेणै, ऐकेन, कर्तव्यम्, कर्षणाद्, इषु, नारद, समारब्धम्, तत्, तन्त्रेण, समा, चरेत्
615,379
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् । विशेषांश्च मुनिश्रेष्ठ चान्यथा राष्ट्रनाशकृत् ॥ 103 ॥
अनुक्तम्, चान्य, अतन्त्रेषु, निरीक्ष्यात्, र, प्रयो, जयेत्, मुनि, श्रेष्ठ, चान्य, था*, राष्ट्र, नाश, कृत्
615,380
चातुर्वर्ण्यसमोपेतः सदाचारपरायणः । सद्वंश्यः सर्वशास्त्रज्ञो लोकज्ञः सर्वधर्मवित् ॥ 104 ॥
चातुर्वर्ण्य, समोपेतः, सदाचार, परायणः, सर्वशास्त्र, ज्ञो*, लोकज्ञः, सर्वधर्मवित्
615,381
भक्तिमान् धनवान् वाग्मी सर्वसंकल्पवृद्धियुक् । सुशीलश्च सुरूपश्च श्रद्धालुः शुद्धमानसः ॥ 105 ॥
भक्तिमान्, धनवान्, वाग्मी, सर्वसङ्कल्प, वृद्धि, युक्, सुरूपश्, च, श्रद्धालुः, शुद्धम्, आनसः
615,382
आचार्यः तक्षकश्चैव वंशगः सुमुखोत्तमः । शास्त्रप्रामाण्यकश्चैव दीनः सुबहुभृत्यवान् ॥ 106 ॥
आचार्यः, तक्षकश्, चै, ऐव, वंश, गः, सुमुखो, उत्तमः, दीनः, सुबहु, भृत्य, अवान्
615,383
यथोक्तकारी मतिमान् कुशलः सर्वकर्मसु । पूर्वकारी च तद्वंश्यः तच्छिष्यो वा प्रशिष्यकः ॥ 107 ॥
यथोक्त, कारी, मतिमान्, कुशलः, सर्वकर्मसु, च, तद्वं, श्य, अः, तच्छ्, शिष्यो*, वा, प्रशिष्य, अकः
615,384
तज्जातीयोऽन्यजातीयः पूर्वापूर्वगुणाधिकः । पूर्वापलोभे तु गृह्णीयात् उत्तरं नान्यथा मुने ॥ 108 ॥
तज्जातीयोऽ, अन्यजात्, ई, इयः, पूर्वा, अपूर्व, गुणाधिकः, तु, गृह्णीयात्, उत्तरम्, नान्य, अथा, मुने
615,385
मोहेन यदि गृह्णीयात् तस्य स्यात् कर्तृसंकरः । कर्तृसंकरदोषेण राजराष्ट्रस्य रोगकृत् ॥ 109 ॥
मोहेन, यदि, गृह्णीयात्, तस्य, स्यात्, कर्तृ, सङ्करः, राज, राष्ट्रस्य, रोगकृत्
615,386
तस्मात् सर्वप्रयत्नेन शास्त्रदृष्ट्या समाचरेत् । तक्षकं तक्षसूत्रज्ञं कुशलं सर्वकर्मसु ॥ 110 ॥
तस्मात्, सर्वप्रयत्नेन, शास्त्रदृष्ट्या, समा, चरेत्, तक्ष, सूत्र, ज्ञम्, कुशलम्, सर्वकर्मसु
615,387
लघुहस्तं सुरूपं च सुशान्तं दैविकं तथा । वंशानुवंशसम्पन्नं कुशलं सत्परायणम् ॥ 111 ॥
लघुहस्तम्, सुरूपम्, च, सुशान्तम्, दैविकम्, तथा, कुशलम्, सत्, परायणम्
615,388
वैष्णवं सूत्रकालज्ञं क्रियाज्ञं पूर्वकारिणम् । दयालुं शान्तमनसं सतीर्थं सत्समादृतम् ॥ 112 ॥
वैष्णवम्, सूत्रका, अल, ज्ञम्, क्रिया, अज्ञम्, पूर्वकारिणम्, शान्तमनसम्, सतीर्थम्, सत्, समादृतम्
615,389
तदलाभे तु तद्वंश्यान् तच्छिश्यान् वा प्रशिष्यकान् । संनिमन्त्रितमेवं तत् न कुर्याज्जातिसंकरम् ॥ 113 ॥
तद, लाभे, तु, तद्वं, श्या, आन्, तच्छ्, शिश्या, अन्, वा, प्रशिष्य, कान्, तत्, न
615,390
अन्यजातिसमालब्धमादिकाले महामुने । अन्यजात्या कृतं मोहाद्राजराष्ट्रविनाशकृत् ॥ 114 ॥
अन्यजा, अति, समालब्धम्, आदिकाले, महामुने, कृतम्, मोहाद्, राज, राष्ट्र, विनाशकृत्
615,391
एवं लक्षणमालभ्य कर्तुरिच्छापुरःसरम् । यो मोहादन्यमार्गेण कारयेन्मुनिसत्तम ॥ 115 ॥
एवम्, लक्षणम्, आलभ्य, कर्तुर्, इच्छा, पुरःसरम्, मोहाद्, अन्यम्, आ, अर्गेण, कारयेन्, मुनिसत्तम
615,392
आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत् । इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या । सततमनन्यमतिः स कर्तृमत्या ॥ 116 ॥
आचार्यस्य, च, कर्तुश्, च, तक्ष्णश्, चाप्य, अशुभम्, भवेत्, सुबहु, निरीक्ष्य, बुद्धि, दृष्ट्या, स, कर्तृमत्, या
615,393
स्थपतिमति च कारयीत जीर्णो । द्धरणमसौ जगतां गुरुर्गुरुर्यः । विष्वक्सेनः । अतः परं प्रवष्यामि प्रासादस्य विशेषतः ॥ 117 ॥
स्थपतिम्, अति, च, का, रयी, इत, जगताम्, गुरुर्, गुरुर्, यः, विष्वक्सेनः, परम्, प्र, वष्या, अमि, प्रासादस्य, विशेषतः
615,394
रथादिशिबिकादीनां प्रोक्षणं परमं शुभम् । सर्वशान्तिकरं पुंसां सर्वतीर्थफलाप्रदम् ॥ 118 ॥
रथा, आदि, शिबिकाद्, ईनाम्, प्रोक्षणम्, परमम्, शुभम्, पुंसाम्, सर्वतीर्थ, फला, प्रदम्
615,395
पूर्वोक्तमण्डपे शुद्धे सर्वमङ्गलसंयुते । तन्मध्ये हस्तकां वेदिं वृत्तां वा चुतरश्रकाम् ॥ 119 ॥
पूर्वोक्तम्, अण्ड, पे, शुद्धे, सर्वमङ्गल, संयुते, हस्तका, अम्, वेदिम्, वृत्ताम्, वा, चुत, र, अश्र, काम्
615,396
कारयेच्छास्त्रदृष्टेन तन्नाम अधुनोच्यते । वृत्तं सुशोभनं नाम चतुरश्रं सुमङ्गलम् ॥ 120 ॥
कारयेच्छ्, शास्त्रदृष्टेन, तन्न्, आम, अधुनो, उच्यते, सुशोभनम्, नाम, चतुरश्रम्, सुमङ्गलम्
615,397
राजराष्ट्रविवृद्ध्यर्थं वृत्तकारं भवेत् सदा । ग्रामायतनवृद्ध्यर्थं चतुरश्रं तु नारद ॥ 121 ॥
राज, राष्ट्रविवृद्ध्य, अर्थम्, वृत्तका, अरम्, भवेत्, सदा, चतुरश्रम्, तु, नारद
615,398
वृत्तं वाकृति विज्ञेयः चतुरश्रं तु वाधिः । आमेष्टकाभिः पक्वाभिः कुर्याद्वेदिमनुत्तमाम् ॥ 122 ॥
वृत्तम्, वाक्, ऋति, विज्ञेयः, चतुरश्रम्, तु, वा, अधिः, पक्वाभिः, कुर्याद्, वेदिम्, अनुत्तमाम्
615,399
हस्तोच्छ्रायां तदर्धं वा दर्पणोदरसंनिभाम् । पूर्ववद्वेदिमालिप्य प्रोक्षयेत् पूर्ववत् क्रमात् ॥ 123 ॥
हस्तो, उच्छ्राया, अम्, तद्, अर्धम्, वा*, दर्पणो, उदर, संनिभाम्, प्रो, क्षयेत्, पूर्ववत्, क्रमात्
615,400
पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया । पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम ॥ 124 ॥
पुण्याहम्, वाचयेत्, तत्र, ब्राह्मणानाम्, अनुज्ञया, स्थण्डिलम्, कृत्वा, शालिना, मुनिसत्तम